गोपथ ब्राह्मणम्/भागः १ (पूर्वभागः)/प्रपाठकः ३

विकिस्रोतः तः
Jump to navigation Jump to search

प्रपाठकः १

प्रपाठकः २

प्रपाठकः ३

प्रपाठकः ४

प्रपाठकः ५

1.3.1
ओं दक्षिणाप्रवणा भूमिर् दक्षिणत आपो वहन्ति
तस्माद् यज्ञास् तद्भूमेर् उन्नततरम् इव भवति यत्र भृग्वङ्गिरसो विष्ठास्
तद् यथाप इमांल् लोकान् अभिवहन्त्य् एवम् एव भृग्वङ्गिरसः सर्वान् देवान् अभिवहन्ति
एवम् एवैषा व्याहृतिः सर्वान् वेदान् अभिवहत्य् ओम् इति हर्चाम् ओम् इति यजुषाम् ओम् इति साम्नाम् ओम् इति सर्वस्याहाभिवादस्
तं ह स्मैतद् उत्तरं यज्ञे विद्वांसः कुर्वन्ति
देवा ब्रह्माण आगच्छतागच्छतेति
एते वै देवा ब्रह्माणो यद् भृग्वङ्गिरसस्
तान् एवैतद् गृणानास् तान् वृणाना ह्वयन्तो मन्यन्ते
नान्यो ऽभृग्वङ्गिरोविदो वृतो यज्ञम् आगच्छेन्
यज्ञस्य तेजसा तेज आप्नोत्य् ऊर्जयोर्जां यशसा यशः
नान्यो ऽभृग्वङ्गिरोविदो वृतो यज्ञम् आगच्छेन् नेद् यज्ञं परिमुष्णीयाद् इति
तद् यथा पूर्वं वत्सो ऽधीत्य गां धयेद् एवं ब्रह्मा भृग्वङ्गिरोविद् वृतो यज्ञम् आगच्छेन् नेद् यज्ञं परिमुष्णीयाद् इति
तद् यथा गौर् वाश्वो वाश्वतरो वैकपाद् द्विपात् त्रिपाद् इति स्यात् किम् अभिवहेत् किम् अभ्यश्नुयाद् इति
तस्माद् ऋग्विदम् एव होतारं वृणीष्व यजुर्विदम् अध्वर्युं सामविदम् उद्गातारम् अथर्वाङ्गिरोविदं ब्रह्माणम्
तथा हास्य यज्ञश् चतुर्षु लोकेषु चतुर्षु देवेषु वेदेषु चतसृषु होत्रासु चतुष्पाद् यज्ञः प्रतितिष्ठति
प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद यश् चैवम् ऋत्विजाम् आर्त्विज्यं वेद यश् च यज्ञे यजनीयं वेदेति ब्राह्मणम् ॥ १ ॥
1.3.2
प्रजापतिर् यज्ञम् अतनुत
स ऋचैव हौत्रम् अकरोद् यजुषाध्वर्यवं साम्नौद्गात्रम् अथर्वाङ्गिरोभिर् ब्रह्मत्वम्
तं वा एतं महावाद्यं कुरुते यद् ऋचैव हौत्रम् अकरोद् यजुषाध्वर्यवं साम्नौद्गात्रम् अथर्वाङ्गिरोभिर् ब्रह्मत्वम्
स वा एष त्रिभिर् वेदैर् यज्ञस्यान्यतरः पक्षः संस्क्रियते
मनसैव ब्रह्मा यज्ञस्यान्यत्रं पक्षं संस्करोति
अयम् उ वै यः पवते स यज्ञस्
तस्य मनश् च वाक् च वर्तनी
मनसा चैव हि वाचा च यज्ञो वर्तते
अद एव मन इयम् एव वाक्
स यद् वदन् नास्ति विद्याद् अर्धं मे ऽस्य यज्ञस्यान्तरगाद् इति
तद् यथैकपात् पुरुषो यन्न् एकचक्रो वा रथो वर्तमानो भ्रेषं न्येत्य् एवम् एवास्य यज्ञो भ्रेषं न्येति
यज्ञस्य भ्रेषम् अनु यजमानो भ्रेषं न्येति
यजमानस्य भ्रेषम् अन्व् ऋत्विजो भ्रेषं नियन्ति
ऋत्विजां भ्रेषम् अनु दक्षिणा भ्रेषं नियन्ति
दक्षिणानां भ्रेषम् अनु यजमानः पुत्रपशुभिर् भ्रेषं न्येति
पुत्रपशूनां भ्रेषम् अनु यजमानः स्वर्गेण लोकेन भ्रेषं न्येति
स्वर्गस्य लोकस्य भ्रेषम् अनु तस्यार्धस्य योगक्षेमो भ्रेषं न्येति यस्मिन्न् अर्धे यजन्त इति ब्राह्मणम् ॥ २ ॥
1.3.3
तद् उ ह स्माह श्वेतकेतुर् आरुणेयो ब्रह्माणं दृष्ट्वा भाषमाणम् अर्धं मे ऽस्य यज्ञस्यान्तरगाद् इति
तस्माद् ब्रह्मा स्तुते बहिःपवमाने वाचोयम्यम् उपांश्व् अन्तर्यामाभ्याम्
अथ ये पवमाना ओदृचस् तेषु
अथ यानि स्तोत्राणि सशस्त्राण्य् आ वषट्कारात् तेषु
स यद् ऋक्तो भ्रेषं न्यृच्छेद् ओं भूर् जनद् इति गार्हपत्ये जुहुयात्
यदि यजुष्ट ओं भुवो जनद् इति दक्षिणाग्नौ जुदुयात्
यदि सामत ओं स्वर् जनद् इत्य् आहवनीये जुहुयात्
यद्य् अनाज्ञाताद् ब्रह्मतो वों भूर् भुवः स्वर् जनद् ओम् इत्य् आहवनीय एव जुहुयात्
तद् वाकोवाक्यस्यर्चां यजुषां साम्नाम् अथर्वाङ्गिरसाम्
अथापि वेदानां रसन यज्ञस्य विरिष्टं संधीयते
तद् यथा लवणेनेत्य् उक्तम्
तद् यथोभयपात् पुरुषो यन्न् उभयचक्रो वा रथो वर्तमानो ऽभ्रेषं न्येति एवम् एवास्य यज्ञो ऽभ्रेषं न्येति
यज्ञस्याभ्रेषम् अनु यजमानो ऽभ्रेषं न्येति
यजमानस्याभ्रेषम् अन्व् ऋत्विजो ऽभ्रेषं नियन्ति
ऋत्विजाम् अभ्रेषम् अनु दक्षिणा अभ्रेषं नियन्ति
दक्षिणानाम् अभ्रेषम् अनु यजमानः पुत्रपशुभिर् अभ्रेषं न्येति
पुत्रपशूनाम् अभ्रेषम् अनु यजमानः स्वर्गेण लोकेनाभ्रेषं न्येति
स्वर्गस्य लोकस्याभ्रेषम् अनु तस्यार्धस्य योगक्षेमो ऽभ्रेषं न्येति यस्मिन्न् अर्धे यजन्त इति ब्राह्मणम् ॥ ३ ॥
1.3.4
तद् यद् औदुम्बर्यां म आसिष्ट हिङ्ङ् अकार्षीन् मे प्रास्तावीन् म उदगासीन् मे सुब्रह्मण्याम् आह्वासीद् इत्य् उद्गात्रे दक्षिणा नीयन्ते
ग्रहान् मे ऽग्रहीत् प्राचारीन् मे ऽशुश्रुवन् मे समनसस् कार्षीद् अयाक्षीन् मे ऽवषट्कार्षीन् म इत्य् अध्वर्यवे
होतृषदन आसिष्टायाक्षीन् मे ऽशांसीन् मे ऽवषट्कार्षीन् म इति होत्रे
देवयजनं मे चीकॢपद् ब्रह्मासादं मे ऽसीसृपद् ब्रह्मजपान् मे ऽजपीत् पुरस्ताद्धोमसंस्थितहोमान् मे ऽहौषीद् अयाक्षीन् मे ऽशांसीन् मे ऽवषट्कार्षीन् म इति ब्रह्मणे
भूयिष्ठेन मा ब्रह्मणाकार्षीद् इति
एतद् वै भूयिष्ठं ब्रह्म यद् भृग्वङ्गिरसः
ये ऽङ्गिरसः स रसो ये ऽथर्वाणो ये ऽथर्वाणस् तद्भेषजम्
यद् भेषजं तद् अमृतं यद् अमृतं तद् ब्रह्म
स वा एष पूर्वेषाम् ऋत्विजाम् अर्धभागस्यार्धम् इतरेषाम् अर्धं ब्रह्मण इति ब्राह्मणम् ॥ ४ ॥
1.3.5
देवाश् च ह वा असुराश् च संग्रामं समयतन्त
तत्रैतास् तिस्रो होत्रा जिह्मं प्रतिपेदिरे
तासाम् इन्द्र उक्थानि सामानि लुलोप
तानि होत्रे प्रायच्छत्
आज्यं ह वै होतुर् बभूव
प्रउगं पोतुर् वैश्वदेवं ह वै होतुर् बभूव
निष्केवल्यं नेष्टुः
मरुत्वतीयं ह वै होतुर् बभूव
अग्निमारुतम् आग्नीध्रस्य
तस्माद् एतद् अभ्यस्ततरम् इव शस्यते यद् आग्निमारुतम्
तस्माद् एते संशंसुका इव भवन्ति यद् धोता पोता नेष्टा
आग्नीध्रो मुमुहे वसीत
तद् ब्रह्मेयसामिवास
तासाम् अर्धं प्रतिलुलोप प्रथमार्हणं च प्रथमपदं चैतद् दक्षिणां चैतत् परिशिषेदेद् इति ब्राह्मणम् ॥ ५ ॥
1.3.6
उद्दालको ह वा आरुणिर् उदीच्यान् वृतो धावयां चकार
तस्य ह निष्क उपाहितो बभूवोपवादाद् बिभ्यतो यो मा ब्राह्मणो ऽनूचान उपवदिष्यति तस्मा एतं प्रदास्यमीति
तद् धोदीच्यान् ब्राह्मणान् भयं विवेदोद्दालको ह वा अयम् आयाति कौरुपञ्चोलो ब्रह्मा ब्रह्मपुत्रः
स ऊर्ध्वं वृतो न पर्यादधीत
केनेमं वीरेण प्रतिसंयतामहा इति
तं यत एव प्रपन्नं दध्रे तत एवम् अनुप्रतिपेदिरे ते ह स्वैदायनं शौनकम् ऊचुः स्वैदायन त्वं वै नो ब्रह्मिष्ठो ऽसीति
त्वयेमं वीरेण प्रतिसंयतामहा इति
तं यत एव प्रपन्नं दध्रे तत एवम् अनुप्रतिपेदिरे
तं ह स्वैदायना इत्य् आमन्त्रयाम् आस
स भो गौतमस्य पुत्रेति हास्मा असूया प्रतिश्रुतं प्रतिशुश्राव
स वै गौतमस्य पुत्र ऊर्ध्वं वृतो धावेत् ॥ ६ ॥
1.3.7
यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् इमाः प्रजाः शिरस्तः प्रथमं लोमशा जायन्ते कस्माद् आसाम् अपरम् इव श्मश्रूण्य् उपकक्षाण्य् अन्यानि लोमानि जायन्ते
यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् इमाः प्राजाः शिरस्तः प्रथमं पलिता भवन्ति कस्माद् अन्ततः सर्वा एव पलिता भवन्ति
यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् इमाः प्रजा अदन्तिका जायन्ते कस्माद् आसाम् अपरम् इव जायन्ते
यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् आसां सप्तवर्षाष्टवर्षाणां प्रभिद्यन्ते कस्माद् आसां पुनर् एव जायन्ते कस्माद् अन्ततः सर्व एव प्रभिद्यन्ते
यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् अधरे दन्ताः पूर्वे जायन्ते पर उत्तरे
यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् अधरे दन्ताः अणीयांसो ह्रसीयांसः प्रथीयांसो वर्षीयांस उत्तरे
यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् इमौ दंष्ट्रौ दीर्घतरौ कस्मात् समे इव जंभे
यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् इमे श्रोत्रे अन्तरतः समे इव दीर्णे
यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्मात् पुमांसः श्मश्रुवन्तो ऽश्मश्रुवः स्त्रियः
यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् आसां संततम् इव शरीरं भवति कस्माद् आसाम् अस्थीनि दृढतराणीव भवन्ति
यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् आसां प्रथमे वयसि रेतः सिक्तं न संभवति कस्माद् आसां मध्यमे वयसि रेतः सिक्तं संभवति कस्माद् आसाम् उत्तमे वयसि रेतः सिक्तं न संभवति
यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् इदं शिश्नम् उच्चश एति नीची पद्यते [एद्. इं]
कस्मात् सकृद् अपानम् ॥ ७ ॥
1.3.8
अथ यः पुरस्ताद् अष्टाव् आज्यभागान् विद्यान् मध्यतः पञ्च हविर्भागाः षट् प्राजापत्या उपरिष्टाद् अष्टाव् आज्यभागान् विद्यात्
अथ यो गायत्रीं हरिणीं ज्योतिष्पक्षां सर्वैर् यज्ञैर् यजमानं स्वर्गं लोकम् अभिवहन्तीं विद्यात्
अथ यः अपङ्क्तिं पञ्चपदां सप्तदशाक्षरां सर्वैर् यज्ञैर् यजमानं स्वर्गं लोकम् अभिवहन्तीं विद्यात्
तस्मै ह निष्कं प्रयच्छन्न् उवाचानूचानो ह वै स्वैदायनासि सुवर्णं वै सुवर्णविदे ददामीति
तद् उपयम्य निश्चक्राम
तत्रापवव्राज यत्रेतरो बभूव
तं ह पप्रच्छ किम् एष गौतमस्य पुत्र इति
एष ब्रह्मा ब्रह्मापुत्र इति होवाच यद् एनं कश् चिद् उपवदेतोत मीमांसेत ह वा मूर्धा वा अस्य विपतेत् प्राणा वैनं जह्युर् इति
ते मिथ एव चिक्रन्देयुर् विप्रापवव्रज यत्रेतरो बभूव
ते प्रातः समित्पाणय उपोदेयुर् उपायामो भवन्तम् इति
किम् अर्थम् इति
यान् एव नो भवांस् तान् ह्यः प्रश्नान् अपृच्छत् तान् एव नो भवान् व्याचक्षीतेति
तथेति
तेभ्य एतान् प्रश्नान् व्याचचष्टे ॥ ८ ॥
1.3.9
यत् पुरस्ताद् वेदेः प्रथमं बर्हि स्तृणाति तस्माद् इमाः प्रजाः शिरस्तः प्रथमं लोमशा जायन्ते
यद् अपरम् इव प्रस्तरम् अनुप्रस्तृणाति तस्माद् आसाम् अपरम् इव श्मश्रूण्य् उपकक्षाण्य् अन्यानि लोमानि जायन्ते
यत् प्राग् बर्हिषः प्रस्तरम् अनुप्रहरति तस्माद् इमाः प्रजाः शिरस्तः प्रथमं पलिता भवन्ति
यद् अन्ततः सर्वम् एवानुप्रहरति तस्माद् अन्ततः सर्व एव पलिता भवन्ति
यत् प्रयाजा अपुरोऽनुवाक्यावन्तो भवन्ति तस्माद् इमाः प्रजा अदन्तिका जायन्ते
यद् धवींषि पुरोऽनुवाक्यावन्ति भवन्ति तस्माद् आसाम् अपरम् इव जायन्ते
यद् अनुयाजा अपुरोऽनुवाक्यावन्तो भवन्ति तस्माद् आसां सप्तवर्षाष्टवर्षाणां प्रभिद्यन्ते
यत् पत्नीसंयाजाः पुरोऽनुवाक्यावन्तो भवन्ति तस्माद् आसां पुनर् एव जायन्ते
यत् समिष्टयजुर् अपुरोऽनुवाक्यावद् भवति तस्माद् अन्ततः सर्व एव प्रभिद्यन्ते
यद् गायत्र्यानूच्य त्रिष्टुभा यजति तस्माद् अधरे दन्ताः पूर्वे जायन्ते पर उत्तरे
यद् ऋचानूच्य यजुषा यजति तस्माद् अधरे दन्ता अणीयांसो ह्रसीयांसः प्रथीयांसो वर्षीयांस उत्तरे [एद्. वर्सीयांस]
यद् आघारौ दीर्घतरौ प्राञ्चाव् आघारयति तस्माद् इमौ दंष्ट्रौ दीर्घतरौ
यत् संयाज्ये सच्छन्दसी तस्मात् समे इव जम्भे
यच् चतुर्थे प्रयाजे समानयति तस्माद् इमे श्रोत्रे अन्तरतः समे इव दीर्णे
यज् जपं जपित्वाभिहिंकृणोति तस्मात् पुमांसः श्मश्रुवन्तो ऽश्मश्रुव स्त्रियः
यत् सामिधेनीः संतन्वन्न् अन्वाह तस्माद् आसां संततम् इव शरीरं भवति
यत् सामिधेन्यः काष्ठहविषो भवन्ति तस्माद् आसाम् अस्थीनि दृढतराणीव भवन्ति
यत् प्रयाजा आज्यहविषो भवन्ति तस्माद् आसां प्रथमे वयसि रेतः सिक्तं न संभवति
यन् मध्ये हविषां दध्ना च पुरोडाशेन च प्रचरन्ति तस्माद् आसां मध्यमे वयसि रेतः सिक्तं संभवति
यद् अनुयाजा आज्यहविषो भवन्ति तस्माद् आसाम् उत्तमे वयसि रेतः सिक्तं न संभवति
यद् उत्तमे ऽनुयाजे सकृद् अपानिति तस्माद् इदं शिश्नम् उच्चश एति नीची पद्यते
यन् नापानेत् सकृच्छूनं स्यात्
यन् मुहुर् अपानेत् सकृत्पन्नं स्यात्
तस्मात् सकृद् अपानिति नेत् सकृच्छूनं स्यात् सकृत्पन्नं वेति ॥ ९ ॥
1.3.10
अथ ये पुरस्ताद् अष्टाव् आज्यभागाः पञ्च प्रयाजा द्वाव् आघारौ द्वाव् आज्यभागाव् आग्नेय आज्यभागानां प्रथमः सौम्यो द्वितीयो हविर्भागानाम्
हविर् ह्य् एव सौम्यम्
आग्नेयः पुरोडाशः
अग्नीषोमीयः पुरोडाशो ऽग्निः स्विष्टकृद् इत्य् एते मध्यतः पञ्च हविर्भागाः
अथ ये षट् प्राजापत्या इडा च प्राशित्रं च यच् चाग्नीध्रायावद्यति ब्रह्मभागो यजमानभागो ऽन्वाहार्य एव षष्ठः
अथ य उपरिष्टाद् अष्टाव् आज्यभागास् त्रयो ऽनुयाजाश् चत्वारः पत्नीसंयाजाः समिष्टयजुर् अष्टमम्
अथ या गायत्री हरिणी ज्योतिष्पक्षा सर्वैर् यज्ञैर् यजमानं स्वर्गं लोकम् अभिवहति वेदिर् एव सा
तस्य ये पुरस्ताद् अष्टाव् आज्याभागाः स दक्षिणः पक्षः
अथ य उपरिष्टाद् अष्टाव् आज्यभागाः स उत्तरः पक्षः [एद्. इपरिष्टाद्]
हवींष्य् आत्मा [एद्. हविंष्य्]
गार्हपत्यो जघनम्
आहवनीयः शिरः
सौवर्णराजतौ पक्षौ
तद् यद् आदित्यं पुरस्तात् पर्यन्तं न पश्यन्ति तस्माद् अज्योतिष्क उत्करो भवति
अथ या पङ्क्तिः पञ्चपदा सप्तदशाक्षरा सर्वैर् यज्ञैर् यजमानं स्वर्गं लोकम् अभिवहति याज्यैव सा
तस्या ओं श्रावयेति चतुरक्षरम्
अस्तु श्रौषद् इति चतुरक्षरम्
यजेति द्व्यक्षरम्
ये यजामह इति पञ्चाक्षरम्
द्व्यक्षरो वै वषट्कारः सैषा पङ्क्तिः
पञ्चपदा सप्तदशाक्षरा सर्वैर् यज्ञैर् यजमानं स्वर्गं लोकम् अभिवहति
तद् यत्रास्यैश्वर्यं स्याद् यत्र वैनम् अभिवहेयुर् एवंविदम् एव तत्र ब्रह्माणं वृणीयान् नानेवंविदम् इति ब्राह्मणम् ॥ १० ॥
1.3.11
अथ ह प्राचीनयोग्य आजगामाग्निहोत्रं भवन्तं पृच्छामि गौतमेति
पृच्छ प्राचीनयोग्येति
किंदेवत्यं ते गवीडायाम्
किंदेवत्यम् उपहूतायाम्
किंदेवत्यम् उपसृष्टायाम्
किंदेवत्यं वत्सम् उन्नीयमानम्
किंदेवत्यं वत्सम् उन्नीतम्
किंदेवत्यं दुह्यमानम्
किंदेवत्यं दुग्धम्
किंदेवत्यं प्रक्रम्यमाणम्
किंदेवत्यं ह्रियमाणम्
किंदेवत्यम् अधिश्रीयमाणम्
किंदेवत्यम् अधिश्रितम्
किंदेवत्यम् अभ्यवज्वाल्यमानम्
किंदेवत्यम् अभ्यवज्वालितम्
किंदेवत्यं समुद्वान्तम्
किंदेवत्यं विष्यण्णम्
किंदेवत्यम् अद्भिः प्रत्यानीतम्
किंदेवत्यम् उद्वास्यमानम्
किंदेवत्यम् उद्वासितम्
किंदेवत्यम् उन्नीयमानम्
किंदेवत्यम् उन्नीतम्
किंदेवत्यं प्रक्रम्यमाणम्
किंदेवत्यं ह्रियमाणम्
किंदेवत्यम् उपसाद्यमानम्
किंदेवत्यम् उपसादितम्
किंदेवत्या समित्
किंदेवत्यां प्रथमाम् आहुतिम् अहौषीः
किंदेवत्यं गार्हपत्यम् अवेक्षिष्ठाः
किंदेवत्योत्तराहुतिः
किंदेवत्यं हुत्वा स्रुचं त्रिर् उदञ्चम् उदनैषीः
किंदेवत्यं बर्हिषि स्रुचं निधायोन्मृज्योत्तरतः पाणी निरमार्क्षीः
किंदेवत्यं द्वितीयम् उन्मृज्य पित्र्युपवीतं कृत्वा दक्षिणतः पितृभ्यः स्वधाम् अकार्षीः
किंदेवत्यं प्रथमं प्राशीः
किंदेवत्यं द्वितीयम्
किंदेवत्यम् अन्ततः सर्वम् एव प्राशीः
किंदेवत्यम् अप्रक्षालितयोदकं स्रुचा न्यनैषीः
किंदेवत्यं प्रक्षालितया
किंदेवत्यम् अपरेणाहवनीयम् उदकं स्रुचा न्यनैषीः [एद्. उदक]
किंदेवत्यं स्रुवं स्रुचं च प्रत्यताप्सीः
किंदेवत्यं रात्रौ स्रुग्दण्डम् अवामार्क्षीः
किंदेवत्यं प्रातर् उदमार्क्षीर् इति
एतच् चेद् वेत्थ गौतम हुतं ते यद्य् उ न वेत्थाहुतं त इति ब्राह्मणम् ॥ ११ ॥
1.3.12
स होवाच रौद्रं मे गवीडयाम्
मानव्यम् उपहूतायाम्
वायव्यम् उपसृष्टायाम्
वैराजं वत्सम् उन्नीयमानम्
जागतम् उन्नीतम्
आश्विनं दुह्यमानम्
सौम्यं दुग्धम्
बार्हस्पत्यं प्रक्रम्यमाणम्
द्यावापृथिव्यं ह्रियमाणम् [एद्. ह्रियमानम्, चोर्र्. ড়त्यल्]
आग्नेयम् अधिश्रीयमाणम्
वैश्वानरीयम् अधिश्रितम्
वैष्णवम् अभ्यवज्वाल्यमानम्
मारुतम् अभ्यवज्वालितम्
पौष्णं समुद्वान्तम्
वारुणं विष्यन्नम्
सारस्वतम् अद्भिः प्रत्यानीतम्
त्वाष्ट्रम् उद्वास्यमानम्
धात्रम् उद्वासितम्
वैश्वदेवम् उन्नीयमानम्
सावित्रम् उन्नीतम्
बार्हस्पत्यं प्रक्रम्यमाणम्
द्यावापृथिव्यं ह्रियमाणम्
ऐन्द्रम् उपसाद्यमानम्
बलायोपसन्नम्
आग्नेयी समित्
यां प्रथमाम् आहुतिम् अहौषं माम् एव तत् स्वर्गे लोके ऽधाम्
यद् गार्हपत्यम् अवेक्षिषम् अस्य लोकस्य संतत्यै
प्राजापत्योत्तराहुतिस्
तस्मात् पूर्णतरा मनसैव सा
यद् धुत्वा स्रुचं त्रिर् उदञ्चम् उदनैषं रुद्रांस् तेनाप्रैषम्
यद् बर्हिषि स्रुचं निधायोन्मृज्योत्तरतः पाणी निरमार्क्षम् ओषधिवनस्पतींस् तेनाप्रैषम्
यद् द्वितीयम् उन्मृज्य पित्र्युपवीतं कृत्वा दक्षिणतः पितृभ्यः स्वधाम् अकार्षं पितॄंस् तेनाप्रैषम्
यत् प्रथमं प्राशिषं प्राणांस् तेनाप्रैषम्
यद् द्वितीयं गर्भांस् तेन
तस्माद् अनश्नन्तो गर्भा जीवन्ति
यद् अन्ततः सर्वम् एव प्राशिषं विश्वान् देवांस् तेनाप्रैषम्
यद् अप्रक्षालितयोदकं स्रुचा न्यनैषं सर्पेतरजनांस् तेनाप्रैषम्
यत् प्रक्षालितया सर्पपुण्यजनांस् तेन
यद् अपरेणाहवनीयम् उदकं स्रुचा न्यनैषं गन्धर्वाप्सरसस् तेनाप्रैषम्
यत् स्रुवं स्रुचं च प्रत्यताप्सं सप्तर्षींस् तेनाप्रैषम्
यद् रात्रौ स्रुग्दण्डम् अवामार्क्षं ये रात्रौ संविशन्ति दक्षिणांस् तान् उदनैषम्
यत् प्रातर् उदमार्क्षं ये प्रातः प्रव्रजन्ति दक्षिणांस् तानुदनैषम् इति ब्राह्मणम् ॥ १२ ॥
1.3.13
एवम् एवैतद् भो यथा भवान् आह
पृच्छामि त्वेव भवन्तम् इति
पृच्छ प्राचीनयोग्येति
यस्य सायम् अग्नय उपसमाहिताः स्युः सर्वे ज्वलयेयुः प्रक्षालितानि यज्ञपात्राण्य् उपसन्नानि स्युर् अथ चेद् दक्षिणाग्निर् उद्वायात् किं वा ततो भयम् आगच्छेद् इति
क्षिप्रम् अस्य पत्नी प्रैति यो ऽविद्वाञ् जुहोति
विद्यया त्वेवाहम् अभिजुहोमीति
का ते विद्या का प्रायश्चित्तिर् इति
गार्हपत्याद् अधि दक्षिणाग्निं प्रणीय प्राचो ऽङ्गारान् उद्धृत्य प्राणापानाभ्यं स्वाहेति जुहुयात्
अथ प्रातर् यथास्थानम् अग्नीन् उपसामधाय यथापुरं जुहुयात्
सा मे विद्या सा प्रायश्चित्तिर् इति
अथ चेद् आहवनीय उद्वायात् किं वा ततो भयम् आगच्छेद् इति
क्षिप्रम् अस्य पुत्रः प्रैति यो ऽविद्वाञ् जुहोति
विद्यया त्वेवाहम् अभिजुहोमीति
का ते विद्या का प्रायश्चित्तिर् इति
गार्हपत्याद् अध्य् आहवनीयं प्रणीय प्रतीचो ऽङ्गारान् उद्धृत्य समानव्यानाभ्यां स्वाहेति जुहुयात्
अथ प्रातर् यथास्थानम् अग्नीन् उपसमाधाय यथापुरं जुहुयात्
सा मे विद्या सा प्रायश्चित्तिर् इति
अथ चेद् गार्हपत्य उद्वायात् किं वा ततो भयम् आगच्छेद् इति
क्षिप्रं गृहपतिः प्रैति यो ऽविद्वाञ् जुहोति
विद्यया त्वेवाहम् अभिजुहोमीति
का ते विद्या का प्रायश्चित्तिर् इति
सभस्मकम् आहवनीयं दक्षिणेन दक्षिणाग्निं परिहृत्य गार्हपत्यस्यायतने प्रतिष्ठाप्य तत आहवनीयं प्रणीय उदीचो ऽङ्गारान् उद्धृत्योदानरूपाभ्यां स्वाहेति जुहुयात्
अथ प्रातर् यथास्थानम् अग्नीन् उपसमाधाय यथापुरं जुहुयात्
सा मे विद्या सा प्रायश्चित्तिर् इति
अथ चेत् सर्वे ऽग्नय उद्वायेयुः किं वा ततो भयम् आगच्छेद् इति
क्षिप्रं गृहपतिः सर्वज्यानिं जीयते यो ऽविद्वाञ् जुहोति
विद्यया त्वेवाहम् अभिजुहोमीति
का ते विद्या का प्रायश्चित्तिर् इति
आनडुहेन शकृत्पिण्डेनाग्न्यायतनानि परिलिप्य होम्यम् उपसाद्याग्निं निर्मथ्य प्राणापानाभ्यां स्वाहा समानव्यानाभ्यां स्वाहोदानरूपाभ्यां स्वाहेति जुहुयात्
अथ प्रातर् यथास्थानम् अग्नीन् उपसमाधाय यथापुरं जुहुयात्
सा मे विद्या सा प्रायश्चित्तिर् इति
अथ चेन् नाग्निं जनयितुं शक्नुयुर् न कुतश् चन वातो वायात् किं वा ततो भयम् आगच्छेद् इति
मोघम् अस्वेष्टं च हुतं च भवति यो ऽविद्वाञ् जुहोति
विद्यया त्वेवाहम् अभिजुहोमीति
का ते विद्या का प्रायश्चित्तिर् इति
आनडुहेनैव शकृत्पिण्डेनाग्न्यायतनानि परिलिप्य होम्यम् उपसाद्य <वात आ वातु भेषजम् [पैसं १९.४६.७-९]> इति सूक्तेनात्मन्य् एव जुहुयात्
अथ प्रातर् अग्निं निर्मथ्य यथास्थानम् अग्नीन् उपसमाधाय यथापुरं जुहुयात्
सा मे विद्या सा प्रायश्चित्तिर् इति ब्राह्मणम् ॥ १३ ॥
1.3.14
एवम् एवैतद् भो भगवन् यथा भवान् आह
उपयामि त्वेव भवन्तम् इति
एवं चेन् नावक्ष्यो मूर्धा ते व्यपतिष्यद् इति
हन्त तु ते तद् वक्ष्यामि यथा ते न विपतिष्यतीति
यो ह वा एवंविद्वान् अश्नाति च पिबति च वाक् तेन तृप्यति
वाचि तृप्तायाम् अग्निस् तृप्यति
अग्नौ तृप्ते पृथिवी तृप्यति
पृथिव्यां तृप्तायां यानि पृथिव्यां भूतान्य् अन्वायत्तानि तानि तृप्यन्ति
यो ह वा एवंविद्वान् अश्नाति च पिबति च प्राणस् तेन तृप्यति
प्राणे तृप्ते वायुस् तृप्यति [एद्. प्रणे]
वायौ तृप्ते ऽन्तरिक्षं तृप्यति
अन्तरिक्षे तृप्ते यान्य् अन्तरिक्षे भूतान्य् अन्वायत्तानि तानि तृप्यन्ति
यो ह वा एवंविद्वान् अश्नाति च पिबति च चक्षुस् तेन तृप्यति
चक्षुषि तृप्त आदित्यस् तृप्यति
आदित्ये तृप्ते द्यौस् तृप्यति
दिवि तृप्तायां यानि दिवि भूतान्य् अन्वायत्तानि तानि तृप्यन्ति
यो ह वा एवंविद्वान् अश्नाति च पिबति च मनस् तेन तृप्यति
मनसि तृप्ते चन्द्रमास् तृप्यति
चन्द्रमसि तृप्त आपस् तृप्यन्ति
अप्सु तृप्तासु यान्य् अप्सु भूतान्य् अन्वायत्तानि तानि तृप्यन्ति
यो ह वा एवंविद्वान् अश्नाति च पिबति च श्रोत्रं तेन तृप्यति
श्रोत्रे तृप्ते दिशश् चान्तर्देशाश् च तृप्यन्ति
दिक्षु चान्तर्देशेषु च तृप्तेषु यानि दिक्षु चान्तर्देशेषु च भूतान्य् अन्वायत्तानि तानि तृप्यन्ति
यो ह वा एवंविद्वान् अश्नाति च पिबति च तस्यायम् एव दक्षिणः पाणिर् जुहूः
सव्य उपभृत्
कण्ठो ध्रुवा
अन्नं हविः
प्राणा ज्योतींषि
सदेष्टं सदा हुतं सदाशितं पायितम् अग्निहोत्रं भवति य एवं वेद यश् चैवंविद्वान् अग्निहोत्रं जुहोतीति ब्राह्मणम् ॥ १४ ॥
1.3.15
प्रियमेधा ह वै भरद्वाजा यज्ञविदो मन्यमानास्
ते ह स्म न कञ् चन वेदविदम् उपयन्ति
ते सर्वम् अविदुस्
ते सहैवाविदुस्
ते ऽग्निहोत्र एव न समवदन्त
तेषाम् एकः सकृद् अग्निहोत्रम् अजुहोद् द्विर् एकस् त्रिर् एकस्
तेषां यः सकृद् अग्निहोत्रम् अजुहोत् तम् इतराव् अपृच्छतां कस्मै त्वं जुहोषीति
एकधा वा इदं सर्वं प्रजापतिः
प्रजापतय एवाहं सायं जुहोमीति प्रजापतये प्रातर् इति
तेषां यो द्विर् अजुहोत् तम् इतराव् अपृच्छतां काभ्यां त्वं जुहोषीति
अग्नये प्रजापतय इति सायं सूर्याय प्रजापतय इति प्रातस्
तेषां यस् त्रिर् अजुहोत् तम् इतराव् अपृच्छतां केभ्यस् त्वं जुहोषीत्य् अग्नये प्रजापतये ऽनुमतय इति सायं सूर्याय प्रजापतये ऽग्नये स्विष्टकृत इति प्रातस्
तेषां यो द्विर् अजुहोत् स आर्ध्नोत्
स भूयिष्ठो ऽभवत्
प्रजया चेतरौ श्रिया चेतराव् अत्याक्रामत्
तस्य ह प्रजाम् इतरयोः प्रजे सजातत्वम् उपैताम्
तस्माद् द्विर् होतव्यं यजुषा चैव मनसा च
याम् एव स ऋद्धिम् आर्ध्नोत् ताम् ऋध्नोति य एवं वेद यश् चैवंविद्वान् अग्निहोत्रं जुहोतीति ब्राह्मणम् ॥ १५ ॥
1.3.16
स्वाहा वै कुतः संभूता
केन प्रकृता
किं वास्या गोत्रम्
कत्य् अक्षरा
कति पदा
कति वर्णा
किं पूर्वावसाना
क्व चित् स्थिता
किम् अधिष्ठाना
ब्रूहि स्वाहाया यद् दैवतं रूपं च
स्वाहा वै सत्यसंभूता
ब्रह्मणा प्रकृता
लामगायनसगोत्रा
द्वे अक्षरे
एकं पदम्
त्रयश् च वर्णाः शुक्लः पद्मः सुवर्ण इति
सर्वच्छन्दसां वेदेषु समासभूतैकोच्छ्वासा वर्णान्ते चत्वारो वेदाः शरीरे [एद्. समासभुत्-, चोर्र्. ড়त्यल्]
षडङ्गान्य् ओषधिवनस्पतयो लोमानि
चक्षुषी सूर्याचन्द्रमसौ
सा स्वाहा सा स्वधा यज्ञेषु वषट्कारभूता प्रयुज्यते
तस्या अग्निर् दैवतम्
ब्राह्मणो रूपम् इति ब्राह्मणम् ॥ १६ ॥
1.3.17
अथापि कारवो ह नाम ऋषयो ऽल्पस्वा आसन्
त इमम् एकगुम् अग्निष्टोमं ददृशुस्
तम् आहरन्
तेनायजन्त
ते स्वर् ययुः
स य इच्छेत् स्वर् इयाम् इति स एतेनैकगुनाग्निष्टोमेन यजेतेति ब्राह्मणम् ॥ १७ ॥
1.3.18
अथातः सवनीयस्य पशोर् विभागं व्याख्यास्यामः
उद्धृत्यावदानानि हनू सजिह्वे प्रस्तोतुः
कण्ठः सकाकुद्रः प्रतिहर्तुः
श्येनं वक्ष उद्गातुः
दक्षिणं पार्श्वं सांसम् अध्वर्योः
सव्यम् उपगातॄणाम्
सव्यो ऽंसः प्रतिप्रस्थातुः
दक्षिणा श्रोणिरथ्यास्त्री ब्रह्मणः
अवरसक्थं ब्राह्मणाच्छंसिनः
ऊरुः पोतुः
सव्या श्रोणिर् होतुः
अवरसक्थं मैत्रावरुणस्य
अरुर् अच्छावाकस्य
दक्षिणा दोर् नेष्टुः
सव्या सदस्यस्य
सदं चानूकं च गृहपतेः
जाघनी पत्न्यास्
तां सा ब्राह्मणेन प्रतिग्राहयति
वनिष्ठुर् हृदयं वृक्कौ चाङ्गुल्यानि दक्षिणो बाहुर् आग्नीध्रस्य
सव्य आत्रेयस्य
दक्षिणौ पादौ गृहपतेर् व्रतप्रदस्य
सव्यौ पादौ गृहपत्न्याः व्रतप्रदायाः
सहैवैनयोर् ओष्ठस्
तं गृहपतिर् एवानुशिनष्टि
मणिकाश् च स्कन्ध्यास् तिस्रश् च कीकसा ग्रावस्तुतस्
तिस्रश् चैव कीकसा अर्धं चापानस्योन्नेतुः
अत ऊर्ध्वं चमसाध्वर्यूणां क्लोमा शमयितुः
शिरः सुब्रह्मण्यस्य
यः श्वःसुत्याम् आह्वयते तस्य चर्म
तथा खलु षट्त्रिंशत् सम्पद्यन्ते
षट्त्रिंशदवदाना गौः
षट्त्रिंशदक्षरा बृहती
बार्हतो वै स्वर्गो लोकः
बृहत्या वै देवाः स्वर्गे लोके यजन्ते
बृहत्या स्वर्गे लोके प्रतितिष्ठन्ति
प्रतितिष्ठन्ति प्रजया पशुभिर् य एवं विभजन्ते
अथ यद् अतो ऽन्यथाशीलिको वा पापकृतो वा हुतादो वान्यजना वा विमथ्नीरन्न् एवम् एवैषां पशुर् विमथतो भवत्य् अस्वर्ग्यः
देवभाजो ह वा इमं श्रुतऋषिः पशोर् विभागं विदां चकार
तम् उ गिरिजाय बाभ्रव्यायान्यो मनुष्येभ्यः प्रोवाच
ततो ऽयम् अर्वाङ् मनुष्येष्व् आसीद् इति ब्राह्मणम् ॥ १८ ॥ [एद्. मनुष्येस्व्]
1.3.19
अथातो दीक्षा
कस्य स्विद् धेतोर् दीक्षित इत्याचक्षते
श्रेष्ठां धियं क्षियतीति
तं वा एतं धीक्षितं सन्तं दीक्षित इत्य् आचक्षते परोक्षेण
परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः
कस्य स्विद् धेतोर् दीक्षितो ऽप्रत्युत्थायिको भवत्य् अनभिवादुकः प्रत्युत्थेयो ऽभिवाद्यः
ये प्रत्युत्थेया अभिवाद्यास् त एनम् आविष्टा भवन्त्य् अथर्वाङ्गिरसस्
तस्य किम् आथर्वणम् इति
यद् आत्मन्य् एव जुह्वति न परस्मिन्
एवं हाथर्वणानाम् ओदनसवानाम् आत्मन्य् एव जुह्वति न परस्मिन् [एद्. अदनसवानाम्, चोर्र्. ড়त्यल्]
अथास्य किम् आङ्गिरसम् इति
यद् आत्मनश् च परेषां च नामानि न गृह्णात्य् एवं ह तस्मिन्नासाद् आत्मनश् चैव परेषां च नामानि न गृह्यन्ते
विचक्षणवतीं वाचं भाषन्ते चनसितवतीम्
विचक्षयन्ति ब्राह्मणं चनसयन्ति प्राजापत्यम्
सैषा व्रतधुग् अथर्वाङ्गिरसस्
तां ह्य् अन्वायत्ताः
कस्य स्विद् धेतोर् दीक्षितो ऽनाश्यन्नो भवति नास्य नाम गृह्णन्ति
अन्नस्थो नामस्थो भवतीत्य् आहुस् तस्य ये ऽन्नम् अदन्ति ते ऽस्य पाप्मानम् अदन्ति
अथास्य ये नाम गृह्णन्ति ते ऽस्य नाम्नः पाप्मानम् अपाघ्नते
अथापि वेदानां गर्भभूतो भवतीत्य् आहुस्
तस्याजातस्याविज्ञातस्याक्रीतसोमस्याभोजनीयं भवतीत्य् आहुः
स दीक्षाणां प्रातर् जायते सोमं क्रीणन्ति तस्य जातस्य विज्ञातस्य क्रीतसोमस्य भोजनीयं भवतीत्य् आहुः
कस्य स्विद् धेतोः संसवा परिजिहीर्षिता भवन्ति
यतरो वीर्यवत्तरो भवति स परस्य यज्ञं परिमुष्णाति
कस्य स्विद् धेतोर् दैवे न ध्यायेत् संस्थिते नाधीयीतेति
संसवस्यैव हेतोर् इति
विद्योतमाने स्तनयत्य् अथो वर्षति वायव्यम् अभिषुण्वन्ति वै देवाः सोमं च भक्षयन्ति
तद् अभिषुण्वन्ति ब्राह्मणाः शुश्रुवांसो ऽनूचानास्
तेषां सर्वरसभक्षाः पितृपितामहा भवन्ति
स दैवे न ध्यायेत् संस्थिते नाधीयीतेति ब्राह्मणम् ॥ १९ ॥
1.3.20
समावृत्ता आचार्या निषेदुस्
तान् ह यज्ञो दीक्षिष्यमाणान् ब्राह्मणरूपं कृत्वोपोदेयाय
इत्थं चेद् वो ऽपसमवत्सुर् हन्त वो ऽहं मध्ये दीक्षा इति [एद्. ऽपसमवत्सुर्, ড়त्यल् प्रोपोसेस् अपसमवतस्थुर्, एद्. दिक्षा]
त ऊचुर् नैव त्वा विद्म न जानीमः
को हीदविज्ञायमानेन सह दीक्षिष्यतीति
यन् न्व् इदं दीक्षिष्यध्वे भूयो न दीक्षिष्यध्वे
अथ वा उ एवं दीक्षयिष्यथ सं वै तर्हि मोहिष्यथ
मोहिष्यति वो यज्ञः सर्वे ते दीक्षयिष्यथेति
अथ वा उ एकं दीक्षयिष्यथ ते वा अहीनर्त्विजो गृहपतयो भविष्यथ
ते तूष्णीं ध्यायन्त आसां चक्रिरे
स होवाच किं नु तूष्णीम् आध्वे
भूयो वः पृच्छामः
पृच्छतेति यन् न्व् इदं दीक्षिष्यध्व उपमे एतस्मिन् संवत्सरे मिथुनं चरिष्यथ नोपैष्यथेति [ড়त्यल् fइन्द्स् उपमय् एतस्मिन् इन् त्wओ BOऋई म्स्स्. अन्द् प्रोपोसेस् तो अच्चेप्त् थिसे रेअदिन्ग्]
धिग् इति होचुः
कथं न दीक्षिता उपैष्यामो नोपैष्यामहा इति
ते वै ब्राह्मणानाम् अभिमन्तारो भविष्यथ
रेतो ह वो य एतस्मिन् संवत्सरे ब्राह्मणास् तद् अभविष्यंस् ते बोधिमता भविष्यथेति
अथ वा उपेष्यामो नोपेष्यामहा इति
ते वै दीक्षिता अवकीर्णिनो भविष्यथ
न ह वै देवयानः पन्था प्रादुर् भविष्यतीति
तिरो वै देवयानः पन्था भविष्यतीति
ते वयं भगवन्तम् एवोपधावाम यथा स्वस्ति संवत्सरस्योदृचं समश्नवामहा इति ब्राह्मणम् ॥ २० ॥
1.3.21
स होवाच द्वादश ह वै वसूनि दीक्षिताद् उत्क्रामन्ति
न ह वै दीक्षितो ऽग्निहोत्रं जुहुयात्
न पौर्णमासेन यज्ञेन यजेत
नामावास्येन
अस्मिन् वसीत
न पितृयज्ञेन यजेत
न तत्र गच्छेद् यत्र मनसा जिगमिषेत्
नेष्ट्या यजेत
न वाचा यथाकथा चिद् अभिभाषेत
न मिथुनं चरेत्
नान्नास्य यथाकामम् उपयुञ्जीत
न पशुबन्धेन यज्ञेन यजेत
न तत्र गच्छेद् यत्र चक्षुषा परापश्येत्
कृष्णाजिनं वसीत
कुरीरं धारयेत्
मुष्टी कुर्यात्
अङ्गुष्ठप्रभृतयस् तिस्र उच्छ्रयेत्
मृगशृङ्गं गृह्णीयात्
तेन कषेत
अथ यस्य दीक्षितस्य वाग् वायता स्यान् मुष्टी वा विसृष्टौ स एतानि जपेत् ॥ २१ ॥
1.3.22
अग्निहोत्रं च मा पौर्णमासश् च यज्ञः पुरस्तात् प्रत्यञ्चम् उभौ कामप्रौ भूत्वा क्षित्या सहाविशताम्
वसतिश् च मामावास्यश् च यज्ञः पश्चात् प्राञ्चम् उभाव् इति समानम्
मनश् च मा पितृयज्ञश् च यज्ञो दक्षिणत उदञ्चम् उभाव् इति समानम्
वाक् च मेष्टिश् चोत्तरतो दक्षिणाञ्चम् उभाव् इति समानम्
रेतश् च मान्नं चेत ऊर्ध्वम् उभाव् इति समानम्
चक्षुश् च मा पशुबन्धश् च यज्ञो ऽमुतो ऽर्वाञ्चम् उभौ कामप्रौ भूत्वाक्षित्या सहाविशताम् इति खलु ह वै दीक्षितो य आत्मनि वसूनि धत्ते न चैवास्य का चनार्तिर् भवति न च यज्ञविष्कन्धम् उपयात्य् अपहन्ति पुनर्मृत्युम्
अपात्येति पुनराजातिम्
कामचारो ऽस्य सर्वेषु लोकेषु भाति य एवं वेद यश् चैवंविद्वान् दीक्षाम् उपैतीति ब्राह्मणम् ॥ २२ ॥
1.3.23
अथ यस्य दीक्षितस्यर्तुमती जाया स्यात् प्रतिस्नावा प्रतिस्नावा सरूपवत्साया गोः पयसि स्थालीपाकं श्रपयित्वाभिघार्योद्वास्योद्धृत्याभिहिंकृत्य गर्भवेदनपुंसवनैः संपातवन्तं कृत्वा तं परैव प्राश्नीयात्
रेतो वा अन्नम्
वृषा हिंकारः
एवं हीश्वरा या दीक्षिताय दीक्षिता जाया पुत्रं लभेतेति
एतेनैव प्रक्रमेण यजेतेति ब्राह्मणम् ॥ २३ ॥

ल्इत्य् अथर्ववेदे गोपथब्राह्मणपूर्वभागे तृतीयः प्रपाठकः ॥