अथर्ववेदः/काण्डं ६/सूक्तम् १३८
दिखावट
← सूक्तं ६.१३७ | अथर्ववेदः - काण्डं ६ सूक्तं ६.१३८ ऋषिः - अथर्वा |
सूक्तं ६.१३९ → |
दे. वनस्पतिः। |
त्वं वीरुधां श्रेष्ठतमाभिश्रुतास्योषधे ।
इमं मे अद्य पुरुषं क्लीबमोपशिनं कृधि ॥१॥
क्लीबं कृध्योपशिनमथो कुरीरिणं कृधि ।
अथास्येन्द्रो ग्रावभ्यामुभे भिनत्त्वाण्ड्यौ ॥२॥
क्लीब क्लीबं त्वाकरं वध्रे वध्रिं त्वाकरमरसारसं त्वाकरम् ।
कुरीरमस्य शीर्षणि कुम्बं चाधिनिदध्मसि ॥३॥
ये ते नाड्यौ देवकृते ययोस्तिष्ठति वृष्ण्यम् ।
ते ते भिनद्मि शम्ययामुष्या अधि मुष्कयोः ॥४॥
यथा नडं कशिपुने स्त्रियो भिन्दन्त्यश्मना ।
एवा भिनद्मि ते शेपोऽमुष्या अधि मुष्कयोः ॥५॥