ऋग्वेदः सूक्तं १०.१२३

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.१२३ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १०.१२२ ऋग्वेदः - मण्डल १०
सूक्तं १०.१२३
वेनो भार्गवः
सूक्तं १०.१२४ →
दे. वेनः। त्रिष्टुप्।


अयं वेनश्चोदयत्पृश्निगर्भा ज्योतिर्जरायू रजसो विमाने ।
इममपां संगमे सूर्यस्य शिशुं न विप्रा मतिभी रिहन्ति ॥१॥
समुद्रादूर्मिमुदियर्ति वेनो नभोजाः पृष्ठं हर्यतस्य दर्शि ।
ऋतस्य सानावधि विष्टपि भ्राट् समानं योनिमभ्यनूषत व्राः ॥२॥
समानं पूर्वीरभि वावशानास्तिष्ठन्वत्सस्य मातरः सनीळाः ।
ऋतस्य सानावधि चक्रमाणा रिहन्ति मध्वो अमृतस्य वाणीः ॥३॥
जानन्तो रूपमकृपन्त विप्रा मृगस्य घोषं महिषस्य हि ग्मन् ।
ऋतेन यन्तो अधि सिन्धुमस्थुर्विदद्गन्धर्वो अमृतानि नाम ॥४॥
अप्सरा जारमुपसिष्मियाणा योषा बिभर्ति परमे व्योमन् ।
चरत्प्रियस्य योनिषु प्रियः सन्सीदत्पक्षे हिरण्यये स वेनः ॥५॥
नाके सुपर्णमुप यत्पतन्तं हृदा वेनन्तो अभ्यचक्षत त्वा ।
हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्युम् ॥६॥
ऊर्ध्वो गन्धर्वो अधि नाके अस्थात्प्रत्यङ्चित्रा बिभ्रदस्यायुधानि ।
वसानो अत्कं सुरभिं दृशे कं स्वर्ण नाम जनत प्रियाणि ॥७॥
द्रप्सः समुद्रमभि यज्जिगाति पश्यन्गृध्रस्य चक्षसा विधर्मन् ।
भानुः शुक्रेण शोचिषा चकानस्तृतीये चक्रे रजसि प्रियाणि ॥८॥


सायणभाष्यम्

‘अयं वेनः' इत्यष्टर्चमेकादशं सूक्तं भार्गवस्य वेनस्यार्षं त्रैष्टुभम् । वेनो देवता । तथा चानुक्रान्तम् - अयं वेनो वैन्यम् ' इति । प्रवर्ग्येऽभिष्टव आद्यानुवक्तव्या । सूत्रितं च --- ‘ स्रक्वे द्रप्सस्यायं वेनश्चोदयत्पृश्निगर्भाः ' ( आश्व. श्रौ. ४. ६ ) इति । वैश्वदेवशस्त्रेऽप्येषा धाय्या । सूत्रितं च –' तक्षन्रथमयं वेनश्चोदयत्पृश्निगर्भाः' ( आश्व. श्रौ. ५. १८) इति ।।


अ॒यं वे॒नश्चो॑दय॒त्पृश्नि॑गर्भा॒ ज्योति॑र्जरायू॒ रज॑सो वि॒माने॑ ।

इ॒मम॒पां सं॑ग॒मे सूर्य॑स्य॒ शिशुं॒ न विप्रा॑ म॒तिभी॑ रिहन्ति ॥ १

अ॒यम् । वे॒नः । चो॒द॒य॒त् । पृश्नि॑ऽगर्भाः । ज्योतिः॑ऽजरायुः । रज॑सः । वि॒ऽमाने॑ ।

इ॒मम् । अ॒पाम् । स॒म्ऽग॒मे । सूर्य॑स्य । शिशु॑म् । न । विप्राः॑ । म॒तिऽभिः॑ । रि॒ह॒न्ति॒ ॥१

अयम् । वेनः । चोदयत् । पृश्निऽगर्भाः । ज्योतिःऽजरायुः । रजसः । विऽमाने ।

इमम् । अपाम् । सम्ऽगमे । सूर्यस्य । शिशुम् । न । विप्राः । मतिऽभिः । रिहन्ति ॥१

“वेनः कान्त एतत्संज्ञो मध्यस्थानो देवः “ज्योतिर्जरायुः । ज्योतिर्द्योतमानो मेघो जरायुः । उदरे गर्भो येन वेष्टितोऽवतिष्ठते तज्जरायु । तदिव वेष्टको यस्य स तथोक्तः । मेघमध्ये गर्भवदवस्थित इत्यर्थः । “विमाने । विमीयन्ते निर्मीयन्ते अस्मिन्नाप इति विमानमन्तरिक्षम् । “रजसः उदकस्य निर्मातर्यन्तरिक्षे स्थितः सन् “अयं वेनः “पृश्निगर्भाः । पृश्निरादित्यः। तस्य गर्भभूताः । यद्वा । पृश्नयः सप्तोज्ज्वलवर्णाः सूर्यरश्मयः तेषां गर्भभूता अन्तरिक्षस्था अपः “चोदयत् । पृथिवीं प्रति प्रेरयति । “अपाम् उदकानामान्तरिक्ष्याणां “सूर्यस्य च "संगमे संगमनेऽन्तरिक्षे स्थितम् “इमं वेनं “विप्राः मेधाविनः स्तोतारः “मतिभिः स्तुतिभिः “रिहन्ति । रिहतिरर्चतिकर्मा । अर्चन्ति। पूजयन्ति। स्तुवन्तीत्यर्थः। “शिशुं “न । यथा बालं पुत्रं मातापित्राद्या बान्धवाः स्तुतिपदैरुपलालयन्ति तद्वत् ॥


स॒मु॒द्रादू॒र्मिमुदि॑यर्ति वे॒नो न॑भो॒जाः पृ॒ष्ठं ह॑र्य॒तस्य॑ दर्शि ।

ऋ॒तस्य॒ साना॒वधि॑ वि॒ष्टपि॒ भ्राट् स॑मा॒नं योनि॑म॒भ्य॑नूषत॒ व्राः ॥ २

स॒मु॒द्रात् । ऊ॒र्मिम् । उत् । इ॒य॒र्ति॒ । वे॒नः । न॒भः॒ऽजाः । पृ॒ष्ठम् । ह॒र्य॒तस्य॑ । द॒र्शि॒ ।

ऋ॒तस्य॑ । सानौ॑ । अधि॑ । वि॒ष्टपि॑ । भ्राट् । स॒मा॒नम् । योनि॑म् । अ॒भि । अ॒नू॒ष॒त॒ । व्राः ॥२

समुद्रात् । ऊर्मिम् । उत् । इयर्ति । वेनः । नभःऽजाः । पृष्ठम् । हर्यतस्य । दर्शि ।

ऋतस्य । सानौ । अधि । विष्टपि । भ्राट् । समानम् । योनिम् । अभि । अनूषत । व्राः ॥२

समुद्द्रवन्त्यस्मादाप इति समुद्रमन्तरिक्षम् । तस्मात् ऊर्मिं जलसमूहम् अयं "वेनः “उदियर्ति उद्गमयति । अधः पातयतीत्यर्थः। कीदृशः । “नभोजाः । नभस्याकाशे ---। इमं वेनमभि शब्दायन्ते । नु स्तुतौ ' । कुटादिः । छान्दसो लुङ् ।।


स॒मा॒नं पू॒र्वीर॒भि वा॑वशा॒नास्तिष्ठ॑न्व॒त्सस्य॑ मा॒तरः॒ सनी॑ळाः ।

ऋ॒तस्य॒ साना॒वधि॑ चक्रमा॒णा रि॒हन्ति॒ मध्वो॑ अ॒मृत॑स्य॒ वाणीः॑ ॥ ३

स॒मा॒नम् । पू॒र्वीः । अ॒भि । वा॒व॒शा॒नाः । तिष्ठ॑न् । व॒त्सस्य॑ । मा॒तरः॑ । सऽनी॑ळाः ।

ऋ॒तस्य॑ । सानौ॑ । अधि॑ । च॒क्र॒मा॒णाः । रि॒हन्ति॑ । मध्वः॑ । अ॒मृत॑स्य । वाणीः॑ ॥३

समानम् । पूर्वीः । अभि । वावशानाः । तिष्ठन् । वत्सस्य । मातरः । सऽनीळाः ।

ऋतस्य । सानौ । अधि । चक्रमाणाः । रिहन्ति । मध्वः । अमृतस्य । वाणीः ॥३

“पूर्वीः बह्व्यः “समानं वेनस्यात्मनश्च साधारणं स्थानं प्राप्य “अभि “वावशाना: अभितः शब्दायमानाः । यद्वा । तमेव वेनमभिकामयमानाः। “वासस्य वत्सस्थानीयस्य वैद्युताग्नेः “मातरः मातृभूताः “सनीळाः समाननिलया एवंविधा आन्तरिक्ष्या आपः “तिष्ठन् तिष्ठन्ति । अपि च “ऋतस्य उदकस्य “सानावधि सानौ समुच्छ्रितेऽन्तरिक्षस्थाने “चक्रमाणाः प्रवर्तमानाः “मध्वः मधुरस्य “अमृतस्य उदकस्य “वाणीः वाण्यः शब्दाः “रिहन्ति इमं वेनमर्चन्ति । अलंकुर्वन्तीत्यर्थः ।।


जा॒नन्तो॑ रू॒पम॑कृपन्त॒ विप्रा॑ मृ॒गस्य॒ घोषं॑ महि॒षस्य॒ हि ग्मन् ।

ऋ॒तेन॒ यन्तो॒ अधि॒ सिन्धु॑मस्थुर्वि॒दद्ग॑न्ध॒र्वो अ॒मृता॑नि॒ नाम॑ ॥ ४

जा॒नन्तः॑ । रू॒पम् । अ॒कृ॒प॒न्त॒ । विप्राः॑ । मृ॒गस्य॑ । घोष॑म् । म॒हि॒षस्य॑ । हि । ग्मन् ।

ऋ॒तेन॑ । यन्तः॑ । अधि॑ । सिन्धु॑म् । अ॒स्थुः॒ । वि॒दत् । ग॒न्ध॒र्वः । अ॒मृता॑नि । नाम॑ ॥४

जानन्तः । रूपम् । अकृपन्त । विप्राः । मृगस्य । घोषम् । महिषस्य । हि । ग्मन् ।

ऋतेन । यन्तः । अधि । सिन्धुम् । अस्थुः । विदत् । गन्धर्वः । अमृतानि । नाम ॥४

“विप्राः मेधाविनः स्तोतारोऽस्य वेनस्य “रूपं “जानन्तः “अकृपन्त स्तुवन्ति । कृपतिः स्तुतिकर्मा । कथमस्य रूपं जानन्तीत्यत आह । “मृगस्य अन्वेषणीयस्य “महिषस्य । महन्नामैतत् । महतो वेनस्य “घोषं गर्जितलक्षणं मेघस्थं शब्दं “हि यस्मात् “ग्मन् अभिगच्छन्ति अतस्तदीयं रूपं जानन्तीत्यर्थः ॥ गमेश्छान्दसे लङि • बहुलं छन्दसि ' इति शपो लुक् । 'गमहन' इत्युपधालोपः। ‘ बहुलं छन्दस्यमाङ्योगेऽपि ' ( पा. सू. ६. ४. ७५) इत्यडभावः । अपि च “ऋतेन सत्यभूतेन स्तोत्रेण यज्ञेन वा “यन्तः तं वेनं गच्छन्तः प्राप्नुवन्तो जनाः “सिन्धुं स्यन्दनशीलं जलसमूहम् “अधि “अस्थुः अधितिष्ठन्ति । तेषां स वेनो वृष्टिं करोतीत्यर्थः । तत्र किं कारणमिति चेत् यतोऽयं “गन्धर्वः गवामुदकानां धर्ता वेनः “अमृतानि अमरणहेतुभूतानि “नाम। उदकनामैतत् । नमनशीलानि उदकानि “विदत् वेद जानाति । तस्य वशे वर्तन्त इत्यर्थः । अतस्तद्भक्तानां वृष्टिः सुलभा ।।


अ॒प्स॒रा जा॒रमु॑पसिष्मिया॒णा योषा॑ बिभर्ति पर॒मे व्यो॑मन् ।

चर॑त्प्रि॒यस्य॒ योनि॑षु प्रि॒यः सन्सीद॑त्प॒क्षे हि॑र॒ण्यये॒ स वे॒नः ॥ ५

अ॒प्स॒राः । जा॒रम् । उ॒प॒ऽसि॒ष्मि॒या॒णा । योषा॑ । बि॒भ॒र्ति॒ । प॒र॒मे । विऽओ॑मन् ।

चर॑त् । प्रि॒यस्य॑ । योनि॑षु । प्रि॒यः । सन् । सीद॑त् । प॒क्षे । हि॒र॒ण्यये॑ । सः । वे॒नः ॥५

अप्सराः । जारम् । उपऽसिष्मियाणा । योषा । बिभर्ति । परमे । विऽओमन् ।

चरत् । प्रियस्य । योनिषु । प्रियः । सन् । सीदत् । पक्षे । हिरण्यये । सः । वेनः ॥५

“अप्सराः अपां सारयित्र्यप्सु क्रीडार्थं सरन्ती वा “उपसिष्मियाणा कान्तसमीपमुपगम्येषद्धसन्ती ।। ‘ स्मिङ् ईषद्धसने ' । छान्दसो लिट् । तस्य 'लिटः कानज्वा ' इति कानच् ॥ ईदृशी “योषा स्त्री विद्युद्रूपा “जारम् अपां जरयितारम् । यद्वा । जार उपपतिः । स इव प्रियम् । इमं वेनं “परमे उत्कृष्टे “व्योमन् व्योमन्यन्तरिक्षे “बिभर्ति पोषयति। धारयति वा । यथा काचिद्रूपवती योषिज्जारमुपगम्येषद्धसन्ती तं निर्जने स्थले पुष्णाति तद्वदनेन वेनेन विद्युद्रमत इत्यर्थः । “प्रियस्य अस्य वेनस्य “योनिषु स्थानेषु “चरत् । विद्युद्रूपा योषिच्चरति गच्छति । अभिसारिकावृत्त्या स्वयमेव गच्छति । “सः च “वेनः “प्रियः अस्या अनुकूलतमः “सन् “हिरण्यये हिरण्मये हिरण्मयवद्भास्वरे हितरमणीयरूपे वा “पक्षे आत्मनः पक्षभूते मेघे “सीदत् सीदति । तया सहोपविशति ॥ ॥ ७ ॥


अभिष्टवे ‘नाके सुपर्णम्' इत्येषा। सूत्रितं च - ‘ नाके सुपर्णमुप यत्पतन्तमिति समाप्य प्रणवेनोपविशेत् ' (आश्व. श्रौ. ४. ७) इति ॥

नाके॑ सुप॒र्णमुप॒ यत्पत॑न्तं हृ॒दा वेन॑न्तो अ॒भ्यच॑क्षत त्वा ।

हिर॑ण्यपक्षं॒ वरु॑णस्य दू॒तं य॒मस्य॒ योनौ॑ शकु॒नं भु॑र॒ण्युम् ॥ ६

नाके॑ । सु॒ऽप॒र्णम् । उप॑ । यत् । पत॑न्तम् । हृ॒दा । वेन॑न्तः । अ॒भि । अच॑क्षत । त्वा॒ ।

हिर॑ण्यऽपक्ष॑म् । वरु॑णस्य । दू॒तम् । य॒मस्य॑ । योनौ॑ । श॒कु॒नम् । भु॒र॒ण्युम् ॥६

नाके । सुऽपर्णम् । उप । यत् । पतन्तम् । हृदा । वेनन्तः । अभि । अचक्षत । त्वा ।

हिरण्यऽपक्षम् । वरुणस्य । दूतम् । यमस्य । योनौ । शकुनम् । भुरण्युम् ॥६

हे वेन “त्वा त्वां “हृदा हृदयेन मनसा “वेनन्तः कामयमानाः स्तोतारः “नाके अन्तरिक्षे “यत यदा “अभ्यचक्षत अभिपश्यन्ति तदानीं त्वम् “उप आगच्छसीति शेषः । कथंभूतम् । “सुपर्णं शोभनपतनं “पतन्तम् अन्तरिक्षे गच्छन्तं “हिरण्यपक्षं हिरण्मयाभ्यां पक्षाभ्यामुपेतं “वरुणस्य जलाभिमानिनो देवस्य “दूतं चारं “यमस्य नियामकस्य वैद्युताग्नेः “योनौ स्थानेऽन्तरिक्षे “शकुनं पक्षिरूपेण वर्तमानं “भुरण्यंं भर्तारम् । यद्वा । वृष्टिप्रदानादिना सर्वस्य जगतः पोषकम् ॥ ‘ भुरण धारणपोषणयोः । कण्ड्वादिः । अस्मादौणादिक उप्रत्ययः ।।


ऊ॒र्ध्वो ग॑न्ध॒र्वो अधि॒ नाके॑ अस्थात्प्र॒त्यङ्चि॒त्रा बिभ्र॑द॒स्यायु॑धानि ।

वसा॑नो॒ अत्कं॑ सुर॒भिं दृ॒शे कं स्व१॒॑र्ण नाम॑ जनत प्रि॒याणि॑ ॥ ७

ऊ॒र्ध्वः । ग॒न्ध॒र्वः । अधि॑ । नाके॑ । अ॒स्था॒त् । प्र॒त्यङ् । चि॒त्रा । बिभ्र॑त् । अ॒स्य॒ । आयु॑धानि ।

वसा॑नः । अत्क॑म् । सु॒र॒भिम् । दृ॒शे । कम् । स्वः॑ । न । नाम॑ । ज॒न॒त॒ । प्रि॒याणि॑ ॥७

ऊर्ध्वः । गन्धर्वः । अधि । नाके । अस्थात् । प्रत्यङ् । चित्रा । बिभ्रत् । अस्य । आयुधानि ।

वसानः । अत्कम् । सुरभिम् । दृशे । कम् । स्वः । न । नाम । जनत । प्रियाणि ॥७

“ऊर्ध्वः उपरिदेशे वर्तमानः “गन्धर्वः गवामुदकानां धर्ता ॥ ‘ गवि गन् धृञो वः' इति गोशब्दोपपदात् ‘ धृञ् धारणे ' इत्यस्माद्वप्रत्यय उपपदस्य गन्भावश्च ।। ईदृशो वेनः “प्रत्यङ् अस्मत्प्रत्यञ्चनोऽभिमुखः सन् “नाके “अधि अन्तरिक्षे “अस्थात् तिष्ठति । किं कुर्वन् । “अस्य आत्मनः स्वभूतानि “चित्रा चित्राणि चायनीयान्याश्चर्यभूतानि वा “आयुधानि “बिभ्रत् धारयन् ॥ बिभर्तेः शतरि ‘ भृञामित् ' इत्यभ्यासस्येत्वम् । नाभ्यस्ताच्छतुः' इति नुम्प्रतिषेधः । ‘ अभ्यस्तानामादिः । इत्याद्युदात्तत्वम् । तथा “सुरभिं शोभनम् “अत्कम् आत्मीयं व्याप्तं रूपं “वसानः सर्वत्राच्छादयन् । किमर्थम् । “दृशे दर्शनार्थम् ।। ‘दृशे विख्ये च ' इति केप्रत्ययान्तो निपात्यते ।। “कम् इति पूरणः । तत्र दृष्टान्तः । “स्वर्ण । स्वः शोभनारण आदित्यः । स यथात्मीयं रूपं दर्शनाय सर्वत्राच्छादयति तद्वत् । तदनन्तरं “नाम नामानि नमनशीलान्युदकानि “प्रियाणि सर्वेषामनुकूलानि “जनत जनयति । वृष्टिमुत्पादयतीत्यर्थः ॥


प्रवर्ग्येऽभिष्टवे ' द्रप्सः समुद्रम् ' इत्येषा । सूत्रितं च -- द्रप्सः समुद्रमभि यज्जिगाति सखे सखायमभ्या ववृत्स्व ' ( आश्व. श्रौ. ४. ७ ) इति ।।

द्र॒प्सः स॑मु॒द्रम॒भि यज्जिगा॑ति॒ पश्य॒न्गृध्र॑स्य॒ चक्ष॑सा॒ विध॑र्मन् ।

भा॒नुः शु॒क्रेण॑ शो॒चिषा॑ चका॒नस्तृ॒तीये॑ चक्रे॒ रज॑सि प्रि॒याणि॑ ॥ ८

द्र॒प्सः । स॒मु॒द्रम् । अ॒भि । यत् । जिगा॑ति । पश्य॑न् । गृध्र॑स्य । चक्ष॑सा । विऽध॑र्मन् ।

भा॒नुः । शु॒क्रेण॑ । शो॒चिषा॑ । च॒का॒नः । तृ॒तीये॑ । च॒क्रे॒ । रज॑सि । प्रि॒याणि॑ ॥८

द्रप्सः । समुद्रम् । अभि । यत् । जिगाति । पश्यन् । गृध्रस्य । चक्षसा । विऽधर्मन् ।

भानुः । शुक्रेण । शोचिषा । चकानः । तृतीये । चक्रे । रजसि । प्रियाणि ॥८

“विधर्मन् विधर्मणि विधारकेऽन्तरिक्षे स्थितः “द्रप्सः द्रवणशीलः । यद्वा । द्रप्सा उदकबिन्दवः । तद्वान् ।। अर्शआदित्वादच् । “गृध्रस्य गृधो रसानभिकाङ्क्षतः सूर्यस्य “चक्षसा तेजसा “पश्यन् प्रकाशमानो वेनः “यत् यदा “समुद्रं समुन्दनशीलं मेघम् “अभि “जिगाति अभिगच्छति तदानीं “भानुः सूर्यः “शुक्रेण शुभ्रेण “शोचिषा तेजसा “तृतीये “रजसि लोके “चकानः दीप्यमानः “प्रियाणि सर्वेषामभीष्टान्युदकानि “चक्रे करोति ॥ ॥८॥


मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१