गोपथ ब्राह्मणम्/भागः १ (पूर्वभागः)/प्रपाठकः ४

विकिस्रोतः तः
Jump to navigation Jump to search

1.4.1
ओम् अयं वै यज्ञो यो ऽयं पवते
तम् एत ईप्सन्ति ये संवत्सराय दीक्षन्ते
तेषां गृहपतिः प्रथमो दीक्षते
अयं वै लोको गृहपतिः
अस्मिन् वा इदं सर्वं लोके प्रतिष्ठितम्
गृहपता उ एव सर्वे सत्त्रिणः प्रतिष्ठिताः
प्रतिष्ठाया एवैनं तत् प्रतिष्ठित्यै दीक्षन्ते ॥ १ ॥
1.4.2
अथ ब्रह्माणं दीक्षयति चन्द्रमा वै ब्रह्माधिदैवं मनो ऽध्यात्मम्
मनसैव तद् ओषधीः संदधाति
तद् या ओषधीर् वेद स एव ब्रह्मौषधीस्
तद् अनेन लोकेन संदधाति
तस्माद् एताव् अन्तरेणान्यो न दीक्षेत
स यद् एताव् अन्तरेणान्यो दीक्षेतेमं तं लोकम् ओषधिभिर् व्यापादयेत्
उच्छोषुका ह स्युस्
तस्माद् एताव् अन्तरेणान्यो न दीक्षेत ॥ २ ॥
1.4.3
अथोद्गातारं दीक्षयति
आदित्यो वा उद्गाताधिदैवं चक्षुर् अध्यात्मम्
पर्जन्य आदित्यः
पर्जन्याद् अधि वृष्टिर् जायते
वृष्टिर् एव तद् ओषधीः संदधाति
तस्माद् एताव् अन्तरेणान्यो न दीक्षेत
स यद् एताव् अन्तरेणान्यो दीक्षेतेमं तं लोकं वर्षेण व्यापादयेत्
अवर्षुका ह स्युस्
तस्माद् एताव् अन्तरेणान्यो न दीक्षेत ॥ ३ ॥
1.4.4
अथ होतारं दीक्षयति
अग्निर् वै होताधिदैवं वाग् अध्यात्मम्
अन्नं वृष्टिः
वाचं चैव तद् अग्निं चान्नेन संदाधाति
तस्माद् एताव् अन्तरेणान्यो न दीक्षेत
स यद् एताव् अन्तरेणान्यो दीक्षेतेमं तं लोकम् अन्नेन व्यापादयेत्
अशनायुका ह स्युस्
तस्माद् एताव् अन्तरेणान्यो न दीक्षेत ॥ ४ ॥
1.4.5
अथाध्वर्युं प्रतिप्रस्थाता दीक्षयति
वायुर् वा अध्वर्युर् अधिदैवं प्राणो ऽध्यात्मम्
अन्नं वृष्टिः
वायुं चैव तत् प्राणं चान्नेन संदधाति
तस्माद् एताव् अन्तरेणान्यो न दीक्षेत [एद्. एतव्]
स यद् एताव् अन्तरेणान्यो दीक्षेतेमं तं लोकं प्राणेन व्यापादयेत्
प्रमायुका ह स्युस्
तस्माद् एताव् अन्तरेणान्यो न दीक्षेत ॥ ५ ॥
1.4.6
अथ ब्रह्मणे ब्राह्मणाच्छंसिनं दीक्षयति
अथोद्गात्रे प्रस्तोतारं दीक्षयति
अथ होत्रे मैत्रावरुणं दीक्षयति
अथाध्वर्यवे प्रतिप्रस्थातारं नेष्टा दीक्षयति
स हैनम् अनु
एतेषां वै नवानां कॢप्तिम् अन्व् इतरे कल्पन्ते
नव वै प्राणाः
प्राणैर् यज्ञस् तायते
अथ ब्रह्मणे पोतारं दीक्षयति
अथोद्गात्रे प्रतिहर्तारं दीक्षयति
अथ होत्रे ऽच्छावाकं दीक्षयति
अथाध्वर्यवे नेष्टारम् उन्नेता दीक्षयति
स हैनम् अनु
अथ ब्रह्मण आग्नीध्रं दीक्ष्यति
अथोद्गात्रे सुब्रह्मण्यं दीक्षयति
अथ होत्रे ग्रावस्तुतं दीक्षयति
अथ तमन्यः स्नातको वा ब्रह्मचारी वा दीक्षयति
न पूतः पावयेद् इत्य् आहुः
सैषानुपूर्वं दीक्षा
तद् य एवं दीक्षन्ते दीक्षिष्यमाणा एव ते सत्त्रिणां प्रायश्चित्तं न विन्दन्ते
सत्त्रिणां प्रायश्चित्तम् अनु तस्यार्धस्य योगक्षेमः कल्पते यस्मिन्न् अर्धे दीक्षन्त इति ब्राह्मणम् ॥ ६ ॥
1.4.7
श्रद्धया वै देवा दीक्षणीयां निरमिमतादितेः प्रायणीयाम्
सोमात् क्रयम्
विष्णोर् आतिथ्यम्
आदित्यात् प्रवर्ग्यम्
स्वधाया उपसदः
अग्नीषोमाभ्याम् औपवसथ्यम् अहः
प्रातर्यावद्भ्यो देवेभ्यः प्रातरनुवाकम्
वसुभ्यः प्रातःसवनम्
रुद्रेभ्यो माध्यंदिनं सवनम्
आदित्येभ्यस् तृतीयसवनम्
वरुणाद् अवभृथम्
अदितेर् उदयनीयाम्
मित्रावरुणाभ्याम् अनूबन्ध्याम्
त्वष्टुस् त्वाष्ट्रम्
देवीभ्यो देविकाभ्यो देवताहवींषि
कामाद् दशातिरात्रम्
स्वर्गाल् लोकाद् उदवसानीयाम्
तद् वा एतद् अग्निष्टोमस्य जन्म
स य एवम् एतद् अग्निष्टोमस्य जन्म वेदाग्निष्टोमेन सात्मा सलोको भूत्वा देवान् अप्य् एतीति ब्राह्मणम् ॥ ७ ॥
1.4.8
अथ यद् दीक्षणीयया यजन्ते श्रद्धाम् एव तद् देवीं देवतां यजन्ते
श्रद्धा देवी देवता भवन्ति
श्रद्धाया देव्याः सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यत् प्रायणीयया यजन्ते ऽदितिम् एव तद् देवीं देवतां यजन्ते
अदितिर् देवी देवता भवन्ति
अदित्या देव्याः सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यत् क्रयम् उपयन्ति सोमम् एव तद् देवं देवतां यजन्ते
सोमो देवो देवता भवन्ति [एद्. दवता]
सोमस्य देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यद् आतिथ्यया यजन्ते विष्णुम् एव तद् देवं देवतां यजन्ते
विष्णुर् देवो देवता भवन्ति
विष्णोर् देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यत् प्रवर्ग्यम् उपयन्त्य् आदित्यम् एव तद् देवं देवतां यजन्ते [एद्. दवतां]
आदित्यो देवो देवता भवन्ति
आदित्यस्य देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यद् उपसदम् उपयन्ति स्वधाम् एव तद् देवीं देवतां यजन्ते
स्वधा देवी देवता भवन्ति
स्वधाया देव्याः सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यद् औपवसथ्यम् अहर् उपयन्त्य् अग्नीषोमाव् एव तद् देवौ देवते यजन्ते
अग्नीषोमौ देवौ देवते भवन्ति
अग्नीषोमयोर् देवतयोः सायुज्यं सलोकतां यन्ति ये एतद् उपयन्ति [एद्. ऽग्नीषोमयोर्]
अथ यत् प्रातरनुवाकम् उपयन्ति प्रातर्याव्ण एव तद् देवान् देवता यजन्ते
प्रातर्यावाणो देवा देवता भवन्ति
प्रातर्याव्णां देवानां सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यत् प्रातःसवनमुपयन्ति वसून् एव तद् देवान् देवता यजन्ते
वसवो देवा देवता भवन्ति
वसूनां देवानां सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यन् माध्यंदिनं सवनम् उपयन्ति रुद्रान् एव तद् देवान् देवता यजन्ते
रुद्रा देवा देवता भवन्ति
रुद्राणां देवानां सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यत्तृतीयसवनम् उपयन्त्य् आदित्यान् एव तद् देवान् देवता यजन्ते
आदित्या देवा देवता भवन्ति
आदित्यानां देवानां सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यद् अवभृथम् उपयन्ति वरुणम् एव तद् देवं देवतां यजन्ते
वरुणो देवो देवता भवन्ति
वरुणस्य देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यद् उदयनीयया यजन्ते ऽदितिम् एव तद् देवीं देवतां यजन्ते
अदितिर् देवी देवता भवन्ति
अदित्या देव्याः सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति [एद्. आदित्या]
अथ यद् अनूबन्ध्यया यजन्ते मित्रावरुणाव् एव तद् देवौ देवते यजन्ते
मित्रावरुणौ देवौ देवते भवन्ति
मित्रावरुणयोर् देवयोः सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यत् त्वाष्ट्रेण पशुना यजन्ते त्वष्टारम् एव तद् देवं देवतां यजन्ते
त्वष्टा देवो देवता भवन्ति
त्वष्टुर् देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यद् देविकाहविर्भिश् चरन्ति या एता उपसत्सु भवन्त्य् अग्निः सोमो विष्णुर् इति देव्यो देविका देवता भवन्ति
देवीनां देविकानां देवतानां सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यद् दशातिरात्रम् उपयन्ति कामम् एव तद् देवं देवतां यजन्ते
कामो देवो देवता भवन्ति
कामस्य देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यद् उदवसानीयया यजन्ते स्वर्गम् एव तल् लोकं देवं देवतां यजन्ते
स्वर्गो लोको देवो देवता भवन्ति
स्वर्गस्य लोकस्य देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
तद् वा एतद् अग्निष्टोमस्य जन्म
स य एवम् एतद् अग्निष्टोमस्य जन्म वेदाप्त्वैव तद् अग्निष्टोमं स्वर्गे लोके प्रतितिष्ठति
प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद
अग्निष्टोमेन सात्मा सलोको भूत्वा देवान् अप्य् एतीति ब्राह्मणम् ॥ ८ ॥
1.4.9
अहोरात्राभ्यां वै देवाः प्रायणीयम् अतिरात्रं निरमिमत
अर्धमासेभ्यश् चतुर्विंशम् अहः
ब्रह्मणो ऽभिप्लवम्
क्षत्रात् पृष्ठ्यम्
अग्नेर् अभिजितम्
अद्भ्यः स्वरसाम्नः
सूर्याद् विषुवन्तम्
उक्ता आवृत्ताः स्वरसामानः
इन्द्राद् विश्वजितम्
उक्तौ पृष्ठ्यभिप्लवौ
मित्रावरुणाभ्यां गवायुषी
विश्वेभ्यो देवेभ्यो दशरात्रम्
दिग्भ्यो दाशरात्रिकं पृष्ठ्यं षडहम्
एभ्यो लोकेभ्यश् छन्दोमं त्र्यहम्
संवत्सराद् दशमम् अहः
प्रजापतेर् महाव्रतम्
स्वर्गाल् लोकाद् उदयनीयम् अतिरात्रम्
तद् वा एतत् संवत्सरस्य जन्म
स य एवम् एतत् संवत्सरस्य जन्म वेद संवत्सरेण सात्मा सलोको भूत्वा देवान् अप्य् एतीति ब्राह्मणम् ॥ ९ ॥
1.4.10
अथ यत् प्रायणीयम् अतिरात्रम् उपयन्त्य् अहोरात्राव् एव तद् देवौ देवते यजन्ते
अहोरात्रौ देवौ देवते भवन्ति
अहोरात्रयोर् देवयोः सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति [एद्. ऽहोरात्रयोर्]
अथ यच् चतुर्विंशम् अहर् उपयन्त्य् अर्धमासान् एव तद् देवान् देवता यजन्ते
अर्धमासा देवा देवता भवन्ति
अर्धमासानां देवानां सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यद् अभिप्लवम् उपयन्ति ब्रह्माणम् एव तद् देवं देवतां यजन्ते
ब्रह्मा देवो देवता भवन्ति
ब्रह्मणो देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यत् पृष्ठ्यम् उपयन्ति क्षत्रम् एव तद् देवं देवतां यजन्ते
क्षत्रं देवो देवता भवन्ति
क्षत्रस्य देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यद् अभिजितम् उपयन्त्य् अग्निम् एव तद् देवं देवतां यजन्ते
अग्निर् देवो देवता भवन्ति
अग्नेर् देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यत् स्वरसाम्न उपयन्त्य् एव तद् देवीर् देवता यजन्त आपो देव्यो देवता भवन्ति
अपां देवीनां सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यद् विषुवन्तम् उपयन्ति सूर्यम् एव तद् देवं देवतां यजन्ते
सूर्यो देवो देवता भवन्ति
सूर्यस्य देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
उक्ता आवृत्ताः स्वरसामानः
अथ यद् विश्वजित मुपयन्तीन्द्रम् एव तद् देवं देवतां यजन्ते
इन्द्रो देवो देवता भवन्ति
इन्द्रस्य देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
उक्तौ पृष्ठ्याभिप्लवौ
अथ यद् गवायुषी उपयन्ति मित्रावरुणाव् एव तद् देवौ देवते यजन्ते
मित्रावरुणौ देवौ देवते भवन्ति
ब्मित्रावरुणयोर् देवयोः सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यद् दशरात्रम् उपयन्ति विश्वान् एव तद् देवान् देवता यजन्ते
विश्वे देवा देवता भवन्ति
विश्वेषां देवानां सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यद् दाशरात्रिकं पृष्ठ्यं षडहम् उपयन्ति दिश एव तद् देवीर् देवता यजन्ते
दिशो देव्यो देवता भवन्ति
दिशां देवीनां सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यच् छन्दोमं त्र्यहम् उपयन्तीमान् एव तल् लोकान् देवान् देवता यजन्ते
इमे लोका देवा देवता भवन्ति
एषां लोकानां देवानां सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यद् दशमम् अहर् उपयन्ति संवत्सरम् एव तद् देवं देवतां यजन्ते
संवत्सरो देवो देवता भवन्ति [एद्. दवता]
संवत्सरस्य देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यन् महाव्रतम् उपयन्ति प्रजापतिम् एव तद् देवं देवतां यजन्ते
प्रजापतिर् देवो देवता भवन्ति [एद्. दवता]
प्रजापतेर् देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यद् उदयनीयम् अतिरात्रम् उपयन्ति स्वर्गम् एव तल् लोकं देवं देवतां यजन्ते
स्वर्गो लोको देवो देवता भवन्ति
स्वर्गस्य लोकस्य देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
तद् वा एतत् संवत्सरस्य जन्म
स य एवम् एतत् संवत्सरस्य जन्म वेदाप्त्वैव तत् संवत्सरं स्वर्गे लोके प्रतितिष्ठति
प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद
संवत्सरेण सात्मा सलोको भूत्वा देवान् अप्य् एतीति ब्राह्मणम् ॥ १० ॥
1.4.11
स वा एष संवस्तरो ऽधिदैवं चाध्यात्मं च प्रतिष्ठितः
स य एवम् एतत् संवत्सरम् अधिदैवं चाध्यात्मं च प्रतिष्ठितं वेद प्रतितिष्ठति
प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद ॥ ११ ॥
1.4.12
स वा एष संवत्सरो बृहतीम् अभिसंपन्नः
द्वाव् अक्षराव् अह्नां षडहौ द्वौ पृष्ठ्याभिप्लवौ
गवायुषी दशरात्रस्
तथा खलु षट्त्रिंशद् संपद्यन्ते
षट्त्रिंशदवदाना गौः
षट्त्रिंशदक्षरा बृहती
बार्हतो वै स्वर्गो लोकः
बृहत्या वै देवाः स्वर्गे लोके यजन्ते
बृहत्या स्वर्गे लोके प्रतितिष्ठति
प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद ॥ १२ ॥
1.4.13
स वा एष संवत्सरस् त्रिमहाव्रतः
चतुर्विंशे महाव्रतं विषुवति महाव्रतं महाव्रत एव महाव्रतम्
तं ह स्मैतम् एवंविद्वांसः पूर्वे त्रिमहाव्रतम् उपयन्ति
ते तेजस्विन आसंत् सत्यवादिनः संशितव्रताः
य एनम् अद्य तथोपेयुर् यथामपात्रम् उदक आसिक्ते निर्मृत्येद् एवं यजमाना निर्मृत्येरन्न् उपर्य् उपयन्ति
तथा हास्य सत्येन तपसा व्रतेन चाभिजितम् अवरुद्धं भवति य एवं वेद ॥ १३ ॥
1.4.14
अथ यच् चतुर्विंशम् अहर् उपेत्यानुपेत्य विषुवन्तं महाव्रतम् उपेयात् कथम् अनागूर्त्यै भवतीति
यम् एवामुं पुरस्ताद् विषुवतो ऽतिरात्रम् उपयन्ति तेनेति ब्रूयात्
अभिप्लवात् पृष्ठ्यो निर्मितः
पृष्ठ्याद् अभिजित्
अभिजितः स्वरसामानः
स्वरसामभ्यो विषुवान्
विषुवतः स्वरसामानः
स्वरसामभ्यो विश्वजित्
विश्वजितः पृष्ठ्याभिप्लवौ
पृष्ठ्याभिप्लवाभ्यां गवायुषी
गवायुर्भ्यां दशरात्रः
दशरात्रान् महाव्रतम्
महाव्रताद् उदयनीयो ऽतिरात्रः
उदयनीयो ऽतिरात्रः स्वर्गाय लोकायान्नाद्याय प्रतिष्ठित्यै ॥ १४ ॥
1.4.15
अथ यच् चतुर्विंशम् अहर् उपेत्यानुपेत्य विषुवन्तं महाव्रतम् उपेयात् कथम् अनागूर्त्यै भवतीति
यम् एवामुं पुरस्ताद् विषुवतो ऽतिरात्रम् उपयन्ति तेनेति ब्रूयात्
अभिप्लवात् पृष्ठ्यो निर्मितः
पृष्ठ्याद् अभिजित्
अभिजितः स्वरसामानः
स्वरसामभ्यो विषुवान् [एद्. विषवान्]
विषुवतः स्वरसमानः
स्वरसामभ्यो विश्वजित्
विश्वजितः पृष्ठ्याभिप्लवौ
पृष्ठ्याभिप्लवाभ्यां गवायुषी
गवायुर्भ्यां दशरात्रः
अथ ह देवेभ्यो महाव्रतं न तस्थे कथम् ऊर्ध्वै स्तोमैर् विषुवन्तम् उपागातावृत्तैर् माम् इति
ते देवा इहसामिवासुर्
उप तं यज्ञक्रतुं जानीमो च ऊर्ध्वस्तोमो येनैतद् अहर् अवाप्नुयामेति
तत एतं द्वादशरात्रम् ऊर्ध्वस्तोमं ददृशुस्
तम् आहरन्
तेनायजन्त
तत एभ्यो ऽतिष्ठन्
तिष्ठति हास्मै महाव्रतम्
प्रतितिष्ठति
प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद ॥ १५ ॥
1.4.16
अथ यच् चतुर्विंशम् अहर् उपेत्यानुपेत्य विषुवन्तं महाव्रतम् उपेयात् कथम् अनागूर्त्यै भवतीति
यम् एवामुं पुरस्ताद् विषुवतो ऽतिरात्रम् उपयन्ति तेनेति ब्रूयात्
तद् आहुः कति संवत्सरस्य पराञ्च्य् अहानि भवन्ति कत्य् अर्वाञ्चि
तद् यानि सकृत्सकृद् उपयन्ति तानि पराञ्चि
अथ यानि पुनःपुनर् उपयन्ति तान्य् अर्वाञ्चीत्य् एवैनान्य् उपासीरन्
षडहयोर् ह्य् आवृत्तिम् अन्वावर्तन्ते ॥ १६ ॥
1.4.17
अथ यच् चतुर्विंशम् अहर् उपेत्यानुपेत्य विषुवन्तं महाव्रतम् उपेयात् कथम् अनागूर्त्यै भवतीति
यम् एवामुं पुरस्ताद् विषुवतो ऽतिरात्रम् उपयन्ति तेनेति ब्रूयात् [एद्. ऽतिरत्रम्]
अभिप्लवं पुरस्ताद् विषुवतः पूर्वम् उपयन्ति
पृष्ट्यम् उपरिष्टात्
पिता वा अभिप्लवः पुत्रः पृष्ठ्यस्
तस्मात् पूर्वे वयसि पुत्राः पितरम् उपजीवन्ति
पृष्ठ्यं पश्चाद् विषुवतः पूर्वम् उपयन्त्य् अभिप्लवम् उपरिष्टात्
पिता वा अभिप्लवः पुत्रः पृष्ठ्यस्
तस्माद् उत्तमे वयसि पुत्रान् पितोपजीवति य एवं वेद
तद् अप्य् एतद् ऋचोक्तं <शतम् इन् नु शरदो अन्ति देवा यत्रा नश् चक्रा जरसं तनूनाम् । पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर् गन्तोः [ऋV १.८९.९]>इति
उप ह वा एनं पूर्वे वयसि पुत्राः पितरम् उपजीवन्त्य् उपोत्तमे वयसि पुत्रान् पितोपजीवति य एवं वेद ॥ १७ ॥
1.4.18
अथ हैष महासुपर्णस्
तस्य यान् पुरस्ताद् विषुवतः षण्मासान् उपयन्ति स दक्षिणः पक्षः
अथ यान् आवृत्तान् उपरिष्टात् षड् उपयन्ति स उत्तरः पक्षः
आत्मा वै संवत्सरस्य विषुवान् अङ्गानि पक्षौ
यत्र वा आत्मा तत् पक्षौ
यत्र वै पक्षौ तद् आत्मा
न वा आत्मा पक्षाव् अतिरिच्यते
नो पक्षाव् आत्मानम् अतिरिच्येते इति
एवम् उ हैव तद् अपरेषां स्विदितमह्नां परेषाम् इत्य् अपरेषां चैव परेषां चेति ब्रूयात् ॥ १८ ॥ [एद्. बूयात्]
1.4.19
तद् आहुर् यद् द्वादश मासाः संवत्सरो ऽथ हैतद् अहर् अवाप्नुयामेति
यद् वैषुवतम् अपरेषां स्विदितमहां परेषाम् इति
अपरेषां चैव परेषां चेति ब्रूयात्
आत्मा वै संवत्सरस्य विषुवान् अङ्गानि मासाः
यत्र वा आत्मा तद् अङ्गानि
यत्राङ्गानि तद् आत्मा
न वा आत्माङ्गान्य् अतिरिच्यते नो ऽङ्गान्य् आत्मानम् अतिरिच्यन्त इति
एवम् उ हैव तद् अपरेषां स्विदितमह्नां परेषाम् इत्य् अपरेषां चैव परेषां चेति ब्रूयात्
स वा एष संवत्सरः ॥ १९ ॥
1.4.20
तद् आहुः कथम् उभयतोज्योतिषो ऽभिप्लवा अन्यतरतोज्योतिः पृष्ठ्य इति
उभयतोज्योतिषो वा इमे लोका अग्निनेत आदित्येनामुत इति
एष ह वा एतेषां ज्योतिर् य एनं प्रमृदीव तपति
देवचक्रे ह वा एते पृष्ठ्यप्रतिष्ठिते पाप्मानं तृंहती परिप्लवेते
तद् य एवंविदुषां दीक्षितानां पापकं कीर्तयद् एते एवास्य तद् देवचक्रे शिरश् छिन्दतः
दशरात्रम् उद्धिः
पृष्ठ्याभिप्लवौ चक्रे
दशरात्रम् उद्धिं पृष्ठ्याभिप्लवौ चक्रे तन्त्रं कुर्वीतेति ह स्माह वास्युस्
तयो स्तोत्राणि च शस्त्राणि च संचारेयत्
यः संचारयेत् तस्माद् इमे पुरुषे प्राणा नाना सन्त एकोदयाच् छरीरम् अधिवसति यन् न संचारयेत् प्रमायुको ह यजमानः स्यात्
एष ह वै प्रमायुको यो ऽन्धो वा बधिरो वा
नवाग्निष्टोमा मासि संपद्यन्ते
नव वै प्राणाः
प्राणैर् यज्ञस् तायते
एकविंशतिर् उक्थ्याः
एक उक्थ्यः षोडशी
अन्नं वा उक्थ्यः
वीर्यं षोडश्य् एव
तथा रूढ्वा स्वर्गं लोकम् अध्यारोहन्ति ॥ २० ॥
1.4.21
अथातो ऽह्नाम् अध्यारोहः
प्रायणीयेनातिरात्रेणोदयनीयम् अतिरात्रम् अध्यारोहन्ति चतुर्विंशेन महाव्रतम्
अभिप्लवेन परम् अभिप्लवम्
पृष्ठ्येन परं पृष्ठ्यम्
अभिजिताभिजितं स्वरसामभिः परान्त् स्वरसामानः
अथैतद् अहर् अवाप्नुयामेति यद् वैषुवतम् अपरेषां स्विदितमह्नां परेषाम् इत्य् अपरेषां चैव परेषां चेति ब्रूयात्
स वा एष संवत्सरः ॥ २१ ॥
1.4.22
अथातो ऽह्नां निवाहः
प्रायणीयो ऽतिरात्रश् चतुर्विंशायाह्ने निवहति
चतुर्विंशम् अहर् अभिप्लवाय
अभिप्लवः पृष्ठ्याय
पृष्ठ्यो ऽभिजिते
अभिजित् स्वरसामभ्यः
स्वरसामानो विषुवते
विषुवान्त् स्वरसामभ्यः
स्वरसामनो विश्वजिते
विश्वजित् पृष्ठ्याभिप्लवाभ्याम्
पृष्ठ्याभिप्लवौ गवायुर्भ्याम्
गवायुषी दशरात्राय
दशरात्रो महाव्रताय
महाव्रतम् उदनीयायातिरात्राय
उदयनीयो ऽतिरात्रः स्वर्गाय लोकायान्नाद्याय प्रतिष्ठित्यै ॥ २२ ॥ [एद्. ऽतिरत्रः]
1.4.23
आदित्याश् च ह वा अङ्गिरसश् च स्वर्गे लोके ऽस्पर्धन्त वयं पूर्वे स्वर् एष्यामो वयं पूर्व इति
त आदित्या लघुभिः सामभिश् चतुर्भि स्तोमैर् द्वाभ्यां पृष्ठ्याभ्यां स्वर्गं लोकम् अभ्यप्लवन्त
यद् अभ्यप्लवन्त तस्माद् अभिप्लवः
अन्वञ्च एवाङ्गिरसो गुरुभिः सामभिः सर्वै स्तोमैः सर्वैः पृष्ठ्यैः स्वर्गं लोकम् अभ्यस्पृशन्त
यद् अभ्यस्पृशन्त तस्मात् स्पृश्यस्
तं वा एतं स्पृश्यं सन्तं पृष्ठ्य इत्य् आचक्षते परोक्षेण
परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः
अभिप्लवात् पृष्ठ्यो निर्मितः
पृष्ठ्याद् अभिजित्
अभिजितः स्वरसामानः
स्वरसामभ्यो विषुवान्
विषुवतः स्वरसामानः
स्वरसामभ्यो विश्वजित्
विश्वजितः पृष्ठ्याभिप्लवौ
पृष्ठ्याभिप्लवाभ्यां गवायुषी
गवायुर्भ्यां दशरात्रस् [एद्. दशरत्रस्]
तानि ह वा एतानि यज्ञारण्यानि यज्ञकृन्तत्राणि
तेषां शतंशतं रथानान्यन्तरं तद् यथारण्यान्य् आरूढा अशनापिपासे ते पाप्मानं तृंहती परिप्लवेते
एवं हैवैते प्रप्लवन्ते ये ऽविद्वांस उपयन्त्यि
अथ ये विद्वांस उपयन्ति तद् यथा प्रवाहात् प्रवाहं स्थलात् स्थलं समात् समं सुखात् सुखम् अभयाद् अभयम् उपसंक्रामन्तीत्य् एवं हैवैते संवत्सरस्योदृचं समश्नवामहा इति ब्राह्मणम् ॥ २३ ॥
1.4.24
प्रेदिर् ह वै कौशाम्बेयः कौसुरुबिन्दुर् उद्दालक आरुणौ ब्रह्मचर्यम् उवास
तम् आचार्यः पप्रच्छ कुमार कति ते पिता संवत्सरस्याहान्य् अमन्यतेति
कति त्वेवेति
दशेति होवाच
दश वा इति होवाच
दशाक्षरा विराड् विराजो यज्ञः
कति त्वेवेति
नवेति होवाच
नव वा इति होवाच
नव वै प्राणाः
प्राणैर् यज्ञस् तायते
कति त्वेवेति
अष्टेति होवाच
अष्टौ वा इति होवाच
अष्टाक्षरा गायत्री
गायत्री यज्ञः
कति त्वेवेति
सप्तेति होवाच
सप्त वा इति होवाच
सप्त छन्दांसि
छन्दोभिर् यज्ञस् तायते
कति त्वेवेति
षड् इति होवाच
षड् वा इति होवाच
षड् वा ऋतवः
ऋतूनाम् आप्त्यै
कति त्वेवेति
पञ्चेति होवाच
पञ्च वा इति होवाच
पञ्चपदा पङ्क्तिः
पाङ्क्तो यज्ञः
कति त्वेवेति
चत्वारीति होवाच
चत्वारि वा इति होवाच
चत्वारो वै वेदाः
वेदैर् यज्ञस् तायते
कति त्वेवेति
त्रीणीति होवाच
त्रीणि वा इति होवाच
त्रिषवणो वै यज्ञः
सवनैर् यज्ञस् तायते
कति त्वेवेति
द्वे इति होवाच
द्वे वा इति होवाच
द्विपाद् वै पुरुषः
द्विप्रतिष्ठः पुरुषः
पुरुषो वै यज्ञः
कति त्वेवेति
एकम् इति होवाच
एकं वा इति होवाच
अहरहर् इत्य् एव सर्वं संवत्सरं ॥ २४ ॥

इत्य् अथर्ववेदे गोपथब्राह्मणपूर्वभागे चतुर्थः प्रपाठकः ॥