पैप्पलादसंहिता/काण्डम् ०८

विकिस्रोतः तः
Jump to navigation Jump to search

अथ एकादशर्चोनाम अष्टमकाण्डः
८ – १ 8.1
कथा दिवे असुराय ब्रवाम कथा पित्रे हरये त्वेषनृम्ण:। तु. शौ.सं. ५.११
पृश्निं वरुण दक्षिणां ददावान् पुनर्मघत्वं मनसाचिकित्सी:।१ ।।
न कामेन पुनर्मघो भवामि संपृच्य कं पृश्निमेतामुपाजे।
केन मत् त्वमथर्वन् काव्येन केन जातेनासि जातवेदाः ।। २ ।।
सत्यमहं गभीरः काव्येन सत्यं जातेनास्मि जातवेदाः ।
न मे दासो नार्यो महित्वं व्रतं मीमाय यदहं धरिष्ये ।। ३ ।।
न त्वदन्यः कवितरो न वेधा न धीरतरो वरुण स्वधावः ।
त्वमङ्ग विश्वा जनिमानि वेत्थ स चिन्नु त्वज्जनो मायी बिभाय।।४।।
त्वं ह्यङ्ग वरुण स्वधावो विश्वानि वेत्थ जनिमा शर्धनीते।
किमेना रजसः परो ऽस्ति किमवरेणावरममुर ।।५ ।।
एकमेना रजसः परो ऽस्ति पर एकेन दुर्दाशं चिदन्यत्।
तत् ते विद्वान् वरुण प्र ब्रवीम्यधोवचस: पणयो भवन्तु
नीचैर्दासा उप सर्पन्तु रिप्राः ।।६।।
त्वं ह्यङ्ग वरुण प्र ब्रवीषि पुनर्मघेष्ववद्यानि भूरि।
मो षु पण्यभ्येतावता भूम त्वा वोचन्नराधसं जनास: ।।७ ।।
मा मा वोचन्नराधसं जनासः पुनस्ते पृश्निं जरितर्ददामि।
स्तोत्रं मे विश्वमा याहि जनेष्वन्तर्देवेषु मानुषेषु विप्र ।।८ ।।
आ ते स्तोत्राणि वर्धनानि यामि देहि तन्महां यददत्तमस्ति । ।
युज्यो नः सप्तपदः सखासि समा नौ बन्धुर्वरुणः समा जा ।।९।।
वेद वै तद्यन्नौ समा जा ददामि तुभ्यं यददत्तमस्ति ।
देवो देवाय गृणते वयोधा विप्र विप्राय स्तुवते सुमेधाः ।। १० ।।
अजीजनो हि वरुण स्वधावन्नथर्वाणं पितरं विश्वदेवम्।
तस्मा उर्वायुः कृणुहि प्रशस्तं सखा नोऽसि परमश्च बन्धुः ।।११ । ।

8.2
वृषा मे रवो नभसा न तन्यतुरुग्रेण तं वचसा वाध इदु ते। तु. शौ.सं. ५.१३.३
अहं तमस्य ग्रभिरग्रभं रसं ज्योतिषेव तमस उदेति सूर्यः ।।१ ।।
यत् ते ऽपोदकं विषं तत् त आत्ताभिरग्रभम्।
गृह्णामि मध्यमुत्तममुताचमं भियसा नेशदादु ते।।२ । ।
बलेन ते बलं हन्मि तन्वा हन्मि ते तनुम्।
विषेण हन्मि ते विषमहे मुरिष्टा मा जीवीत्
प्रत्यगभ्येतु त्वा विषम्।।३।।
असितस्य तैमातस्य बभ्रोरपोदकस्य च।
सात्रासाहस्याहं मन्योर्ज्यामिव धन्वनो वि मुञ्चामि रथां इव ॥४॥
कैलात पृश्न उपतृण्य बभ्रवा मे शृणुतासिता अलीकाः ।
मा नः सख्युः काममपि ष्ठाता श्रावयाद्धो वीर्षे रभध्वम् ॥५॥
आलिकि च विलि पिता यस्ते माता च।
विद्म ते विश्वतो बन्धुमरस किं करिष्यसि ।।६।।
उरुगूलाया दुहिता जाता दास्यसिक्न्याः ।
प्रतङ्कं ददुषी नु साहीनरसाङ् अक: ।।७।।
कर्णा श्वाविदब्रवीद् गिरेरवचरन्तिका ।
या: काश्चेमाः खनित्रिमास्तासामरसतमं विषम् ।।८ ।।
ताबुवं न ताबुवं न घेदसि त्वं ताबुवम्।
ताबुवेनारसं विषम् ।। ९ ।।
तस्तुवं न तस्तुवं न घेदसि त्वं तस्तुवम् ।
तस्तुवेनारसं विषम् ।१० । ।
अरसं ते ऽहे विषमियं कृणोत्वोषधिः ।
त्रायमाणा सहमाना सहस्वती सहाता इद्
गोरश्वात् पुरुषाद् विषम् ।। ११ ।।

8.3
यदाञ्जनं त्रैककुदं जातं हिमवतस्परि । तु. शौ.सं. ४.९.९
यातूंश्च सर्वान् जम्भया सर्वांश्च यातुधान्य: ।१।
उतेवासि परिपाणं यातुजम्भनमाञ्जन ।
उतामृतत्वस्येशिष उतासि पितुभोजनम् ।।२ ।।
परिपाणं पुरुषाणां परिपाणं गवामसि ।
अश्वानामर्वतामित् परिपाणाय तस्थिषे । ।३ ।।
परि मां परि णः प्रियं परि णः पाहि यद्धनम् ।
अरातिरिन्नो मा तारीन्मा च नः किं चनाममत् ।।४।।
न तं प्राप्नोति शपथो न कृत्या नाभिशोचनम् ।
नैनं विष्कन्धमश्नुते यस्त्वा बिभर्त्यञ्जन ।। ५ । ।
असन्मन्त्र्याद् दुष्वप्न्यात् क्षेत्रियाच्छपथादुत ।
दुर्हार्दश्चक्षुषो घोरात्तस्मान् नः पाह्याञ्जन ।।६ ।।
त्रयो दासा आञ्जनस्य तक्मा बलास आदहि: ।
वर्षिष्ठ: पर्वतानां त्रिककुन्नाम ते पिता ।।७।।
वृत्रस्यासि कनीनिका पर्वतस्यास्यक्ष्यौ ।
देवेभि: सर्वैः प्रोक्तं परिधिर्नाम वा असि ।। ८ ।।
वैद ह वेद ते नाम गन्धर्वः परिवाचनम् ।
यत आञ्जन प्रजायसे तत एह्यरिष्टतातये ।। ९ ।।
यदि वासि त्रैककुदं यदि यामुनमुच्यसे ।
उभे ते भद्रे नाम्नी ताभ्यां न: पाह्याञ्जन । १० ।
यस्याञ्जन प्रसर्पस्यङ्गमङ्गं परुष्परुः ।
तस्माद्यक्ष्मं वि बाधोस्यग्रो मध्यमशीरिव ।। १ १ ।।
नैनं घ्नन्ति पर्यायिणो न सन्नाङ् अव गच्छति ।
जने स न प्र मीयते यस्त्वा बिभर्त्याञ्जन ।। १२ ।।
इदं विद्वानाञ्जन सत्यं वक्ष्यामि नानृतम् ।
सनेयमश्वं गां वास आत्मानं तव पूरुष ।। १३ । ।

8.4
य एकवृषो ऽसि सृजारसो ऽसि । ।१ ।।
यो द्विवृषो ऽसि सृजारसो ऽसि ।२।
यस्त्रिवृषो ऽसि सृजारसो ऽसि । । ३ । ।
यश्चतुर्वृषो ऽसि सृजारसो ऽसि ।। ४ ।।
यः पञ्चवृषो ऽसि सृजारसो ऽसि ।। ५ ।।
य: षड्वृषो ऽसि सृजारसो ऽसि ।। ६ ।।
यः सप्तवृषो ऽसि सृजारसो ऽसि ।। ७ ।।
यो ऽष्टवृषो ऽसि सृजारसो ऽसि ।। ८ । ।
यो नववृषो ऽसि सृजारसो ऽसि ।। ९ ।।
यो दशवृषो ऽसि सृजारसो ऽसि । । १० ।।
यो ऽपोदको ऽसि सृजारसो ऽसि ।। ११ ! ।

8.5
एका च मे दश चापवक्तार ओषधे । तु. शौ.सं. ५.१५
ऋतजात ऋतावरि मधु त्वा मधुला करत् ।१।
द्वे च मे विंशतिश्चापवक्तार ओषधे ।
ऋतजात ऋतावरि मधु त्वा मधुला करत ।२।
तिस्रश्च मे त्रिंशच्चापवक्तार ओषधे ।
ऋतजात ऋतावरि मधु त्वा मधुला करत् ।३।
चतस्रश्च मे चत्चारिंशाच्चापवक्तार ओषधे ।
ऋतजात ऋतावरि मधु त्वा मधुला करत् ।।४।।
पञ्च च मे पञ्चाशच्चापवक्तार ओषधे !
ऋतजात ऋतावरि मधु त्वा मधुला करत् ।।५।।
षट् च मे षष्टिश्चापवक्तार ओषधे ।
ऋतजात ऋतावरि मधु त्वा मधुला करत् ।।६।।
सप्त च मे सप्ततिश्चापवक्तार ओषधे ।
ऋतजात ऋतावरि मधु त्वा मधुला करत् ।।७।।
अष्ट च मे ऽशीतिश्चापवक्तार ओषधे !
ऋतजात ऋतावरि मधु त्वा मधुला करत् ।।८ । ।
नव च मे नवतिश्चापवक्तार ओषधे ।
ऋतजात ऋतावरि मधु त्वा मधुला करत् ।।९।।
दश च मे शतं चापवक्तार ओषधे ।
ऋतजात ऋतावरि मधु त्वा मधुला करत् ।। १० ।।
शतं च मे सहस्रं चापवक्तार ओषधे ।
ऋतजात ऋतावरि मधु त्वा मधुला करत् ।।११।।
(इति एकादशर्चोनाम अष्टमकाण्डे प्रथम अनुवाक:)

8.6
आ पश्यसि प्रति पश्यसि परा पश्यसि पश्यसि । तु. शौनक संहिता ४.२०
द्यामन्तरिक्षमाद्भूमिं तत् सर्वं देवि पश्यसि ।१।
तिस्रो दिवस्तिस्र: पृथिवी: षट् चेमाः प्रदिशो मही: ।
तयाहं सर्वान् यातून् पश्यानि देव्योषधे ।।२।।
सुपर्णस्य दिव्यस्य तस्य हासि कनीनिका ।
सा भूमिमा रुरोहिथ वह्यं श्रान्ता वधूरिव ।३।
तां मे सहस्राक्षो देवो दक्षिणे हस्त आ दधत् ।
तयाहं सर्वं पश्यानि यद्भूतं यच्च भाव्यम् ।। ४ ।।
यथा श्वा चतुरक्षो यथाश्वः स्यावोर्वताम् ।
यथाग्निर्विश्वत: प्रत्यङ् एवा त्वमस्योषधे । 1५।
कश्यपस्य चक्षुरसि शुन्याश्चतुरक्ष्याः।
वीध्रे सूर्यमिव सर्पन्तं मा पिशाचं तिरस्करः ।।६ ।।
दर्शय मा यातुधानान् दर्शय यातुधान्यः ।
आपस्पृत इव तिष्ठन्तं दर्शय मा किमीदिनम् ।।७।।
उदग्रभं परिपाणं यातुधानात् किमीदिनः।
तेनाहं सर्व पश्यान्युत शूद्रमुतार्यम् ।।८ ।।
यथा सूर्यश्चन्द्रमाश्च विश्वा भूता विपश्यतः ।
एवा वि पश्य तान् त्वमघायुर्मोंप गादिह ।।९।।
यो अन्तरिक्षेण पतति भूमिं यश्चोपसर्पति ।
दिवं यो मन्यते नाथं तं पिशाच दृशे कुरु ।।१०।।
आाविष्कृणुष्व रूपाणि मात्मानमपि गूहथाः ।
अधा सहस्रचक्षो त्वं प्रति पश्यास्यायतः ।।११।।

8.7
मोक्षेजांस्तोदुंस्तुमलान् पथिष्ठाङ् उत पार्षतान् ।
अहीनां सर्वेषां विषमरसं कृण्वोषधे ।१।
अश्वक्रन्दस्य वण्डस्य पृदाकोर्गोनसेरुत ।
श्वित्राणां सर्वेषां विषमरसं कृण्वोषधे । ।२ । । कृण्वषोधे
द्यांपातस्य गवकस्य गोधापृष्ठेरहेरुत ।
असितानामेतज्जातमरिष्टे ऽरसं कृधि ।।३।।
एतज्जातं स्वजानां तद् बभ्रो अरसं कृधि ।
सर्वस्य बभ्रोर्भेषज्यसीहि विषदूषणी ।। ४ ।।
त्रायमाणा प्र ब्रवीतु सर्वाङ् राजो अहीनाम् ।
तिरश्चिराजीनसितानथो उपशयाश्च ये ॥ ५।
सहसाहं यातुधानान् सहसा यातुधान्यः ।
सहो वः सर्वान् सासाह तस्याहं नाम जग्रभ ।। ६ ।।
सह: साकं पैद्वेनोग्रेण वचसा मम ।
अन्धाहींश्च सृञ्जयांश्च शफकांश्च रथव्रयः ।सृजयाश्च
सहसा सह उत्पत्य तान् सर्वाङ् अरसाङ् अक: ।।७।।
असितस्य विद्रधस्य हरितो यश्च विद्रध: ।
निमङ्क्षी विद्रधानां यो मृजन्ती ताङ् अजीजनत् ।।८ ।।
या: स्वजानां नीलग्रीवो या: स्वजानां हरिरुत ।
कल्माषपुच्छमोषधे जम्भयास्यरुन्धति ।।९।।
मायं मरदहिदष्टः पितुरस्मा असद् विषम् ।
इमा ह्यस्मा ओषधिमा हराम्यरुन्धतीम् ।। १० ।।
एतज्जातं पृदाकूनामरसं जीवले कृधि ।
इन्द्रस्य भद्रिका वीरुदसीहि विषदूषणी ।।११।।

8.8
शतमर्वाक् प्र स्यन्दन्ते प्र स्यन्दन्ते शतं परः ।
शतं वृत्रस्य काण्डानि तेभ्य आपो वि धावथ ।१।
अन्तरिक्षे पतयिष्णवो नभसस्परि जज्ञिरे ।
आपो हिरणयवर्णास्तास्ते भवन्तु शं हदे ।२।
शं ते सन्तु हृदयाय शं ते हृदयाभ्य: ।
शं ते यकक्लोमभ्यः शमु ते यन्तष्ठेभ्य: ।। ३ ।।
यदङ्गैरप्पसिस्मिषे यच्छीर्ष्णा यच्च पृष्टिभिः ।
आपस्तत् सर्वं निष्करन् तष्टा रिष्टमिवानसः ।।४।।
सं हृदयेन हृदयमोपशेन समोपशः ।
अद्भिर्मुञ्चापस्मितं पार्ष्णिद्योतः समेतु मे ।।५।।
आचरन्तीः पर्वतेभ्यो देवीर्देवेभ्यस्परि ।
आपो यमद्य प्रापन् न स रिष्याति पूरुषः ।।६।।
शं त आपो हैमवती: शमु ते सन्तूत्स्या: ।
शं ते सनिष्यदा आप: शमु ते सन्तु वर्ष्या: ।।७।।
शं त आपो धन्वन्याः शमु ते सन्त्वनूप्याः ।
शं ते खनित्रिमा आपः शं या: कुम्भेभिराभृताः ।।८ ।।
अनभ्रय: खनमाना विप्रा गम्भीरे ऽपस: ।
भिषग्भ्यो भिषक्तरा आपो अच्छा वदामसि ।।९।।
अपामह दिव्यानामपां स्रोतस्यानाम् ।
अपामह प्रणेजनेऽश्वा भवथ वाजिनः ।।१०।।
ता आपः शिवा आपो ऽयक्ष्मंकरणीरप: ।
यथैव तृष्यते मयस्तास्त आद्युक्तभेषजी ।। ११ ।।

8.9
ब्रह्मज्येष्ठा संभृता वीर्याणि ब्रह्माग्रे ज्येष्ठं दिवमा ततान ।
भूतानां ब्रह्म प्रथमोत यज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः ।। १ ।।
ब्रह्मेमे द्यावापृथिवी ब्रह्मेमे सप्त सिन्धवः ।
ब्रह्मेमे सर्व आदित्या ब्रह्म देवा उपासते ।२।
ब्रह्म ब्राह्मणो वदति ब्रह्म रात्री नि विशते ।
सावित्रं ब्रह्मणो जातं ब्रह्मणाग्निर्वि रोचते ।३।
ब्रह्मौषधयो नि तिष्ठन्ति ब्रह्म वर्षन्ति वृष्टयः ।
ब्रह्मेदं सर्वमात्मन्वद यावत् सूर्यो विपश्यति ।।४।।
ब्रह्म होता ब्रह्म यज्ञो ब्रह्मणा स्वरवो मिता: ।
अध्वर्युर्ब्रह्मणो जातो ब्रह्मणोत्तिरते हविः ।।५।। अध्वर्युब्रह्मणो
ब्रह्म स्रुचो घृतवतीर्ब्रह्मणा वेदिरुद्यता । ।
ब्रह्म यज्ञस्य तन्तव ऋत्वियो ये हविष्कृतः ।। ६ ।।
ब्रह्म ऋषभो भद्ररेता ब्रह्म गावो हविष्कृतः ।
ब्रह्म रथस्य देवस्य यज्जयाति स्वरङ्कृत: ।। १७ ।।
ब्रह्मणा शीरं वहति ब्रह्मणा युज्यते रथः ।
ब्रह्मणा पुरुषो द्विपान्न व्यथते चरन् ।।८।।
ब्रह्मणो जाता ऋषयो ब्रह्मणो राजन्या उत ।
ब्रह्मेदं ब्रह्मणो जातं ब्रह्मणो ऽविष्या अन्नम् ।। ९ ।।
ब्रह्म शूद्रा राजन्यानां ब्रह्मैषामुत विक्षद: ।
ब्रह्मैषां भद्रं सादनं ब्रह्मणैषां सभासदः ।। १० ।।
ब्रह्य दाशा ब्रह्म दासा ब्रहोमे कितवा उत ।
स्त्रीपुंसौ ब्रह्मणो जातौ स्त्रियो ब्रह्म उत वावन ।। ११ ।।
ब्रह्मोद्वतो निवतो ब्रह्म संवतो वानस्पत्याः पर्वता ब्रह्म वीरुधः ।
ब्रह्मेदं सर्वमन्वा ततानान्तरा द्यावापृथिवी उभे ।।१२।।
ब्रह्मैवाभूदुत्तरं जातवेदोरद्वज्रो यातुधानं महालम् ।
भवाशर्वौ तपुषीं हेतिमस्मै मयेषितौ वि सृजतां वधाय ।।१३ ।।

8.10
यदश्विना ओषधीष्वासिक्तं पुष्करस्रजा वीरुधो मधु बिभ्रति।
तेनाहमस्या मूर्धानमभि षिञ्छामि नार्याः ।। १ ।।
यदश्विना पुष्पादधि माक्षिकं मधु संभृतम् ।
अन्ने लवणे यन्मधु तेनाहमस्या मूर्धानमभि षिञ्चामि नार्याः । ।२ ।।
यदश्विना गुल्गुन्याञ्जने मधु संभृतं यदस्मिन् मधुघे मधु ।
तेनाहमस्या मूर्धानमभि षिञ्चामि नार्या: ।। ३ ।।
यदश्विनाक्ष मधु गोष्वश्वेषु यन् मधु !
सुरायां सिच्यमानायां कीलाले ऽधि यन् मधु
तेनाहमस्या मूर्धानमभि षिञ्चामि नार्याः ।।४।।
यदश्विना गोवर्चसं हिरण्यवर्चसं हस्तिवर्चसमश्विना ।
तेनाहमस्या मूर्धानमभि षिञ्चामि नार्याः ।। ५ ।।
अभि नन्दमभि मोदमभि दर्पं कृणोमि ते ।
आ ते भगं वर्तयतामश्विना पुष्करस्रजा ।।६।।
दत्सु ते वर्च: सुभगे जिहृायां ते मधूलकम् ।
अक्ष्यौ निकरणी तव प्रतीकं मधुमत्तरम् ।।७।।
आ सचस्व तलाशेव वृक्ष इवापतिक: पतिम् ।
त्वं समग्रभीः पुंसः श्येन इवान्यान् पतत्रिण: ।। ८ । ।
आ हि ते हार्षमुदकमपो भगाभिषेचनीः ॥
यत्ते वर्चो ऽपक्रान्तं मुखस्य प्रतिचक्षणात् ।
पुनस्तदश्विना त्वय्या धत्तां पुष्करस्रजा ।।९।।
अभि त्वा वर्चसासिचं दिव्येन पयसा सह ।
यथा पतिवत्न्यसो देवृग्भ्यो मधुमत्तरा ।। १० ।।
भगं ते मित्रावरुणा भगं देवी सरस्वती ।
भगं ते अश्विनोभा धत्तां पुष्करस्रजा ।।११।।
पतिं ते राजा वरुणः पतिं देवो बृहस्पतिः ।
पतिं त इन्द्रश्चाग्निश्च पतिं धाता दधातु ते ।। १२ ।।
(इति एकादशर्चोनाम अष्टमकाण्डे द्वितीयोऽनुवाक:)

8.11
चतस्रस्ते खल स्रवतीरथो मध्यमहं खल ।
धाराश्चतस्रस्तोष्यामि वेदिं मनुष्यवर्धनीम् ।। १ ।।
ऊर्जस्वन्तमा रभध्वं स्फातिमन्तं पुनीतन ।
इन्द्रो बीजस्याभ्यावोढा भग ऐतु पुरोगव: ।२।
भगस्य ह्यनड्वाहौ युञ्जाथां राशिवाहनौ ।
अधा पृथिव्या: कीलालमिहा वहतमश्विना ।३।
अभिवृतः परिहितो धान्येन विभुः प्रभुः ।
भर्ता मनुष्याणां जज्ञे देवानामाज्यं खल: ।।४।।
स्रुच आसन् पवनीः सृणीकाः परिधिष्कृत: ।
कीनाशा आसन् होतारो बीजदा आसीद्धविष्पतिः ।।५ ।।
इहेन्द्र मुष्टी वि सृजस्व पूर्णाविह सौमनसः समृध्यताम् ।
हुतादो ये च गन्धर्वास्त इह स्फातिं समा वहान् ।।६।।
अतिपश्यो निचायक इडुक: पक्वमा भर ।
ईशाना गन्धर्वा भुवनस्य सर्व आ वहन्तु खले स्फातिमिह सूनृतां च ।।७।।
आा पश्चादा पुरस्तादोत्तरादधरादुत ।
इन्द्रेह वसोरीशान: खले स्फातिं समा वह ।८ । ।
स्फातिमिन्द्रः खले बह्वीमिहत्प्राण उत्पृणत् ।
स्फातिं मे विश्वे देवा: स्फातिं सोमो अथो भगः ।।९।।
स्फातिर्मे अस्तु हस्तयोः स्फातिर्यत्र परारभे ।
शतहस्तेदमुत्पृण समुद्रस्येव मध्यतः ।। १० ।।
इह मे भूय आ भर यथाहं कामये तथा ।
यथेदमुदिव स्फायातै त्रय इव हस्तिनः सह ।। ११ ।।

8.12
स्वाद्वीं त्वा मित्रावरुणा स्वाद्वीं देवी सरस्वती ।
स्वाद्वीं त्वा अश्विन सुरे कृणुतां पुष्करस्रजा ।१।
यामसिञ्चन् सौधन्वना विश्वे देवा मरुद्भणाः ।
यामश्विनासिञ्चतां सा सुरा बहुधावतु ।।२ । ।
स्वादोः स्वादीयसी भव मधोर्मधुतरा भव ।
यथर्श्यस्येयमारिश्येवा त्वं सुभगे भव ।३।
अभ्राज्जातं वर्षाज्जातमथो जातं दिवस्परि ।
अथो समुद्राज्जातं तत् सुरादरणं भव ।। ४ ।।
नाडी नामासि जनुषा सा सुरादरणी भव ।
सखा हि भद्रस्त आसीद् वृक्षः स्वादुविकङ्कतः ।।५ ।।
असुरस्त्वौर्ध्वनभसश्चकार प्रथम: सुरे ।
सुरे दासस्य त्वा गृहे शिरश्चान्धश्च चक्रतुः ।।६।।
निष्पुष्पकं कशीकाया निर्धाराया: सुरामुत ।
उदेहि वाजिनीवति किमङ्कतिष्विच्छसि ।।७।।
इमे ते जन्या आसते गम्भीरा अभिधृष्णवः ।
सुरे देवि परि प्रेहि मादयन्ती जनंजनम् ।।८ ।।
यस्या गृह्णन्ति स्थालेन गामश्वं धान्यं वसु ।
सा सुरा बहुधावतु ।९।
आचरन्तीः पर्वतेभ्य: खनमाना अनभ्रयः ।
यासां समुद्रे संस्थानं यासां नास्ति निवेशनं
तास्ते ददतु बुदबुदम् ।।१०।।
उदंकोदचेमां सुरां यां हृदा कामयामहे ।
तां मे भगस्तामश्विना तां मा बट् सरस्वती ।।११।।
अयं देवो मयूलश: सा सुरादरणं ददत ॥
संस्रवणात् प्रस्रवणाद् गिरिभ्यस्पर्याभृतः ।
मध्ये शतस्य मष्टिकोऽनड्वानिव मेहतु ।।१२।।

8.13
समुद्रादूर्मिर्मधुमाङ् उदारदुपांशुना सममृतत्वमानट् । तु. ऋग्वेद ४.५८.१
घृतस्य नाम गुह्यं यदस्ति जिह्वा देवानाममृतस्य नाभिः ।। १ ।।
वयं नाम प्र ब्रवामा घृतस्यास्मिन्यज्ञे धारयामा नमोभिः ।
उप ब्रह्मा शृणवच्छस्यमानं चतुःशृङ्गो ऽवमीद् गौर एतत् ।।२ ।।
चत्चारि शृङ्गा व्रयो अस्य पादा द्वे शीर्ष सप्त हस्तासो अस्य ।
त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्याङ् आा विवेश ।। ३ ।।
त्रिधा हितं पणिभिर्गुह्यमानं गवि देवासो घृतमन्वविन्दन् ।
इन्द एकं सूर्य एकं जजान वेनादेकं स्वधया निष्टतक्षुः ।।४।।
एता अर्षन्ति हृद्यात्समुद्राच्छतव्रजा रिपुणा नावचक्षे !
घृतस्य धारा अभि चाकशीमि हिरण्ययो वेतसो मध्य आसाम्।।५।।
सम्यक् स्रवन्ति सरितो न धेना अन्तर्हृदा मनसा पूयमानाः ।
एते अर्षन्त्यूर्मयो घृतस्य मृगा इव क्षिपणोरीषमाणा: ।। ६ ।।
सिन्धोरिव प्राध्वने शूघनासो वात: प्रमीयः पतयन्ति यह्वा: ।
घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दन्नूर्मिभि: पिन्वमानः ।।७।।
अभि प्रवन्त समनेव योषाः कल्याण्यः स्मयमानासो अग्निम् ।
घृतस्य धाराः समिधो नसन्त ता जुषाणो हर्यति जातवेदाः ।। ८ ।।
कन्या इव वहतुमेतवा उ अञ्जञ्जाना अभि चाकशीमि ।
यत्र सोम: सूयते यत्र यज्ञो घृतस्य धारा अभि तत् पवन्ते ।।९।।
अभ्यर्षत सुष्टुतिं गव्यमाजीमस्मासु भद्रा द्रविणानि धत्त ।
इमं यज्ञं नयत देवता नो घृतस्य धारा मधुमत् पवन्ते ।। १० । ।
धामन्ते विश्वं भुवनमधि श्रितमन्त: समुद्रे हृद्यन्तरायुषि ।
अपामनीकात् समिथाद्य आाभृतस्तमश्याम मधुमन्तं त ऊर्मिम्।।११ ।।

8.14
द्वे विरूपे चरतः स्वथें अन्यान्या वत्समुप धापयेते । तु. ऋ. १.९५.१
हरिरन्यस्यां भवति स्वधावाञ् शुक्रो अन्यस्यां ददृशे सुवर्चाः ।।१ । ।
दशेमं त्वष्टुर्जनयन्त गर्भमतन्द्रासो युवतयो विभृत्रम् ।
तिग्मानीकं स्वयशसं जनेषु विरोचमानं परि षीं नयन्ति ।२ ।।
त्रीणि जानात् प्रति भूषन्त्यस्य समुद्र एकं दिव्येकंमप्सु !
पूर्वामनु प्रदिशं पार्थिवानामृतून् प्रशासद् वि दधावनुष्टु ।।३।।
क इमं वो निण्यमा चिकेत वत्सो मातृर्जनयत स्वधाभिः ।
बह्वीनां गर्भो अपसामुपस्थान् महान् कविर्निश्चरति स्वधावान् ।।४।।
आविष्ट्यो वर्धते चारुरासु जिह्मानामूर्ध्वः स्वयसामुपस्थे ।
उभे त्वष्टुर्बिभ्यतुर्जायमानात् प्रतीची सिंहं प्रति जोषयेते ।।५।।
उभे भद्रे जोषयेते न मेने गावो न वाश्रा उप तस्थुरेवै:।
स दक्षाणां दक्षपतिर्बभूवाञ्जन्ति यं दक्षिणतो हविर्भिः ।। ६ ।।
उद् ययंमीति सवितेव बाहू उभे सिचौ यतते भीमरुञ्जन् ।
उच्छुक्रमत्कमञ्जते सिमस्मान् नवा मातृभ्यो वसना जहाति।॥७।।
त्वेषं रूपं कृणुत उत्तरं यत् संपृञ्चानः सदनं गोभिरद्भि: ।
कविर्बुध्नं परि मर्मृज्यते धीः सा देवताता समितिर्बभूव ।।८ ।।
उरु ते ज्रयः पर्येति बुध्नं विरोचमानं महिषस्य धाम ।
विश्वेभिरग्ने स्वयशोभिरिद्धो ऽदब्धेभिः पायुभिः पाह्यस्मान् ।I९ । ।
धन्वं स्रोतः कृणुते गातुमूर्मिं शुक्रैरूर्मिभिरभि नक्षति क्षाम्।
विश्वा सनानि जठरेषु धत्ते ऽन्तर्नवासु चरति प्रसूषु ।। १० ।।
एवा नो अग्ने समिधा वृधानो रेवत् पावक श्रवसा वि भाहि।।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ।। ११ ।।

8.15
यो जामदग्न्य इह कौशिको य आत्रेय उत काश्यपो य: ।
भरद्वाजा गोतमा ये वसिष्ठास्तेभ्य: प्र बूम इह किल्बिषाणि।१।
अगस्तय: कण्वाः कुत्साः प्रस्रवणा विरूपा गर्गा मुद्गला यस्काः शौनकाः।
संकृतयो ब्राह्मणा ये न दुग्धास्तेभ्य: प्र बूम इह किल्बिषाणि।२।
यो नोत्तिष्ठाद् ब्राह्मणे नाधमाने मान्द्येन दृप्त उत धैर्यण ।
विश्वे देवा उपद्रष्टारो ऽस्य तस्मिन्विषं सं नयान् किल्बिष्यम् ।।३।।
या रोपय: किल्बिषे ब्राह्मणस्य यानि चैनांसि बहुधा दुष्कृतानि।
अनुत्तिष्ठन् प्रोक्त आत्मनि तान् नि धत्ते तथा तद्देवा उत वेशयन्ति।॥४ ।।
ना ऽश्नीयान्न पिबेन्न शयीत न निंसीत जायां नोत पुत्रम् । पिवेन्न
ब्रह्मकिल्बिषे प्रोक्त उदेव तिष्ठेत् स ऋतस्य पन्थाः ।।५।।
शतर्चिनो माध्यमा ये महर्षयः क्षुद्रसूक्तानामुत या प्रजेह ।
ऋषीणां यानि जनिमानि विद्मस्तेभ्य: प्र ब्रूम इह किल्बिषाणि।६।
सोदर्याणां पञ्चदशानां शतानां त्रयस्त्रिंशदुदशिष्यन्त देवाः ।
एकस्मिन्विद्धे सर्वे ऽरुप्यन् तद् ब्राह्मणे किल्बिषमन्वविन्दन् ।।७।।
तस्मै स द्रुह्याद्य इदं नायद्यो नोत्तिष्ठाद्यो न वदाता अस्मिन् ।
ब्राह्मणस्य किल्बिषे नाथितस्य सोदर्यतामिच्छतो ब्राह्मणेषु ।।८ । ।
उत्तिष्ठता ब्राह्मणाः सं वदध्वं जीतं याचामि पुनरैतु सर्वम् ।
इन्द्राग्नी विश्वे देवास्ते मे जीतं पुनरा वर्तयन्तु ।। 1९ ।।
स दीर्घमायुष्कृणुते स प्रजायै चिकित्सति ।
यो ब्राह्मणस्य ब्राह्मणो हूतो अन्वेति किल्बिषे ।।१०।।
नास्य प्रजां शर्वो हन्ति न रुद्रो हन्ति नाशनि: ।
यो ब्राह्मणस्य ब्राह्मणः सत्यं वदति किल्बिषे ।। ११ ।।
तं सोमपीथो जुषते नृचक्षा ग्रावभिः सह ।
यो ब्राह्मणस्यास्तां हृद: सूर्य इवापालुपत्तमः ।। १२ ।।
य उत्थाय किल्बिषे ब्राह्मणस्यान्नमीच्छन्नवायति ।
उभे एनं द्यावापृथिवी सं तपतामथैत्वगतस्य पन्थाम्।।१३।।
(इति एकादशर्चोनाम अष्टमकाण्डे तृतीयोऽनुवाक:)

8.16
नव च या नवतिश्चारूढा वक्षणा अनु ।
इतस्ता: सर्वा नश्यन्तु नुत्ताः पुत्थज्ञो मया ।। १ ।।
सप्त च याः सप्ततिश्चारूढा वक्षणा अनु ।
इतस्ता: सर्वा नश्यन्तु नुत्ताः पुत्थज्ञो मया ।। २ ।।
पञ्च च या: पञ्चाशच्चारूढा वक्षणा अनु ।
इतस्ताः सर्वा नश्यन्तु नुत्ताः पुत्थज्ञो मया ।। ३ । ।
ऊरूभ्यां तेऽष्ठीवद्भ्यां पार्ष्णिभ्यां भंसस: ।
स्त्रिया जार इव पुत्थज्ञीं प्र मृणीमसि।।४।।
अनुसृप्तां गहनेषु धूक्ष्णां पापीं शिमिद्वतीम्।
तामेतां दस्यूनां दासीं प्र दहातश्चुकाकणि।।५।।
या स्त्रीणां पुत्रसदनं केवटानुपसर्पति।
तामेतां दस्यूनां दासीं प्र दहातश्चुकाकणि।।६।।
प्र पतातः सुकटनाळि सुषेः कुषीतको यथा।
स्रक्वे ते तिप्रं धक्ष्यामि सा नशिष्यसि पुत्थगि।७।
यदास्याः स्रक्वे दहेद्यदा मूर्धानमग्निना ।
अथैषा दस्यूनां दासी पुत्थगि नि लयिष्यते ।।८।।
संवत्सरमचरो असुरेभ्यः प्रतङ्किनी ।
यत्र क्षेत्रस्य दुर्गन्धि तत् त एतन् न्यञ्जनम् ।।९।।
नैतत्तव मातरंस्था न त एतन् न्यञ्जनम् ।
अस्माकमेतद्वीरेभ्यो देवैः प्रजननं कृतम् ।। १० ।।
गिरौ तेऽश्मपुत्रमुदकं हिमवत्सु ।
तत्रोपप्रस्कद्य नृत्य जामियूथेषु पुत्थगि ।।११ ।।
स त्वं गोभिरश्वै: प्रजया प्रतरं भव ।
यो मा तत्र प्राहैषीर्यत्र जीवन्ति भद्रया ।। १२ ।।

8.17
मित्रः पृथिव्योदक्रामत्तां पुरं प्र णयामि व: । तु. शौ.सं. १९.१९
तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु।। १ ।।
वायुरन्तरिक्षेणोदक्रामत्तां पुरं प्र णयामि वः ।
तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु।२ । ।
सूर्यो दिवोदक्रामत्तां पुरं प्र णयामि वः ।
तामा विशत तां प्र विशत सा व: शर्म च वर्म च यच्छतु ।। ३ ।।
चन्द्रमा नक्षत्रैरुदक्रामत्तां पुरं प्र णयामि वः ।
तामा विशत तां प्र विशत सा व: शर्म च वर्म च यच्छतु।। ४ ।।
सोम ओषधीभिरुदक्रामत्तां पुरं प्र णयामि वः ।
तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु ।।५।।
यज्ञो दक्षिणाभिरुदक्रामत्तां पुरं प्र णयामि वः ।
तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु ।।६।।
समुद्रो नदीभिरुदक्रामत्तां पुरं प्र णयामि वः ।
तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु।।॥७।।
ब्रह्म ब्रह्मचारिभिरुदक्रामत्तां पुरं प्र णयामि वः ।
तामा विशत तां प्र विशत सा व: शर्म च वर्म च यच्छतु ।।८ ।।
इन्द्रो वीर्येणोदक्रामत्तां पुरं प्र णयामि वः ।
तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु ।।९।।
देवा अमृतेनोदक्रामत्तां पुरं प्र णयामि वः ।
तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु ।। १o |
प्रजापति: प्रजाभिरुदक्रामत्तां पुरं प्र णयामि वः ।
तामा विशत तां प्र विशत सा व: शर्म च वर्म च यच्छतु ।। ११ !

8.18
संयुज्यन्तः प्रकृषन्तो यद् वो देवा उपोचिरे ।
तामेभ्यः सत्यामाशिषमिन्द्र खल्वां समर्धय । । १ ।
अनड्वाह: सत्यावानः सीरं कृणोतु मे वचः ।
यत्राहैतद्धिताय ते तत् पर्जन्योऽभि वो वृषत् ।।२ । ।
दिव्या आयो वः शक्वरीरनु वि यन्तु गह्वरे ।
ऊर्जस्वतीघृतवतीः पयस्वतीदृशे भवत मा गुहा । ।३ । ।
उदेहि वाजिनीवती पूर्णपात्रा त्विषीमती ।
दुहाना पूषरक्षिता काममेषां समा पृण ।४।।
इयं सीता फलवती शतवल्शा वि रोहतु ।
इयं सहस्रभोगा अस्या इन्द्र उपावतु ।५।।
अश्विना फालं कल्पयतामुपावतु बृहस्पति: ।
यथासद्बहुधान्यमयक्ष्मं बहुपूरुषम् ।।६।।
यद् वो देवा उपोचिर इह भूयः स्यादिति ।
इह तामुत्पृणां वयं देवीमुप हृयामहे ।।७।।
इदं म उत्पृणादिति स्फातिं म उत्पृणादिति ।
राशिं मे वर्धयादिति ।।८ ।।
स्फातिकारो बहुकार: स्फिरस्फोष्टायमक्षितः ।
खलो ज्येष्ठो विभुः प्रभुः ।।९।।
तस्मिन्धान्यं न्युप्यते यवो व्रीहिरथो तिल: ।
तस्य गृह्णीत यत्कृतं परिक्षाय चतु:शतम् ।। १० ।।
शर्कारिवन्मयारव चक्रीवत्किं च यदवृषे।
तद्वै स्फातिरुपायती सर्वमेवाति रुच्यते ।। ११ ।।
महाञ्जने परा जहि सहस्रापोषमर्दय ।
बह्वी न ओषधे भव समुद्रस्येव संस्रव: ।। १२ ।।

८ – १९ 8.19
आज्यादज: समभवद् देशेभ्य ओदना इमे ।
तानपश्यद्बृहस्पति: स वै पञ्चौदनोऽभवत् ।। १ ।।
चतुर्धैतां समभर ओदनांस्त्वं बृहस्पते ।
अज आज्याज्जात: स एषां पञ्चमो ऽभवत् ।।२ ।।
धूमेन दिवमाप्नोत्यन्तरिक्षमुतष्मणा ।
दिश आप्नोति चक्षुषा अजः पञ्चौदनः सवः ।३ । ।
या ते माता यस्ते पिता भ्रातरो ये च ते स्वा: ।
अजं पञ्चौदनं पक्त्वा सर्वे तमुप जीवत ।४।।
ये ते पूर्वे परागता अपरे पितरश्च ये।
तेभ्यो घृतस्य कुल्यैतु शतधारा व्युन्दती।।५।।
ये सर्वदा ददति ये वा पचन्त्योदनम्।
ते वै यमस्य राज्यादुत्तरे लोक आसते ।।६।।
नातिरात्र आप्नोति नैनमाप्नोत्युक्थ्य: ।
नाग्निष्टोम आप्नोत्यजं पञ्चौदनं सवम् ।।७।।
दशरात्रेण सम्मितो द्वादशाहेन कल्पते ।
दीर्घसत्रेण सम्मितो ऽज: पञ्चौदनः सवः ।। ८ । ।
तेषां बर्हिष्यं सर्वं यन्नष्टं यच्च म्रियते ।
यच्च स्तेनो ऽपाजति येषां पञ्चौदनः सवः ।।९ ।।
या पूर्वपतिं वित्वाथान्यं विन्दतेऽपरम् ।
पञ्चौदनं च तावजं पचतो न वि योषत: ।। १० ।
समानलोको भवति पुनर्भुवापर: पति: ।
अजं पञ्चौदनं दक्षिणाज्योतिषं ददत् ।। ११ ।।

8.20
सूर्यो मा वर्चसोक्षतूक्षतामश्विनोभा ।
आदित्य ऊर्ध्व उच्चरन् स उ मा वर्चसोक्षतु ।। १ । ।
वर्चसा मां पितुरग्निर्वर्चसा मा बृहस्पतिः ।
सुरायाः सिच्यमानायाः कीलालवर्चसेन मा ।
तेन मामश्विनोभा उक्षतां पुष्करस्रजा ।२ ।।
वर्चस्वन् मे मुखमस्तु रोचमानं विषासहि ।
तन्मा हिरण्यवर्चसं कृणोमि पश्यतां प्रियम् ।। ३ ।।
मधोरहं मधुतरो मधुघान् मधुमत्तर: ।
मामनु प्र विशतु वर्च ऋषभो वाशितामिव । । ४ ।।
इदमाञ्जनमानजे वर्चस्यमा कनिक्रदम् ।
यथा क्रनिक्रदच्चराणि वर्चसा च भगेन च ।।५।।
वर्चसाग्निमा दधति वर्चसोदेति सूर्य: ।
यावद् वर्चो गोहिरण्यस्य तावन्मे वर्चो भूयात् ।।६।।
यावत् त्वं देव सूर्य उद्यन्नभि विपश्यसि ।
तावन् मा वर्चसाभि वि पश्य ।।७ ।।
पूर्णो भगस्याहं भूत्वारुक्षं वर्चसो रथम् ।
स मा वहतु सर्वदायुष्मन्तं सुवर्चसम् ।।८ ।।
भगेनाहं परिहितो वर्चसा द्रविणेन च ।
यथा चराणि सर्वदा रोचमानं विभावसु ।९।
एवा मा भग आगमदेवा मा वर्च आगमत् ।
एवा मा तेज आगमदेवा मा यश आगमत् ।।१०।।
हिरणययेन चक्रेण भगस्यापिहितो गृहः ।
तं व्युब्जामि ब्रह्मणा तस्य मे दत्तमश्विना ।
दतं मे पुष्करस्रजा ।।११।।
(इति एकादशर्चोनाम अष्टमकाण्डे चतुर्थो ऽनुवाकः)
इत्यथर्ववेद पैप्पलाद संहितायां एकादशर्चोनाम अष्टमकाण्ड: समाप्तः