पैप्पलादसंहिता/काण्डम् १९
उनविंशति काण्ड: अथर्वण वेद: पैप्पलादसंहिता
अथ त्र्यृचनाम ऊनविंशति काण्डः
19.1
दोषो गाय बृहद् गाय द्युमद् गाय आथर्वण ।
स्तुहि देवं सवितारम् ।।१।।
तमु स्तुहि यो अन्तः सिन्धुं सूनुं सत्यस्य युवानम् ।
अद्रोघवाचं सुशेवम् ।।२।।
स घा नो देवः सविता साविषद् वसुपतिर्वसूनि ।
उभे सुष्टुती सुगातुम् ।। ३ ।।
इन्द्राय सोममृत्विजः सुनोतु नाव धावत ।
स्तोतुर्यो हवं श्रृणवद्धवं च न: ।। ४ । ।
सुनोता सोमपाव्ने सोममिन्द्राय वजिणे । पाब्ने
युवा जेतेशानः स पुरुष्टुतः ।।५ ।।
आ त्वा विशन्त्वीन्दवो वयो न वृक्षमन्धस: ।
विरप्शिन् वि मृधो जहि रक्षस्विनीः ।। ६ । ।
आरे ऽसावस्मदस्तु हेतिर्देवासो असत् ।
आरे मर्त्तानामशस्तिः ।।७ ।।
सखैव नो रातिरस्तु सखेन्द्र: सखा सविता ।
सखा भगः सत्य धर्मा नो अस्तु ।।८ ।।
अभि नो देवीरवसा महश्शर्मणा नृपत्नी: ।
अच्छिन्नपत्राः सचन्ताम् ।।९।।
इडे अग्निं भवं शर्वं रक्ष उपब्जदहिं । व्जदहिं
बलासमुत सेधिमुग्राम् ।। १० ।।
आरे अस्मद् दधते दैव्यं भयं सुवीर्यम् ।
मरुत: शर्म यच्छत ।।११।।
ईडे द्यावापृथिवी पर्वता अपश्च सूर्यमुर्वन्तरिक्षम् ।
वनस्पतीनोषधीर्गा उतर्च ऋतस्य नः पतयो मृडयन्तु ।। १२ ।।
हुवे विष्णुं पूषणं ब्रह्मणस्पतिं भगं नु शंसं सवितारमूतये।
इह सोमो वरुणो वायुरग्निर्भग उग्रा अवसे नो गमन्तु ।।१३।।
पातं न इन्द्रापूषणा वरुणः पान्तु मरुत: ।
अपां नपात् सिन्धवः सप्त पातन पातु नो विष्णुरुत द्यौः ।।१४।।
पातां नो द्यावापृथिवी अभिष्टये पातु ग्रावा पातु सोमो नो अंहसः ।
पातु नो देवी सुहवा सरस्वती पात्वग्निर्ये शिवा अस्य पायवः ।।१५।
पातां नो देवाश्विना सुदंससोषासानक्तोत न उरुष्यताम् ।
अपां नपादविह्वृती कयस्य तच्चिद्देवो मूर्धं नदिते शर्म यच्छ नः ।।१६।।
19.2
त्वष्टा मे दैव्यं वचः पर्यन्यो ब्रह्मणस्पतिः ।
पुत्रैर्भ्रातृभिरदितिर्नु पातु नो दुष्टरं त्रामणे शवः ।। १ ।।
अंशो भगो वरुणो मित्रो अर्यमादितिः पात्वंहसः ।
अप तस्य द्वेषो गमेदविहृतो यावयच्छत्रुमन्तितम् ।। २ ।।
देवत्वष्टर्वर्धय सर्वतातये धिये समुश्रिये प्रावतां नः ।
उरुष्या न उरुतरः प्रयुच्छन् द्यौष्पितर्यावय दुच्छुनामितः ।।३।।
यो नो वचो ऽभिरुदति सनाभिस्तं नः सोम पलिता अप यन्ति ।
नीचैस्तान् वृश्चन् यथा विरुक्षन् मा ते दृशन् सूर्यमुच्चरन्तम्।।४।।
त्वयेष्टया त्वया सोम धन्वना त्वया मुष्टिघ्ना शाशद्महे वयम्।
तं त्वा वृश्च य इदं न आदृशा कत्वं ह नामदण्डै रुदितं सनाभिः ।।५।।
पदेन तान् पदव्य नयन्तु वधैरेनान् पितरो दोषयन्तु ।
यथा न जीवाति कतमश्चनैषाम् ।। ६ ।।
येन समादितिः पथा मित्रा वा यन्त्यद्रुहः । ।
तेना नोविता भुवः ।।७।।
यो नः सोम सुशंसिनो दु:शंसो अभिदासति ।
वज्रेणास्य मुखे जहि स संपिष्टो अपायति ।।८।।
यो नः सोमाभिदासति सनाभिर्यश्च निष्ट्य: ।
अप तस्य बलं तिर महीव द्यौर्वधत्मना ।। ९ ।।
पुनरघमघकृतमेतु देवा: पुनरेनै नमस्कृतं विजानत् ।
पुनः पुत्र: पितरमेतु विद्वान् हुतमुताद्यदस्यश्वमस्ति ।। १o ! !
येन चासौ शपति येन चैनं शपामसि ।
उभौ सं वृज्यतौ तस्मादन्तिकाद्धेतिमस्यताम् ।। ११ । ।
ये पार्थिवास: शपथा य उरावन्तरिक्षे ।
ये वातस्य प्रभर्मणि तेभिष्टं वर्त्तयामसि यो ऽस्मान् द्वेष्टि यं वयम् दिष्म: ।।१२ ।।
योस्मान् परि मा सृप: कुल्लिपयानि बिभ्रत: ।
उद्देवस्तेषां वृश्चतु मूलमुर्वावा यथा ।१३।।
यो देवा अघधामघमन्यस्मिन्नशे संगति ।
भारो अघस्य दुःसह प्रत्यक् कर्त्तारमृच्छतु।।१४।।
पुनरेवाघधामघं द्युम्नमिवैतु वर्षतु।
आदित्या दुर्यमाहिषी महीं सिन्धोरिवावनिः ।।१५।।
19.3
शश्वद् विद्युत् क्रीयमाणा प्रतीचीन हि पप्त च ।
प्रत्यक् कर्तारमृच्छतु ।।१ ।।
शश्वन्तमिच्छसदानमन्यस्मा ईषूर्दिहानम् ।
प्रतीचीः शरुर्ऋच्छतु ।। २ ।।
यदेतद्भूरिशासद प्रतीचीनमुपोहसे ।
विषादिव विषमद्धि तत् ।३।
नमस्ते प्रवतो नपाद्यतस्तप: समूहसे ।
मृडया नस्तनूभ्य: शं नस्तोकेभ्यष्कृधि ।४।।
प्रवतो नपान्नमो अस्तु तुभ्यं नमस्ते हेतये तपुष्यै: ।
विद्म ते धाम परमं गुहा यत् समुद्रे अन्तर्निहितासि नाभिः ।।५ ।।
यां त्वा देवा अजनयन्त विश्व इषुं कृण्वाना असनाय धृष्णुम् ।
सा नो मृड विदथे गृणाना मित्रस्य च वरुणस्य प्रसृष्टौ ।।६।।
यूयं नः प्रवतो नपान् मरुतः सूर्यत्वचसः ।
शर्म यच्छाथ सप्रथाः ।।७ ।।
सुमृडत सुषूदत मृडया नो अघ्नाभ्यः ।
स्तोकाय तन्वे च ।।८ ।।
नमस्ते अस्तु विद्युते नमस्ते स्तनयित्नवे ।
नमस्ते अस्त्वश्मने येना दूडाशे अस्यसि ।।९।।
यो ऽस्मान् ब्रह्मणस्पते देवो अभिदासति ।
सर्वं तं रीरधासि न: ।। १० । ।
येभिः सोमः साहन्त्यासुरान् रन्धयासि ।
तेभिर्नोविता भुव: ।। ११ ।।
येन देवा असुराणामोजांस्यवृष्णीध्वम् ।
तेभिर्नो अधि वोचत । १२ ।
उदेनमुत्तरं नयाग्ने घृतेभिराहुत: ।
समेनं वर्चसा सृज देवानां भागधा असत् ।। १३ ।।
इन्द्रेमं प्रतरं कृधि सजातानामसद् वशी ।
रायस्पोषेण सं सृज प्रजया च बहुं कृधि ।।१४।।
यस्य कृण्मो गृहे हविस्तमग्ने वर्धया त्वम् ।
तस्मै सोमो अधि ब्रवदयं च ब्रह्मणस्पतिः ।। १५ ।।
19.4
ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिम् ।
अजस्रं घर्ममीमहे ।१।
स इदं प्रति यः पृथग् यज्ञस्य स्वरुत्तिरन् ।
ऋतूंरुत् सूजते वशी ।२।
अग्निः प्रियेषु धामसु कामो भूतस्य भव्यस्य !
सम्राडेको वि राजति ।३ ।
परि द्यामिव सूर्योहीना जनिमागमम् ।
रात्री जगदिवान्यद्धंसादवारीरिमं विषम् ।। ४ ।।
यद् ब्रह्मभिर्यदृषिभिर्यद् देवैरुदितं पुरा ।
यद् भूतं भव्यमासन्वत् तेन ते वारये विषम् ।। ५ ।।
मधुना पृञ्चे नद्यः पर्वता गिरयो मधु ।
मधु परुष्णी शीपाला शमास्ने अस्तु शं हृदे ।।६।।
यथेयमूर्वी पृथिवी दाधार विष्टितं जगत् ।
एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे ।।७।।
यथेयमूर्वी पृथिवी दाधारेमान् वनस्पतीन् ।
एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे ।।८।।
यथेयमूर्वी पृथिवी दाधार पर्वताङ् अपः ।
एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे ।।९।।
सस्रुषीस्तदपसो दिवा नक्तं च सस्रुषीः ।
वरेण्यक्रतुरहमपो देवीरुप ब्रुवे ।।१०।।
ओता आप: कर्मण्या मुञ्चन्त्वित: प्रणीतये ।
सद्यो भवन्त्वेतवे ।।११।।
देवस्य सवितुः सवे कर्म कृण्वन्ति मानुषा: ।
शं नो भवन्त्वप ओषधीरिमा: ।।१२।।
शतस्य ते धमनीनां सहस्रस्य हिराणाम् ।
अस्थुर्मध्यमा याः साकमन्ता अरंसत ।। १३ । ।
परि वः सिकतामयी धनूस्थिराश्चिदस्थिरम् ।
तिष्ठतेलयता सु कम् ।। १४ । ।
अमूर्या यन्ति यामयः सर्वा लोहितवाससः ।
अभ्रातर इव योषितस्तिष्ठन्ति हतवर्चसः । । १५ । ।
तिष्ठावरे तिष्ठ पर उत त्वं तिष्ठ मध्यमे ।
कनिष्ठिका च तिष्ठाति तिष्ठादिद्धमनिर्मही ।। १६ ।।
(इत्यृचनाम ऊनविंशतिकाण्डे प्रथमोऽनुवाकः.}
19.5
नमो देववधेभ्यो नमो राजवधेभ्यः ।
अथो ये विश्यानां वधास्तेभ्यो मृत्यो नमो ऽस्तु ते ।।१ ।।
नमस्ते अधिवाकाय परावाकाय ते नम: ।
सुमत्यै मृत्यो ते नमो दुर्मत्यै त इदं नमः ।।२ ।। ईदं
नमस्ते यातुधानेभ्यो नमस्ते भेषजेभ्यः ।
मूलेभ्यो मृत्यो ते नमो ब्राह्मणेभ्य ईदं नमः ।३।
नव च या नवतिश्च संयन्ति मन्या अभि ।
इतस्ताः सर्वा नश्यन्तु वाका अपचितामिव ।। ४ ।। ईत
सप्त च या: सप्ततिश्च संयन्ति स्कन्ध्या अभि ।
इतस्ताः सर्वा नश्यन्तु वाका अपचितामिव ।। ५ ।। ईत
पञ्च च याः पञ्चाशच्च संयन्ति ग्रैव्या अभि ।
इतस्ता: सर्वा नश्यन्तु वाका अपचितामिव ।। ६ ।। ईत
आबयो अनाबयो रसस्त उग्र आबयो ।
आ ते करम्भमद् इमहि ।।७।।
स हि न त्वमसि यस्त्वमात्मानमावय: । माब
बभ्रुश्च बभ्रुकर्णश्च नीलागलसालाः शिवः पश्य ।।८ ।।
तौ विलिकेवेलयावायमैलब ऐलयीत् ।
वीहि स्वामाहुतिं जुषाणो मनसा स्वाहा ।।९।।
स्वाहा मनसा यदिदं कृणोमि यस्यास्त आसनि जुहोमि घोरे ।
एषां बद्धानामवसर्जनाय कम् ।। १o ।।
भूमिरिति त्वाभिप्रमन्वते जना निर्ऋतिरिति त्वाहं परि वेद विश्वत: ।
भूते हविष्मत्यस्यैष ते भागस्तेन ते विधेयं स्वाहा ।।११ ।।
एवो ष्वस्मत्त्वं निर्ऋते विश्ववारे अयस्मयान् प्र मुमुग्धि पाशान् ।
यमेन त्वं यम्या संविदानो यो ऽस्मान् द्वेष्टि यं वयं द्विष्म स्तस्मिन् तान् पाशान् प्रति मुञ्चन्तु सर्वान् । १२।
उत्तमो अस्योषधीनां तव वृक्षा उपस्तय: ।
उपस्तिरस्माकं भूयाद् यो अस्माङ् अभिदासति।।१३ ।।
सबन्धुश्चासबन्धुश्च यो अस्माङ् अभिदासति।
सबन्धून् सर्वांस्तीर्त्वाहं भूयासमुत्तमः ।। १४ ।। बन्धु
यथा सोम ओषधीनामुत्तमं हविरुच्यते ।
एवा त्वमिव वृक्षाणामहं भूयासमुत्तमः ।। १५ ।।
19.6
वरणो वारयाता अयं देवो वनस्पतिः ।
यक्ष्मो यो अस्मिन्नाविष्टस्तमु देवा अवीवरन् । १ ।।
इन्द्रस्य वचसा वयं मित्रस्य वरुणस्य च ।
देवानां सर्वेषां वाचा यक्ष्मं ते वारयामहे । २ ।।
यथा वृत्र इमा आपस्तस्तम्भ विश्वधा यतीः ।
एवा ते अग्निना यक्ष्मं वैश्वानरेण वारये । ३ । ।
ध्रुवं ध्रुवेण हविषाभि सोमं मृशामसि ।
अत्रा त इन्द्र: केवलीर्विशो बलिहृतस्करत् । ४ ।। केबली
आ त्चाहार्षमन्तरभूर्युवस्तिष्ठाविचाचलत् ।
विशस्त्वा सर्वा आ यन्तु मा त्वद्राष्ट्रमधि भ्रशत् । ५ ।
इहैवैधि माप च्योष्ठा: पर्वत इवाविचाचलि ।
इन्द्रेह ध्रुवस्तिष्ठेह राष्ट्रं नि धारय । ६ ।
इन्द्र एतमदीधरद् ध्रुवं ध्रुवेण हविषा ।
तस्मै सोमो अधि ब्रवदयं च ब्रह्मणस्पतिः ।। ७ ।।
ध्रुवं ते देव: सविता ध्रुवं देवो बृहस्पतिः ।
ध्रुवं त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां ध्रुवम् ।। ८ ।।
ध्रुवा द्यौर्ध्रुवा पृथिवी समुद्राः पर्वता ध्रुवाः ।
देवा ह धर्मणा ध्रुवा ध्रुवो राजा विशामयम् । ९ ।
वृषेन्द्रस्य वृषा दिवो वृषा पृथिव्या अयम् ।
वृषा विश्वस्य भूतस्य त्वमेको वृषो भव । १० ।
समुद्र ईशे स्रवतामग्निः पृथिव्या वशी ।
सूर्यो नक्षत्राणामीशे त्वमेकवृषो भव । ११ ।
सम्राडस्यसुराणां ककुन्मनुष्याणाम् ।
देवानामर्थभागसि त्वमेको वृषो भव । १२ । ।
परि वर्त्मान्येषामिन्द्रः पूषा चं सस्त्रतुः ।
मुह्यन्त्वद्यामूः सेना अमित्राणां परस्तराम् ।। १३ । ।
मुग्धा अमित्राश्चरत आशीर्षाण इवाहय: ।
अथैषामग्निरुद्धानामिन्द्रो हन्तु वरंवरम् ।। १४ ।।
ऐषु नह्य वृषाजिनं हरिणस्य भियं कृधि ।
पराङ् अमित्र एषत्वर्वाची गौरुपेषतु ।। १५ ।।
19.7
संसमिद्युवसे वृषन्नग्ने विश्वान्यर्य आ ।
इडस्पदे समिध्यसे स नो वसून्या भर ।। १ ।।
सं जानीध्वं सं पृच्यध्वं सं वो मनांसि जानताम् ।
देवा भागं यथा पूर्वे संजानाना उपासते । २ ।।
समानो मन्त्र: समिति: समानी समानं चित्तं सह वो मनांसि ।
समानेन वो हविषा जुहोमि यथा संमनसो स थ ।३।
समानो मन्त्रः समितिः समानी समानं मन: सह चित्तमेषाम् ।
समानं मन्त्रमभिमन्त्रये व: समानमेषां हविषा जुहोमि ।॥४ ।।
उत् सूर्यो दिव एति पुरो विश्वा निजूर्वन् ।
आदित्यः पर्वताङ् अभि विश्वदृष्टो अदृष्टहा । ५ ।
आयुर्विदं विपश्चितं श्रुतां कण्वस्य वीरुधम् ।
आहार्षं विश्वभेषजीमस्यादृष्टान् नि शमयत् । । ६ ।।
नि गावो गोष्ठे असदन् नि मृगासो अविक्षत ।
नि केतवो जनानां न्यदृष्टा अलिप्सत । ७ ।।
हिमवतः प्र स्रवत ता: सिन्धुमपि गच्छत ।
आपो घ मह्यं तद् देवीर्ददन् हद्द्योतभेषजम् । ८ ।
यदक्षीभ्यामादिद्योत पार्ष्णिभ्यां हृदयेन च।
आपस्तत् सर्वं निष्करन् त्वष्टारिष्टमिवानशत्।।९।।
सिन्धुराज्ञै: सिन्धुपत्नीः सर्वा या नद्य स्थन: ।
दत्त नस्तस्य भेषजं तेन वो भुनजामहै। १० । भूनजा
पुनन्तु मा देवजनाः पुनन्तु मनवो धिया ।
पुनन्तु विश्वा भूतानि पवमानः पुनातु मा ।। ११ ।।
पुनातु मा पवमान: क्रत्वे दक्षाय जीवसे ।
ज्योक् च सूर्यं दृशे ।। १२ ।।
उभाभ्यां देव सवित: पवित्रेण सवेन च ।
अस्मान् पुनीहि चक्षसे । १३ ।
ईर्ष्याया ध्राजिं प्रथमामधमामुत्तमामुत ।
मन्युं हृदय्यं शोकं तं ते निर्मन्त्रयामहे । १४ ।
एतद्यत्ते हृदि श्रितं मनस्कं पतयिष्णुकम् ।
ततस्त ईर्ष्यां मुञ्चामि निरूष्माणं दृतेरिव । । १५ ।।
यथा भूमिर्मृतमना मृतान्मृतमनस्तरा ।
यथोत ममुषो मन एवेर्ष्योर्मृतं मन: ।। १६ ।।
19.8
द्यौश्व मा पृथिवी च प्रचेतसौ शुक्रो बृहन् दक्षिणा मा पिपर्तु ।
अनु स्वधा चिकितां सोमो अग्निर्वायुर्मा पातु सविता भगश्च।१।
पुनर्मन: पुनरायुर्न आगन् पुनश्चक्षुः पुनराकूतिरागन् !
वैश्वानरो नो अदब्धस्तनूपा अन्तस्तिष्ठाति दुरितादवद्यात्।। २ ।।
सं वर्चसा पयसा सं तनूभिरगन्महि मनसा सं शिवेन ।
त्वष्टा सुदत्रो वरिवः कृणोत्वनु नो मार्ष्टु तन्वो विरिष्टम् ।। ३ ।।
इदं तद्युज उत्तरं येनेन्द्रं शुम्भाम्यष्टये ।
अस्य क्षत्रं श्रियं महीं वृष्टिरिव वर्धया तृणम् । । ४ ।।
अस्य क्षत्रमग्नीषोमावस्य वर्धयतं रयिम् ।
इमं राष्ट्रस्याभीवर्गे कृणुतं युज उत्तरम् ! ! ५ ।
सबन्धुश्चासबन्धुश्च यो जातो यश्च निष्ट्यः ।
यजमानाय शुन्धते सर्वं तं रीरधासि नः । । ६ ।।
यशो बृहद् वर्धतामिन्द्रजूतं सहस्रभृष्टि: सुकृतं सहस्वत् । र्वर्धता
प्रसर्स्राणमनु दीर्घाय जीवसे हविष्मन्तं वर्धय सर्वतातये।।॥७ ।।
यशा इन्द्रो यशा अग्निर्यशा: सोमो अजायत ।
यशा विश्वस्य भूतस्याहमस्मि यशस्तम: ।। ८ । ।
वयं ते अग्ने यशसो यशोभिर्यशस्विनो हविषैना विधेम ।
स नो देहि राष्ट्रमिन्द्रजूतं तव ते रातौ अधिवाके स्याम ।।९।।
अव ज्यामिव धन्वनो मन्युं तनोमि ते हृदः ।
यथा संमनसौ भूत्वा सखिकेव सचावहै । १० ।
वि ते मन्युं नयामसि सखिकेव सचावहै ।
अधस्ते अश्मना मन्युं गुरुणापि नि दध्मसि ।। ११ ।।
अभि तिष्ठामि ते मन्युं पार्ष्णिभ्यां प्रपदाभ्याम् ।
परा ते दंष्ट्रिणं वधं परा मन्युं सुवामि ते । १२ । बधं
हिरण्मयः पन्था आसीदरित्राणि हिरण्मया ।
नावो हिरण्मयीरासन् याभिः कुष्ठं निरावहन् ।। १३ ।।
सुपर्णसुवने गिरौ जातं हिमवतस्परि ।
धनैरभि श्रुतं यन्ति कुष्ठे हि तक्मनाशन ।। १४ । ।
यो गिरिषु जायसे वीरुधां बलवत्तमः ।
कुष्ठेहि तक्मनाशन तक्मानं नाशयन्नितः ।। १५ ।।
(इति त्र्यृचनाम ऊनविंशतिकाण्डे द्वितीयो ऽनुवाकः)
19.9
इदावत्सराय परिवत्सराय संवत्सराय कृणुता बृहन्नमः ।
तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौमनसे स्याम । १ ।।
इहैव पन्था बहवो देवयाना अनु द्यावापृथिवी संचरन्ति ।
तेषामज्यानिं यतमो न आवहत्तस्मै नो देवा: परि धत्तेह सर्वे।२। जतमो
शरद्धेमन्त: शिशिरो वसन्तो ग्रीष्मो वर्षाः स्विते नो दधात ।
आ नो गोषु भजतौषधीषु निवात इद् वः शरणे स्याम ।। ३ ।।
वैश्वानर: न ऊतय आ प्र यातु परावतः ।
अग्निरुक्थैर्नो अंहस: ।। ४ ।।
वैश्वानरो नो आगमदिमं यज्ञं सजूः ।
उपेमं सुष्टुतिं मम । ५ ।
वैश्वानरो नो अङ्गिरोभिस्तोमं यज्ञं च चाक्लृपत् ।
ऐषु द्युम्नं स्वर्यमत् ।। ६ । ।
अजैषं त्वा संलिखितमजैषमुत संरुधम् ।
अविं वृको यथा मथदेवा मथ्नामि ते कृतम् । ७ । ।
यथा वृक्षमशनिर्विश्वाहा हन्त्यप्रति ।
एवाहममुं कितवमक्षैर्बध्यासमप्रति । ८ ।
तुराणामतुराणां विशां देवयतीनाम् ।
समैतु विश्वतो भागो अन्तर्हस्तं कृतं मम: ।। ९ ।
यावद्द्यौर्यावत् पृथिवी यावदाभाति सूर्यः । द्यौर्या
तावत्सृजामि ते विषं यावदर्षन्ति सिन्धवः ।। १० ।।
उच्छवसन्त उदीरते गावो अवसथादिव ।
अहीनां पश्यता विषमपवक्ता न विद्यते । ११ ।
आ जघान पृथग्धनुः सङ्गथे धमनीनाम्।
मूर्धन्यं विषमास्कद्याङ्गानि व्यसिस्रसत्।।१२।।
मा नो देवा अहिर्वधीत् सतोकान्सहपूरुषान् ।
संयतं न वि ष्वरद् व्यात्तं न सं यमत् । । १ ३ । ।
सं ते ददामि दद्भिर्दत: सं ते हन्वा हनू ।
सं ते जिह्वया जिह्वां संत्वास्नाह आस्यम् ।। १४ ।
नमो ऽहये असिताय नमस्तिरश्चिराजये ।
स्वजाय बभ्रवे नमो नमो देवजनेभ्यः ।। १५ ।।
19.10
मनसे चेतसे धिय आकूतय उत चित्तये ।
मत्यै श्रुताय चक्षसे विधेम हविषा वयम् ।। १ ।।
प्राणायपानाय व्यानाय भूरिरेतसे ।
सरस्वत्या उरुव्यचे विधेम हविषा वयम् । २ ।
मानो हासिषुर्ऋषयो दैव्यासस्तनूपावानः शुचयस्तपोजाः । शूच
अमर्त्या मर्त्याङ् अभि नः सचध्वमायुर्नः प्रतरं जीवसे धुः ।।३।।
इदमिद् वा उ भेषजमिदं रुद्रस्य भेषजम् ।
येनेषुमेकतेजनां शतशल्यामपब्रुवत् । ४ ।।
जालाषेणाभि षिञ्चत जालाषेणोप षिञ्चत । ।
जालाषे भद्रं भेषजं तस्य नो धत्त जीवसे । ५ ।
शं च नो मयश्च नो मा च नः किं चनाममत् ।
क्षमा रपो विश्वं नो ऽस्तु भेषजम । ६ ।
यशसं मेन्द्रो मघवान् कृणोतु यशसं सोमो वरुणो वायुरग्नि:।
यशसं मा देवः सविता कृणोतु प्रियो दातुर्दक्षिणाया स्यामहम्।।७।।
यथेन्द्रो द्यावापृथिव्योर्यशस्वान् यथाप ओषधीषु ।
यथा विश्वेषु देवेष्वेवा देवेषु यशस: स्याम ।। ८ ।।
अच्छा वयमिन्द्रं यशसं यशोभिर्यशस्विनो हविषैना विधेम ।
स नो दधद्राष्ट्रमिन्द्रजूतं तस्य राते अधिवाके स्याम । ९ ।
एह यातु वरुणः सोम अग्निर्बृहस्पतिर्वसुभिरेह यातु ।
अस्य श्रियमभिसंजात सर्व उग्रस्य चेत: संमनसः सजाताः ।। १० ।।
एह यातु माप याताध्यस्मत् पूषा व: परस्तादपथं कृणोतु ।
वास्तोष्पतिरनु वो ऽयमह्वन् मयि सजाता रमतिर्वो अस्तु ।। ११ ।।
यो वः शुष्मो हृदयेष्वन्तर्या आक्फूतिर्मनसि प्रविष्टा ।
तान्त्सीवयामि हविषा घृतेन मयि सजाता रमतिर्वो अस्तु ।१२ ।।
मम चित्तः प्रयव मन्युते हेन्द्राग्न्योरिव हवमेत सर्वे ।
बृहस्पतिर्वो नि युनक्तु मह्यं मम वाचमेकचित्ताः सचध्वम् ।। १३ l l
अहं गृह्वामि मनसा मनांसि मम चित्तमुप चित्तेभिरेत ।
मम वशे हृदयं वः कृणोमि मम यातमनुवर्त्मान एत ।। १४ ।।
मां वश्चक्षुर्गच्छतु मां प्राणो धाता पदमनुवर्त्म वः कृणोतु ।
ये वो महान्त उत ये कुमारा मम यातमनु यातेभिरेत । १५ । ।
19.11
अश्वत्थो देव सदनस्तृतीयस्यामितो दिवि ।।
तत्रामृतस्य चक्षणं ततः कुष्ठो ऽजायत ।। १ । ।
देवेभ्यो ऽधिजातो ऽसि सोमस्य सखा हित: ।
स प्राणायपानाय चक्षुषे ऽस्य मृड ।। २ । ।
अयस्मये द्रुपदे बेधिषे यदभिहितो मृत्युभिर्ये सहस्रम् ।
यमो मह्यं पुनरित् त्वां ददाति तस्मै देवाय हविषा विधेम । ।३ । ।
यत् ते देवी निर्ऋतिराबबन्ध दाम ग्रीवास्वविचृत्यम् ।
तत् ते वि ष्याम्यायुषे बलायानमीवं पितुमद्धि प्रसूतः ।।४।।
नमस्तु ते निर्ऋते विश्ववारे अयस्मयान् विचृता बन्धमेतम् ।
यमेन त्वं पितृभिः संविदानोत्तमे नाके अधि रोहयेमम् ।।५।।
आराद्रक्षांसि प्रति दह अग्ने मास्माकं तन्वमुप तीतपन्तु ।।६।।
शर्वो वो ग्रीवा अशरीत् पिशाचाः पृष्टीर्वो ऽपि शृणात्वग्नि: ।
विरुद् वो विश्वधा वीर्या मृत्युना समजीगमत् ।।७।।
अपिशाचं नो अधरादपिशाचं न उत्तरात् ।
इन्द्रापिशाचं नः पश्चादपिशाचं पुरस्कृधि ।।८ ।।
इन्द्रश्चकारप्रथमो नैर्हस्तमसुरेभ्यः ।
वृश्चामि शत्रूणां बाहून् अनेन हविषा वयम् ।। ९ ।। ।
निर्हस्तः शत्रुरभिदासन्नो ऽस्तु ये सेनाभिर्युधमायन्त्यस्मान् ।
समर्पयेन्द्र महता वधेन द्रात्वेषामघहारो विविद्धः । । १० ।।
अव मन्युरवायता अव बाहू मनोयुजा |
पराशर त्वं तेषां पराञ्चं शुष्ममर्दयार्वाञ्चं रयिमा कृधि ।। ११ ।।
आतन्वाना आयच्छन्तोस्यन्तो ये व धावथ ।
निर्हस्ता: शत्रवः स्थनेन्द्रो वो ऽद्य पराशरीत् ।। १२ ।।
निर्हस्ताः सन्तु शत्रवो ऽङ्गैषां म्लापयामसि ।
यथैषामिन्द्र वेदांसि यूथेसु वि भजामहै ।।१३।।
निर्हस्तेभ्यो नैर्हस्तं यं देवा: शरुमस्यथ ।
जयन्तु सत्वानो मम स्थिरेणेन्द्रेण मेदिना । १४ ।
19.12
शमीमश्वत्थ आरुढस्तत्र पुंसवनं कृतम् ।
तदेव तस्य भेषजं यत् स्त्रीष्वाहरन्ति तम् ।। १ ।।
पुंसि वै रेतो भवति तत् स्त्रियामनु षिच्यते ।
तद् वै पुत्रस्य वेदनं तत् प्रजापतिरब्रवीत् ।। २ । ।
प्रजापतिरन्वमंस्त सिनीवाल्यचीक्लृपत् ।
स्त्रैषूयमन्यत्र दधत् पुमांसमु दधादिह ।। ३ ।।
अथो यमस्य पड्बीशाद् विश्वस्माद् देवदुष्कृतात् ।। ५ ।।
यच्चक्षुषा यन्मनसा यच्च वाचोपारिम यज्जाग्रतो यत् स्वपन्तः ।
सोमो मा तस्मादेनसः स्वधया पुनातु विद्वान् ।। ६ ।।
अभिभूर्यज्ञो अभिभूरग्निरस्त्वभिभूः सोमो अभिभूरिन्द्रो अस्तु ।
अभ्यहं विश्वाः पृतना यथासीदेवा विधेमाग्निहोत्रा इदं हविः ।। ७ ।।
स्वधास्तु मित्रावरुणा प्रजावत् क्षत्रं मधुनेह पिन्वतम् ।
बाधेथां द्वेषो निर्ऋतिं पराचैरस्मै क्षत्रं वर्च आ धत्तमोजः ।।८ ।।
इमं वीरमनु हर्षध्वमुग्रमिन्द्रं सत्वानो अनु सं रभध्वम् ।
ग्रामजितं गोजितं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा ।। ९ ।।
अग्नेरिव प्रसितिरस्य शुष्मिण उतेव मत्तो विलपन्नपायति ।
तस्मै तेरुणाय बभ्रवे तपुर्मघाय नमो ऽस्तु तक्मने।। १० ।।
नमो यमाय नमो अस्तु मृत्यवे नमो राज्ञे वरुणाय त्विषीमते ।
नमः क्षेत्रस्य पतये नमो दिवे नमः पृथिव्यै नम ओषधीभ्यः ।। १ १ ।।
अयं यो जनान् हरितान् कृणोत्युच्छोचयन्नग्निरिवाभिदुन्वन् ।
अधा हि तक्मन्नरसो हि भूया अधा न्यङ्ङ् अधराङ् वा परेहि।१२।।
इन्द्रो जयाति न परा जयाता अधिराजो राजसु राजयातै ।
चर्कत्य ईड्य: शंसस्वोपसद्यो नमस्यो भवेह । १३ ।
त्वमिन्द्राधिराजः श्रवस्युस्त्वं भूरभिभूतिर्जनानाम् ।
त्वं दैवीर्विश इमं वि राजायुष्मत् क्षत्रमजरं ते अस्तु ।।१४।।
प्राच्यां दिशि त्वमिन्द्राधिराजोदीच्यां दिशि वृत्रहन् शत्रुहोसि ।
यत्र यन्ति स्रोत्यास्तज्जितं ते दक्षिणतो वृषभोसि हव्यः । । १५ ।।
(इति त्र्यृचनाम उनविंशतिकाण्डे तृतीयो अनुवाक: )
१९-१३ 19.13
अभि त्वेन्द्र वरिमत: पुरा त्वांहुरणेभ्य: ।
ह्वयाम्युग्रं चेत्तारं पुरुणामानमेकजम् ।। १ ।।
योऽद्य सेन्यो वधो जिघांसन् न उदीरते ।
इन्द्रस्य तत्र बाहू समन्तं परि दध्महे । २ ।।
परि दध्म इन्द्रस्य बाहू समन्तं त्रातुस्त्रायतां नः ।
देव सवित: सोम राजन् सुमनसं मा कृणु तं स्वस्तये ।। ३ ।।
देवा अदुः सूर्यो अदाद् द्योरदात् पृथिव्यदात् ।
सर्वाः सरस्वतीरदुः सचित्ता विषदूषणम् ।। ४ ।।
यद् वो देवा उपजीका आसिञ्चन् धन्वन्युदकम् ।
तेन देवप्रसूतेनेदं दूषयता विषम् ।। ५ । ।
असुराणामसि दुहिता देवानामसि स्वसा ।
दिवस्पृथिव्या यज्ञिषे सा चकर्थारसं विषम् ।। ६ ।।
अस्थिस्रंसं परुस्रंसमास्थितं हृदयामयम्।
बलासं सर्वं निष्कृध्यङ्गेष्ठा यश्च पर्वसु । । ७ ।।
निर्बलासं बलासिनः क्षिणोमि पुष्करं यथा ।
छिनद्म्यस्य वन्धनं मूलमुवार्वा यथा । ८ ।
निर्वलासेत: प्र पत: सुपर्णो वसतेरिव ।
अथी इट इव हायनोप द्राह्यवीरहा । ९ ।
आ वृषायस्व श्वसिहि वर्धस्व प्रथयस्व च ।
यथाङ्गं वर्धतां ते शेपस्तेन योषितमिज्जहि ।। १० ।
येना कृशमेधयन्ति येन हिन्वन्त्यातुरम् ।
तेनास्य ब्रह्मणस्पते धनुरिवा तानया पस: ।। ११।।
आहं तनोमि ते पसो अधि ज्वामिव धन्वनि ।
क्रमस्वर्श इव रोहितमनवग्लायता त्वम् ।। १२ । ।
देवाः कपोत इषितो यदिच्छन् दूतो निर्ऋत्या इदमाजगाम ।
तस्मा अर्चाम कृणवाम निष्कृतिं शं नो अस्तु द्विपदे शं चतुष्पदे । १३ ।
शिवः कपोत इषितो नो अस्त्वनागा देवाः शकुनो गृहे न: ।
अग्निर्हि विप्रो जुषतां हविर्नः परि हेति: पक्षिणी नो वृणक्तु । । १४ ।।
हेतिः पक्षिणी न दभात्यस्मानाष्ट्री पदं कृणुते अग्निधाने ।
शं नो गोभ्य उत पुरुषेभ्यो मा नो देवा इह हिंसीत् कपोत: ।। १५ ।
इषं मदन्त: परि गां नयाम: संयोपयन्तो दुरिता पदानि ।
ऋचा कपोतं नुदत प्रणोदं हित्वा न ऊर्जं प्र पतात् पथिष्ठ: ।। १६ ।
नुदे त्वा प्र णुदे त्वा कपोत रक्षसा सह ।
क्षणेन पुनरायासि तत्र त्वा गमयामसि ।। १७ ।।
19.14
यथायं वाहो अश्विना समैति सं च वर्तते ।
एवा मामभि ते मन: समैतु सं च वर्तताम् ।। १ ।।
आहं खिदामि ते मनो राजाश्व: पृष्ट्यामिव ।
रेष्मच्छिन्त्र यथा तृणं मयि ते वेष्टतां मन: ।। २ ।।
आञ्जनस्य मधुघस्य कुष्ठस्य नलदस्य च ।
तुरो भगस्य हस्याभ्यामनुरोधनमाभरे । ३ ।।
अयमा यात्यर्यमा पुरस्ताद् विषितस्तुप: ।
स इच्छेदग्रुवै पतिमथो जायामजानये । ४ ।।
अश्रमदियमर्यमन्नन्यासां समनं यती ।
अङ्गो न्वस्या अर्यमन्नन्याः समनमायति ।। ५ ।।
धाता दाधार पृथिवी धाता द्यामुत सूर्यम् ।
धातास्या अग्रुवै पतिं दधातु प्रतिकाम्यम् ।। ६ ।।
मह्यमापो मधुमतेरयन्त मह्यं सूर्यो अभरज्ज्योतिषा कम् ।
मह्यं देवा उत विश्वे तपोजा मह्यं देव: सविता व्यचो धात्।७।
अहं दाधार पृथिवीमुत द्यामहं सिन्धूनजनयं सप्त साकम् ।
अहं सत्यमनृतं यद् वदाम्यहं वाचं परि सर्वाभि षिञ्चे।८।।
अहं विव्यज्मि पृथिवीमुत द्यामहमृतूनसृजे सप्त साकम् ।
अहं वाचं परि सर्वामभूवन् यो ऽग्नीषोमावजुषे सखायै ।।९। 1 ।।
अनडुद्भ्यो नः प्रथमं धेनुभ्यस्त्वमरुन्धति ।
अधेनवे वयसे शर्म यच्छ चतुष्पदे । १० ।
शर्म यच्छत्वोषधिः सह देवीररुन्धती ।
करत् पयस्वन्तं गोष्ठमयक्ष्मां उत पूरुषान् । ११ ।
विश्वरूपां सुभगामच्छावदामि जीवलाम् ।
सा नो रुद्रस्यास्तां हेतिं दूरं नयतु गोभ्यः ।। १२ ।।
यमो मृत्युरघमारो निर्ऋथो भवः शर्वोऽस्ता नीलशिखण्ड: ।भबः
देवजनाः सेनामुत्तस्थिवांसस्ते ऽस्माकं परि वृञ्जन्तु वीरान्।।१३ ।।
मनसा होमैर्हरसा घृतेन शर्वायास्त्र उत राज़े भवाय ।
नमस्येभ्यो नम एभ्य: कृणोम्यन्यत्रास्मदघविषा नयन्तु ।।१४।।
त्रायध्वं नो अघविषाभ्यो वधादग्नीषोमा मरुतः पूतदक्षाः ।
विश्वे देवा मरुतो विश्ववेदसो वातापर्जन्ययोः सुमतौ स्याम।।१५।
19.15
सं जानतां मनसा सं चिकित्वा मा यच्छत मन्युना दैव्येन ।
मा घोषा उत्थाद् बहुले विनिर्हते मेषुः पप्तदिन्द्रस्याहन्यागते ।। १ ।।
सं वो मनांसि सं व्रता समाकूतीर्नयामसि ।
इमे ये विव्रता स्थन तान् व: सं ज्ञपयामसि । २ ।।
संज्ञपनं वो मनसो अथो संज्ञपनं हृदः ।
अथो भगस्य यच्छ्रान्तं तेन संज्ञपयाति वः ।। ३ । ।
सं वः पृच्यन्तां तन्वः सं मनांसि समु त्वचः ।
सं वोयं ब्रह्मणस्पति: सोम: संज्ञपयाति वः । ४ ।।
संज्ञानं न: स्वेभ्य: संज्ञानमरणेभ्यः ।
संज्ञानमश्विना युवमिहास्मासु नि यच्छतम् ।। ५ ।।
यथादित्या वसुभिः संबभूवुर्मरुद्भिरुग्रा अहृणीयमानाः ।
एवा त्रिणामन्नहृणीयमान इमान् जनान्त्संमनसं कृणुत्वम्।। ६ ।।
निरमुं नुद ओकसः सपत्नो यः पृतन्यति।
निर्बाध्येन हविषेन्द्र एनं पराशरीत्।।७।।
इहि तिस्रः परावत इहि पञ्च जनाङ् अनु।
इहि सप्ताति रोचना यावत् सूर्यो असद् दिवि।।८।।
परमां त्वा परावतमिन्द्रो देवो अजीगमत्।
यथा न पुनरायसि शश्वतीभ्यः समाभ्यः।।९।।
प्रतीचीनो फलो हि त्वमपामार्ग बभूविथ।
सर्वान् मच्छपथाङ्अधि वरीयो यावया त्वम्।।१०।।
अघद्विष्टा देवजूता वीरुच्छपथयोपनी।
उद्गा मलमिवावानैः सर्वान्मच्छपथाङ् अधि।।११।।
यदेनं परिषीदन्ति समादधति चक्षसे।
संप्रेद्धो अग्निर्जिह्वाभिरुदेति हृदयादधि।।१२।।
अग्नेः सांतपनस्याहमायुषे पदमा रभे।
अद्धातिर्यस्य पश्यति धूममुद्यन्तमास्यतः।।१३।।
यो स्यसमिधं वेद क्षत्रियेण समाहिताम्।
नाभिह्वारे पदं नि दधाति स मृत्यवे।।१४।।
नैनं घ्नन्ति पर्यायिणो न सन्नाङ् अव गच्छति।
अग्नेर्यः क्षत्रियो विद्वान्नाम गृह्णात्यायुषे।।१५।।
19.16
अस्थाद् द्यौरस्थात् पृथिव्यस्थाद् विश्वमिदं जगत्।
तिष्ठन्ति पर्वता इमे स्थामन्नश्वा अरंसत।।१।।
य उदानड्यायने य उदानट् परायणे।
आवर्तनं निवर्तनं यो गोपा अपि तं हुवे।।२।।
आवृत्तोन्यावृतो ऽभ्यावर्तनमायनम् ।
अग्निश्चतस्र आवृतस्ताभिष्ट्वा तर्पयामसि । ३ ।।
जातवेदो नि वर्तय शतं ते शान्त्वावृत: ।
सहस्रं त उपावृत: ताभिरेनं नि वर्तय । ४ ।।
अदारसृग् भवतु देव सोमास्मिन् यज्ञे मरुतो मृडता न: ।
मा नो विददभिभा मो अशस्तिर्मा न: प्रापद दुच्छुना द्वेष्या या ।। ५ ।
यो ऽद्य दैव्यो वध जिघांसन् न उपायति ।
युवं तं मित्रावरुणावस्मद्यावयतं परि ।। ६ । ।
इतश्चामुतश्चाघं वरुण यावय ।
वि महच्छर्म यच्छ वरीयो यावया वधम् । ७ ।। वरियो
अपेन्द्रो प्राची मघवन्नमित्रानपापाचो अभिभूते नुदस्व |
अपोदीचो अप शूराधराच उरौ यथा तव शर्मन् मदेम ।।८ ।।
तेन भूतस्य हविषा पुनरा प्यायतामयम् ।
जायां यामस्मा आविदन् सा रसेनाभि वर्धताम् । ९ ।
अभि वर्धतां प्रजया अभि राष्ट्रेण वर्धताम् ।
इषा सहस्रवीर्याविमौ स्तामनुपक्षिती । १० ।
त्वष्टा जायामजनयत् त्वष्टासै त्वां पतिं दधौ ।
त्वष्टा सहस्रमायूंषि दीर्घमायुष्कृणोतु वाम् ! ।। ११ ।।
अन्तरिक्षेण पतति विश्वा भूतावचाकशत् ।
शुनो दिव्योस्यैतन्महस्तस्मा एतेन हविषा जुहोमि ।। १२ ।।
अप्सु ते जन्म दिवि ते सधस्थं समुद्रं आत्मा महिमा ते पृथिव्याम् ।
शुनो दिव्योस्यैतन्महस्तस्मा एतेन हविषा जुहोमि ।। १३ ।।
ये त्रय: कालकाञ्जा दिवि देवा इव श्रिताः ।
तान् सर्वानह्व उतये ऽस्मा अरिष्टतातये । १४ ।
य: पुरुषं हविरिच्छयसि श्वा दिव्यै अवीरहा ।
तं त्वाहं ब्रह्मणा नुदे पुरुषं मा परा वधी: ।। १५ । । बधीः
यः पिशङ्गो अयोदंष्ट्रा: श्वा दिव्यः परिप्लवः ।
तस्याहं नामजग्रभास्मा अरिष्टतातये अयं नो जीवतादिति । १६ । ।
अयं नो नभसस्पतिः संस्फानो ऽभिरक्षतु ।
असमातिं गृहेषु न: ।। १७ ।।
त्वं नो नभसस्पतिरूर्जं गृहेषु धारय ।
आ पुष्टमेत्वा वसु । १८ । ।
देव संस्फान सहस्रापोषस्येशिषे ।
तस्य नो धेहि तस्य ते भक्षीमहि तस्य ते भक्तिवांसो भूयास्म स्वाहा । । १९ । ।
(इति त्र्यृचनाम उनविंशतिकाण्डे चतुर्थो ऽनुवाकः )
१९-१७ 19.17
यन्तासि यच्छसे हस्तावप रक्षांसि सेधसि ।
प्रजां धनं च गृह्णान: परिहस्तो अभूदयम् । । १ ।।
परिहस्त वि धारय योनिं गर्भाय कर्तवे ।
मर्यादे पुत्रमा धेहि तं त्वमा गमयागमे । २ ।।
यं परिहस्तमबिभरददितिः पुत्रकाम्या । रदितिः
त्वष्टा तमस्या आ बध्नाद् यथा पुत्रं सुवादिति ।। ३ ।।
आगच्छत आगतस्य नाम गृह्णाम्यायत: ।
इन्द्रस्य वृत्रघ्नो राज्ञो वासवस्य शतक्रतो: ।। ४ ।।
येन सूर्यां सावित्रीमश्विनोहतु: पथा ।
तेन मामब्रवीद् भगो जायामा वहतादिति । ५ ।
यस्ते अङ्कुशो वसुदानो बृहन्निन्द्र हिरण्ययः ।
तेना जनीयते जायां त्वं धेहि शतक्रतो: ।। ६ ।
त्वं नो मेधे प्रथमा गोभिरश्वेभिरा गहि ।
त्वं सूर्यस्य रश्मिषु त्वं नो वसुदा यज्ञिया ।। ७ ।।
मेधामहं प्रथमा ब्रह्मण्वतीमृषिष्टुतां । व्रह्म
प्रपीतां ब्रह्मचारिभि: देवानामवसा वृणे । ८ । व्रह्म
मेधां सायं मेधां प्रातर्मेधां मध्यन्दिनं परि ।
मेधां सूर्येणोद्यतोदीराणा उत्तुष्टुमः ।। ९ ।।
पार्थिवस्य रसे देवा भगस्य तन्वो बले ।
आयुरस्मै सोमो वर्च आा धाद् बृहस्पति: ।। १० ।।
आयुरस्मै धेहि जातवेदः प्रजां त्वष्टरधिनिधेह्योन: ।
रायस्पोषं सवितरा सुवास्मै शतं जीवाति शरदस्तवायम् ।। ११ । ।
आशीर्ण ऊर्जमुत सुप्रजास्त्वं दक्षं दधातु द्रविणं सुवर्चसम्।
सं जयन् क्षेत्राणि सहसायमिन्द्र कृण्वानो अन्यानधरान्त्सपत्नान् । १२ ।
आयमगन् सविता क्षुरेणोष्णेन वाय उदकेनेहि ।
आदित्या रुद्रा वसव: सचेतस: सोमस्य राज्ञो वपत प्रचेतसः ।। १३ ।।
येनावपत् सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान् ।
तेन ब्रह्माणो वपतेदमस्यायुष्मान् दीर्घायुरयमस्तु वीरः ।। १४ । । युस्मा
अदितिः शमश्रु वपत्वाप उन्दन्तु वर्चसा ।
धारयतु प्रजापति: पुन: पुन: सुवप्तवे ।। १५ ।।
१९- १८ 19.18
यास्ते हिरा धमनयो ऽङ्गान्यनु विष्ठिताः ।
तासां ते सर्वासां साकं निर्विषाणि ह्वयामसि । १ ।।
यां ते रुद्र इषुमास्यदङ्गेभ्यो हृदयाय च ।
इमां तामद्य ते वयं विषूचीं वि वृहामसि । २ ।।
नमस्ते रुद्रास्यते नम: प्रतिहिताभ्य: ।
नमो विसृज्यमानाभ्यो नमस्त्रायताभ्यः ।। ३ । ।
अवाची: परिमूर्धन्या यास्ते धमनयः शतम् ।
तास्ते प्रभद्यन्तां पृथगनु त्वं लोहितावटम् । ४ ।।
स्यन्दतां रोदनावतीरनु त्वं लोहितावटम् ।
यथास्यामन्त्रं नरस्यन् नानुकूलमिवोदकम् । ५ ।
प्रतीचीन: सूर्य एतु प्रतीची: स्रवत: कृता: ।
अवाचीस्ते अस्न: कुल्या इयं तृणत्वोषधी: ।। ६ ।
इमं यवमष्टायोगै: षड्योगेभिरचर्कृषुः ।
स घा ते तन्वो रपः प्रतीचीनमपि व्ययत् ।। ७ ।।
न्यग् वातो वाति न्यक्तपति सूर्यः ।
नीचीनमघ्न्या दुहे न्यग् भवतु ते रपः ।। ८ ।। नग्
आप इद् वा उ भेषजीरापो अमीवचातनी: ।
आप: समुद्रार्था यती: परा वहन्तु ते रप: ।। ९ ।
अमी ये युधमायन्ति केतून् कृत्वानीकश: ।
इन्द्रस्तान पर्यहार्दाम्ना तानग्ने सं द्या त्वम् ।। १० ।
यावतीः सिञ्च आयन्त्विनीका नियतिष्ठन् ।
इन्द्रस्तान् पर्यहार्दाम्ना तानग्ने सं द्या त्वम् । ११ ।
सं परमान् समवमानथो सं द्यामि मध्यमाम् ।
इन्द्रस्तान् पर्यहार्दाम्ना तानग्ने सं द्या त्वम् । १२ ।
संदानं वो बृहस्पतिः संदानं सविता करत् ।
संदानमिन्द्रश्चाग्निश्च संदानं भगो अश्विना । १३ ।
यास्ते रुचो देव सूर्ये या अतो दिव्यातताः ।
ताभिर्मामद्यसर्वाभिर्मनुष्येभ्यो रुचे कृणु ।। १४ ।।
रुचे मा धेहि ब्रह्मसु रुचे राजसु धेहि माम् ।
रुचे विश्येषु शूद्रेषु मयि धेहि रुचेरुचम् ।। १५ ।।
या रुचो हिरण्यये याग्नौ याश्च सूर्ये ।
इन्द्राग्नी म एता रुचो रुचो धेहि बृहस्पते । १६ ।
टिप्पणी
पाठभेदः
१९.१८.५
स्यन्दन्तां लोचनावतीर् अनु त्वा लोहितावटम्।
यथास्यां अन्त्रं न रस्यन् नानुकूलं इवोदकम्।। १९.१८.५
19.19
अव मा पाप्मन् सृज वशी सन्मृडयासि नः।
आ मा भद्रेषु धामसु त्वं धेह्यविह्रुतम्।।१।।
यो मा पाप्मन् न जहासि तमु त्वा जहिमो वयम्।
अन्यत्रास्मन् न्युच्यतु सहस्राक्षो ऽमर्त्य।।२।।
पथोर्वयं व्यावर्तने निष्पाप्मन् सुवामसि।
यो नो द्वेष्टि तं गच्छ यं द्विष्मस्तं जहि । ३ । ।
स वा इवासि संन्नद्धो न भोगमविदं त्वयि ।
शिरो भिनद्मि ते पाप्मन् यथा न पुनरायसि।।४।।
इन्द्रो अस्मान्दिवा पातु मृत्योः पाशात् स्वस्तये।
द्यौर्न मध्यतः पातु भूमिराज्ञी स्वस्तये।।५।।
सूर्य अस्मान्दिवा पातु मृत्योः पाशात् स्वस्तये।
वातो नो मध्यत: पान्त्वहोरात्री स्वस्तये ।। ।। ६ ।
सोमो अस्मान्दिवा पातु मृत्योः पाशाद् स्वस्तये । स्तस्त
आपो नो मध्यतः पान्तु मानो निर्ऋति रिशत् ।। ७ । ।
सं वा चक्षुः सं हृदयं सं मनसावीवनम् ।
अस्या: सरूपवत्साया घृते होमेन सर्पिषा । ८ ।
यत् कक्षिवां संवननं पुत्रो अङ्गिरसामवेत् ।
तेन मामद्य देवा: संप्रियो समवीवनन् ।। ९ ।।
संवननं वाङ् मनसो अथो संवननं हृद: ।
अथो भगस्य यच्छ्रान्तं तेन संवनयामि व: ।। १० ।
अहं ते मनसा मनश्चक्षुर्गृह्णामि चक्षुसा ।
एवा परि षजस्व मा यथासन् मयि ते मन: ।। ११ ।
आा रथस्येव चक्रे अभि आवर्ततामसौ ।
रेष्मच्छिन्नं यथा तृणं वेष्टासौ मनसा मयि ।। १२ ।।
परि त्वा पान्तुरसरं परि मातुः परि स्वसुः ।
परि त्वानाभ्यस्तरीभ्यो न यौध्यासरम् । १३ ।
य इन्द्रस्य सभाधानो यस्मिन् समितिमासते ।
हिरण्या यस्य पर्णानि तस्मा अश्वत्थ ते नमः ।। १४ । ।
यः शाखाभिरन्तरिक्षमापूरयति निष्ट्यः । रएति
छन्दांसि यस्य पर्णानि तस्मै अश्वत्थ ते नम: ।। १५ ।
यं मृगो न समाप्नोति पक्षाभ्यां शकुनिष्पथम् ।
दिवं यः सर्वास्तम्नाति तस्मा अश्वत्थ ते नमः । । १६ । ।
19.20
ज्येष्ठघ्न्यां जातो विचृतोर्यमस्य मायं हिंसीः पितरौ वर्धमान: ।
स्योनी व्याघ्रावुत तौ शिवौ स्तामतित्वा नेषं दुरितानि विश्वा।।१।।
व्याघ्रे अह्न्यजनिष्ठवीरो नक्षत्रजा: सर्ववीर: सुवीर: ।
स मा हिंसीः पितरौ वर्धमानस्तस्य ते देवाः प्रतिगृह्णन्तु होमम्।।२ ।।
या रोहिणीर्देवपत्या प्र धेनुरिव पिन्वते ।
तत्र तिस्रो व्यष्टकाः सर्वाङ् अधि ब्रुवन्तु प्रजायै जगते च वाम्।। ३ ।।
यदार्द्राभ्यामणिभ्यां देवा: शक्रा अमन्तं पुरुषेण पुरुषम् ।
अत्रा पुष्यतं मिथुना सयोनि जीवां प्रजां जरदष्टिं सुतेजसा ।। ४ ।।
हतं पतङ्गमुततर्दमाखुमश्विना भिन्तं शिरो मृणतं हनू दत: ।
यथा न: शस्यं नघवासं व्यद्धरा एवाभयं कृणुतं धान्याय नः।। ५ ।।
तर्द है पतङ्ग है जभ्य हा उपक्वस ।
अनदन्त इदं धान्यमहिंसन्तो अपोदित । ६ ।
तर्दापते वघापते तृष्टजम्भा शृणोत न: ।
होत्रेवा प्राशितं हविर्वृक्णजिह्वां उपाध्वम् ।। ७ ।।
तर्दा द्यामोपजिह्वया यद् इमं दिव्यं पीयुषं प्रथमस्ति तृप्सात् ।
तं प्रत्यञ्चमर्चिषा विध्व मर्मन् ।। ८ ।।
ये अभ्रजा ये वातजा ये दिवस्परि यज्ञिरे ।
मरिच्याः पुत्राणा वयमपिनह्याम्यास्यम् । ९ ।
ये अर्जुना ये हरिता ये कृष्णा ये च रोहिता: ।
कबन्धस्य प्रशासने शलभ्यां जम्भयामसि । १o ।
अन्तरिक्षेण पततमासस्यमभि मध्वम् ।
गिरिणां सानुषु सीदति तृणं कपालमुत्तम: शलभास्तद् दिशामिव ।। ११ ।।
यथाश्वासो यथा धुरं युक्ता वहन्ति साधुया । धूरं
एवा मूत्र प्र भिद्यस्व वि वस्तेरा सं सृज । १२ ।
विषितं ते वस्तिबिलं समुद्रस्योदधेरिव ।
प्र ते भिनद्मि मेहनं वर्त्तं वेशन्त्या इव । १३ ।
या: समुद्रादुच्चरन्ति जरतीरुपजिह्विका: । रूप
प्रमेहणस्य ता विदुरुभयोर्मेहनस्य च ।। १४ ।
शीर्ष्णोबलीरास्नोबलीरङ्गादङ्गान् मुखाद बली: ।
सर्वास्ता इन्द्राणी बलीरप माष्ट्रधि त्वच: ।। १५ ।
यास्त्चचो बलयो जाता या जातास्तन्वस्परि ।
सर्वास्ता इन्द्राणी बली: शमीशाखास्वा सजात् । १६ ।
आशमी मामकी बलीरुरोहाति जहाति माम् ।
एताविन्द्रस्य जाया बलि धानीमकृण्वत । १७ ।
( इति त्र्यृचनाम ऊनविंशतिकाण्डे पञ्चमो अनुवाकः)
१९-२१ 19.21
यथा सूर्यो नक्षत्राणां वर्चांसि युवते दिवः।
एवा सपत्नानामहं वर्च इन्द्रियमा ददे । १ ।।
यच्च वर्च: सपत्नानां भ्रातृव्येषु च यद् वसु ।
तदिन्द्रो वृत्रहा धाता सविता दीधरन् मयि । २ ।।
याश्च गावः सपत्नानां भ्रातृव्येषु च यद् वसु ।
तं निर्येयमवजित्या सविता दीधरन् मयि । ३ ।।
सत्यमेव जयतु नानृतं सत्यस्य पन्था रुजुरस्तु साधु: ।
सत्यं वदन्तः समिधे विधेम सत्येन द्यावापृथिवी अप्रचेताम् ।।४।।
वाग्भागस्य च सत्येन रुद्रस्य सुमनस्य या । ।
इन्द्रेणाधिब्रुवता वयं वसु प्राशं विधेमहि ।। ५ ।।
या ते रुद्रेषिरा यता वाचि वाते अरङ्कृता ।
येनेदं विविदामहे तस्य प्राशं त्वं जहि । ६ । ।
जहि त्वं तस्य प्राशमुतसत्योमुतानृताम् ।
यो ऽस्मानिन्द्र वृत्रहन् वाचा प्राशं जिगीषति । ७ ।।
उत् पमैतु प्राणो वह्वीर्यसी देवं पृणः।
उतो दिव स्म सिञ्चतां समुद्रस्येव मध्यतः । । ८ ।।
समुद्रस्य शतधार: सहस्रधारो आ क्षितिः ।
पुरस्तादिन्द्र आचरत् पूर्णो गोष्ठमिदं पृण: ।
इहोप पृण संपृण वृष प्रजनना: कृधि । ९ । बृष
इह गाव: प्र जायध्वमिहाश्वा इह पुरुषा: ।
इहो सहस्र दक्षिणो अभिप्रासा वि षीदतु । १० ।
ज्येष्ठघ्न्यै नक्षत्राणामह्ने रात्र्या इदं नम: ।
जुहोमि विश्वकर्मणे स शिवो मृडयाति नः । ११ ।
मा ज्येष्ठं वधीदयमग्निरेषां मूलबर्हणं परिवृणक्त्वेनम् ।
ग्राह्या: पाशान् वि चृत प्रजानन् पितापुत्रौ मातरं मुञ्च सर्वान्।। १२ ।।
उन्मुञ्च पाशांस्त्वमग्न एषां त्रयस्त्रिभिरुत्थिता येभिरासन् ।
मायं हिंसी: पितरं वर्धमानो मा मातरं प्रमिनीर्या जनित्री ।।१३।।
ग्राह्याः पाशान् वि चृत ये सिनन्ति यां ब्रह्मणा परिवृञ्चन्ति वेधसः ।
उन्मुच पाशांस्त्वमग्न एषां तज्जातस्यानहरहस्तु भद्रम् ।। १४ ।।
नि वर्तध्वं मानु गातास्मान् सिषक्त रेवतीः ।
अग्नीषोमा पुनर्वसू अस्य वर्धयतं रयिम् ।। १५ ।।
पुनरेना नि वर्तय पुनरेना उपा कुरु ।
इन्द्र एना नि यछत्वग्निरेना उपाजतु ।। १६ ।।
परि वो विश्वतो दध ऊर्जा घृतेन पयसा ।
ये देवा: के च यज्ञियास्ते रय्या सं सृजन्तु माम् । १७ ।
१९-२२ 19.22
नमो ऽस्तु सर्पेभ्यो ये के च पृथिवीमनु ।
ये अन्तरिक्षे ये दिवि तेभ्य: सर्पेभ्यो नम: ।। १ ।।
ये चामी रोचने दिवो ये च सूर्यस्य रश्मिषु ।
येषामप्सु सदस्कृतं तेभ्य: सर्पेभ्यो नम: ।। २ ।।
या इषवो यातुधानानां ये वा वनस्पतीनाम् ।
ये वावटेषु शेरते तेभ्य: सर्पेभ्यो नम: ।। ३ ।।
यवोच्छिष्ट हविषा वर्धयेमं यथा द्युम्नैः कृणुवद् वीर्याणि ।
सजूर्देवेभिरभि भूः सपत्नान् आयुष्मत् क्षत्रमजरं ते अस्तु ।।४।।
पुंसा यवेन हविषा पयस्वतोच्छिष्टस्यायं रक्षन्तु देवाः ।
देवाह्यस्मिन् निदधुर्नृम्णं बृहदस्मादिन्द्रो वयो दधातु ।।५ ।।
समुच्छिष्टस्य हविषा समुक्थै समायुषा वर्चसा पयो दधातु ।
देवाह्यस्मिन् निदधुर्नृम्णं बृहदस्मादिन्द्रो वयो दधातु । । ६ । ।
वायुरेना: समाकरत् त्वष्टा पोषाय ध्रियताम् ।
इन्द्र आभ्यो अधि ब्रुवद् रुद्रो भूम्ने चिकित्सतु । ७ ।।
यथा चकुर्देवा असुरा यथा मनुष्या उत ।
एवा सहस्रपोषाय कृणुतं लक्ष्माश्विना । ८ ।
लोहितेन स्वधितिना मिथुनं कर्णयो: कृधि ।
अकर्तामश्विनालक्ष्म तदस्तु प्रजया बहु । ९ ।
कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत् पतन्ति ।
आा च वर्तन्ते सदनादृतस्यादिद् घृतेन पृथिवीं व्युद्यते ।। १० ।।
पयस्वती: कृणुथाप ओषधीरिमा यदेजथा मरुतो रुक्मवक्षस: ।
ऊर्जं च तत्र सुमतिं च पिन्वत यत्रा नरो मरुतः सिञ्चता मधु।। ११ । । सूमतिं
उदप्लुतो मरुतस्तां इयर्त वृष्टिर्यद् विश्वा निवतस्पृणाथ ।
एजाति गल्हा कन्येव तुन्नैरुं तुन्दाना पत्येव जाया । १२ ।
त्वष्टेव पूषे सूर्यो दमुनामहि स्वस्तिर्वृषणा न आगन् ।
विश्वा आशा सुयवसा संरराणो ऽस्या रय्याः पुरएता न एहि।। १३ ।।
एह यन्तु मधुमद्युहाना अनमीवा उषतीर्विश्वरूपाः ।
बह्वीर्भवन्तीरुपजायमानो इहेन्द्रो वो रमयतु गावः ।। १४ ।। रूप
प्रजापतिर्जनयतु प्रजा इमास्त्वष्टा दधातु सुमनस्यमान: ।
संवत्सर ऋतुभि: संविदानो मयि पुष्टिं पुष्टिपतिर्दधातु । १५ ।
19.23
सहसी नाम वा असि सहसस्परि यज्ञिषे ।
सहस्वानिन्द्रो देवेषु सहसे त्वा खनामसि । १ ।।
सहस्येन भेषजेन दिव्येन शतपर्वणा ।
तेन सहस्र काण्डेन कृणोमि पुनराभृतम् ! ।। २ । ।
सहसो ऽहं भेषजस्य दिव्यस्य नाम जग्रभ ।
व्याशिष इव तस्थिरे यक्ष्मासः पुरुषादधि ।। ३ । ।
अपेत एतु निर्ऋतिर्नेहास्यापि किं चन ।
अपास्यां सत्वन: पाशान् मृत्युनेकशतं नुदे । ४ ।।
ये ते पाशा एकशतं मृत्यो मर्त्याय हन्तवे ।
तांस्ते यज्ञस्य मायया सर्वाङ् अप यजामसि । ५ ।
निरितो यन्तु नैर्ऋत्या मृत्योव एकशतं पर: ।
सेधान्मैषां यत्तम: प्राणान् ज्योतिश्च दध्महे ।। ६ ।।
त्रिषप्ता वारणा इमास्ताभिर्मामिन्द्रो अब्रवीत् ।
विषं वारयतादिति विषं दूषयतादिति । । ७ ।।
अप ब्रूतेदं मरुतो महीन्द्रस्यापवाचनी ।
एषां सहस्रमर्हत्येषां वारयते विषम । ८ ।
अस्थाद् द्यौरस्थात् पृथिव्यस्थाद् विश्वमिदं जगत् ।
अस्थुर्विषस्याभीतय: प्रतिकूल इवाबला: ।। ९ ।
यथा वाण: सुसंशित: परापतत्याशुमत् ।
एवा कासे परापतत् साकं वातस्य ध्राज्या । १० ।
यथा चक्षुश्चक्षुष्मतः परापतति केतुमत् ।
एवा कासे परापतत् साकं सूर्यस्य रश्मिभिः ।। ११ ।।
यथा मदो मन्युमतां परा पतति योजनम् ।
एवा कासे परापतत् समुद्रस्यानु विक्षरम् । १२ ।
इत एवाव गच्छतोग्रा भवतु माबला: ।
ह्वयन्तु सर्वे वो देवाः सर्वा वो वृण्वतां विशः ।। १३ । ।
यदवगमेन हविषाव वी गमयामसि ।
अत्रा त इन्द्र: केवलिर्विशी बलिहृतस्करत् । १४ । केबलि
इन्द्रः कश्यप आदग्निरिडा तुरिया व: सखा ।
यद् भूतं भव्यमसुन्वत् तेनाव गमयामिव ।। १५ । ।
19.24
न तं यक्ष्मा अरुन्धते नैनं शपथो अश्नुते ।
यं भेषजस्य गुग्गुलो: सुरभिर्गन्धो ऽश्नुते । १ ।।
यं गुग्गुलोर्भेषजस्य सुरभिर्गन्धो ऽश्नुते ।
विश्वञ्चस्तस्माद्यक्ष्मा मृगा अश्वा इवेरते । २ ।।
यद् गुग्गुलु सैन्धवं यद् वाघासि समुद्रियम् ।
उभयोरग्रभं नामास्मा अरिष्टतातये । ३ ।।
देवा एतं मधुना संयुतं यवं सरस्वत्यामधि मणावचर्कृषुः ।
इन्द्र आसीत् सीरपतिः शतक्रतुः कीनाशा आसन् मरुतः सुदानव: ।। ४ ।।
बृहत् पलाशे सुभग उर्ध्वस्वप्न ऋतावरि ।
मातेव पुत्रेभ्यो मृड केशेभ्यो न: शमि ।। ५ । ।
यस्ते मदोवकेशो यो विकेशो येनाभिहस्यं पुरुषं कृणोषि ।
भृणघ्नो विरुवारा चर त्वं तस्य ते प्रजयाः प्र सुवामि केशान । ६ ।
आकूतिं देवीं सुभगां पुरो दधे चित्तस्य माता सुहवा नो अस्तु ।
यामाशामेमि केवली सा मे अस्तु विदेयमेनां मनसि प्रविष्टाम् । ७ ।।
आकूत्या नो बृहस्पत आकूत्या न उपा गहि ।
अथो भगस्य नो धेह्यथो नः सुभगो भव ।। ८ ।।
बृहस्पतिर्म आकूतिमाङ्गिरसः प्रति जानातु वाचमेताम् ।
यस्य देवा देवताः संबभूवुः स सुप्रणीताः कामो अन्वेत्वस्मान् ।। ९ ।।
मनो न्वा हुवामहे नाराशंसेन स्तोमेन ।
पितॄणां च मन्मभिः ।। १० ।।
आा न एतु मन: पुनः क्रत्वे दक्षाय जीवसे ।
ज्योक् च सूर्यं दृशे ।। ११ । ।
पुनर्नः पितरो मनो ददातु दैव्यो जनः । पन
जीवं व्रातं सचेमहि । १२ । ।
वयं सोम व्रते तव मनस्तनूषु बिभ्रतः ।
प्रजावन्त: सचेमहि । १३ । ।
वर्चो मे मित्रावरुणा वर्चो देवी सरस्वती ।
वर्चो मे अश्विनोभा धत्तां पुष्कर स्रजा । १४ । ।
यच्च वर्चो यजमाने यच्च यज्ञेध्याहितम् ।
सुरायां बभ्रु यद् वर्चस्तस्य भक्षीय वर्चसः ।। १५ ।।
या उत्सेभ्यः प्रस्रवन्ति दिवोधारा नदीभ्यः ।
तासां त्वा सर्वासामपामभि सिञ्चामि वर्चसा ।। १६ ।।
यद्राजानं शकधूमं नक्षत्राण्यकृण्वत ।
भद्राहमस्मै प्रायच्छन् ततो राष्ट्रमजायत । १७ ।
भद्राहमस्तु नः सायं भद्राहं प्रातरस्तु नः ।
भद्राहमस्मभ्यं त्वं शकधूम सदा कृणु । १८ ।
यो नो भद्राहमकरत् सायं प्रातरथो दिवा ।
तस्मै ते नक्षत्रराज शकधूम सदा नमः । १९ । ।
यदाहु: शकधूमं महा नक्षत्राणां प्रथमजं ज्योतिरग्रे ।
तन्नः सतीं मधुमतीं कृणोतु रयिं च न सर्ववीरं नि यच्छात् । २०।
(ह्रति त्र्यृचनाम उनविंशतिकाण्डे षष्ठो ऽनुवाकः )
19.25
यूपेरन्ते विद्वेषणं देवानां वर्चसा कृतम् ।
अग्निर्वामस्त्वन्तरा यथा वां न सहासति । १ ।।
यथाहिं द्वेष्टि पूरुषो ऽहिर्वा द्वेष्टि पूरुषम् ।
अग्निर्वामस्त्वन्तरा यथा वां न सहासति । २ ।।
नानानं वामाकूतानि नाना चित्तानि सन्तु वाम् ।
विश्वञ्चौ पर्यावर्तयेथां यथा वां न सहासति । ३ ।।
अडदेकमडद्दवे तुण्डे न मशीतकं भङ्गलापतेद् वः ।
एतद् यत् ते यद् वा न चासन् नो च ते भूवत् ।। ४ ।।
स्वप्ने वित्तं यथा धनं नश्याद्यदेति रेचितम् ।
आगिलो गिला पापाजितो गिल नश्यात् ब्रध्नकमभिकम्। ५ ।
दीर्घायुत्वाय सहसे मह्या अरिष्टतातये ।
सुपर्णो मह्यमब्रवीदेतदाश्लिष्ट भेषजम । ६ ।
सक्तुर्नवति तुतउना पुनन्तो विद्वांसो वाचमग्रत ।
अङ्गेभ्यो विश्वाङ्गेभ्यः प्र ते छिनद्भ्यांश्लिष्टम् ।। ७ ।।
अवछिन्द्याश्लिष्टं ऊर्वा ह्यसि भेषजी ।
दिव्यः सुपर्णो अब्रवीदेतदाश्लिष्ट भेषजम् ।। ८ ।।
अभिभूरहमागमं विश्वकर्मास्यायुज: ।
अहं मित्रस्य कल्पयन् आाश्वाश्वासुदुष्टर: ।। ९ । ।
अहं समित्ययनो अहं विशां पुरोहितः ।
अहं मित्राणि कल्पयन्मयि वागस्तु धरुण्यसि । १० ।
आवश्चक्षुरावो वाचमा व: समितिं ददे ।
योगक्षेमं व आदायाहं भूम्यासमुत्तमः । ११ ।
ब्रह्मणाग्नि: संविदानो रक्षोहा नुदतामित:।
अरायो यस्ते तन्वां दुर्णामा योनिमाशये । १२ ।
यस्तेराया तन्वां दुर्णामा योनिमाशये ।
अग्निष्टं ब्रह्मणा युजा रक्षोहा नुदतामित: ।। १३ ।
यान्यृत्व्यानि रक्षांसि येराया यातुधाना: ।
अग्निष्टान् शग्मया तन्वा रक्षहा पातु तेभ्यः ।। । १४ ।
19.26
अग्निश्च देव सवितरिषमूर्जं दधानौ ।
पातं मा दुश्चरितादा मा सुचरिते भजतं युवयरवसा सुम्नमशीय। १।
इदं तदुप युव इदं तदुप ह्वये यच्छुश्रुमा त्वत् परि ।
वाचस्पतिर्नियच्छतु मय्येवास्तु ममाश्रुतम् ।। २ । ।
माप ज्यायस्ते अकरन् मा श्रुतेन वि राधिषि ।
अमोघमस्माकं श्रान्तमग्ने द्रविणवत्कृधि । ३ ।।
मध्यमेष्ठा वर्चस्वत्यायुषे वर्चसे कृतम् ।
वनुष्व विश्वदेवेषु वनुष्व त्वं बृहस्पतौ । ४ ।।
घृतेन प्रजां वनुते घृतेन रयिमश्नुते ।
घृतेनायुष्यं वर्चस्यं देवेभ्यो वनुते परि ।। ५ ।।
पर्जन्य पिप्पलास्तुभ्यं नद्यो गर्भं स्वस्तये ।
मर्यादा ब्रह्मदेवयीरायुष्यं वर्चसा सिचम् । ६ ।
यथा हस्ती हस्तिन्या: पदेन पदमन्वगात् ।
एवा त्वमग्ने वर्चस्य पदेन पदमन्विहि । ७ ।।
यथा रथस्य चक्रेण विपथ: पांसुमस्याथ: ।
एवा ह मनो व्यस्यामि हृदं संवननाय कम् । ८ ।
इन्द्रस्य प्रथमं वचो देवानामपर वच: ।।
तृतीयमश्विनोर्वचस्तेन गां वानयामसि । ९ ।
उदितः शयावौ विथुरौ दिवं गृध्राविवेयथुः ।
शोचनावभिशोचनावस्योच्छोचनौ हृद: ।। १० ।
शोचयाभिशोचया दीपयोप दीपय: !
अहेरग्ने विषं त्वं तृणमिव कल्वलं दह । ११ ।
सीदतं निसक्ताराववेतं मोङ्कतम् ।
कृष्णा वां गौ: सारस्वती । १२ ।
यथारात्री कृष्णतमा गौः कृष्णा कृष्णवर्त्मनी ।
शाची: पूर्वो यथा रूपमेवेदं मामकं शिरः ।। १३ ।।
यथाङ्गरोभिषिक्तो दर्विदाको यथासितः ।
अनुस्यन्दस्य कल्मषमेवेदं मामकं शिर: ।। १४ ; :
यथा दावाद् दह्यमानात्कृष्णो ज्वालोपध्वंसते ।
नैषांन्यस्य यथा मुखमेवेदं मामकं शिरः । १५ ।
१९-२७ 19.27
यत् किं चासौ मनसा यच्च वाचा यज्ञैर्जुहोति हविषा यजुर्भि: ।
तन्मृत्युना निर्ऋति: संविदाना पुरा दृष्टादाज्यं हन्त्वस्य । १ ।।
यातुधाना निर्ऋतिरादु रक्षस्ते ऽस्यघ्नन्त्वनृतेन सत्यम्।
इन्द्रेषिता आज्यमस्य मथ्नन्तु मा तत् सं पादि यदसौ जुहोति।।२।।
परित्वाग्ने पुरं वयं विप्रं सहस्य धीमहि ।
भिषग्वर्णं दिवेदिवे हन्तारं भङ्गुरावतम् ।। ३ ।।
स्वर्जिदधिराजौ श्वेनौ संपातिनाविव ।
आज्यं पृतन्यतो हतां यो ऽस्मान् पृतनायति । ४ ।।
पृथिव्यै वनस्पतिभ्य ओषधीभ्यो ऽग्नये ऽधिपतये स्वाहा । ५ ।
अन्तरिक्षाय प्राणाय वातेभ्यो वायवे ऽधिपतये स्वाहा । ६ ।
दिवे चक्षुषे नक्षत्रेभ्य: सुर्याया ऽधिपतये स्वाहा । ७ ।। क्षुसे
पिप्पल्य: समवदन्तायतीर्जननादधि ।
यं जीवमश्नवामहै न स रिष्याति पूरुष: । ८ ।
पिप्पली क्षिप्तभेषज्युतातिविद्धभेषजी ।
तां देवा: समकल्पयनलं जीवितवा इति । ९ ।
असुरास्त्वा न्यखनन् देवास्त्वोदवपन् पुन: ।
वातीकृतस्य भेषजी पिप्पलीक्षिप्त भेषजी । १० ।
यदुलूको वदति मोघमेतद्यत् कपोतः पदमग्नौ कृणोति ।
यस्य दूतौ प्रहिताविदमेजथुस्तस्मै यमाय नमो ऽस्तु मृत्यवे ।। ११ ।।
यस्ते दूतो निर्ऋत आजगामाप्रहितः प्रहितो वा गृहं न: ।
कपोतोलूकावपदन्तदस्त्ववैरहत्यामिदमाजगन्थ
सुवीरताया इदमा ससद्यात् तस्मै यमाय नमो ऽस्तु मृत्यवे ।। १२ ।।
य: प्रथम: प्रवतमाससाद्य बहुभ्य: पन्थामनुपस्पशान: ।
य ईशे ऽस्य द्विपदो यश्चतुष्पदस्तस्मै यमाय नमो ऽस्तु मृत्यवे ।। १३ ।।
यथासित: प्रथयते वशां अनु वपूंषि कृण्वन्नसुरस्य मायया ।
एवा मे शेपः सहसायमर्को एनाङ्गेन संसमकं कृणोतु ।। १४ ।।
यावदङ्गीनं पारस्वतं हास्तिनं गार्दभं च यत् ।
यावदश्वस्य वाजिनस्तावन् मे वर्धतां पसः ।। १५ । ।
यथा पसस्तायादरं वातेन स्थूलभं कृतम् ।
यावत् परस्वतः पसस्तावन् मे वर्धतां पसः । । १६ ।।
19.28
यस्येदमा रजो युजस्तुजे जनं वनं स्व: ।
इन्द्रस्य नाधृषे शव: ।। १ ।।
धृषाणो धृषित: शव: पुरा यथा यतिष्ठन् ।
इन्द्रस्य रन्त्यरियं महत् । २ ।।
स नो ददातु नो रयिमुरुं पिशङ्ग संदृशम् ।
इन्द्रः पतिस्तुविष्टमो जनेष्वा । । ३ । ।
आयुरग्नि इहा वहाज्जातवेदास्तनू वशिन् ।
यथाहं योग्जीव ऽसानि प्रजानामधिपावशी । ४ ।।
आयुरिन्द्रो दधातु मे आयुर्देवो बृहस्पति: ।
आयुर्मे विश्वे देवा अहोरात्रे च चक्रतु: ।। ५ ।
आयुरायुस्या पततां प्राणं प्राणो दधातु मे ।
देवा यच्चक्रुर्देवेभ्य: स्वर्यन्तो यथायथम् । । ६ ।।
उत् पतन्तुर्नभस्वती समुद्रादधि घोषिणी ।
उच्चा समुद्रिया आपस्ताभिष्ट्वा तर्पयामसि । ७ ।।
या आपो दिव्या या वातात् परियज्ञिरे ।
इन्द्रो मरुत्वांस्तप्तात्माताभिष्ट्वा तर्पयामसि ।। ८ ।।
या: शुष्का या हरिणीर्याभूमि मनुवा दधु ।
सर्वा: समग्रा ओषधीस्ताभिष्ट्वा तर्पयामसि । ९ ।
आ नो मेधा सुमतिर्विश्वरूपा गिरो बृंहतीरावेशयन्ती ।
रुचो मे बह्वीर्नि युनक्तु गावो यथासाम भूवनेषु कर्ण न: ।। १० ।। वह्वी
दीक्षा तपो मनसो मातरिश्वा बृहस्पतिर्वाचो अस्या स योनिः ।
वेदांसि विद्यामयुजन्त बह्वीरग्नीषोमौ यशो अस्मासु धत्तम्।। ११ ।। वह्वी
यदग्ने तपसा तप उपप्रेक्षामहे वयम् ।
प्रियाः श्रुतस्य भूयास्मायुष्मन्त: सुमेधसः ।। १२ ।।
यस्त्वा मातुरुत वा पितुः परिजायमानमभिसंबभूव ।
तं त्वद्यक्ष्मोमधिनाशयाम: सो ऽन्यस्मिंच्छ्रयातै: प्रविष्ट: ।। १३ ।।
यस्ते यक्ष्मो हृदयेष्ठो नाभिष्टवा उदरंगमः ।
अथो यः शिश्रिये परे तं त्वद्यक्ष्मोमधिनाशयाम: सो ऽन्यस्मिच्छ्रयातैः प्रविष्टः । । १४ ।।
शीर्षरोगमङ्गरोगं संस्रावणं विबर्हणमभिशाचं विसल्पकम् ।
यस्ते यक्ष्मो मज्जसु परुषु यो गुदासु तं त्वद्यक्ष्मोमाधिनाशयाम: सो ऽन्यस्मिच्छ्रयातैः प्रविष्ट: ।। १५ । ।
(इति त्र्यृचनाम ऊनविंशतिकाण्डे सप्तमो ऽनुवाक: )
१९-२९ 19.29
अग्निरक्षोहा तिग्मस्तिग्मशृङ्गो हन्तु रक्षो नुदतामरातिम् ।
अपाघशंसमस्यतु । १ ।।
आ न एतु परावतो बलमोजो दिवस्परि ।
आा गिरिभ्य: पर्वतेभ्य आयुष्टे विश्वतो दधत् ।। २ ।।
पुनस्ते ऽसुं पृथिवी ददातु पुनर्द्यौर्देवी पुनरन्तरिक्षम् ।
पुनस्ते सोमस्तन्वं ददातु पुन: पूषा पथ्यां या: स्वस्ति: ।। ३ ।।
कष्कषाः कर्षिपिषा: पिष्टा येवाषायेवषा: ।
इष्टर्गवेषयन्त: सैकता: पांशवा: ।। ४ ।।
अदृष्टान्नदृष्टान् ।
दृष्टा ङ् अदृष्टान्धनपते जहीन्द्रस्य वधेन । ५ ।
एताश्च विश्वरूपाश्च गृध्रा: कोकाश्च ते हता: ।
कामे कामयस्व मा प्रतीची: प्रती मा भव । ६ ।
मामनु प्रते मनो वत्सा पाकेव धावतु ।
अभिले अभिमादन्यसौमामभिमाद्यतु । ७ ।।
विद्म पतत्त्रिण्यवर्यमिषुके नामकं तव ।
अहं ते मन आ ददे मनो मनोमुषिर्यथा । ८ ।
मयि ते मन आहितं रथ इव रथवाहने ।
उदसौ सूर्यो अगान्मह्यमवतुना सह । ९ ।
अहं विशां पुरोहितो मधुहस्तो मधुजिह्वोः ।
मयि वागस्तु धरुण्यसी ।। १० ।।
अहं विश्येन केतुना समक्ष्ये मानुषेष्वा ।
अस्माकमस्तु केवलं बृहद्यशो अधि विश्वेषु राजसु । वृहद्य
स्वादोश्चिन् मा स्वादीयांसं मधोश्चिन् मधुमत्तरम् । ११ ।
प्रियाच्चित्सख्युरन्तरमादित्यास: कृणोतु मा ।
अग्ने ब्रह्म त्वं ब्रह्मासि विद्धि त्वं प्रास्मभ्यं ब्रूहि । १२ ।
यदीदं तथा भविष्यसि यदि वा नामथैतस्य हविषोविहि स्वाहा।।१३।।
वि पृच्छे द्यावापृथिवी वीन्द्रं वि बृहस्पतिम् ।
वि देवान् यज्ञियान् पृच्छे व्यसं जीवनाय कम् ।। १४ ।।
विज्ञानायोद्यतः प्रस्तुत: सुगं यम राजन् हविरिदं जुषस्व ।
अगतासोरिहविषो मादयस्व निर्ऋतिं गच्छतु यं गतासोः ।। १५ ।।
19.30
य त्वां मांसे अपववौ यन् मन्थे यदोदने।
अग्निष्ट्वा विश्वभेषजस्तस्मात् पात्वंहसः । । १ ।।
यस्त्वावातो आ वात्वधरादुत्तरादुत ।
आपो या विश्वशंभुवस्तास्त्वा पात्वंहस: ।। २ ।।
अपत्वं मृत्युं निर्ऋतिमपयक्ष्मं नि दध्मसि ।
यथात्वमरपो अस उदोजा उत्तरो भव । ३ ।।
वैश्वानरो रश्मिभिर्न: पुनातु वातः प्राणेनेषिरो नमोभि: । रस्मि
द्यावापृथिवी पयसा पयस्वती ऋतवारी यज्ञिये मा पुनीताम् ।।४।।
प्रजापतिर्ऋतुभिः पञ्चभि: संवत्सरो धामभिः पातु विश्वै: ।
इहैव प्राणः सख्ये नो अस्तु तमात्मनि पुनरावेशयामि । । ५ ।।
वैश्वदेवीं सुनृतामा रभध्वं शुद्धा भवन्तः शुचय: पावका: ।
तया गृणन्तः सधमादेषु वयं स्यामो पतयो रयीणाम् ।।६ ।।
वैश्वानरीं वर्चस आा रभध्वं यस्या आशास्तन्वो वीतपृष्ठाः ।
इडयेह सधमादं मदन्तो ज्योक्पश्येम सूर्यमुच्चरन्तम् । ७ ।।
अवत्कं ममभेषजमवत्कं परिवाचनम् ।
नराव्यसिमातु दोवन्वानारोगभेषजम् ।
शम्भुलेहमिहाहरत् तमुदक्षीरा उदस्यति । ८ ।
तदास्रावस्य भेषजं तदु रोगमनीनशत् ।
नदीषु नड्वलासु कुम्भेषु कलशेषु च ।। ९ । ।
प्रतीशेचन भेषजं तत्ते कृणोमि भेषजम् ।
मध्यमं सं पिबोदकं पट्पटिङ्गं विपश्चलं विपश्य। १० । पिवो
अविदामयदैच्छामि पिशाच क्षयणं हविः ।
तेन क्रव्यादो हन्मि: सर्वाश्च यातुधान्य: । ११ ।
इच्छन्ति त्वा पदातय इच्छन्ति रथिनस्त्वा ।
प्रीणन्ति गोभिरश्वैरमृतस्येव वा असि ।। १२ ।।
अमुं सुनाम भेषजं पृथिव्या अध्युद्भृतम् ।
वक्ता तन्मह्यमब्रवीदिदं हि पारयादिति । १३ । ।
चक्षुरसि पुरुषस्य चक्षुर्गोश्चक्षुरर्वतः ।
चक्षुर्भूतस्य भव्यस्य चक्षुरप्सरसामसि ।। १४ । ।
चक्षुरसि सुपर्णस्य चक्षुरहेरथो शुन: ।
यक्षुः सर्वस्य पश्यतो अथोयद् विश्वमेजति ।। १५ ।।
आदधानं सहस्राक्षं प्रतिस्पाशनमब्रुवन् । मब्रु
दर्शय मा यातुधानान् दर्शय यातुधान्य: ।। १६ ।।
19.31
अतिमामक्षं पृथिवीमतिद्यामति सूर्यम् ।
अति विश्वमिदं भूतमत्यक्षं यातुधान्य: ।। १ ।।
दर्शय मा यातुधानान् दर्शय यातुधान्य: ।
अघायून् सर्वान्दर्शयेत्योषध आरभे । २ ।।
एवा सहस्र चक्षो त्वं प्रतिपश्यास्यायतः ।
सहो ऽसि यातुधानजम्भनम् । ३ ।।
इमा: पारे पृदाक्वस्त्रिषप्ता निर्जरायवः ।
तासां जरायुणा वयमक्ष्यावपि व्ययामस्यघायोः परिपन्थिनः ।।४।।
विषूच्येतु कृन्तती पिनाकमिव बिभ्रती।
विष्वक् पुनर्भुवा मनो असमृद्धा अघायवः।।५।।
अपेतः परिपन्थिनो यो अघायुरर्षतु।
न बहव: संशक्नुवन्नार्भका अभि धृष्णुवन । ६ ।
प्रेतं पादौ प्र स्फुरतं वहतं पृणतो गृहम् ।
इन्द्राण्येतु प्रथमाजीतामुषिता पथा । ७ ।।
आायमगन् फल्गुमणिर्बलेन बलदाः सह ।
येनेन्द्रो दस्युनावीराङ् असुराणामवातिरत् । ८ ।
वर्चसां मां पयसोक्षन्तु देवा वर्चसा द्यावापृथिवी उभे ।
वर्चो मे देवः सविता दधातु वर्चो विप्रः कश्यपो मे दधातु ।।९।।
वर्चो म आापो दधतु वर्चो मे वीरुधो दधन् । ।
भूतानि सर्वाः सङ्गत्य वर्च आधुर्मुखे मम ।। १० ।।
या: पुरस्ताद् वितिष्ठन्ते गावः प्रव्राजिनीरिव । व्राजी
वातीकृतस्य भेषजीः पिप्पलैः पारयिष्णवः ।। ११ ।।
रुद्रस्य मूत्रमस्यमृतस्य नाभिः । ।
पृथिव्यां मूलं निष्ठितमसि विषाणा नाम वातीकृतस्य भेषजी ।। १२ ।।
शं ते अस्तु मतस्नाभ्यां शं य क्लेशं तलीभ्यौ ।
शं ते पृष्टिभ्यो मज्जभ्य: शमस्तु तन्वे तवं । १३ ।
नहि ते अग्ने तन्वः क्रूरमानंशा मर्त्यम् ।
कपिर्बभस्ति ते जनं स्वं जरायु गौरिव ।। १४ । ।
त्वेष इव सं च वि चोर्वच्यसे यदुत्तरद्रावुपरस्य खादति ।
शीर्ष्र्णा शिरो अप्ससाप्सो अर्दयन्नंशून् बभस्ति हरितेभिरासभिः ।। १५ ।।
सुपर्णा वाचमक्रतोप द्यव्याखरे कृष्णा इषिरा अनर्तिषुः ।
नि यन्नियन्त्युपरस्य निष्कृतिं पुरू रेतो दधिरे सूर्यश्रित: ।। १६ ।।
19.32
भगेन मा शांशपेन साकमिन्ट्रेण मेदिना ।
कृणोमि भगिनं माप द्रान्त्वरातयः ।। १ । ।
यो अन्धो यः पुरःसरो भगो वृक्षेष्वार्पितः ।
भगो मे अस्तु शांशपो ऽपः द्रान्त्वरातयः । । २ ।।
यथा वृक्षाङ् अभ्यभवः साकमिन्द्रेण मेदिना ।
एवा मा भगिनं कृण्वप द्रान्त्वरातयः ।। ३ । ।
अपेतो नीललोहितं जातं हिमवतस्परि ।
कीश्मीलमुर्वराभ्यो दिवो जातमनीनशम् । ४ ।।
अभ्राज्जातं वर्षाज्जातं मथो जातं दिवस्परि ।
अथो समुद्राज्जातं कीश्मीलं नाशयामसि । ५ ।
यो नीहाराद् य: पृष्ठाया यो ऽभ्यस्परिजायसे ।
गर्भो यो विद्युतामसि स न: कीश्मील मृडय । ६ ।
नादेयीः सिकता इमा: सिन्धुतस्पर्याभृता: ।
ताभिर्यमस्य कीश्मीलं सभूताभिरनीनशम् । ७ ।।
त्वया पूर्वं विभीतकं संजिता असुराहता: ।
त्वं सपत्नचातनो भ्रातृव्याङ् अव धूनुष्व । ८ ।
वि भिनत्तु विभीतकस्तीक्ष्णशृङ्ग इव ऋषभः । ।
अथो सपत्नानादत्तामथो हन्तु दुरस्यत: ।। १ ।।
व्यवग्धित्सहमानः सपत्नान् द्विषतो मे अधराङ् अकः ।
अभ्यभूद् भूत्योभयाः ।। १० ।।
य आस्कन्द: परास्कन्द आखुः कुकुम्भात् कृमिः । ।
उपचीकान् उपक्वसान् तान् सर्वान् जम्भयामसि ।।११।
अपि नह्यस्याखोर्मुञ्जेन मुखमास्यम् ।
अपनुदन् यथा चारादपेत उर्वराभ्यः ।। १२ ।।
अपिनद्धमुख आखुः परोक्तः प्राधराजतः ।
शृणाम्यस्य दन्तान् वि रक्षो पातयामसि ।। १३ ।।
अश्विना सारघेण मा मधुनाङ्क्तं शुभस्पती ।
यथा गर्भस्वतीं वाचमावदानि जनाङ् अनु । १४ ।
यशा अहं निमिशते प्रत्यक् सत्रे यशा अहम् ।
अत्रैमितद् यशा अहमुत तत्र यशा अहम् ।। १५ ।।
अस्मै च सर्वस्मै भूताय सर्वस्मै च विपश्यते ।
सर्वस्मै इदहं यशा । १६ ।
अपोत्तर पोर्णहि यदीदमस्ति वा न वा ।
व्यन्द्यं विल्गणं चक्षुरक्षिभ्यां कृधि । १७ ।
अङ्क हिरण्मयं कृत्वा लङ्गलाष मर्मञ्च ।
तद्देवा अप्पलुम्पतु चक्षुष्मन् मे मनो अस्तु । । १८ ।।
चक्षुष्मद् हृदयं मन: चक्षुष्मच्चितमस्तु मे ।
चक्षुश्चक्षुष्मदस्तु मे चक्षुराधेहि मे अक्ष्योः ।। १९ ।।
(इति त्र्यृचनाम ऊनविंशतिकाण्डे अष्टमो ऽनुवाक: )
19.33
सोमो राजा सविता च राजा भगो राजा भुवनं च राजा।
शर्वो राजा शर्म च राजा त उ नः शर्म यच्छन्तु देवाः ।। १ ।।
आदित्यैनों बृहस्पतिर्भग: सोमेन नः सह ।
विश्वे देवा उर्वन्तरिक्षं त उ नः शर्म यच्छन्तु देवाः । । २ ।।
उतारुद्धां निष्खिदताथो ऽस्रथ्नि यथायथम् ।
मा नो विश्वे देवा मरुतो हेतिमस्यन्ताम् । ३ ।।
अपामिदं न्ययनं समुद्रस्य निवेशनम् ।
मध्ये ह्रदस्य नो गृहा: पराचीना मुखा कृधि । ४ ।।
उत्सो वा तत्र जायतां ह्रदो वा पुण्डरीकवान् । ५ ।
हिमस्य त्वा जरायुणा शाले परि व्ययामसि ।
शीतह्रदा हि नो भुवो ऽग्निर्ददातु भेषजम् । ६ ।
अयं दर्भ विमन्युक: स्वाय चारणाय च ।
मन्योर्विमन्युको मन्युशमनो ऽस्तु ते । ७ ।।
अयं यो भूरिमूलः समुद्रमवगच्छति ।
दर्भ: पृथिव्या निष्ठित: स ते अस्तु विमन्युक: । ८ ।
वि ते हनव्यां शरणिं वि ते मुख्यां नयामसि ।
यथावशो न वादिषो मम चित्तमुपायसि । ९ ।
येभिः पाशैः परिवित्तो विबद्धः परौपरावार्पितो अङ्गेअङ्गे !
वि ते चृत्यन्तां विचृतो हि सन्ति भ्रूणघ्नि पूषन् दूरितानि मृष्टा: ।। १० 1!
त्रिते देवा अमृजतैन एतत् त्रित एनान्मनुष्वेष्वमृष्ट: ।
ततो जहि त्वा मध्येन आहरत्तदहं त्वद् ब्रह्मणाप करोमि ।। ११ ।।
मरीचीर्धूमं प्र विशानु वातामुदारान् गच्छोत वा नीहारान् ।
नदीनां फेनमनुतद्विनश्यतु भ्रूणघ्नि पूषन् दुरितानि मृष्टा: ।। १२ ।।
अग्ने रक्षः प्रतिदह यत् कुम्भ्याभिराभृतम् ।
अनाधृष्यस्य यास्यत्यभूज्जीवातवेयम् ! ।। १३ । ।
यन्नखवद्यच्छपवत् प्रसुमत् किं च पुष्पवत्।
उर्वामत्स्यो मधूलकं तस्य प्रास्यत्ययमनास्रावमरोगणम्।।१४।।
या समुद्रात् प्रस्रवन्ति देवीर्हिमवतस्परि ।
आपो या विश्वशंभुवस्ता इहा यान्तु भेषजी: ।। १५ । । संभू
19.34
त्वचापिधाने सुभगे यत् परिस्तरणे कवे ।
एकामिव व्रजेगां परि त्वा वर्चसा सिचम् ।। १ । ।
अग्रेणीरिव हंसानां प्रपश्यन्ती पुरस्पथम् ।
जिह्वे मा विव्यथो मा यथा पूर्वं त्वं वद: ।। २ ।।
वर्चस्वदहमुद्यासं ब्रह्मराजन्याभ्यां शूद्राय चार्याय च।
यस्मै च कामयामहे सर्वस्मै च विपश्यते । ३ ।।
अर्वाञ्चौ पादौ प्र हराम्य ऽर्वाचीनं मनस्तव ।
अर्वाचीनं नश्यतेतः पराङ् मन्युर्नि वर्तताम् ।। ४ ।।
यश्च छागलादे भगवो ऽर्वाग् ज्योतिः परस्तमः ।
आा त्वा खले ऽग्निकात्तस्मात् पुनरा वर्त्तयामसि ।। ५ ।।
यथा व्रीहिन् व्रीहिखले समाकुर्वन्ति तूलिभि: । ब्रीहि
एवा ते निष्ठितं मन: समा करोमि मामुभे । ६ । ।
त्वमुत्तमं सुराधसां माध्यमं हुवतोरसि । राघ
त्वया विदुर्वि जङ्गहे तं त्वा वर्चस आ ददे। ७ ।।
मूर्ध्न्यस्ते मूर्ध्न्योभ्यो ऽग्रुवः प्रतिविद्याः ।
यक्ष्मं शीर्षत आ ददे । ८ ।
यश्च स्फामा ते अङ्गेषु यः प्रेमा हृदये च ते ।
तं त्वदा वेशयामहे मयि भ्राजातिदीद्यत । ९ ।
वातरंहा वाजिन् भव युज्यमान इन्द्रस्य याहि प्रसवे मनोजवाः।
युञ्जन्तु त्वा मरुतो दैव्यास आ ते त्वष्टा पत्सु जवं दधातु ।। १० ।।
जवस्ते अर्वन निहितो गुहा य: श्येने चरति यश्च वाते ।
तेन त्वं वाजिन् बलवान् बलेनाजिं जय समने पारयिष्णुः ।।११।।
आसीयानो ऽधि मनसा आसीयानो ऽधि चक्षुषा ।
आसीयान: सवाचाभूत्वाजिं जय समने पारयिष्णुः । १२ ।
तनूस्ते वाजिन् तन्वं वहन्ती वाममस्मभ्यं धातु शर्म तुभ्यम् ।
अविह्वतो महो धरुणाय देवा दिव्यमिव ज्योतिः स्वरा मिमीयात्।।१३ ।।
इन्द्रो माव वक्षति वृत्रहा यो वृत्रञ्जयः ।
स मे रथ्यं सुसारथि सो ऽश्वान् मधु मे नयात् । १४ ।
इन्द्रो मा तेन नयतु पन्था य उभयः सुगः ।
दक्षिणा पारयाति वा मा रिषन् समरे युध: ।। १५ ।
हृत्सु के परिणोनमा पारिषं तन्वं कृधि ।
यूयं तु पर्णिनं शिरमुतापर्ण रिषादिति । १६ ।
19.35
विश्वे देवा इदं हविरादित्यासः सपर्यत ।
अस्मिन् यज्ञे माव्यथिष्वमृताय हविष्कृतम् ।। १ ।।
अव्यसश्च व्यचसश्च बिलं वि ष्यामि मायया । विलं
ताभ्यामुद्धृत्य वेदमथ कर्माणि कृण्महे । २ ।।
यस्मात् कोशादुद्भराम वेदं तस्मिन्नन्तरव दध्म एनम् ।
कृतमिष्टं ब्रह्मणी वीर्येण तेन मा देवास्तपसावतेह । ३ ।।
वैश्वानरो अजीजनदग्निर्नव्यां सुमतिः ।
क्ष्मया वृधान ओजसा । ४ ।।
स न: पावक दीदिह्यग्ने वैश्वानरद्युमत् ।
जमदग्निभिराहुत: ।। ५ ।
दिवि पृष्टो ऽरोचताग्निर्वैश्वानरो बृहन् ।
ज्योतिषा बाधते तमः । ६ । ।
हरिणस्य पतत्रिणः शीर्ष्णो भेषजमाभृतम् ।
तल्लोकवद् यल्लोकवत् तदस्तु क्षेत्रियनाशनम् । । ७ ।।
अन्नपो ऽस्त्वन्नपतिरन्नं मंस्थ वृषा यो वाः ।
कीनाशां अन्व मंसतं अनुगावोर्ण मंसत । ८ ।
नमो ऽस्त्वायाविभ्यो निविभ्यो हृदयाय च ।
नमः क्षेत्रस्य पतये नमः क्षेत्रस्य पत्न्यै ।। ९ । ।
तत् ते हृदयं शोचयामि हस्तेनाभिमरीमृशत् ।
केशिन् वृषण्यया तव मुष्कौ मूर्धा न शुष्यताम् ।। १० ।।
अग्निष्ट्वा तपतु सूर्यस्त्वा तपतु वातस्वा युड्क्तां मरुतश्च युञ्जताम् ।
युञ्च मृगान्मरीचीरप्येतु ते मनः । । ११ ।।
उत्वा हन्मि निपतनादुत्वा हन्मि गृहेभ्यः ।
मा स्पृक्षथा निशदनाय साधव उतिष्ठ प्रेहि सभाम्।।१२।।
उत्तद् अस्मिदावत्यथो उल्वावतीं कुरु ।
पत्ये स्वसुराय च ।।१३।
विबर्हो हराशयो रसं ज्ञानमति भूज्ज: ।
साकमृष्टा वि नाशय । १४ ।
साकं वातस्य ध्राज्या साकं सूर्यस्य रश्मिभिः ।
साकं सूर्यणोद्यता सपत्नीं नाशयामसि । १५ ।
19.36
दीर्घजिह्वा बृहद् वाचो याभिरिन्द्राणि वामासि ।
गावो घृतस्य मातरो दिवि भेषजमक्रत । १ ।।
अर्जुनीनामपचितां कृष्णा मातेति शुश्रोव ।
मुनेर्देवस्य मूलेन सर्वा: छिनद्मि ता अहम् । २ ।।
छिनद्म्यासां प्रथमां छिनद्म्युत मध्यमाम् ।
उतो जघन्यामासामा छिनद्मि स्तुकामिव । ३ ।।
अपेहि मनसस्पते किमशस्तानि शंसति ।
परेहि न त्वा कामये वृक्षान्वनानि सं चर: ।। ४ । ।
अवशसा नि:शसा यत् पराशसोपारिमः यज्जाग्रतो यत् स्वपन्तः ।
अग्निर्विश्वान्यप दुष्कृतान्यजुष्टान्यारे अस्मद् दधातु ।। ५ ।।
यदिन्द्र ब्रह्मणस्पते उत मृषा चरामसि ।
प्रचेता न आङ्गिरसो द्विषतस्पातु तेभ्य: ।। ६ ।।
एहमामुत्तरं कृधि सहस्व पृतनायत: ।
व्यस्मत् कृत्या व्यस्मच्छपथाङ् अज । ७ ।।
यो नो ऽधिरुषान्मनसा यश्च पापेन नो भ्यमात् ।
आकूतिं तस्य देवा हृदश्चित्तानि वृश्चन्ताम् ।। ८ ।।
अश्व इव धृतियोग: प्रति हायामहे धस ।
कृत्वानं ब्रह्मणस्पते दंष्ट्राभ्यामभिसं जहि । ९ ।
यो ऽन्या अधिप्रजायथा मूर्ध्नो ऽध्युदवर्धथाः ।
त्वं सपत्नचातनो भ्रातृव्याङ् अव धूनुष्व । १० ।
बहुरयं सङ्गुरुष्टो न्यक्तो भूम्यामधि ।
तेनाहमास्यं कृत्स्यामि यथा त्वा मा गमिष्यति ।। ११ ।।
स्थामागं बृहदक्षत्रं स्थामन्ताक्षिणो व्यस्यति ।
अनुष्ठानस्य यो राजा स उत्थाम गमिष्यति । १२ ।
अगमद्राजा सदनमगमत् सूर्यो दिवम् ।
उदयन् वृत्रहन् प्लीहा अङ्गराजो अवीरहा । १३ ।
यथा पन्थां कवापथो अप्येति महापथम् ।
एवा त्वं प्लिहीन्नप्लीहि यतीनस्यभ्यागत: ।। १४ ।
इन्द्रेण दत्तं बलमासुराभ्यां शितङ्गैः तच्छाल्वतायै च तुभ्यम् ।
तौ नुदेथा कण्वा अशिवा अजुष्टा अधा गृहाणां गृहपास्तमेषाम्।। १५ ।।
त्वमग्ने गृहपतिर्गृहाणां त्वं प्रजानां जनिता सुजात: ।
त्वं नुदस्व कण्वा अशिवा अजुष्टाः सदान्वा निदधस्येताः पापीः ।।१६।।
चर्माभ्यः क्रूरमानह्य हरिणस्य भयं कृधि ।
मृगाङ् अनु प्र पातय मरीचीरनु नाशय । १७ ।
यद्यस्यप्सरावी यदि त्वा रक्षो अग्रभीत् ।
तस्मा अपप्लवं हविर्मनसा जुहोमि ते ।। १८ ।।
(इति त्र्यृचनाम ऊनविंशतिकाण्डे नवमो ऽनुवाकः )
१ ९-३७ 19.37
अभि त्वा शतपाशया अथो सहस्रपाशया ।
दासोमत्स्यमिवतीदेन मयि बध्नामि ते मनः ।। १ १ । ।
आ हि ते दक्षिणं पदं हृदय्यं ददे ।
उपस्थे पदमोपि नि त्वामकृच्छ्रे ऽवसे ।। २ ।।
परि त्वा गामिवासरं मम पत्तो निपातवे ।
तं मारुतं ह वैरुधमाव तं करणं कृतम् ।। ३ ।।
आ नयामि ते मनो अश्वमिवाश्वाभिधान्या ।
उप ते मुञ्चे मनः पदोरुपानहौ यथा ।। ४ ।।
यथा सुरा यथा मधु यथाक्षा अधि देवने ।
यथाह गव्यतो मन एवा मामभि ते मनः ।। ५ ।।
एवा कृणुष्व मा प्रियामन्त: कृणुष्व मां हृदि ।
यथा नान्यापचेतया नान्यासां कीर्तयाश्चन ।। ६ ।।
यस्येदं वैष्टपं हविर्भगस्य हस्तयोर्हितम् ।
तेना त्वाभि मृणामसि सौभाग्याय स्वस्तये ।। ७ ।।
भगमेमां त्सं वष्ट्यारो मा पश्चान्मा पुरो दघः ।
अधा भगस्य यो भगस्तेन मां संसृजा भग ।। ८ ।।
भगेन त्वा सं सृजामि मा ररेण सुरामिव ।
अथाससि प्रियः पतिर्देवृग्भ्यः सुभगाससि ।। ९ ।।
उदितो दैव्यं वच इषुमिव त्रीण्यः इष्यते ।
तेनासपत्नान् मामकान् सासहानि जहानि च ।। १० । ।
अग्निर्मा पातु वसुभिः पुरस्तात् सवितादित्यैरभि पातु दक्षिणात्।
इन्द्रो मरुद्भिरभि पातु पश्चाद्विश्वे देवा अभिरक्षन्तु नोत्तरात् ।। ११ ।।
देवराक्षसान् मा पाहि मनुष्यराक्षसान् मा पाहि ।
विश्वस्मान् मा रक्षसः पाहि ।। १२ ।।
असौ यस्त्रिककुद्गिरिः शृङ्गाभ्यामभितिष्ठति ।
स संपतत्रमुद्यगं बलासमिव तिष्ठतु ।। १ ३ । ।
दिव्यः सुपर्णो आ पतदयोदंष्ट्रो अयोमुखः ।
स संपतत्रमुद्यगमितो यक्ष्मं पराभवत् ।। १४ । ।
साके बलास प्र पत चाषेण किकिदीविना ।
सांक वातस्य ध्राज्या सह नश्य निहाकया । १५ । ।
१९-३८ 19.38
माभिगाय: शबलेयं श्रोणीयं साधुवाहनम् ।
नमस्ते भद्रया कृण्मो ऽविह्वृता चक्षुषा त्वं शमका शमयाति त्वा। १ ।।
तृङ्व विक्षिणीहि पयसः कुर्वाणि गा त्वम् ।
जारेण पत्याजक्षती गृहान् गोपायमानिका शमका शमयाति त्वा। २
आंक्ष्वाभ्यङ्क्ष्याभ्यंक्ता शपनं गमः ।
अथो पितृभ्यो गा गछ ।
विज्ञानेन भगेन च शमका शमयाति त्वा । ३ । ।
अपेहि मनसस्पापाप क्राम परश्चर ।
परो निर्ऋत्या आ चक्षुर्बहुत्रा जीवतो मनः ।। ४ ।।
भद्रं वै वरं वृणते भद्रं युञ्जन्ति दक्षिणम् ।
भद्रं वैवश्वते चक्षुर्बहुत्रा जीवतो मनः ।। ५ ।।
यन्मे छिद्रं मनसो यच्च वाचः सरस्वतीं मन्युचित्तं जगाम ।
विश्वैस्तद् देवैः सह संविदानः सं दधातु बृहस्पतिः ।।६ ।।
स्फिरा स्फिरतरं स्फिर आत्तार: ।
शतहस्त समाहर सहस्रहस्त सं किर ।
इहैवा किर सं किरेहैवस्फातिमास्फिरम् । ७ ।।
स्फिरेयमस्त्वोषधिः समुद्रस्येव संस्रवः ।
उत्तरा आगमं नुपोतरा न आगमम् । ८ ।
इमा या: पञ्च प्रदिशो मानवीः पञ्च कृष्टयः ।
वृष्टे शापं नदीरिवेह स्फातिं ससावहान् । ९ ।
वि मयुखा आ यच्छन्तु गर्दभा इव तूर्यजाः ।
मुह्यन्तु सर्वे तन्तवो व्रतानाड़ी वि तन्तिके । १० ।
प्रवामीष्वे प्रपतां प्रययन्तु प्र निवेष्टनम् ।
मुह्यन्तु सर्वे तन्तवोऽन्धे वितत वायौः ।। ११ ।।
आयवनी निवेष्टनं व्रतात सरमीष्वे ।
मुह्यन्तु सर्वे तन्तवोऽन्धे वितत वायौः ।। १२ ।।
मयारकारी प्रथमोर्णवाभिरथोशका ।
देवानां पत्नी: कृत्तिका इमं तन्तुममोमुहन्। १३ ।
अग्निर्न एतु प्रथम: पुरएता बृहस्पति: ।
अधा भग प्र णो यच्छ त्वं हि धनदा असि । १४ ।
प्र णः शूद्र उतार्यः प्र णो राजोत वृत्रहा ।
अथो यत् सर्वमात्वन्वत् प्र णो यच्छतु दक्षिणाम् ।।१५ ।।
कविर्यज्ञस्य वि तनोषि पन्थामृतस्य पृष्ठे अधिदीध्यान: ।
येन हव्यं वहसि देवदूत इत: प्रचेताममुतोवनीयान्।। १६ ।।
मधुहस्तो मधुजिह्वो मधुपर्णो मधुव्रत: । मदु
अथो मधु प्रशामनो भगो मा वर्चसावतु ।। १७ । ।
१९-३९ 19.39
या त्रिसप्ताः पुनरेति नाना रूपाणि बिभ्रतीः ।
वाचस्पतिर्बला तस्या आरे हेतिर्दधातु मत् ।। १ ।।
वाचा नुत्ता कृत्यादीन्द्रवती जाग्रता स्वपथे कृता ।
नुत्ता पाकस्य शंसेन प्रत्यक्कर्त्तारमृच्छतु । । २ ।।
यदेतद् भूरि स्पर्धसे कृत्या स्माति मन्यसे ।
प्रतीचीना परेत्य विषादिव विषमन्धत: ।। ३ ।।
परेणैत्वघशंसो मैनेन समरामहै ।
द्यौश्चास्मान् पृथिवी चोभेपातामंहसः ।। ४ । । ।
यवयास्मद् द्वेषांसि यवमयेन हविषा ।
दुर्हार्दे चकृषे कृत्यां ग्रीवासु प्रति मुञ्चता । ५ ।
अन्या वो अन्यामव त्वन्यान्यस्या उपावत ।
अश्वयवः प्रवल्गन्तीः कृत्यां हतौषधयो ऽरातिं हतौषधयः ।।६ ।।
मेहोप गा मपरस्या पथानि दुर्गाण्यवेहि ।
सपत्नीं नश्यतादितो दूरं गच्छाध्योकसः । । ७ ।।
यस्यास्ते नाम गृह्णामि यस्मिन् धारमसेचने ।
आपरस्या: परावत: सपत्नीं नाशयामसि । ८ ।
त्रिंशतं त्रिंश्च पर्वतान् चतुरश्च गिरीनति ।
सपत्नीं ब्रह्मणस्पते परो भ्रूणान्यर्पय । ९ ।
उन् मादयत: मरुतः समुद्र्या उद् द्यावापृथिवी उभे ।
उत्वा समुद्ररर्षतृद् उत्वामग्निरयं दुहात् । । १० ।।
यत् सपत्नी सपत्न्या अमुष्या वर्च आददे ।
अधस्तादुपवादिन्य सौम्यादहमुत्तरात् ।। ११ ।।
आ ते बध्नाम्योषधिं सपत्नेभ्यः प्रचातनीम्।
यथा ते ऽसदुदंपतिः पुत्राणां ते भवत् पिता।।१२।।
यान्नृणान्यनुवर्त्तादस्मि यमस्य येन बलिना चरामि।
इदं तदग्ने अनृणो भवामीदं तदग्ने अवदानमस्तु । १३ ।
यास्ते सप्त प्रवतो या उ तिस्रो यास्ते सन्तु निवतो या अभिवतः।
अर्वागतो अष्टधा त्रीणि रोचनास्तास्ते अग्ने संमनसो भवन्तु ।
जानं यमाय निवहा कुसीदम् ।। १४ । ।
यास्त उर्ध्वास्तन्वो जातवेदो यास्तिरश्चिरुत या अनूची: । नुचीः
अभिष्टमग्ने सयुजाः स्तृणानो जानं यमाय निवहा कुसीदम्।॥१५ ।।
19.40
नाशय पलितं शीर्ष्णो यः कृष्णास्तन्व आभर: ।
तमोषधे त्वं वर्धय केशं कृष्णतरं कृधि । १ ।।
यथाञ्जनं यथासित यथा त्रैककुदं तथा ।
तत्संभवा तत् संभरते व्युच्छन्तीरनुषसः ।। २ ।।
यत्रास्ति यत्र तिष्ठति यतो नश्यत्वासिनम् ।
दिव्यः सुपर्णो ऽब्रवीदेतत् पलित भेषजम् ।। ३ ।।
दिवो नु मां बृहतो अन्तरिक्षादपां स्तोको अभ्यपप्तद्रसाय ।
समिन्द्रियेण पयसाहमग्नि रुषीणां यज्ञै: सुकृतां कृतेन।४।।
यदि वृक्षादभ्यपप्तत् फलं तदभ्यन्तरिक्षात् तदु वायुरेव ।
यत्रास्पृक्षत् तन्वो यत्र वाससो न तत् प्राप्नोति निर्ऋति परस्तात्।।५।।
अभ्यञ्जनं सुरभ्यादुवासश्च तं हिरण्यमधि पूत्रिमं यत् ।
सर्वा पवित्रा वितताध्यस्मच्छतं जीवाति शरदस्तवायम् ।।६ ।।
य: कीकसा: प्रशृणाति तलीद्यमुपतिष्ठति ।
परास्थं सर्वं जायान्यं य: कश्च ककुदि श्रितः ।। ७ । ।
पक्षी जायान्य: पतति य आ विशति पूरुषम् ।
तस्याहं वेद ते नाम यती जायान्य जायसे । ८ ।
वेद वै ते नाम यतो जायान्य जायसे ।
कथं ह तत्र त्वं हन्या यत् कुर्यान् महद्धविः । । ९ ।।
यः आस्यं प्रविशति करोत्युदरं महत् ।
यक्ष्मो यो अत्र जायते तं जायान्यमनीनशम्।।१०।।
आरोहात् सर्वा जातास्मि ऋषभस्य पयो धनात्।
स्वादीयसी सुराया लवणाच्चारुमुत्तरात् ।
गोभ्यो वनीयसी दहम् । ११ ।
यां त्वा वातोवरयदाद्रनाभामहर्षय: ।
तस्यास्ते देवि पृथिव्याहं संवननं दद
आ ते सौ: ष्कास्यन्ददे । १२ ।
युक्तौ मनसा सं च रेतसा देवेभ्यो हव्यं कृणवाम साधु ।
येषां भागस्तु इदं जुषन्तामविक्षुद्वादयार्य भद्रया ।। १३ ।।
येन देवा ज्योतिषा द्यामुपायन् येनादित्या वसवो येन रुद्राः।
येनाङ्गिरसः स्वरारुरुहुस्तेनोदयद् यजमानः स्वस्ति।।१४।।
यं पपाच्चादिति: पुत्रकामा येन प्रजा: कश्यप: पर्यगृह्णात् ।
य ओदनः पच्यते वैश्वदेवः स नो य मे अक्षतो भागो अस्तु।। १५ ।।
(इति त्र्यृचनाम ऊनविंशतिकाण्डे दशमो ऽनुवाकः )
११- ४१ 19.41
सोमस्य प्राण: पवते पुरस्ताद् दक्षिणत ऐन्द्र आ वातु वात: ।
यस्या दिशा मारुतो या: प्रतीची: स नो देवा: शिवो ऽस्त्विह वात:।।१।।
मित्रस्य प्राणाः पवते या उत्तराद् बृहस्पतेरूर्ज उद्वातु वात: ।
यो ऽन्तरिक्षमनुवाति विद्वान् स नो देवा: शिवो ऽस्त्विह वात: ।२ ।।
य उत्तरात् पवते य: पुरस्ताद् यो दक्षिणात् पवते यश्च पश्चात् ।
उर्ध्वाङ् उद्देशाङ् अनु य: प्रवाति स नो देवा: शिवो ऽस्त्विह वात: ।। ३ ।।
त्रीण्यन्तरिक्षाण्यनुवहसि वात तिस्रो वहसि परावत: ।
सहस्राक्षौ वृत्रहा पाह्यर्वाङ् नुदन् क्षेत्रियं रपः । ४ ।
न तत्र दार: कृपणं ससार न प्रतिघ्नाना रुदती न बिभ्रती ।
इन्द्रो नो य क्रोरुकृर्विचक्षण: स नोज्जातं महति नि यच्छात्।।५ ।।
इन्द्र: सेनां मोहयतु मरुतो घ्नन्त्वोजसा ।
अग्नेर्वातस्य ध्राज्या तान् विषूचो वि नाशय: ।। ६ ।।
न द्यौरेषां न पृथिवी नादीति निधनं जयात् ।
चक्षूंष्यग्निरादत्तां पुनर्यन्तु पराजिता: ।। ७ ।।
अमित्राणां दारय ग्राममिन्द्र यो न: शत्रुरभ्येति जिघाँसन् ।
यथैषामिन्द्रनुत्तानामग्निना वेषो अनुवर्त्तयानि मे ।। ८ ।।
जिह्मं युगं कृण्वतामिन्द्रनुत्ताः पराचीनै: पथिभिर्यन्तु रिष्यन्त:।
अमित्रान् जयन्तो अन्वासदेमाग्निना वेषो अनुवर्त्तयन्तः।।९।।
अमित्राणां ग्राममुपयुक्तमिन्द्रेण नुक्तं विरदात्यग्नि: ।
सत्वान: सन्त्वनुमाद्या इमे येभ्यश्चरामि हविषा घृतेन । १० ।
अर्यमाणां हि देवं भद्रं कन्या अयक्षत ।
स एनां वृत्रहा देवो इतो मुञ्चन्तु मामुत: । । १ १ । ।
इयं ते राजन् वरुण जामिका कृणुते हविः।
तस्यै पतिं न्या वह सुभद्रं प्रतिकाम्यम् ।। १२ ।।
आ क्रन्दय धनपते वरमामनसं कृणु ।
सर्वं प्रदक्षिणं कृधि पतिमस्यै प्रतिकाम्यम् ।। १ ३ ।।
आपश्चादापुरस्तादोत्तरादधरादुत ।
पूर्णा भगस्य वर्तनिस्तेनेमामभिवर्तयामसि वर्चसा च भगेन च ।। १४ । ।
नासृगस्ति पतङ्गस्य तर्दस्य मसकाद् वा: ।
न संपतत्रमुद्यगो न ग्लौरत्र भविष्यति । १५ ।
अपदस्कदपादशन् तुण्डिवध्ना अपादशत् |
अपापो चिदीतोदशदपेतो ग्लौर्नशिष्यत्यपिवध्नादशिष्यति।। १६ । ।
यथा सूर्यश्चन्द्रमसमुद्यन्नेवावगूहति ।
एवा त्वमुग्र ओषध इमां ग्लावमवगूहतादिति । १७ ।
19.42
अपदस्कदपादशन् तुण्डिवध्ना अपादशत् ।
अपापो चिदीतोदशदपेतो ग्लौर्नशिष्यत्यपिवध्नादशिष्यति। १ ।।
मा शिले मा शिलावति मा ते शेष: शिलोञ्चने ।
यावच्छिलस्य ते शिलं तावच्छेष: शिल तव । २ । ।
यथा यूपाग्रादुदकं विनिष्टं भूमिमश्नुते ।
एवा त्वमरसे शिले विनिष्टा भूमिमश्नुहि।। ३ ।।
वज्रो ऽसि सपत्नहा त्वया ह वृत्रं साक्षीय ।
त्यामद्य वनस्पते वृक्षाणामुदयुष्महि । ४ ।।
स न इन्द्र पुरोहितो विश्वतस्पाहि रक्षस: ।
अभि गावो अनूषताभि द्युम्नं बृहस्पते । ५ ।
प्राण प्राणं त्रायस्वासो असवे मृड़ ।।
निर्ऋते निर्ऋत्या न: पाशेभ्य मुञ्च ।। ६ ।।
हृच्छोकमस्मिन्ना दध्मो यथा शुष्याति त्वामनु ।
यथास्य हृदयं शुष्यादपिच्छिलेव शंगुणी । ७ ।।
प्रजापतिष्ट्वा प्रजया सं पुत्रेणं सृजतु सं भगेन ।
जुष्टं देष्ट्री हि कामो ब्राह्मणस्य पुमांसं दधत् सवितु: सवेन।। ८ ।।
प्रत्वास: प्रत्याङ्गतः कुमार: पुरुषादधि: ।
रुतोर्यमृत्वियावती यं ते धाता अचीक्लृपत्। ९ ।
यं ते धाता यं ते त्वष्टा यं ते ब्रह्माचीक्लृपत् ।
तं त्वं पुत्रं विन्दस्व तस्मै त्वं जीव जीवसे । १० ।
ध्वस्रास्तिष्ठन्ति रजसा समक्ता यज्ञस्य होत्राः प्रशितास उष्णाः ।
तासां सोमस्य यदिहा वपन्ति तदमूत्रे यजमानस्य रूपम्।।११ ।।
ये ब्राह्मणं वर्चोहित्वाय मल्वारेण वर्णेन परि धापयन्ति ।
तासां सोमस्य यदिहा वपन्ति तदमूत्रे यजमानस्य रूपम्।। १२ ।।
आा सारथिः सम रथो यथा रथो ह त्वा संविष्टां रक्षसो याति अमून्।
एवा यज्ञो यजमानं जहाति यत्र सोमं सोमपीथान् नयन्ति ।।१३।।
छन्दांसि तद् यजमान सृजन्ति तत्र सोमं सोमपीथान् नयन्ति ।
अब्राह्मणो यत् पिबति सोममस्य तद् वै ऽच्छिन्द्रं दक्षिणयपिधेयम्।।१४।।
ब्रध्नो ऽसि वाची: परिपाणीः प्रथमा देवेभ्यस्पर्याभृताः।
मा ते रिषन् खनिता यस्मै च त्वा खनामसि । १५ ।
मा देवा: पापमारान्म मा कर्तुं पापयामुया ।
महान् मरिष्यजो हस्तमारिप्सुर्धनकाम्याम् । १६ ।
मा मा देवा: पराजातामा मा कर्तव्याध्वम् ।
माहन् मरिष्यज: शिर आरिप्सु मो अहन् मृषी ।। १७ ।।
19.43
प्रतीकं मे विचक्षणमक्ष्यौ मे मधुकाशिनि ।
कर्णाभ्यां भूरि शुश्रुवे । १ ।।
जिह्वा मे मधु संस्रावा जिह्वा मे मधुवादिनी ।
तयाहमद्य जिह्वयोभिरुध्यासन् मधुमद् वच: ।। २ ।।
यथा मधु मधु कृतः संभरन्ति मधावधि ।।
एवाहोमद्य छन्दोभिरुध्यासन् मधुमद् वचः ।। ३ ।।
वायोः पूतः पवित्रेण प्रत्यङ् सोमो ऽधिश्रितः ।
इन्द्रस्य युज्य: सखा । ४ ।।
यत् किं चेदं वरुण दैव्ये जने अभिद्रोहं मनुष्याश्चरन्ति ।
अचित्त्या यत् तव धर्मा युयोपिम मा नस्तस्मादेनसो देव रीरिषः।। ५ ।।
आपो अस्मान् मातर: सूदयन्तु घृतेन नो घृतप्वः पुनन्तु ।
विश्वं हि रिप्रं प्रवहन्तु देवीरुदिदाभ्य: शुचिरा पूत एमि । ६ ।
मित्रश्च सम्राड् वरुणस्य राजा तौ ते भक्षं कृणुतां प्रातरग्ने ।
तयोरहमनुभक्षं कृणोमि सूर्यवर्चा भगभक्तो न आविशः ।।७।।
सूर्यवर्चा न आविश विश्वविन् मनसस्पतिः ।
अनेहा सोमो जागृविरिन्द्रः प्रातो ऽस्तु ते नृभिः ।। ८ ।।
इन्द्रः प्रातस्तु ते वयं शक्रस्य रोचनावतः ।
भक्षीमहि प्रजामिषं सहस्रस्य यशस्विनः । । ९ ।।
अग्नि प्रात: सवने पात्वस्मान्वैश्वानरः पथिकृद् विश्वकृष्टिः ।
स नः पावको द्रविणे दधात्यायुष्मन्तः सहभक्षा: स्याम ।। १० ।।
विश्वे देवा मरुत इन्द्रो अस्मानस्मिन् द्वितीये सवने न जह्युः ।
आयुष्मन्त: प्रियमेषां वदन्तो वयं देवानां सह भक्ष्या स्याम ।। ११ ।।
इदं तृतीयं सवनं कवीनामृतेन यच्चमसं समैरयन् ।
सौधन्वना अमृतमानशाना: स्विष्टिं नो अभि वस्यो नयाथ।१२।।
सं सं स्रवन्तु नद्य: सं वाता: सं पतत्रिण: ।
यज्ञमिमं वर्धयता गिर: संस्राव्येण हविषा जुहोमि ।। १३ ।।
इमं होमाय यज्ञमवतेमं संस्रावणा उत ।
यज्ञमिमं वर्धयता गिर: संस्राव्येण हविषा जुहोमि ।। १४ ।।
रूपंरूपं वयोवय: संरभ्यैनं परि ष्यजे ।
यज्ञमिमं चतस्र: प्रदिशो वर्धयन्तु नद्य: संस्राव्येण हविषा जुहोमि।। 1१५ ।।
19.44
स्यूता देवेभिरमृतैर्न आगन्मुखा स्वसारमधि मेदिमस्थात्।
सत्यं पूर्वं रुषयश्चाकृपाना यज्ञपते: सुप्रतिरंत्वायुः ।। १ । ।
उखां स्रवन्तीमगदामगन्म त्वष्टा वायुः पृथिव्यन्तरिक्षम् ।
यतश्चुतद् धुतमग्नौ तदस्तु न तत् प्राप्नोति निर्ऋतिः परस्तात् ।।२ ।। ।
अन्तरग्नावश्चुतत् स्तोक एष नैनं सुवाते निर्ऋतिः परस्तात् ।
विश्वावसोर्हविषो वावृधानो इमं यज्ञ: सुकृतामेति लोकम् ।। ३ ।।
श्येनोसि गायत्रछन्दा अनु त्वा रभे ।
स्वस्ति मा सं पारय । ४ ।।
सम्राडसि त्रिष्टुप्छन्दा अनु त्वा रभे ।
स्वस्ति मा सं पारय । ५ ।
स्वरोसि गयोसि जगच्छन्दा अनु त्वा रभे ।
स्वस्ति मा सं पारय । । ६ । ।
त्रायमाणे सर्वविदे मा परि देहि।
सर्वविद् द्विपाच्च सर्वं रक्ष चतुष्पाद् यच्च नः स्वम्।।७।। स्पाद्
सर्वविद् विश्वविदे मा परि देहि।
विश्वविद् द्विपाच्च सर्वं रक्ष चतुष्पाद् यच्च नः स्वम्।।८।। स्पाद्
विश्ववित् कल्याण्यै मा परि देहि।
कल्याणि द्विपाच्च सर्वं रक्ष चतुष्पाद् यच्च नः स्वम्।।९।। स्पाद्
कल्याणि त्रायमाणायै मा परि देहि ।
त्रायमाणे द्विपाच्च सर्वं रक्ष चतुष्पाद् यच्च न: स्वम् ।। १० ।। स्पाद्
वि खन वि रुज वि जह्यत्रैवा नाकृतश्चन ।
समहमायुषा सं मयायु: ।। ११ ।
वि खन वि रुज वि जह्यत्रैवा नाकृतश्चन ।
समहं वर्चसा सं मया वर्च: ।। १ २ । ।
वि खन वि रुज वि जहात्रैवा नाकृतश्चन ।
समहं तेजसा सं मया तेज: ।। १ ३ ।।
वि खन वि रुज वि जह्यत्रैवा नाकृतश्चन ।
समहं प्रजया सं मया प्रजा । १४ । ।
वि खन वि रुज वि जह्यत्रैवा नाकृतश्चन ।
समहं पशुभि: सं मया पशव: ।। १५ । ।
दिवो रेतोसि पृथिव्या नभ्यम् ।
नभ्यमसि नभ्यं मा कृणु । १६ ।
दिवो रेतोसि पृथिव्यां शक्ति: ।
शक्तिरसि शक्तये ते विधेयम् ।। १७ ।।
दिवो रेतोसि पृथिव्या: वित्तिः ।
वित्तिरसि वित्तये ते विधेयम् ।। १८ ।।
दिवो रेतोसि पृथिव्याः पुष्टिः ।
पुष्टिरसि पुष्टये ते विधेयम् । १९ ।
दिवो रेतोसि पृथिव्याः भूतिः ।
भूतिरसि भूतये ते विधेयम् ।
भूतिरसि भूत्या सं भूयासम्। २० ।
शुक्रो ऽसि भ्राजो ऽसि ।
स यथा त्वं भ्राजतो भ्राजोस्येवाहं भ्राजतो भ्राज्यसम्।।२१।
सायंसायं गृहपतिर्नो अग्निः प्रात:प्रातः सौमनसस्य दाता ।
वसोर्वसोर्वसुदान एधि वयं त्वेन्धानास्तन्वं पुषेम ।। २२ ।।
प्रात:प्रातर्गृहपतिर्नो अग्नि: सायंसायं सौमनसस्य दाता ।
वसोर्वसोर्वसुदान एधीन्धानास्त्वा शतंहिमा ऋधेम ।। २३ । ।
यो न आ विः शपतिर्यश्च स्ता यदचित्या मन्युना यत् सपत्नः ।
अग्निष्ट्वान् पाशान् प्रमुमोक्त देवो यावयतु शपथां वरुणो धृतव्रतः ।। २४ ।।
(इति त्र्यृचनाम ऊनविंशतिकाण्डे एकादशो अनुवाक: )
19.45
प्राग्नये वाचमीरय वृषभाय क्षितीनाम् ।
स नः पर्षदति द्विषः । । १ ||
य: परस्या: परावतस्तिरो विश्वाभि रोचते ।
स नः पर्षदति द्विषः । । २ ।।
यो रक्षांसि निजूर्वत्यग्निः शुक्रेण शोचिषा ।
स नः पर्षदति द्विषः । । ३ । ।
यो विश्वाभि विपश्यति भुवना सं च पश्यति ।
स नः पर्षदति द्विषः । । ४ ।।
मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः ।
माध्वीर्गावो भवन्तु नः ।। ५ ।।
मधु नक्तं उतोषसो मधुमत् पार्थिवं रजः ।
माध्वीर्न: सन्त्वोषधी: ।। ६ ।
मधुमान् नो वनस्पतिर्मधुमाँङ् अस्तु सूर्यः ।
मधु द्यौरस्तु नः पिताः ।। ७ ।।
आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन ।
महे रणाय चक्षसे । ८ ।
यो वः शिवतमो रसः स्तस्य भाजयतेह नः ॥
उशतीरिव मातरः । । ९ । ।
तस्मा अरङ्गमाम वो यस्य क्षयाय जिन्वथ ।
आपो जनयथा च नः । १० ।
आयं गौः पृश्निरक्रमीदसदन् मातरं पुरः ।
पितरं च प्रयन्त्स्वः । । १ १ । । ।
अस्य प्राणादपानत्यन्तश्चरति रोचना ।
व्यख्यन्महिषो दिवम् ।। १२ ।।
त्रिंशद् धाम वि राजति वाक्पतङ्गाय शिश्रियत् ।
प्रति वस्तोरहर्द्युभिः ।। १३ ।।
यच्छक्रा वाचमारुहन्नन्तरिक्षं सिषासन्त: ।
सं देवा अमदन् वृषा। १४ ।
शक्रो वाचमधृष्टायोरुवाचो अधृष्णुहि । ।
मंहिष्ठ आ मदर्दिवि । १५ ।
शक्रो वाचमधृष्णुहि धामधर्मन् वि राजति ।
विमदन् बर्हिरासरन । १६ ।
19.46
ध्रुवोसि धरुणोस्तृतो विश्वकर्मणा सुधृतः ।
मा त्चा समुद्र उद् वधीन्मा सुपर्णो व्यथमान इमं दृंह।। १ ।।
आषाढोसि सहमान: सहस्वारातिं सहस्व पृतनायत: ।
सहस्रवीर्योसि स इमं जिन्व ।। २ ।।
अद्भ्य: संभूतोसि पृथिव्या रसाच्च विश्वकर्मण: समवर्त्तता अधि ।
तस्य त्वष्टा विदधदेतिरूपं विद्वान् तत् ते देवमाजानमग्रे।३।
षष्टिश्चाध्वर्यो नवतिश्च पाशा होतारमग्निमन्तरा विचृत्ता: ।
छिन्दन्ति पाशमति धीर एत्वृतस्य पन्थामनु नेषि विद्वान्।। ४ ।।
यो अध्वर्युः सप्तहोत्राणि विद्वान् पूर्वो होतुर्यजत आ जिघर्ति।
ऊर्ध्वं स यज्ञमध्वरं कृणोति य इं चकेत हविषो विभागे । । ५ । ।
अत्रो विभक्तिर्हविषो विभागे मा निर्भाक्षीद् भागिनं मोपहत्या।
समो अभागो विदत यो मुमोह । ६ ।
वात आ वातु भेषजं शम्भु मयोभू नो हृदे ।
प्र ण आयूंषि तारिषन् ।। ७ । ।
उत वात पितासि न उत भ्रातोत नः सखा ।
स नो जीवातवे कृधि । ८ ।
यददो वात ते गृहे नि हितं भेषजं गुहा ।
तस्य नो देहि जीवसे । ९ ।
यो न जीवोसि न मृतो देवानाममृतगर्भोसि स्वप्न ।
वरुणानी ते माता यम: पिता । । १० ।।
यथा कलां यथा सफं यथर्णं संनयन्ति ।
एवा दु:ष्वप्न्यं सर्वमप्रिये सं नयामसि । ११ ।
अररुर्नामसि तं त्वा स्वप्न तथा विद्म ।
स नः स्वप्न: सुष्वप्न्यान् तां देहि ।। १२ । ।
नैतस्याग्रे हविरदन्तु देवा निर्भक्त एष सुकृतस्य लोकात् ।
पापीं धियं जुजुष आत्मनैष स हि दुष्कृन्मनुष्वेष्वन्त: ।। १३ ।।
यो मातृहा पितृहा स्वसृहा ये च दुष्कृताः ।
दिधिषौते अमृतक्षमल मनुष्या इव । १४ ।
एतद् देवयुतं निर्ऋतिरुषदेवा भ्रूणघ्नाल्लोकमप्येत्वेषः ।
न चेतृत्वे हविष्षा नाथितश्च राष्ट्रमेते शक्रा वि चृतन्ति पाशम् । १५।
19.47
य आखो यो व्युखो विणावाङ् इव सर्पति ।
तं परि परिभेषजं वृश्चिक जम्भनमसि । १ । ।
मयूरो अत्ति वृश्चिकं मयूरं वयं विद्मसि ।
तं परि परिभेषजं वृश्विक जम्भनमसि । २ ।।
आप इद् वा उ भेषजीरापो अमीव चातनी: ।
आपो विश्वस्य भेषजीरापी वृश्चिक जम्भनी: ।। ३ ।।
त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा ।
त्वं यज्ञेष्वीडय: । ४ । ।
यद् वो वयं प्रमिनाम व्रतानि विदुषां देवा अविदुष्टरासः।
अग्निष्टद् विश्वादा पृणातु विद्वान् सोमस्य यो ब्राह्मणाङ् आविवेश । ५ ।
आ देवानामपि पन्थामगन्म यच्छक्नवाम तदनुप्रवोढुम् ।
अग्निर्विद्वान् स यजात् स इद्धोता सो अध्वरान् स ऋतून् कल्पयाति । ६ । ।
उत्तदा ईशमिद्वतीं विदुर्योणा इव इविदुं पदायि ।
उतस्याः पातया मन: सश्वतीभ्यः समाभ्यः । ७ ।
पक्वं मांसमिवाश्विना शकुनिः प्रपतनां कृधि ।
मृगाङ् अनु प्र पातय मरीचीरनु नाशय ।। ८ ।।
विश्वञ्चौ गावा वा कुरु विश्वञ्चौ युग्या उत।
उतासौ सूर्य उद्यन विश्वञ्चौ गां व्याकरत् । ९ ।
विषमुग्रं विषं स्थिरं विषस्य महिमा महान् ।
विषं परश्वतः शिरः शतधा व्यापातयत् ।। १० ।।
सं दह व्रजं यथा वसुभावसु वर्त्तयत् ।
यं विषं प्र सर्पसि समग्निरिव तं दह । ११ ।
गृहाण मांसानि यव लोमानि पातय ।
पांशुन कुकाट आवपात् सिन्ध्यूत्तान् पादमदीय । १२ ।
मधोरहं मधुतरो मधुधान् मधुमत्तरः ।
आसने किल मे मधु मुखेन मन्दनं कृतम् । १३ ।
मामित्त्वमभ्यचाकशो मृगस्तृष्यन्निवोदकम् ।
अधस्पदान्म उद् वदामि मण्डूको गोशफादिव । १४ ।
उद् वदाम्यधस्पदान् मण्डूको गोशफादिव ।
अथोपचक्रा आसासैश्चावन्ध इवाहत: ।। १५।
19.48
आवद बहुलं गोष्ठं सुवीरं बहुपूरुषम् ।
यथेतो न: प्र मीयता एवा मे गोष्ठमा वद: ।। १ ।।
आवद दुहितुस्पित्रे भ्रातुर्जामातराविव ।
पश्चात् उत्तुढ स्फिज: किष्किन्धानामवीर्जहि । २ ।।
यदुलूको वदति मोघमेतद् यत् कपोतः पदमग्नौ कृणोति ।
शितिकर्णाय कवये स्तोम्याय तस्मै यमाय नमो अस्त्वद्य ।। ३ । ।
ये ऐन्द्रा: पाशा ये च वारुणा आरे अस्मत् तान् देवी निर्ऋतिर्दधातु । । ४ ।।
ये वैश्वानरा: पाशा ये च मारुता आरे अस्मत् तान् देवी निर्ऋतिर्दधातु ।। ५ । ।
ये वैश्वानरा: पाशा ये च वैश्वकर्मणा आरे अस्मत् तान् देवी निर्ऋतिर्दधातु ।। ६ ।।
नारदे कितवे वरुणे सोमे ऐच्छन् महिमानं महान्तम्।
अविन्दत् त्वं विश्वकर्मणः समुद्रे अक्षाणां
क्लदमैनमस्मिन् दधामि।।७।।
यद्धस्तयोर्यच्चक्षुषोर्मनो यत् प्रविवेश ते।
स्कन्दानस्य प्रस्कन्देन क्लदेन क्लदयामि तत् । ८ ।
त्रिस्रो देवीरप्सरस आकैका साकैका प्रेत प्रयामेत्येकस्या नाम ।
जुषाणा अप्सरस आज्यस्य सहसो व्यन्तु स्वाहा । । ९ ।। ,
अत्याक्षं त्वा मनसा अत्याक्षं हृदयेन त्वा ।
अत्याक्षं सर्वैरङ्गैस्त्वा तथा हि त्यजनं कृतम् ।। १० ।। ।।
इमा याः प्रति नन्दथ स्त्रियः पुमांसमन्वतम् ।
सर्वाः संगत्य दूत त्यजने त्यजनं कृतम् ।। ११ ।।
त्यजनं मे द्यावापृथिवी आधातां त्यजनं देवः सविता बृहस्पतिः।
अग्निश्च तुभ्यं सूर्यश्च त्यजने त्यजनं कृतम् ।। १२ ।।
सं दिवः सं पृथिव्या: सं वातात् सं नदीभ्यः ।
संस्कन्दमिन्द्र आरभत् सह गात् संहरादिदम् ।। १३ ।।
संस्कन्दमोज ओजसा देवेभिर्नाम ते हितम् ।
ईरण्यनाम नाम ते संस्कन्दास्योषधे । १४ ।
सं समुद्रो नदीभि: सं द्यावापृथिवी उभे ।
सं जायापत्या योन्यां संस्कन्दास्योषधे । १५ । ।
सं ते शीर्ष्णः कपालानि सं योनिं सं गवीन्यो ।
सं ते सर्वाण्यङ्गानि संस्कन्देनाभिदध्मसि ।। १६ ।।
श्रीयं धातुर्मयि धेहि श्रीयामाधिपतिं कृणु।
वीशामीशानो मघवानिन्द्रो मा यशसा जयत् । १७ ।
मयि त्वदिन्द्रियं बृहन् मयि दक्ष उत क्रतुः ।
धर्मस्तिश्चित् वि भातु मा गायत्री छन्दसां विराड् ज्योतिषां तस्य दोहमशीय । १८ ।
अर्कासधस्थौ कविर्मातरिश्वानौजमाङ्गिरसः ।
यशस्विनं मा देवा यशस: कृणुत स्वाहा । १९ ।
(इति त्र्यृचनाम ऊनविंशतिकाण्डे त्रयोदशो ऽनुवाकः )
19.49
इन्द्रं वयं वणिजं हवामहे स नस्त्राता पुर एतु प्रजानन् ।
घ्नन्नरातिं परिपन्थिनं मृगं स ईशानो धनदा अस्तु मह्यम्।। १ । ।
पणो नो अस्तु प्रपणो विक्रयश्च प्रतिपणो नो धनिन: कृणोतु ।
संरराणा आहुतिं जुषन्तां शुनं नो अस्तु चरितमुत्थितं च।। २ । ।
यत् पणेन प्रतिपणं चरामि स्वेन देवा धनमिच्छमानः।
इन्द्रो मे तस्मिन् रुचिमा दधातु बृहस्पति: सविता सोम अग्निः ।।३।।
इहैव: पन्था बहवो देवयाना अनु द्यावापृथिवी संचरन्ति । वहवो
तेषामहं मा वर्चस्या दधामि यथा क्रीत्वा धनमावहानि । । ४ । ।
विध्य वाससे निऋतिर्ये च पाशा अपश्रिता: ।
तेभ्य: प्र मुच्यते वल्मी विष्कन्धमपसादयन् । ५ ।
न वै तद् वासो भवति अस्मिन् विध्यन्ति पूरुषम् ।
अस्मासमज्जते रूपं तस्मात् तदपि लोप्यम् ।। ६ ।।
उत्तिष्ठन् नु प्रियाजेता विद्वान् बहु भाज्यम् ।
न पन्थां भद्रमश्नुते य एनेन चरामहे । ७ ।।
ब्रह्मणैतत् प्रतिगृह्यन् तेन तत् कृणुते शिवम् ।
अर्कात् प्रमुच्यते पाशांस्तेन दाता वि पश्यति । ८ ।
यौ व्याघ्राववरुढाववाञ्छौ जिघत्सत: पितरं मातरं च ।
तो दन्तौ ब्रह्मणा ब्रह्मणस्यते शिवौ कृणु त्वमिह जातवेद:।।९।।
व्रीहिमत्तं यवमत्तं माषमत्तमथो तिलम् ।
एष वां भागो निहितो रत्नधेयं मा हिंसिष्टं पितरं मातरं च ।। १० ।
अघोरौ सयुजा संविदानौ स्योनौ दन्तौ सुमङ्गलौ ।
मा हिंसिष्टं पितरं मातरं चान्यत्र वां तन्वो घोरमस्तु ।। ११ ।।
ऐनान् द्यतामिन्द्राग्नि राज्ञा सोमेन मेदिना ।
इन्द्रो मरुत्वानादानममित्रेभ्य: कृणोतु मे । । १२ ।।
इदमादानमकरं तपसेन्द्रेण संशितम् ।
अमित्रा येत्र सन्ति मे ताना द्या द्विषतो मम । १३ ।
आदानेन संदानेनामित्रान् सं द्यामसि ।
अपाना ये चैषां प्राणा असुनासून् समछिदन् । १४ ।
प्रतूर्त्ताय मरुत्वते स्वाहा ।। १५ । ।
जयद्वीरायाभिषक्तने स्वाहा । १६ ।
बूहस्पतये विश्वदेवते स्वाहा । १७ ।
19.50
प्र द्यौः प्र पृथिवी प्रान्तरिक्षं स्वर्महत् ।
प्रैताः समुद्रिया आपः शल्यमुच्चिच्युवुः ।। १ । ।
प्र त्वा वातश्च्यावयतु प्र भूमिः सह सासह ।
प्रैताः समुद्रिया आपः शल्यमुच्चिच्युवुः ।। २ ।।
प्र त्वा सूर्यश्यावयतु नक्षत्रैः सह मेदिभिः ।
प्रै ता: समुद्रिया आपः शल्यमुच्चिच्युवुः ।। ३ ।।
यो वा पौतुद्रुवो मणिर्विश्वभेषज आगमत् ।
सो ऽस्मत् सर्वं दुष्वप्न्यमपि हन्तु तमश्च यत् । । ४ ।।
अपास्मत् सर्वं दुष्वप्न्यमपि पापा या च लक्ष्मीः ।
अधाहिरण्य वर्चसं सर्वधावा मणे कृधि । ५ ।
सर्वधावाहं भगवानिन्द्रियावान् विषासहिः ।
यं मा पौतुद्रुवो मणिर्द्रविणेन स आरुहद् ।।
मा इन्द्रियेण स आरुहत् । ६ ।
पुमानश्वो धनं वित्तिः पुमान्निष्को हिरण्ययः ।
पुमांसं पुत्रमोषधेस्यै आ धेहि नार्य्यै । ७ ।।
यथा नन्दाः पुंसा जाता न व्रवस्तीति कश्चन ।
एवा त्वं पुत्रमोषधेस्यै आ धेहि नार्य्यै । ८ ।
अश्वेन रिष्येन गवा: क्रीतास्योषधे ।
अश्वश्श्वेतो धनं तव हिरण्यं हरितं तव ।
दत्ता सोमेन राज्ञे ह पुंसवनं भव । ९ ।
यन्मे नृम्णं द्रविणं ब्राह्मणं च यच्च श्रुतं यच्च रत्नं बिभर्मि ।
एतन्नो अत्र निधिपा नु पातु यावद् ऐमि त्रीणिमज्मा व्रज्या: । १० । ।
यन् मे नृम्णं द्रविणं ब्राह्मणं च ये अग्नयो धृष्णियासो मयीमे।
हरिश्चन्द्रो रक्षतु तन्नो अत्र यावद् ऐमि पुरो ग्रामं चरित्वा । ११ ।
एषैष: ऐमि पुरो ग्रामं चरित्वा सोनृम्णं द्रविणं ब्राह्मणं च।
यदत्रापि त्वे शुचीदं तदहमा ददे । १२ ।
आसूर्यो हि प्रथमं दस्युहत्याय शक्र हार्यं जाने मघवन् सहस्वन् ।
दासं पर्णं रन्धयनार्याय युञ्चानो बाहू पुरुहूतं वज्रम् ।। १३ ।।
आहू रूढ ते दस्युहत्याय भूर्णि दृढान् पर्वन् श्रृण्विन्द्र ।
तीव्र: श्रद्धो बहुलान्येषा मयज्मनो अर्पय सं वधेन । १४ ।
दर्शय नः चित्तपावनमिन्द्रं बहु साकं शराङ् इव पश्यमान: ।
यो न धृष्णिं मघवानं पृतन्यादभिरुतेषु कवयो ववृत्या: ।।१५।
19.51
इदावत्सराय परिवत्सराय संवत्सराय प्रति वेदयाम एतत् ।
यद् व्रतेषु दुरितं निजग्मिम दुर्हार्दं तेन शमलेन आयुः।।१।।
यन् मे व्रतं व्रतपते लुलोभाहोरात्रे समघातां म एतत्।
उद्यन् पुरस्ताद् भिषगस्तु चन्द्रमाः सूर्यो रश्मिभिरभि गृणात्वेतत्।।२।।
यद् व्रतमधिपेदे चित्त्या मनसा हृदा।
आदित्या रुद्रास्तन् मयि वसवश्च समिन्धताम्।।३।।
व्रतानां व्रतपतय उपाकरोम्यग्नये।
स मे द्युम्नं बृहद्यशो दीर्घमायुष्कृणोतु मे । ४ ।।
मयोभूर्वातो अभिवातूस्ना ऊर्जस्वतीरोषधीरा रिशन्ताम् । ।
मेदस्वतीर्जीवधन्या मयोभुव: पद्वते ऽवसाय रुद्र मृड । ५ । भूवः
या एकरूपा विश्वरूपाः सरूपा यासामग्निरूधो वो जन्म वेद ।
या अङ्गिरसस्तपसेह चक्रुस्ताभ्यः पर्जन्य महि शर्म यच्छ ।६।
या देवेषु तन्व ऐरयन्त यासां सोमो रूपधेयानि वेद ।
ता अस्मभ्यं बहुलाः पिन्वमानाः प्रजावतीरिन्द्रो गोष्ठे ददृश्याम् ।।७।।
प्रजापतिर्मह्यमेता रराणो वह्वीस्मतीरुपमे गोष्ठ आकः ।
तासां वयं प्रजया संसदेम ज्योग्जीवन्तः शरदः पुरुचीः ।। ८ ।।
अभिष्ठिता चकृदीति पिशङ्गी बहुकर्दिनी।
कर्दोह यज्ञे हलीक्ष्णाद् व्रीहेर्माषादथो यवात् ।। ९ ।।
यथा भषद् हलीक्ष्णस्य न संभवति कर्दने।
एवाहलग्न कर्दय निर्ग्रामान् निर्विशो जहि ।। १० ।
यथापरस्त्वां शर्धते गर्दभः क्रतुं संदृशि ।
एवा ते शर्धतां भसद्धलीक्ष्णपर्ण शर्धय वृत्रहा साचि शर्धयः ।।११।।
पवीरवल्लाङ्गलं सुशेवं सोमसत्सरु ।
तदुत् कृषति गामविं प्रफर्व्यं च पीवरीं प्रस्थावद् रथवाहनम् ।। १२ ।। पीब
शुनं वरत्रामा यच्छ शुनमष्ट्रामुदिङ्गय।
शुनं वाहस्य युक्तस्याष्ट्रया जहि दक्षिणम् । १३ ।
मधुमत् तन् निगृहाण फालं क्षेत्रेषु सर्वदा ।
तत् पर्जन्यो ऽभिवर्षतु भूम्ना धान्याय कर्तवे ।। १४ 1 ।।
आयतादित्या रुक्षतायत र्वेद्यामधि ।
प्राहाग्निर्हव्यं देवेभ्यो मन्त्रो होता हविष्पति: । ॥ १५ ।।
एमा अगुर्मयोभुवो मधोरूधांसि बिभ्रती: । योभूवो
ता उप प्रशिक्षतं दुहानामक्षितं पयः । । १६ । ।
ईडास्थ मधुपृचो विश्वरूपास्तामा विपश्यत् ।
सह प्राणेन तेजसा सह हरसा बलेन । १७ ।
19.52
दिवो नभः शुक्रं पयो दुहानर्तस्य नाभिरमृतं वि चष्टे ।। १ ।।
घृतं दुहाना विश्वतः प्रपीणामूर्जं दुहानामनपस्फुरन्तीम् ।
उपासतां सुकृत: स्वधाभि: ।। २ ।।
घृतमुत्सं पिन्वमानामिमां योनिमुपाध्वम् ।
स्वधायाश्चकृषे जीवन् तास्ते सन्तु मधुश्चुत: ।। ३ ।।
सं रसा ओषधीनां समाकूतिर्नयन्तु मे ।
ऊर्जस्वन्तं पयस्वन्तं पृथिव्या हस्तमन्वागात् ।। ४ ।।
परिणीतिरसि हस्तस्य पथः परिणीतिरसि ।
एवा ह दुष्वप्न्यं सर्वं स्तम्भे परिणयामसि । ५ ।
पयस्वन् मे क्षेत्रमस्तु पयस्वदुत धान्यम् ।
कृषि: पयस्वतीवाहं पयस्वान् भूयासम्। ६ ।
वृष्णे बृहते स्वर्विदे अग्नये शुक्ल हराम: त्विषीमते ।
स नः स्थिरान् बलवतः कृणोतु योक् च नो जीवातवे दधातु । ७ ।।
वेद वै ते ऽग्ने नामाभिर्नामासि त्रिवरूथम् ।
त्रयः पोषास्त्रिवरूद् अस्मान् यज्ञः सचन्ताम् । । ८ ।।
प्रजापते: पयसा वावृधानावायुष्मन्तो वर्चस्विन: ।
ज्योग्जीवन्तीमुप स त्वा सदेम । ९ ।
उरूणसावसुतृपावुदुम्बलौ यमस्य दूतौ चरतो जनाङ् अनु । ।
वेदाहं वेद सूर्यः किमेतौ किं करिष्यथः ।। १० ।।
समाधिदम्भादधीयां न पाको अस्मि जनुषा न सुषाट्।
अभिषाडस्मि विश्वाषाट् पृतनाषाट् स्वर्विद्य दिवं विश्वं भुवनं सो अस्मि । ११ ।
अस्थादुदस्थादजनिष्ट विप्रो वि मिमीते वरिमाणं पृथिव्या:।
आसीदत् सम्राड् भुवनानि विश्वषाडिष्टाद् वेद वरुणस्य व्रतानि । १ २ ।।
प्रजापतिः प्रजावान् स मां प्रजावान् प्रजावन्तं कृणोतु ।।१३।।
सूर्यो वर्चस्वान् स मां वर्चस्वान् वर्चस्वन्तं कृणोतु ।। १४ । !
सोमः पयस्वान् स मां पयस्वान् पयस्वन्तं कृणोतु ।। १५ ।।
त्रिंशन मुष्का: कववस्य दश मुष्कावुलूक्या: ।
चत्वारस्तव कर्दमाः ।। १६ । ।
तांस्त्वमुदग्र काशिनि मूलेन अपिकृन्ततात् ।
आसुरो ऽसि जन्मनस्तं त्वेतो नाशयामसि ।। १७ ।।
इन्द्रजा असि सोमजास्तं त्वेतो निष्प्रहिणामसि ।
उर्वामत्सोमधूलकं तस्य पात्सत्य यमनास्रावमरोगणम्।। १८ ।।
(ह्रति त्र्यृचनाम ऊनविंशतिकाण्डे त्रयोदशो ऽनुवाकः)
19.53
इषिराचास्यजिरा चासि ।
प्रजापते: समिदसि संसितिर्नाम लोमशा ।
प्रजापतिष्ट्वाय प्रतिष्ठाकामो ऋ ऋतस्य प्रत्यतिष्ठत् ।
स यथा त्वया प्रजापति: प्रतिष्ठाकाम: प्रत्यतिष्ठदेवाहं त्वया प्रतिष्ठाकामः प्रतितिष्ठेषम् ।
आ मा वरो गमेदा मा ब्रह्मचारिणो गमेयु: स्वाहा ।१।
भूतिश्चासि प्रतिष्ठा चासि ।
प्रजापते: समिदसि संसितिर्नाम लोमशा ।
प्रजापतिष्ट्वाय प्रतिष्ठाकामो ऋ ऋतस्य प्रत्यतिष्ठत् ।
स यथा त्वया प्रजापतिः प्रतिष्ठाकाम: प्रत्यतिष्ठदेवाहं
त्वया प्रतिष्ठा काम: प्रतितिष्ठेषम् ।
आ मा वरो गमेदा मा ब्रह्मचारिणो गमेयु: स्वाहा । २ ।।
अस्वप्ना चास्यनिद्रया चासि ।
प्रजापतेः समिदसि संसितिर्नाम लोमशा।
प्रजापतिष्ट्वाय प्रतिष्ठाकामो ऋ ऋतस्य प्रत्यतिष्ठत्।
स यथा त्वया प्रजापतिः प्रतिष्ठाकामः प्रत्यतिष्ठदेवाहं
त्वया प्रतिष्ठाकामः प्रतितिष्ठेषम् ।
आ मा वरो गमेदा मा ब्रह्मचारिणो गमेयु: स्वाहा । ३ ।।
रुचिश्चासि यक्षं चासि ।
प्रजापतेः समिदसि संसितिर्नाम लोमशा ।
प्रजापतिष्ट्वाय प्रतिष्ठाकामो ऋ ऋतस्य प्रत्यतिष्ठत् ।
स यथा त्वया प्रजापति: प्रतिष्ठाकाम: प्रत्यतिष्ठदेवाहं त्वया प्रतिष्ठाकामः प्रतितिष्ठेषम् ।
आ मा वरो गमेदा मा ब्रह्मचारिणो गमेयु: स्वाहा । ४ ।।
कीर्त्तिश्चासि यशश्चासि ।
प्रजापते: समिदसि संसितिर्नाम लोमशा ।
प्रजापतिष्ट्वाय प्रतिष्ठाकामो ऋ ऋतस्य प्रत्यतिष्ठत् ।
स यथा त्वया प्रजापति: प्रतिष्ठाकामः प्रत्यतिष्ठदेवाहं त्वया प्रतिष्ठाकामः प्रतितिष्ठेषम् ।
आ मा वरो गमेदा मा ब्रह्मचारिणो गमेयु: स्वाहा । ५ ।
अम्भश्चासि महश्चासि ।
प्रजापते: समिदसि संसितिर्नाम लोमशा ।
प्रजापतिष्ट्वाय प्रतिष्ठाकामो ऋ ऋतस्य प्रत्यतिष्ठत्।
स यथा त्वया प्रजापतिः प्रतिष्ठाकामः प्रत्यतिष्ठदेवाहं त्वया प्रतिष्ठाकामः प्रतितिष्ठेषम् ।
आ मा वरो गमेदा मा ब्रह्मचारिणो गमेयु: स्वाहा । ६ ।
अन्नं चास्यन्नाद्यं चासि । चसि
प्रजापते: समिदसि संसितिर्नाम लोमशा ।
प्रजापतिष्ट्वाय प्रतिष्ठाकामो ऋ ऋतस्य प्रत्यतिष्ठत् ।
स यथा त्वया प्रजापति: प्रतिष्ठाकामः प्रत्यतिष्ठदेवाहं त्वया प्रतिष्ठाकामः प्रतितिष्ठेषम् ।
आ मा वरो गमेदा मा ब्रह्मचारिणो गमेयु: स्वाहा । ७ ।।
प्रयच्छन्ती चासि प्रवदन्ती चासि ।
प्रजापते: समिदस्यूपोलपा नाम लोमशा ।
प्रजापतिष्ट्वाय प्रतिष्ठाकामो ऋ ऋतस्य प्रत्यतिष्ठत् ।
स यथा त्वया प्रजापतिः प्रतिष्ठाकामः प्रत्यतिष्ठदेवाहं त्वया प्रतिष्ठाकामः प्रतितिष्ठेषम् ।
आ मा वरो गमेदा मा ब्रह्मचारिणो गमेयु: स्वाहा । ८ ।
अनुकामा चासि कामदुघा चासि ।
प्रजापते: समिदस्यूपोलपा नाम लोमशा ।
प्रजापतिष्ट्वाय प्रतिष्ठाकामो ऋ ऋतस्य प्रत्यतिष्ठत् ।
स यथा त्वया प्रजापति: प्रतिष्ठाकामः प्रत्यतिष्ठदेवाहं त्वया प्रतिष्ठाकामः प्रतितिष्ठेषम् ।
आा मा वरो गमेदा मा ब्रह्मचारिणो गमेयुः स्वाहा ।। ९ ।।
आहरन्ती चासि समाहरन्ती चासि ।
प्रजापते: समिदस्यूपोलपा नाम लोमशा ।
प्रजापतिष्ट्वाय प्रतिष्ठाकामो ऋ ऋतस्य प्रत्यतिष्ठत् ।
स यथा त्वया प्रजापति: प्रतिष्ठाकामः प्रत्यतिष्ठदेवाहं त्वया प्रतिष्ठाकामः प्रतितिष्ठेषम् ।
आ मा वरो गमेदा मा ब्रह्मचारिणो गमेयुः स्वाहा ।। १० ।।
दिशन्ती चासि प्र दिशन्ती चासि ।
प्रजापते: समिदस्यूपोलपा नाम लोमशा ।
प्रजापतिष्ट्वाय प्रतिष्ठाकामो ऋ ऋतस्य प्रत्यतिष्ठत् ।
स यथा त्वया प्रजापति: प्रतिष्ठाकामः प्रत्यतिष्ठदेवाहं त्वया प्रतिष्ठाकामः प्रतितिष्ठेषम् ।
आ मा वरो गमेदा मा ब्रह्मचारिणो गमेयुः स्वाहा ।।११ ।।
अनुमतिश्चास्यनुमन्यमाना चासि ।
प्रजापते: समिदस्यूपोलपा नाम लोमशा ।
प्रजापतिष्ट्वाय प्रतिष्ठाकामो ऋ ऋतस्य प्रत्यतिष्ठत् ।
स यथा त्वया प्रजापतिः प्रतिष्ठाकामः प्रत्यतिष्ठदेवाहं त्वया प्रतिष्ठाकामः प्रतितिष्ठेषम् ।
आ मा वरो गमेदा मा ब्रह्मचारिणो गमेयु: स्वाहा ।१२।।
जितिश्चासि विजितिश्चासि ।
प्रजापते: समिदस्यूपोलपा नाम लोमशा ।
प्रजापतिष्ट्वाय प्रतिष्ठाकामो ऋ ऋतस्य प्रत्यतिष्ठत् ।
स यथा त्वया प्रजापतिः प्रतिष्ठाकामः प्रत्यतिष्ठदेवाहं त्वया प्रतिष्ठाकामः प्रतितिष्ठेषम् ।
आ मा वरो गमेदा मा ब्रह्मचारिणो गमेयुः स्वाहा ।।१३।।
संजितिश्चासि सन्दनाजितं चासि ।
प्रजापते: समिदस्यूपोलपा नाम लोमशा ।
प्रजापतिष्ट्वाय प्रतिष्ठाकामो ऋ ऋतस्य प्रत्यतिष्ठत् ।
स यथा त्वया प्रजापति: प्रतिष्ठाकाम: प्रत्यतिष्ठदेवाहं त्वया प्रतिष्ठाकामः प्रतितिष्ठेषम् ।
आा मा वरो गमेदा मा ब्रह्मचारिणो गमेयुः स्वाहा ।।१४ ।।
अग्निः पृथिव्याधिपतिः सोमस्त्वावतु विद्म त्वा विद्धि मा ।
अधिपतिरस्यधिपतिं मा कृणु गवामश्वानां पुरुषाणां ब्रह्मचारीणां भूत्या ऽन्नाद्यस्य ।। १५ ।।
वायुरन्तरिक्षस्याधिपतिः सोमस्त्वावतु विद्म त्वा विद्धि मा ।
अधिपतिरस्यधिपतिं मा कृणु गवामश्वानां पुरुषाणां ब्रह्मचारिणां भूत्या ऽन्नाद्यस्य । १६ ।
सूर्यो दिवोधिपतिः सोमस्त्वावतु विद्म त्वा विद्धि मा अधिपतिरस्यधिपतिं मा कृणु गवामश्वानां पुरुषाणां ब्रह्मचारिणां भूत्या ऽन्नाद्यस्य । १७ ।
विन्दन्तु वसवो विन्दन्तु मे गृहान् प्रजा पशून् वित्तिं भूतिं प्रतिष्ठाम् । १८ ।
आ यन्तु वसवो आ यन्तु मे गृहाः प्रजाः पशवो वित्तिर्भूति: प्रतिष्ठाम् ।। १९ । ।
संयन्तु वसवो संयन्तु मे गृहा: प्रजाः पशवो वित्तिर्भूति प्रतिष्ठाम् । २० ।
जीतिरसि जीयासं पार्थिवै: पृतना जीयासम् ।
विजितिरसि वि जीयासं मानुषैः पृतना जीयासम्।।२१।
संजितिरसि सं जीयासं सर्वै: पृतना जीयासम्। २२।
19.54
बोधयैनं प्र बोधय स्वप्तवे नानु मन्यताम् । वोध
उर्ध्वस्तिष्ठान् ममाध्यानान्यासां कीर्त्तयश्च न: ।। १ ।।
आ वर्त्तय नि वर्त्तयाभ्यावर्त्तया कुरु ।
इदमस्य सर्वा चित्तानि स्मरेण प्रचयामसि । २ ।।
स्मरं तपति मरुतः समिद्धे जातवेदसि ।
उदस्य पततां मनस्तदस्य रमतां मयि । ३ ।।
गणपते गणपतिं मा कृणु तस्मान् मा यवम् ।
अपिगणा अपिगणं मा कृणु तस्मान् मा छित्सि । । ४ ।।
सगण सगणं मा कृणु तस्मान् मा न सम् ।
गणवर्धन गणं मे वर्धय गवामश्वानां पुरुषाणां ब्रह्मचारीणां भूत्या ऽन्नाद्यस्य ।। ५ ।।
गणाभिवर्धन गणं मे ऽभिवर्धय गवामश्वानां पुरुषाणां ब्रह्मचारीणां भूत्या ऽन्नाद्यस्य ।। ६ ।।
गण प्रवर्धन गणं मे प्रवर्धय गवामश्वानां पुरुषाणां ब्रह्मचारीणां भूत्या ऽन्नाद्यस्य ।। ७ ।।
यच्च खातं यच्चाखातं सर्वं तदरसं विषम् ।
यच्च पिष्टं यच्चापिष्टं सर्वं तदरसं विषम् ।। ८ ।।
यच्च दिग्धं यच्चादिग्धं सर्वं तदरसं विषम् ।
यथा वृका जग्धपुत्रा व्याग्रावालला भवेत् । ९ ।
एवात्वमरललाभ वा धीभिः प्रेषितो मम ।
यथा दीप्तं सरतूलमग्निना ललाभवेत् । । १० ।।
एवा त्वमरललाभ वा धीभिः प्रेषितो मम ।
आक्रन्दस्य ललाभ वाहस्य कामेन शुष्व च ।
एवा त्वमरललाभ आधीभिः प्रेषितो मम ।। ।। ११ ।।
19.55
ययो: सर्वमिदमार्पितं वशेभूतं च भव्यं निमिशच्च चेष्टत ।
तौ मे गृहीतामुपद्रष्टारमत्र मास्योछेष्वयथावत् प्रजापते।१।
यो मा वदन्तं हृदयेन वाचा वाचा श्रोत्रेण मनसाजिहृक्षात् ।
तमिन्द्रो देवो वरुणो बृहस्पतिरीशानो देवो अभि यातु मृत्युर्यथा न जीवादुषसं तृतीयान् । २ ।।
यो माजिहृक्षाद वहीयान् मन्यमानं इत्थं विद्वांसं प्रमतिर्मतीनाम्।
तमिन्द्रो देवो वरुणो बृहस्पतिरीशानो देवो अभियातु मृत्युर्यथा न जीवादुषसं तृतीयान् । ३ ।।
प्रत्यग्वधेनास्या ऽपि दधामि प्राणं मोदानं विदथ माजिहृक्षात् ।
सो अस्यायुराछिनन्तु कुलिशे नेव वृक्ष यथा न जीवादुषसं तृतीयान् । ४ ।।
यस्या अक्षरमेकमेवपरः सहस्रा अयुतं च शाखाः ।
तस्या वाचो विदथ मा वदन्तं यो माजिहृक्षात् सन्वेत्वार्त्तिम् ।।५।।
उषावादित्य मयीन्धस उषसौ वा उद्यत्सं उद्यन् प्रजाभ्यां अपत सोपत मोहत सोन्नाद्यव मारुन्ध । ६ ।
अपतो मोहतोन्नादो भवति य एवं वेद ।
वातो वा ऽग्नि मयीन्धस वातेनेन्धोज्वलत्सो दीप्यत सः ।।७।।
मनोमयी ब्राह्मणा मयीन्धस ब्रह्मचर्यमवसत्सवेदमन्ववपत सोपत मोहतसन्नाद्यव मारुन्ध ।
अपतो मोहतोन्नादो भवति य एवं वेद । ८ ।
होमेन प्रतरं प्रजापते दंपती परि ददामि पुष्ट्या ।
रायस्पोषं सवितर्नि यच्छ जरामृत्यु कृणुहि सर्ववीरौ । ९।
अयं होमो वर्धयन्नेतु दंपती प्रजावन्तौ पशुवन्तौ सुवीरौ ।
रायस्पोषं सवितर्नि यच्छ जरामृत्यु कृणुहि सर्ववीरौ ।। १० ।।
गोमन्तं पशुवन्तमश्ववन्तं होमं दंपतीभ्यां जुहोमि।
रायस्पोषं सवितर्नि यच्छ जरामृत्यु कृणुहि सर्ववीरौ।११।।
जीवा स्थ जीव्यासं सर्वमायुर्जीव्यासम् । १२ ।
उपजीवा स्थोप जीव्यासं सर्वमायुर्जीव्यासम्। १३ ।
संजीवा स्थ सं जीव्यासं सर्वमायुर्जीव्यासम् । १४ ।
जीवला स्थ जीव्यासं सर्वमायुर्जीव्यासम्। १५ ।
प्रजापतेराकूतिरसि साहस्री पुष्टिः ।
प्रजापतेराकूत्याहं साहस्र्यां पुष्ट्यां साहस्रं पशून् पुषेयम् ।।१६।। शुन्
बृहस्पतेराकूतिरसि साहस्री पुष्टिः ।
बृहस्पतेराकूत्याहं साहस्र्यां पुष्ट्यां साहस्रं पशून् पुषेयम्।।१७।।
ब्रह्मण आकूतिरसि साहस्री पुष्टिः ।
ब्रह्मण आकूत्याहं साहस्र्यां पुष्ट्यां साहस्रं पशून् पुषेयम्।।१८ ।। पशु
19.56
विराडसि विराजं मा कृणु तस्यास्ते यशो भक्षीय । १ ।।
स्वराडसि स्वराजं मा कृणु तस्यास्ते मधु भक्षीय । २ ।।
सम्राडसि सम्राजं मा कृणु तस्यास्ते अन्नं भक्षीय ३ ।।
वीर्यावता ते हविषा जुहोमि जीवातवे न मर्तवे ।
दक्षं ते भद्रमाहार्षं परा सुवाम्यामयत् । ४ ।।
अभिवीरेण ते हविषा जुहोमि जीवातवे न मर्त्तवे ।
दक्षं ते भद्रमाहार्षं परा सुवाम्यामयत् । ५ ।
सुवीरेण ते हविषा जुहोमि जीवातवे न मर्त्तवे ।
दक्षं ते भद्रमाहार्षं परा सुवाम्यामयत् । ६ । ।
सर्ववीरेण ते हविषा जुहोमि जीवातवे न मर्त्तवे।
दक्षं ते भद्रमाहार्षं परा सुवाम्यामयत् । ७ । ।
प्रजावता ते हविषा जुहोमि गर्भमा धत्स्व योन्याम् ।
सुकाले जायतां पुनर्दशमे मासि सूतवे । ८ । ।
सुप्रजसा ते हविषा जुहोमि गर्भमा धत्स्व योन्याम् ।
सुकाले जायतां पुनर्दशमेमासि सूतवे ।। ९ ।।
सुपुत्रेण ते हविषा जुहोमि गर्भमा धत्स्व योन्याम् ।
सुकाले जायतां पुनर्दशमे मासि सूतवे ।। १० ।।
भूतये ते हविषा जुहोमीमं देवासो ऽभि हिंकराथ ।
अस्मिन्नेव पशव: सं विशन्तु चतुष्पदामुत वा ये द्विपादः ।। ११ ।।
वित्तये ते हविषा जुहोमीमं देवासो ऽभि हिङ्कराथ ।
अस्मिन्नेव पशवः सं विशन्तु चतुष्पदामुत वा ये द्विपादः । । १२ ।।
सुवृद्धेन ते हविषा जुहोमीमं देवासो ऽभि हिङ्कराथ ।
अस्मिन्नेव पशव: सं विशन्तु चतुष्पदामुत वा ये द्विपादः ।।१३ ।।
संवृद्धेन ते हविषा जुहोमीमं देवासो ऽभि हिङ्कराथ ।
अस्मिन्नेव पशवः सं विशन्तु चतुष्पदामुत वा ये द्विपादः ।।१४।।
क्षेम्येण ते हविषा जुहोमि क्षेम्यो भवासि पशुभिश्च वीरैः ।
इन्द्राग्नि त्वा सयुजा सखायौ विश्वेभिर्देवैरनु सं दधेताम् ।। १५ ।।
प्रतिष्ठितेन ते हविषा जुहोमि प्रति तिष्ठासि पशुभिश्च वीरैः ।
इन्द्राग्नि त्वा सयुजा सखायौ विश्वेभिर्देवैरनु सं दधेताम्। !१६ ।।
संभूतेन ते हविषा जुहोमि सं भवासि पशुभिश्च वीरैः ।
इन्द्राग्नि त्वा सयुजा सखायौ विश्वेभिर्देवैरनु सं दधेताम्।। १७ ।।
प्रभूतेन ते हविषा जुहोमि प्र प्रभासि पशुभिश्च वीरैः ।
इन्द्राग्नि त्वा सयुजा सखायौ विश्वेभिर्देवैरनु सं दधेताम्।।१८।।
(इति त्र्यृचनाम ऊनविंशतिकाण्डे चतुर्दशो ऽनुवाकः )
इत्यथर्ववेदे पैप्पलादसंहितायां त्र्यृचनाम ऊनविंशति काण्डः