तैत्तिरीयसंहिता(विस्वरः)/काण्डम् १/प्रपाठकः ४

विकिस्रोतः तः

1.4 प्रपाठक: 4
1.4.1अनुवाक 1 सोमाभिषवः
1 आ ददे ग्रावास्य् अध्वरकृद् देवेभ्यो गम्भीरम् इमम् अध्वरं कृध्य् उत्तमेन पविनेन्द्राय सोमꣳ सुषुतम् मधुमन्तम् पयस्वन्तं वृष्टिवनिम् इन्द्राय त्वा वृत्रघ्न इन्द्राय त्वा वृत्रतुर इन्द्राय त्वाऽभिमातिघ्न इन्द्राय त्वाऽऽदित्यवत इन्द्राय त्वा विश्वदेव्यावते श्वात्राः स्थ वृत्रतुरो राधोगूर्ता अमृतस्य पत्नीस् ता देवीर् देवत्रेमं यज्ञं धत्तोपहूताः सोमस्य पिबतोपहूतो युष्माकम् ॥
2 सोमः पिबतु यत् ते सोम दिवि ज्योतिर् यत् पृथिव्यां यद् उराव् अन्तरिक्षे तेनास्मै यजमानायोरु राया कृध्य् अधि दात्रे वोचो । धिषणे वीडू सती वीडयेथामूर्जं दधाथामूर्जम् मे धत्तम्, मा वाꣳ हिꣳसिषम् मा मा हिꣳसिष्टम् प्राग् अपाग् उदग् अधराक् तास् त्वा दिश आ धावन्त्व् अम्ब नि ष्वर यत् ते सोमादाभ्यं नाम जागृवि तस्मै ते सोम सोमाय स्वाहा ॥


उपांशुपात्रम्

1.4.2 अनुवाक 2 उपांशुग्रहः
1 वाचस् पतये पवस्व वाजिन् वृषा वृष्णो अꣳशुभ्यां गभस्तिपूतो देवो देवानाम् पवित्रम् असि येषां भागो ऽसि तेभ्यस् त्वा स्वांकृतो ऽसि मधुमतीर् न इषस् कृधि विश्वेभ्यस् त्वेन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यः । मनस् त्वाऽष्टु । उर्व् अन्तरिक्षम् अन्व् इहि स्वाहा त्वा सुभवः सूर्याय देवेभ्यस् त्वा मरीचिपेभ्यः । एष ते योनिः प्राणाय त्वा ॥

1.4.3 अनुवाक 3 अन्तर्यामग्रहः
1 उपयामगृहीतो ऽसि । अन्तर् यच्छ मघवन् पाहि सोमम् उरुष्य रायः सम् इषो यजस्वान्तस् ते दधामि द्यावापृथिवी अन्तर् उर्वन्तरिक्षꣳ सजोषा देवैर् अवरैः परैश् चान्तर्यामे मघवन् मादयस्व स्वांकृतो ऽसि मधुमतीर् न इषस् कृधि विश्वेभ्यस् त्वेन्द्रियेभ्यो दिव्येभ्यः {W दिव्येभ्याः} {ASS दिव्येभ्यः} {BI दिव्येभ्यः} {GOLS दिव्येभ्यः} पार्थिवेभ्यः ।
मनस् त्वाष्टु । उर्व् अन्तरिक्षम् अन्व् इहि स्वाहा त्वा सुभवः सूर्याय देवेभ्यस् त्वा मरीचिपेभ्यः । एष ते योनिर् अपानाय त्वा ॥




ऐन्द्रवायवग्रह

1.4.4 अनुवाक 4 ऐन्द्रवायवग्रहः
1 आ वायो भूष शुचिपा उप नः सहस्रं ते नियुतो विश्ववार । उपो ते अन्धो मद्यम् अयामि यस्य देव दधिषे पूर्वपेयम् ॥ उपयामगृहीतो ऽसि वायवे त्वा । इन्द्रवायू इमे सुताः । उप प्रयोभिर् आ गतम् इन्दवो वाम् उशन्ति हि । उपयामगृहीतो ऽसीन्द्रवायुभ्यां त्वैष ते योनिः सजोषाभ्यां त्वा ॥






ऐन्द्रवायवग्रहः + मैत्रावरुणग्रहः)

1.4.5 अनुवाक 5 मैत्रावरुणग्रहः
1 अयं वां मित्रावरुणा सुतः सोम ऋतावृधा । ममेद् इह श्रुतꣳ हवम् ॥ उपयामगृहीतो ऽसि मित्रावरुणाभ्यां त्वैष ते योनिर् ऋतायुभ्यां त्वा ॥






ऐन्द्रवायवग्रहः+ मैत्रावरुणग्रहः+आश्विन्ग्रहः)

1.4.6 अनुवाक 6 आश्विन् ग्रहः
1 या वां कशा मधुमत्य् अश्विना सूनृतावती । तया यज्ञम् मिमिक्षतम् ॥ उपयामगृहीतो ऽस्य् अश्विभ्यां त्वैष ते योनिर् माध्वीभ्यां त्वा ॥

1.4.7 अनुवाक 7 आश्विन् ग्रहः
1 प्रातर्युजौ वि मुच्येथाम् अश्विनाव् एह गच्छतम् । अस्य सोमस्य पीतये ॥ उपयामगृहीतो ऽस्य् अश्विभ्यां त्वैष ते योनिर् अश्विभ्यां त्वा ॥




शुक्रामन्थीग्रहप्रचारः

1.4.8 अनुवाक 8 शुक्रग्रहः
1 अयं वेनश् चोदयत् पृश्निगर्भा ज्योतिर्जरायू रजसो विमाने । इमम् अपाꣳ संगमे सूर्यस्य शिशुं न विप्रा मतिभी रिहन्ति ॥ उपयामगृहीतो ऽसि शण्डाय त्वैष ते योनिर् वीरताम् पाहि ॥

1.4.9 अनुवाक 9 मन्थिग्रहः
1 तम् प्रत्नथा पूर्वथा विश्वथेमथा ज्येष्ठतातिम् बर्हिषदꣳ सुवर्विदम् । प्रतीचीनं वृजनं दोहसे गिराऽऽशुं जयन्तम् अनु यासु वर्धसे ॥ उपयामगृहीतो ऽसि मर्काय त्वैष ते योनिः प्रजाः पाहि ॥


आग्रयण स्थाली

1.4.10 अनुवाक 10 आग्रयणग्रहः
1 ये देवा दिव्य् एकादश स्थ पृथिव्याम् अध्य् एकादश स्थाप्सुषदो महिनैकादश स्थ ते देवा यज्ञम् इमं जुषध्वम् । उपयामगृहीतो ऽस्य् आग्रयणो ऽसि स्वाग्रयणो जिन्व यज्ञं जिन्व यज्ञपतिम् अभि सवना पाहि विष्णुस् त्वाम् पातु विशम् त्वम् पाहीन्द्रियेणैष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः ॥

1.4.11 अनुवाक 11 भ्रातृव्यवतः आग्रयणग्रहः
1 त्रिꣳशत् त्रयश् च गणिनो रुजन्तो दिवꣳ रुद्राः पृथिवीं च सचन्ते । एकादशासो अप्सुषदः सुतꣳ सोमं जुषन्ताꣳ सवनाय विश्वे ॥ उपयामगृहीतो ऽस्य् आग्रयणो ऽसि स्वाग्रयणो जिन्व यज्ञं जिन्व यज्ञपतिम् अभि सवना पाहि विष्णुस् त्वाम् पातु विशं त्वं पाहीन्द्रियेणैष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः ॥

1.4.12 अनुवाक 12 उक्थ्यग्रहः
1 उपयामगृहीतो ऽसीन्द्राय त्वा बृहद्वते वयस्वत उक्थायुवे यत् त इन्द्र बृहद् वयस् तस्मै त्वा विष्णवे त्वैष ते योनिर् इन्द्राय त्वोक्थायुवे ॥

1.4.13अनुवाक 13 ध्रुवग्रहः
1 मूर्धानं दिवो अरतिम् पृथिव्या वैश्वानरम् ऋताय जातम् अग्निम् । कविꣳ सम्राजम् अतिथिं जनानाम् आसन्न् आ पात्रं जनयन्त देवाः ॥ उपयामगृहीतो ऽस्य् अग्नये त्वा वैश्वानराय ध्रुवो ऽसि ध्रुवक्षितिर् ध्रुवाणां ध्रुवतमो ऽच्युतानाम् अच्युतक्षित्तम एष ते योनिर् अग्नये त्वा वैश्वानराय ॥

1.4.14 अनुवाक 14 ऋतुग्रहाः
1 मधुश् च माधवश् च शुक्रश् च शुचिश् च नभश् च नभस्यश् चेषश् चोर्जश् च सहश् च सहस्यश् च तपश् च तपस्यश् च । उपयामगृहीतो ऽसि सꣳसर्पो ऽसि । अꣳहस्पत्याय त्वा ॥

1.4.15 अनुवाक 15 ऐन्द्राग्नग्रहाः
1 इन्द्राग्नी आ गतꣳ सुतं गीर्भिर् नभो वरेण्यम् अस्य पातं धियेषिता ॥ उपयामगृहीतो ऽसीन्द्राग्निभ्यां त्वैष ते योनिर् इन्द्राग्निभ्यां त्वा ॥

1.4.16 अनुवाक 16 वैश्वदेवग्रहः
1 ओमासश् चर्षणीधृतो विश्वे देवास आ गत । दाश्वाꣳसो दाशुषः सुतम् ॥ उपयामगृहीतो ऽसि विश्वेभ्यस् त्वा देवेभ्य एष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः ॥

1.4.17 अनुवाक 17 पूर्वोमरुत्वतीयग्रहः
1 मरुत्वन्तं वृषभं वावृधानम् अकवारिं दिव्यꣳ शासम् इन्द्रम् । विश्वासाहम् अवसे नूतनायो ऽग्रꣳ सहोदाम् इह तꣳ हुवेम ॥ उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वत एष ते योनिर् इन्द्राय त्वा मरुत्वते ॥

1.4.18 अनुवाक 18 उत्तरो मरुत्वतीयग्रहः
1 इन्द्र मरुत्व इह पाहि सोमं यथा शार्याते अपिबः सुतस्य । तव प्रणीती तव शूर शर्मन्न् आ विवासन्ति कवयः सुयज्ञाः ॥ उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वत एष ते योनिर् इन्द्राय त्वा मरुत्वते ॥

1.4.19 अनुवाक 19 तृतीयो मरुत्वतीयग्रहः
1 मरुत्वाꣳ इन्द्र वृषभो रणाय पिबा सोमम् अनुष्वधम् मदाय । आ सिञ्चस्व जठरे मध्व ऊर्मिं त्वꣳ राजासि प्रदिवः सुतानाम् ॥ उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वत एष ते योनिर् इन्द्राय त्वा मरुत्वते ॥

1.4.20 अनुवाक 20 माहेन्द्रग्रहः
1 महाꣳ इन्द्रो य ओजसा पर्जन्यो वृष्टिमाꣳ इव । स्तोमैर् वत्सस्य वावृधे ॥ उपयामगृहीतो ऽसि महेन्द्राय त्वैष ते योनिर् महेन्द्राय त्वा ॥

1.4.21अनुवाक 21 माहेन्द्रग्रहः
1 महाꣳ इन्द्रो नृवद् आ चर्षणिप्रा उत द्विबर्हा अमिनः सहोभिः । अस्मद्रियग् वावृधे वीर्यायो उरुः पृथुः सुकृतः कर्तृभिर् भूत् ॥ उपयाम गृहीतो ऽसि महेन्द्राय त्वैष ते योनिर् महेन्द्राय त्वा ॥

1.4.22 अनुवाक 22 आदित्यग्रहः
1 कदा चन स्तरीर् असि नेन्द्र सश्चसि दाशुषे । उपोपेन् नु मघवन् भूय इन् नु ते दानं देवस्य पृच्यते ॥ उपयामगृहीतो ऽस्य् आदित्येभ्यस् त्वा कदा चन प्र युच्छस्य् उभे नि पासि जन्मनी । तुरीयादित्य सवनं त इन्द्रियम् आ तस्थाव् अमृतं दिवि ॥ यज्ञो देवानाम् प्रत्य् एति सुम्नं आदित्यासो भवता मृडयन्तः । आ वो ऽर्वाची सुमतिर् ववृत्याद् अꣳहोश् चिद् या वरिवोवित्तराऽसत् ॥ विवस्व आदित्यैष ते सोमपीथस् तेन मन्दस्व तेन तृप्य तृप्यास्म ते वयं तर्पयितारो या दिव्या वृष्टिस् तया त्वा श्रीणामि ॥

1.4.23 अनुवाक 23 सावित्रग्रहः
1 वामम् अद्य सवितर् वामम् उ श्वो दिवेदिवे वामम् अस्मभ्यꣳ सावीः । वामस्य हि क्षयस्य देव भूरेर् अया धिया वामभाजः स्याम ॥ उपयामगृहीतो ऽसि देवाय त्वा सवित्रे ॥
 
1.4.24 अनुवाक 24 सावित्रग्रहः
1 अदब्धेभिः सवितः पायुभिष् ट्वꣳ शिवेभिर् अद्य परि पाहि नो गयम् । हिरण्यजिह्वः सुविताय नव्यसे रक्षा माकिर् नो अघशꣳस ईशत ॥ उपयामगृहीतो ऽसि देवाय त्वा सवित्रे ॥
 
1.4.25 अनुवाक 25 सावित्रग्रहः
1 हिरण्यपाणिमूतये सवितारम् उप ह्वये । स चेत्ता देवता पदम् ॥ उपयामगृहीतो ऽसि देवाय त्वा सवित्रे ॥

1.4.26 अनुवाक 26 वैश्वदेवग्रहः
1 सुशर्माऽसि सुप्रतिष्ठानो । बृहद् उक्षे नमः। एष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः ॥

1.4.27अनुवाक 27 पात्नीवतग्रहः
1 बृहस्पतिसुतस्य त इन्दो इन्द्रियावतः पत्नीवन्तं ग्रहं गृह्णामि । अग्ना३इ पत्नीवा३ः सजूर् देवेन त्वष्ट्रा सोमम् पिब स्वाहा ॥

हारियोजनग्रहः

1.4.28 अनुवाक 28 हारियोजनग्रहः
1 हरिर् असि हारियोजनो हर्योः स्थाता वज्रस्य भर्ता पृश्नेः प्रेता तस्य ते देव सोमेष्टयजुष स्तुतस्तोमस्य शस्तोक्थस्य हरिवन्तं ग्रहं गृह्णामि हरीः स्थ हर्योर् धानाः सहसोमाः । इन्द्राय स्वाहा ॥

सायणभाष्यम्

हरिरिति ॥ कल्पः-" परिधिषु प्रहृतेषु उन्नेता हारियोजनं गृह्णाति । उपयामगृहीतोऽसि हरिरसीति द्रोणकलशेन सर्वमाग्रयणं गृहीत्वा न सादयति । बह्वीभिर्धानाभिः श्रीत्वा.... हरीः स्थ हर्योर्धाना इति वषट्कृतानुवषट्कृते हुत्वा हरति भक्षम्" (आपश्रौ १३.१७.१-३) इति ॥ पाठस्तु-'हरिरसि हारियोजनो हर्योः स्थाता वज्रस्य भर्ता पृश्नेः प्रेता तस्य ते देव सोमेष्टयजुषः स्तुतस्तोमस्य शस्तोक्थस्य हरिवन्तं ग्रहं गृह्णामि हरीः स्थ हर्योर्धानाः सहसोमा इन्द्राय स्वाहा' इति ॥ हे सोम, त्वं हरिः असि हरितवर्णोऽसि । हरितमश्वं रथे युनक्तीति हरियोजन इन्द्रस्तस्य संबन्धी हारियोजनः । इन्द्रदेवताक इत्यर्थः । हर्योः अश्वयोः स्थाता हरिभ्यामश्वाभ्यां युक्ते रथे तिष्ठतीत्यर्थः । यद्यपीन्द्र एव रथे तिष्ठति तथापि तदीयत्वात् सोमोऽपि तिष्ठतीत्युपचर्यते । इन्द्रेण पेयत्वादिन्द्राभेदेन वज्रस्य पोषकः । पृश्निरन्नं तस्य प्रेता यागसाधनद्वारेण प्रेरयिता । हे सोम देव, तस्य ते तादृशस्य तव संबन्धिनं ग्रहं गृह्णामि । कीदृशम् ? हरिवन्तम् इन्द्रदेवताकम् । कीदृशस्य ? इष्टयजुषः। इष्टं यज्ञसाधनत्वेन प्रयुक्तं ग्रहणसादनादिमन्त्ररूपं यजुर्यस्य सोऽयमिष्टयजुः । स्तुतास्त्रिवृत्पञ्चदशसप्तदशैकविंशनामकाः स्तोमा यस्यासौ स्तुतस्तोमः । शस्तानि उक्थानि प्रउगाज्यनिष्केवल्यमरुत्वतीयवैश्वदेवाग्निमारुतनामकानि शस्त्राणि यस्यासौ शस्तोक्थः । भृष्टास्तण्डुला धानाः । हे धानाः, यूयं हर्योरिन्द्ररथवाहकाश्वयोः संबन्धित्वेन हरीः हरिशब्दार्थेन रूढाः स्थ । सोमेन मिश्रितत्वात् सहसोमाः स्थ । तादृशमिदं हविः इन्द्राय स्वाहा हुतमस्तु ॥ हारियोजनग्रहविधिमर्थवादेनोन्नयति- “इन्द्रो वृत्रमहन् तस्य शीर्षकपालमुदौब्जत् स द्रोणकलशोऽभवत् तस्मात् सोमः समस्रवत् स हारियोजनोऽभवत् " (तैसं ६.५.९) इति । उदौब्जदुत्तानमभवत् । तस्मात् वृत्रशिरसो निष्पन्नात् द्रोणकलशात् सृतः सोमरसो हारियोजनोऽभवत् । तस्मात् द्रोणकलशेन हारियोजनं गृह्णीयात् ॥ धानामेलनं विधत्ते- तं व्यचिकित्सत् जुहवानी३ मा होषा३मिति सोऽमन्यत यद्धोष्याम्यामꣳ होष्यामि यन्न होष्यामि यज्ञवेशसं करिष्यामीति तमध्रियत होतुꣳ सोऽग्निरब्रवीन्न मय्यामꣳ होष्यसीति तं धानाभिरश्रीणात्तꣳ शृतं भूतमजुहोद्यद्धानाभिर्हारियोजनꣳ श्रीणाति शृतत्वाय शृतमेवैनं भूतं जुहोति (तैसं ६.५.९) इति । तं हारियोजनं ग्रहं प्रति। आममपक्वं । यज्ञवेशसं यज्ञविघातम् स इन्द्रस्तं ग्रहं होतुमध्रियत निश्चयमकरोत् । न होष्यसि मा हौषीः, शृतं भूतं पक्कं जातम् ॥ धानानां बाहुल्यं विधत्ते- “ बह्वीभिः श्रीणात्येतावतीरेवास्यामुष्मिंल्लोके कामदुघा भवन्त्यथो खल्वाहुरेता वा इन्द्रस्य पृश्नयः कामदुघा यद्धारियोजनीरिति तस्माद्बह्वीभिः श्रीणीयात् " (तैसं ६.५.९) इति । संख्यया यावत्यो धानास्तावत्यो यजमानस्य स्वर्गे कामधेनवो भवन्ति । किंच हारियोजनीर्धाना इन्द्रस्य कामधेनवः । पृश्नयोऽल्पतनवः ॥ सवनीयस्य पशोः परिधिषु प्रहृतेषु हारियोजनकाल इत्येतद्विधत्ते -- " ऋक्सामे वा इन्द्रस्य हरी सोमपानौ तयोः परिधय आधानं यदप्रहृत्य परिधीञ्जहुयादन्तराधानाभ्यां घासं प्रयच्छेत् प्रहृत्य परिधीञ्जुहोति निराधानाभ्यामेव घासं प्र यच्छति" (तैसं ६.५.९) इति । ऋक्सामवेदात्मकाविन्द्रस्याश्वौ । तावप्यत्र सोमं पिबतः । अत एव हर्योर्धाना इत्युक्तम् । सवनीयपश्वङ्गभूता ये परिधयोऽग्निं परित आवृत्त्य तिष्ठन्ति ते तयोरश्वयोराधानम् । आधीयते मुखे प्रक्षिप्यतेऽश्वं नियन्तुमित्याधानं खलीनम् । मखस्यान्तःस्थितमाधानं ययोरश्वयोस्ताभ्यामन्तराधानाभ्याम्। परिधिप्रहरणादूर्ध्वं होमे निराधानत्वात् सुखेनैव घासमत्तुं शक्यते ॥ नात्राध्वर्योर्होमः किं तून्नेतुरित्यमुमर्थं विधत्ते -- " उन्नेता जुहोति यातयामेव ह्येतर्ह्यध्वर्युः स्वगाकृतो यदध्वर्युर्जुहुयाद्यथा विमुक्तं पुनर्युनक्ति तादृगेव तत्" (तैसं ६.५.९) इति । एतस्मिन् काले 'अध्वर्युयस्मात् स्वगाकृतः स्वाधीनगतिः कृतः प्रधानग्रहाणां समाप्तत्वेन पारतन्त्र्याभावात् तस्मादयं गतसाररूप इव । तथा सत्यध्वर्योर्होमे विमुक्तस्य बलीवर्दस्य श्रान्तस्य पुनः शकटे योगवत् भवति ॥ गृहीतस्य हारियोजनस्य होमात् पूर्वं शिरसि धारणं विधत्ते -- शीर्षन्नधिनिधाय जुहोति शीर्षतो हि स समभवत्" (तैसं ६.५.९) इति । अत्र सूत्रम्--“बह्वीभिर्धानाभिः श्रीत्वा शीर्षन्नधिनिधायोपनिष्क्रम्य" (आपश्रौ १३.१७.२ ) इति ॥ होमकालेष्वाश्रावणदेशादीषत् पुरतो चलनं कृत्वा होतव्यमिति विधत्ते--“विक्रम्य जुहोति विक्रम्य हीन्द्रो वृत्रमहन्त्समृद्ध्यै " (तैसं ६.५.९ ) इति ॥ भक्षणकाले हारियोजनधानानां मानसं चर्वणं विधत्ते--" पशवो वै हारियोजनीर्यत् संभिन्द्यादल्पा एनं पशवो भुञ्जन्त उप तिष्ठेरन् यन्न संभिन्द्याद्बहव एनं पशवोऽभुञ्जन्त उप तिष्ठेरन् मनसा सं बाधत उभयं करोति बहव एवैनं पशवो भुञ्जन्त उप तिष्ठन्ते" (तैसं ६.५.९) इति । पशुप्राप्तिहेतुत्वात् धानाः पशवः । संभिन्द्यादृन्तैः खण्डयेत् । तथा सति कतिचिदेव पशव एनं यजमानं क्षीरदानादिभिः पालयन्तः प्राप्नुयुः । असंभेदे बहवः प्राप्नुवन्तोऽपि क्षीरादिभिर्न पालयन्ति । मानसचर्वणे तु संभेदनमसंभेदनं चेत्युभयस्य कृतत्वात् पशूनां नाल्पत्वं नापि क्षीरादिराहित्यम् ॥ उन्नेतृहस्तगतं हुतशेषं सर्वे भक्षयितुमुन्नेतुरनुज्ञामपेक्षेरन्निति विधत्ते-" उन्नेतर्युपहवमिच्छन्ते य एव तत्र सोमपीथस्तमेवाव रुन्धते" (तैसं ६.५.९) इति ॥ सर्वभक्षितावशेषाणां द्रोणकलशगतसोमानां निनयनं विधत्ते-" उत्तरवेद्यां नि वपति पशवो वा उत्तरवेदिः पशवो हारियोजनीः पशुष्वेव पशून् प्रति ष्ठापयन्ति (तैसं ६.५.९) इति ॥ ग्रहहोमे परिसमाप्ते सति ग्रहान् प्रशंसति-" ग्रहान् वा अनु प्रजाः पशवः प्र जायन्ते" (तैसं ६.५.१०) इति ॥ एतदेव विस्पष्टयति -" उपाꣳश्वन्तर्यामावजावयः शुक्रामन्थिनौ पुरुषा ऋतुग्रहानेकशफा आदित्यग्रहं गावः" (तैसं ६.५.१०) इति ॥ आदित्यग्रहस्य गवां च सादृश्यप्रकटनेन च ग्रहमनु गवां जन्मोपपादयति-" आदित्यग्रहो भूयिष्ठाभिर्ऋग्भिर्गृह्यते तस्माद्गावः पशूनां भूयिष्ठाः” (तैसं ६.५.१०) इति । कदा चन स्तरीरसि' इत्यादिका ऋचो भूयिष्ठाः ॥ उपांशुग्रहमनु जातानामजाविनां ग्रहेण सह त्रित्वसाम्यं दर्शयति-" यत्त्रिरुपाꣳशुꣳ हस्तेन विगृह्णाति तस्माद्द्वौ त्रीनजा जनयति" (तैसं ६.५.१०) इति। द्वौ वा त्रीन् वा न तु त्रिभ्योऽधिकमपत्यं सा सह जनयति ॥ यस्मादन्तर्यामग्रहे संकोचकसंख्याविशेषो न श्रुतस्तस्मात् तमनु जायमानामवीनां भूयिष्ठत्वं युगपद्वृत्तमित्याह-" अथावयो भूयसीः" (तैसं ६.५.१०) इति ॥ अथ कथंचिदाग्रयणसोमः क्षीयेत तदा द्रोणकलशात्तद्ग्रहणं विधत्ते-“ पिता वा एष यदाग्रयणः पुत्रः कलशो यदाग्रयण उपदस्येत् कलशाद्गृह्णीयाद्यथा पिता पुत्रं क्षित उपधावति तादृगेव तत्" (तैसं ६.५.१०) इति । प्रथमोत्पन्नत्वादाग्रयणः पिता। पश्चाद्भावितया कलशः पुत्रः। क्षितः क्षीणवृत्तिः । उपधावति जीवनार्थमुपसर्पति ॥ कलशसोमक्षये वैपरीत्यं विधत्ते--" यत्कलश उपदस्येदाग्रयणात् गृह्णीयात् यथा पुत्रः पितरं क्षित उपधावति तादृगेव तत्" (तैसं ६.५.१०) इति ॥ कलशन्यायं ग्रहेऽपि दर्शयति--" आत्मा वा एष यज्ञस्य यदाग्रयणो यद्ग्रहो वा कलशो वोपदस्येदाग्रयणाद्गृह्णीयात् आत्मन एवाधि यज्ञं निष्करोति" (तैसं ६.५.१०) इति । यज्ञमध्यवर्तित्वादाग्रयणो यज्ञस्याऽऽत्मा । दृष्टान्तत्वेन कलशस्य पुनरुपादानम् । नष्टं यज्ञमनेन ग्रहणेनाऽऽत्मन उपरि पुनः संदधाति ॥ अथ स्थाल्या होमसाधनत्वाभावेन तां निन्दन्निव होमसाधनं दारुपात्रं प्रशंसति-" अविज्ञातो वा एष गृह्यते यदाग्रयणः स्थाल्या गृह्णाति वायव्येन जुहोति तस्माद्गर्भेणाविज्ञातेन ब्रह्महा" (तैसं ६.५.१०) इति। “ आ वायो भूष” (तैसं १.४.४) इत्यादि ग्रहणमन्त्रेषु यथा देवता स्वनामविशेषेण विज्ञायते न तथा “ये देवा दिव्येकादश स्थ" (तैसं १.४.१०) इत्यत्र, नामविशेषाश्रुतेः। तस्मादविज्ञात आग्रयणः स्थाल्या "मृन्मय्या गृह्णात्येव न तु जुहोति। वायव्येन तु दारुपात्रेण जुहोति । यस्मात् 'ये देवाः इति मन्त्रोक्तान् अविज्ञातनामकांस्त्रयस्त्रिंशतो देवानुद्दिश्य स्थाल्या गृहीतः सोमो ग्रहणमात्रेण तद्देवतातृप्तावपि होमाभावात् परित्यक्त इव, तस्माल्लोकेऽप्यविज्ञातेन गर्भेण ब्रह्महा भवति। प्रोषिते भर्तरि जारजन्यो गर्भो भर्तारं प्रत्यविज्ञातस्तेन गर्भेणोत्पन्नं ब्रह्म जहाति परित्यजतीति ब्रह्महा। अविज्ञातयोर्गर्भाग्रयणयोः परित्यागस्तुल्यः। तं च स्थालीगतं सोमं पुनर्दारुमयेनान्तर्यामपात्रेण सवित्रर्थं गृहीत्वा जुहोति । ततो दारुपात्रं प्रशस्तम् ॥ प्रकारान्तरेण दारुपात्राणि प्रशंसति-" अवभृथमव यन्ति परा स्थालीरस्यन्त्युद्वायव्यानि हरन्ति तस्मात् स्त्रियं जातां पराऽस्यन्त्युत्पुमाꣳसꣳ हरन्ति" (तैसं ६.५.१०) इति । यदाऽवभृथं गच्छन्ति तदानीमाग्रयणोक्थ्यध्रुवादित्यस्थालीश्चतस्रो वेद्यामेव परास्यन्ति परित्यजन्ति । वायव्यानि तु दारुपात्राण्युद्धरन्त्यवभृथदेशे नयन्ति । तस्मात् स्थालीवत् लोकेऽपि स्त्रियं दुहितरं विवाहेन वरकुले परित्यजन्ति, पुमांसं तु वायव्यवदुद्धरन्ति सम्यक् पोषयन्ति ॥ पुरोरुचं ग्रहणं सादनं च क्रमेण प्रशंसति-" यत्पुरोरुचमाह यथा वस्यस आहरति तादृगेव तद्यद्ग्रहं गृह्णाति यथा वस्यस आहृत्य प्राह तादृगेव तद्यत्सादयति यथा वस्यस उपनिधायापक्रामति तादृगेव तत्" (तैसं ६.५.१०) इति । 'उपयामगृहीतोऽसि' इत्येतस्मात् पूर्वं पठ्यमानत्वात् 'आ वायो भूष' इत्यादिका पुरोरुक् । वस्यसे वसुमत्तमाय राजामात्यादिकाय । यथा लोके धनिकायोपायनमाहृत्य तवेदमित्युक्त्वा पुरतो निधाय गच्छन्ति तथा पुरोरुगादित्रयं द्रष्टव्यम् ॥ यजुःसामनी निन्दन्निव पुरोरुचं प्रशंसति-- “ यद्वै यज्ञस्य साम्ना यजुषा क्रियते शिथिलं तद्यदृचा तद्दृढं पुरस्तादुपयामा यजुषा गृह्यन्त उपरिष्टादुपयामा ऋचा यज्ञस्य धृत्यै” (तैसं ६.५.१०) इति । यज्ञसंबन्धि यदङ्गं यजुःसामभ्यां क्रियते तद्धि शिथिलमिव । वेदेषु सर्वत्र विश्वासाय — तदेतदृचाऽभ्युक्तम्' इत्यृच एवोदाहरणात् । ' उपयामगृहीतोऽसि', 'अन्तर्यच्छ मघवन् ' इत्यादिमन्त्रैर्गृह्यमाणाः पुरस्तादुपयामाः। 'आ वायो भूष' इत्यादिभिस्तूपरिष्टादुपयामाः । तत्र यजुषो दार्याामर्थमुपयामपूर्वत्वम् । ऋचस्तु स्वयमेव दृढत्वान्न तत्पूर्वत्वम् । तदुभयं यज्ञस्य धृत्यै भवति ॥

सोमपात्राणि प्रशंसितुं द्वेधा विभजति-" प्रान्यानि पात्राणि युज्यन्ते नान्यानि" (तैसं ६.५.११) इति । कानिचित् पात्राणि प्रकर्षेण युज्यन्तेऽनुष्ठीयन्ते पुनरावर्त्यन्त इत्यर्थः । यथा-उपांश्वन्तर्यामपात्रयोः प्रातःसवने प्रयुक्तयोः पुनस्तृतीयसवनेऽपि प्रयोगः। " यदुपाꣳशुपात्रेण पात्नीवतमाग्रयणाद्गृह्णाति " ( तैसं ६.५.८ ), " अन्तर्यामपात्रेण सावित्रमाग्रयाणाद् गृह्णाति " (तैसं ६.५.७ ) इत्याम्नातत्वात् । अन्यानि तु नावर्त्यन्ते किं तु सकृदेवानुष्ठीयन्ते । तद्यथा--द्विदेवत्यग्रहादीनि , तेषु सकृदनुष्ठितेषु स्वर्गजयः ॥ आवृत्तेस्त्वेतल्लोकजय इति प्रशंसति- “ यानि पराचीनानि प्रयुज्यन्तेऽमुमेव तैर्लोकमभि जयति पराङिव ह्यसौ लोको यानि पुनः प्रयुज्यन्त इममेव तैर्लोकमभि जयति पुनःपुनरिव ह्ययं लोकः " (तैसं ६.५.११) इति । पराचीनान्यनिवृत्तानि । स्वर्गः पराङिवानावृत्त इव । "स्वर्गे स्थितस्यापि पुनर्जन्मान्तरेऽपि स्वर्गं प्राप्तुमुद्योगासंभवात् । मनुष्यलोके स्थितस्य पुनरेतदर्थमुद्यमोऽस्तीति तस्य पौनःपुन्यम् ॥ प्रकारान्तरेण प्रशंसति --" प्रान्यानि पात्राणि युज्यन्ते नान्यानि यानि पराचीनानि प्रयुज्यन्ते तान्यन्वोषधयः परा भवन्ति यानि पुनः प्रयुज्यन्ते तान्यन्वोषधयः पुनरा भवन्ति" (तैसं ६.५.११) इति । फलपाके विनाशः पराभवः। संवत्सरान्ते तदुत्पत्तिः पुनराभवनम् ॥ प्रकारान्तरेण प्रशंसति-" प्रान्यानि पात्राणि युज्यन्ते नान्यानि यानि पराचीनानि प्रयुज्यन्ते तान्यन्वारण्याः पशवोऽरण्यमप यन्ति यानि पुनः प्रयुज्यन्ते तान्यनु ग्राम्याः पशवो ग्राममुपावयन्ति " (तैसं ६.५.११) इति । आरण्या व्याघ्रादयोऽरण्यमेवापयन्ति न कदाचिदपि ग्रामम् । ग्राम्यास्तु गवादयस्तृणमत्तुमरण्यं गत्वा पुनर्ग्रामं प्रत्यागच्छन्ति ॥ शस्त्रं प्रशंसति - " यो वै ग्रहाणां निदानं वेद निदानवान् भवत्याज्यमित्युक्थं तद्वै ग्रहाणां निदानं यदुपाꣳशु शꣳसति तदुपाꣳश्वन्तर्यामयोर्यदुच्चैस्तदितरेषां ग्रहाणामेतद्वै ग्रहाणां निदानं य एवं वेद निदानवान् भवति" (तैसं ६.५.११) इति। आज्यमित्युक्थमाज्यप्रउगादिनामकं शस्त्रं प्रशंसाद्वारा ग्रहानुष्ठानप्रयोजकत्वात् ग्रहाणां निदानं मूलकारणम् । तदेतद्यो वेद स निदानवांश्चिरजीविभिर्मातापितृस्वामिभिः संयुक्तो भवति । शस्त्रेष्वपि यदुपांशु शस्यते तद्द्वयोर्ग्रहयोर्निदानं, यदुच्चैस्तदितरेषां सर्वेषामित्येवं विशेषं जानतोऽपि तदेव फलम् ॥ स्थालीवायव्यरूपं द्वन्द्वं प्रशंसति--" यो वै ग्रहाणां मिथुनं वेद प्र प्रजया पशुभिर्मिथुनैर्जायते स्थालीभिरन्ये ग्रहा गृह्यन्ते वायव्यैरन्ये एतद्वै ग्रहाणां मिथुनं य एवं वेद प्र प्रजया पशुभिर्मिथुनैर्जायते” (तैसं ६.५.११) इति । आग्रयणोक्थ्यादिग्रहाः स्त्रीरूपाभिर्मृन्मयस्थालीभिर्गह्यन्ते। उपांश्वन्तर्यामादिग्रहास्तु पुरुषरूपैर्दारुमयैः वायव्यैः । वेदने तु मनुष्यमिथुनैः पशुमिथुनैश्च प्रजायते युक्तो भवति । य एवं वेद ' इति पुनरभिधानमुपसंहारार्थम् ॥ अथ “सवनीय पुरोडाशान् विधत्ते-- “इन्द्रस्त्वष्टुः सोममभीषहाऽपिबत् स विष्वङ् व्यार्च्छत् स आत्मन्नारमणं नाविन्दत् स एताननुसवनं पुरोडाशानपश्यत् तान्निरवपत् तैर्वै स आत्मन्नारमणमकुरुत तस्मादनुसवनं पुरोडाशा निरुप्यन्ते तस्मादनुसवनं पुरोडाशानां प्राश्नीयादात्मन्नेवाऽऽरमणं कुरुते नैनꣳ सोमोऽति पवते" (तैसं ६.५.११) इति । इन्द्रेण विश्वरूपाभिधे त्वष्टुः पुत्रे हते सति कुपितः त्वष्टा विनेन्द्रं सोमयागं कर्तुं प्रवृत्तस्तदानीमिन्द्रोऽभीषहा बलादेवापिबत् । स इन्द्रः सहसा पीतस्य सोमस्योदरमध्य इतस्ततो विधावनाद्व्यार्च्छद्विविधामार्तिं प्राप्नोत् । तेनाऽऽर्तः स इन्द्रः स्वात्मनि आरमणं सुखं नालभत । ततस्त्रिष्वपि सवनेषु सवनीयपुरोडाशैः सुखं प्राप्तवान् । तस्मात् पुरोडाशान्निरुप्य तच्छेषभक्षणेन सुखं भवति । सोमश्चैनं नातिपवते नेतस्ततः संचारेण बाधते ॥ तेषु सवनीयपुरोडाशेषु पञ्चद्रव्यविधिमर्थवादेनोन्नयति-" ब्रह्मवादिनो वदन्ति नर्चा न यजुषा पङ्क्तिराप्यतेऽथ किं यज्ञस्य पाङ्क्तत्वमिति धानाः करम्भः परिवापः पुरोडाशः पयस्या तेन पङ्क्तिराप्यते तद्यज्ञस्य पाङ्क्तत्वम् " (तैसं ६.५.११) इति । “ पञ्चाक्षरा पङ्क्तिः ” (तैसं ६.१.१) इत्याम्नानात् पञ्चसंख्यायोगेन पाङ्क्तत्वं वक्तव्यम् । ऋचो यजुषो वा नास्ति काचिन्नियता पञ्चसंख्या। न च मा भूत् पाङ्क्तत्वमिति वाच्यम् । “ पाङ्क्तो यज्ञः" ( तैसं ६.१.१) इति सर्वत्रोद्घोषणात्। अतः किं पाङ्क्तत्वमिति प्रश्नः । धानादिद्रव्येषु नियतया यवा धानाः। आज्यसंयुक्ताः सक्तवः करम्भः। व्रीहिजन्या लाजाः परिवापः। पिष्टविकारः पुरोडाशः। पञ्चसंख्यया पाङ्क्तत्वमित्युत्तरम् । भृष्टा क्षीरविकारः पयस्या ॥ अथ मीमांसा ॥ तृतीयाध्यायस्य पञ्चमपादे चिन्तितम् -- " किं स्याञ्चमसिनामेव हारियोजनभक्षणम् । सर्वेषां वाऽग्रिमस्तेषां पूर्ववाक्येणसंनिधेः ॥ लिप्सन्ते सर्व एवेति हारियोजनवाक्यतः । ग्रावस्तुतोऽप्यस्ति भक्षश्चमसित्वमकारणम् ॥" (जैन्या ३.५.१४-१५) इति ॥ हरिरसि हारियोजनः' इत्यनेन मन्त्रेण गृह्यमाणो ग्रहो हारियोजनः । होतृब्रह्मादयश्चमसिनः। यस्तु चतुर्णां होतॄणां मध्ये चतुर्थो ग्रावस्तुन्नामकोऽस्ति नासौ चमसी। तत्र चमसिनामेव हारियोजनभक्षणम् । कुतः ? यथाचमसमन्यांश्चमसांश्चमसिनो भक्षयन्ति, अथैतस्य हारियोजनस्य सर्व एव लिप्सन्ते इत्यत्र पूर्ववाक्ये चमसिनां संनिहितत्वेनोत्तरवाक्ये सर्वशब्देन तेषामेवाभिधातव्यत्वात् । अतो नास्ति ग्रावस्तुतस्तत्र भक्ष इति प्राप्ते ब्रूमः-अथशब्देनैवकारेण च चमसिमात्रशङ्कामपोह्य" वाक्येन विहितस्य सर्वभक्षणस्य संनिधिमात्रेण" संकोचायोगादस्ति ग्रावस्तुतोऽपि भक्षः। तस्माच्चमसित्वं न भक्षणे कारणम् ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे चतुर्थप्रपाठकेऽष्टाविंशोऽनुवाकः ॥२८॥


1.4.29 अनुवाक 29 आग्नेयः अतिग्राह्यग्रहः
1 अग्न आयूꣳषि पवस आ सुवोर्जम् इषं च नः । आरे बाधस्व दुच्छुनाम् उपयामगृहीतो ऽस्य् अग्नये त्वा तेजस्वत एष ते योनिर् अग्नये त्वा तेजस्वते ॥

1.4.30 अनुवाक 30 ऐन्द्रः अतिग्राह्यग्रहः
1 उत्तिष्ठन्न् ओजसा सह पीत्वा शिप्रे अवेपयः । सोमम् इन्द्र चमू सुतम् ॥ उपयामगृहीतो ऽसीन्द्राय त्वौजस्वत एष ते योनिर् इन्द्राय त्वौजस्वते ॥

1.4.31 अनुवाक 31 सौर्यः अतिग्राह्यग्रहः
1 तरणिर् विश्वदर्शतो ज्योतिष्कृद् असि सूर्य । विश्वम् आ भासि रोचनम् ॥ उपयामगृहीतो ऽसि सूर्याय त्वा भ्राजस्वत एष ते योनिः सूर्याय त्वा भ्राजस्वते ॥

1.4.32 अनुवाक 32
1 आ प्यायस्व मदिन्तम सोम विश्वाभिर् ऊतिभिः । भवा नः सप्रथस्तमः ॥

1.4.33 अनुवाक 33
1 ईयुष् ट ये पूर्वतराम् अपश्यन् व्युछन्तीम् उषसम् मर्त्यासः । अस्माभिर् ऊ नु प्रतिचक्ष्याभूद् ओ ते यन्ति ये अपरीषु पश्यान् ॥

1.4.34 अनुवाक 34
1 ज्योतिष्मतीं त्वा सादयामि ज्योतिष्कृतं त्वा सादयामि ज्योतिर्विदं त्वा सादयामि भास्वतीं त्वा सादयामि ज्वलन्तीं त्वा सादयामि मल्मलाभवन्तीं त्वा सादयामि दीप्यमानां त्वा सादयामि रोचमानां त्वा सादयामि अजस्रां त्वा सादयामि बृहज्ज्योतिषं त्वा सादयामि बोधयन्तीं त्वा सादयामि जाग्रतीं त्वा सादयामि ॥

1.4.35 अनुवाक 35
1 प्रयासाय स्वाहायासाय स्वाहा वियासाय स्वाहा संयासाय स्वाहोद्यासाय स्वाहाऽवयासाय स्वाहा शुचे स्वाहा शोकाय स्वाहा तप्यत्वै स्वाहा तपते स्वाहा ब्रह्महत्यायै स्वाहा सर्वस्मै स्वाहा ॥

1.4.36 अनुवाक 36
1 चित्तꣳ संतानेन भवं यक्ना रुद्रं तनिम्ना पशुपतिꣳ स्थूलहृदयेनाग्निꣳ हृदयेन रुद्रं लोहितेन शर्वम् मतस्नाभ्याम् महादेवम् अन्तःपार्श्वेनौषिष्ठहनꣳ शिङ्गीनिकोश्याभ्याम् ॥

1.4.37 अनुवाक 37 षोडशिग्रहः
1 आ तिष्ठ वृत्रहन् रथं युक्ता ते ब्रह्मणा हरी । अर्वाचीनꣳ सु ते मनो ग्रावा कृणोतु वग्नुना ॥ उपयामगृथीतो ऽसीन्द्राय त्वा षोडशिन एष ते योनिर् इन्द्राय त्वा षोडशिने ॥
 
1.4.38 अनुवाक 38 षोडशिग्रहः
1 इन्द्रम् इद् धरी वहतो ऽप्रतिधृष्टशवसम् ऋषीणां च स्तुतीर् उप यज्ञं च मानुषाणाम् उपयामगृहीतो ऽसीन्द्राय त्वा षोडशिन एष ते योनिर् इन्द्राय त्वा षोडशिने ॥
 
1.4.39 अनुवाक 39 षोडशिग्रहः
1 असावि सोम इन्द्र ते शविष्ठ धृष्णव् आ गहि । आ त्वा पृणक्त्व् इन्द्रियꣳ रजः सूर्यं न रश्मिभिः ॥ उपयामगृहीतो ऽसीन्द्राय त्वा षोडशिन एष ते योनिर् इन्द्राय त्वा षोडशिने ॥
 
1.4.40अनुवाक 40 षोडशिग्रहः
1 सर्वस्य प्रतिशीवरी भूमिस् त्वोपस्थ आऽधित । स्योनास्मै सुषदा भव यच्छास्मै शर्म सप्रथाः ॥ उपयामगृथीतो ऽसीन्द्राय त्वा षोडशिन एष ते योनिर् इन्द्राय त्वा षोडशिने ॥
 
1.4.41 अनुवाक 41 षोडशिग्रहः
1 महाꣳ इन्द्रो वज्रबाहुः षोडशी शर्म यच्छतु । स्वस्ति नो मघवा करोतु हन्तु पाप्मानं यो ऽस्मान् द्वेष्टि ॥ उपयामगृथीतो ऽसीन्द्राय त्वा षोडशिन एष ते योनिर् इन्द्राय त्वा षोडशिने ॥

1.4.42 अनुवाक 42 षोडशिग्रहः
1 सजोषा इन्द्रः सगणो मरुद्भिः सोमम् पिब वृत्रहञ् छूर विद्वान् । जहि शत्रूꣳर् अप मृधो नुदस्वाथाभयं कृणुहि विश्वतो नः ॥ उपयामगृथीतो ऽसीन्द्राय त्वा षोडशिन एष ते योनिर् इन्द्राय त्वा षोडशिने ॥

1.4.43 अनुवाक 43 दक्षिणा
1 उद् उ त्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् ॥ चित्रं देवानाम् उद् अगाद् अनीकं चक्षुर् मित्रस्य वरुणस्याग्नेः । आप्रा द्यावापृथिवी अन्तरिक्षꣳ सूर्य आत्मा जगतस् तस्थुषश् च ॥ अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्य् अस्मज् जुहुराणम् एनो भूयिष्ठां ते नमउक्तिं विधेम ॥ दिवं गच्छ सुवः पत रूपेण
2 वो रूपम् अभ्य् ऐमि वयसा वयः । तुथो वो विश्ववेदा वि भजतु वर्षिष्ठे अधि नाके । एतत् ते अग्ने राध ऐति सोमच्युतम् । तन् मित्रस्य पथा नय । ऋतस्य पथा प्रेत चन्द्रदक्षिणा यज्ञस्य पथा सुविता नयन्तीः । ब्राह्मणम् अद्य राध्यासम् ऋषिम् आर्षेयम् पितृमन्तम् पैतृमत्यꣳ सुधातुदक्षिणम् ।
वि सुवः पश्य व्यन्तरिक्षम् । यतस्व सदस्यैः (2) अस्मद्दात्रा देवत्रा गच्छत मधुमतीः प्रदातारम् आ विशतानवहायास्मान् देवयानेन पथेत सुकृतां लोके सीदत तन् नः सꣳस्कृतम् ॥

1.4.44 अनुवाक 44 समिष्टयजुर्होमः
1 धाता रातिः सवितेदं जुषन्ताम् प्रजापतिर् निधिपतिर् नो अग्निः । त्वष्टा विष्णुः प्रजया सꣳरराणो यजमानाय द्रविणं दधातु ॥ सम् इन्द्र णो मनसा नेषि गोभिः सꣳ सूरिभिर् मघवन्त् सꣳ स्वस्त्या । सम् ब्रह्मणा देवकृतं यद् अस्ति सं देवानाꣳ सुमत्या यज्ञियानाम् ॥ सं वर्चसा पयसा सं तनूभिर् अगन्महि मनसा सꣳ शिवेन । त्वष्टा नो अत्र वरिवः कृणोतु
2 अनु मार्ष्टु तनुवो यद् विलिष्टम् ॥ यद् अद्य त्वा प्रयति यज्ञे अस्मिन्न् अग्ने होतारम् अवृणीमहीह । ऋधग् अयाड् ऋधग् उताशमिष्ठाः प्रजानन् यज्ञम् उप याहि विद्वान् ॥ स्वगा वो देवाः सदनम् अकर्म य आजग्म सवनेदं जुषाणाः । जक्षिवाꣳसः पपिवाꣳसश् च विश्वे ऽस्मे धत्त वसवो वसूनि ॥ यान् आवह उशतो देव देवान् तान्
3 प्रेरय स्वे अग्ने सधस्थे । वहमाना भरमाणा हवीꣳषि वसुं घर्मं दिवम् आ तिष्ठतानु ॥ यज्ञ यज्ञं गच्छ यज्ञपतिं गच्छ स्वां योनिं गच्छ स्वाहा । एष ते यज्ञो यज्ञपते सहसूक्तवाकः सुवीरः स्वाहा देवा गातुविदो गातुं वित्त्वा गातुम् इत मनसस् पत इमं नो देव देवेषु यज्ञꣳ स्वाहा वाचि स्वाहा वाते धाः ॥

1.4.45 अनुवाक 45 अवभृथः
1 उरुꣳ हि राजा वरुणश् चकार सूर्याय पन्थाम् अन्वेतवा उ । अपदे पादा प्रतिधातवे ऽकर् उतापवक्ता हृदयाविधश् चित् ॥ शतं ते राजन् भिषजः सहस्रम् उर्वी गम्भीरा सुमतिष् टे अस्तु । बाधस्व द्वेषो निर्ऋतिम् पराचैः कृतं चिद् एनः प्र मुमुग्ध्य् अस्मत् अभिष्ठितो वरुणस्य पाशः । अग्नेर् अनीकम् अप आ विवेश । अपां नपात् प्रतिरक्षन्न् असुर्यं दमेदमे
2 समिधं यक्ष्य् अग्ने । प्रति ते जिह्वा घृतम् उच् चरण्येत् समुद्रे ते हृदयम् अप्स्व् अन्तः । सं त्वा विशन्त्व् ओषधीर् उतापो यज्ञस्य त्वा यज्ञपते हविर्भिः । सूक्तवाके नमोवाके विधेम । अवभृथ निचंकुण निचेरुर् असि निचंकुणाव देवैर् देवकृतम् एनो ऽयाड् अव मर्त्यैर् मर्त्यकृतम् उरोर् आ नो देव रिषस् पाहि सुमित्रा न आप ओषधयः
3 सन्तु दुर्मित्रास् तस्मै भूयासुर् यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः । देवीर् आप एष वो गर्भस् तं वः सुप्रीतꣳ सुभृतम् अकर्म देवेषु नः सुकृतो ब्रूतात्
प्रतियुतो वरुणस्य पाशः प्रत्यस्तो वरुणस्य पाशः । एधो ऽस्य् एधिषीमहि समिद् असि तेजो ऽसि तेजो मयि धेहि । अपो अन्व् अचारिषꣳ रसेन सम् असृक्ष्महि पयस्वाꣳ अग्न आगमं तम् मा सꣳ सृज वर्चसा ॥

1.4.46 अनुवाक 46 काम्येष्टियाज्यापुरोनुवाक्या
1 यस् त्वा हृदा कीरिणा मन्यमानो ऽमर्त्यम् मर्त्यो जोहवीमि । जातवेदो यशो अस्मासु धेहि प्रजाभिर् अग्ने अमृतत्वम् अश्याम् ॥ यस्मै त्वꣳ सुकृते जातवेद उ लोकम् अग्ने कृणवः स्योनम् । अश्विनꣳ स पुत्रिणं वीरवन्तं गोमन्तꣳ रयिं नशते स्वस्ति ॥ त्वे सु पुत्र शवसो ऽवृत्रन् कामकातयः । न त्वाम् इन्द्राति रिच्यते ॥ उक्थौक्थे सोम इन्द्रम् ममाद नीथेनीथे मघवानम्
2 सुतासः । यद् ईꣳ सबाधः पितरं न पुत्राः समानदक्षा अवसे हवन्ते ॥ अग्ने रसेन तेजसा जातवेदो वि रोचसे । रक्षोहाऽमीवचातनः ॥ अपो अन्व् अचारिषꣳ रसेन सम् असृक्षमहि । पयस्वाꣳ अग्न आगमं तम् मा सꣳ सृज वर्चसा ॥ वसुर् वसुपतिर् हिकम् अस्य् अग्ने विभावसुः । स्याम ते सुमताव् अपि ॥ त्वाम् अग्ने वसुपतिं वसूनाम् अभि प्र मन्दे
3 अध्वरेषु राजन् । त्वया वाजं वाजयन्तो जयेमाभि ष्याम पृत्सुतीर् मर्त्यानाम् ॥ त्वाम् अग्ने वाजसातमं विप्रा वर्धन्ति सुष्टुतम् । स नो रास्व सुवीर्यम् ॥ अयं नो अग्निर् वरिवः कृणोत्व् अयम् मृधः पुर एतु प्रभिन्दन् । अयꣳ शत्रूञ् जयतु जर्हृषाणो ऽयं वाजं जयतु वाजसातौ ॥ अग्निनाग्निः सम् इध्यते कविर् गृहपतिर् युवा । हव्यवाड् जुह्वास्यः ॥ त्वꣳ ह्य् अग्ने अग्निना विप्रो विप्रेण सन्त् सता । सखा सख्या समिध्यसे ॥ उद् अग्ने शुचयस् तव वि ज्योतिषा ॥  

[सम्पाद्यताम्]

टिप्पणी

१.४.४ आ वायो भूष शुचिपा इति

वायु उपरि टिप्पणी

ऐन्द्रवायव उपरि टिप्पणी

१.४.५ अयं वा मित्रावरुणा सुतः इति

मित्रावरुणोपरि टिप्पणी

१.४.६ या वां कशा मधुमत्य् अश्विना इति

अश्विनौ उपरि टिप्पणी


1.4.1अनुवाक 1 सोमाभिषवः

1
आ ददे ग्रावास्य् अध्वरकृद् देवेभ्यो गम्भीरम् इमम् अध्वरं कृध्य् उत्तमेन पविनेन्द्राय सोमꣳ सुषुतम् मधुमन्तम् पयस्वन्तं वृष्टिवनिम्
इन्द्राय त्वा वृत्रघ्न इन्द्राय त्वा वृत्रतुर इन्द्राय त्वाऽभिमातिघ्न इन्द्राय त्वाऽऽदित्यवत इन्द्राय त्वा विश्वदेव्यावते
श्वात्राः स्थ वृत्रतुरो राधोगूर्ता अमृतस्य पत्नीस् ता देवीर् देवत्रेमं यज्ञं धत्तोपहूताः सोमस्य पिबतोपहूतो युष्माकम् ॥

2
सोमः पिबतु
यत् ते सोम दिवि ज्योतिर् यत् पृथिव्यां यद् उराव् अन्तरिक्षे तेनास्मै यजमानायोरु राया कृध्य् अधि दात्रे वोचो ।
धिषणे वीडू सती वीडयेथामूर्जं दधाथामूर्जम् मे धत्तम्, मा वाꣳ हिꣳसिषम् मा मा हिꣳसिष्टम्
प्राग् अपाग् उदग् अधराक् तास् त्वा दिश आ धावन्त्व् अम्ब नि ष्वर
यत् ते सोमादाभ्यं नाम जागृवि तस्मै ते सोम सोमाय स्वाहा ॥


1.4.2 अनुवाक 2 उपांशुग्रहः

1
वाचस् पतये पवस्व वाजिन् वृषा वृष्णो अꣳशुभ्यां गभस्तिपूतो देवो देवानाम् पवित्रम् असि येषां भागो ऽसि तेभ्यस् त्वा
स्वांकृतो ऽसि मधुमतीर् न इषस् कृधि विश्वेभ्यस् त्वेन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यः ।
मनस् त्वाऽष्टु ।
उर्व् अन्तरिक्षम् अन्व् इहि
स्वाहा त्वा सुभवः सूर्याय
देवेभ्यस् त्वा मरीचिपेभ्यः ।
एष ते योनिः प्राणाय त्वा ॥

1.4.3 अनुवाक 3 अन्तर्यामग्रहः

1
उपयामगृहीतो ऽसि ।
अन्तर् यच्छ मघवन् पाहि सोमम् उरुष्य रायः सम् इषो यजस्वान्तस् ते दधामि द्यावापृथिवी अन्तर् उर्वन्तरिक्षꣳ सजोषा देवैर् अवरैः परैश् चान्तर्यामे मघवन् मादयस्व
स्वांकृतो ऽसि मधुमतीर् न इषस् कृधि विश्वेभ्यस् त्वेन्द्रियेभ्यो दिव्येभ्यः {W दिव्येभ्याः} {ASS दिव्येभ्यः} {BI दिव्येभ्यः} {GOLS दिव्येभ्यः} पार्थिवेभ्यः ।
मनस् त्वाष्टु ।
उर्व् अन्तरिक्षम् अन्व् इहि
स्वाहा त्वा सुभवः सूर्याय
देवेभ्यस् त्वा मरीचिपेभ्यः ।
एष ते योनिर् अपानाय त्वा ॥

1.4.4 अनुवाक 4 ऐन्द्रवायवग्रहः

1
आ वायो भूष शुचिपा उप नः सहस्रं ते नियुतो विश्ववार । उपो ते अन्धो मद्यम् अयामि यस्य देव दधिषे पूर्वपेयम् ॥
उपयामगृहीतो ऽसि वायवे त्वा ।
इन्द्रवायू इमे सुताः । उप प्रयोभिर् आ गतम् इन्दवो वाम् उशन्ति हि ।
उपयामगृहीतो ऽसीन्द्रवायुभ्यां त्वैष ते योनिः सजोषाभ्यां त्वा ॥

1.4.5 अनुवाक 5 मैत्रावरुणग्रहः

1
अयं वां मित्रावरुणा सुतः सोम ऋतावृधा । ममेद् इह श्रुतꣳ हवम् ॥
उपयामगृहीतो ऽसि मित्रावरुणाभ्यां त्वैष ते योनिर् ऋतायुभ्यां त्वा ॥

1.4.6 अनुवाक 6 आश्विन् ग्रहः

1
या वां कशा मधुमत्य् अश्विना सूनृतावती । तया यज्ञम् मिमिक्षतम् ॥
उपयामगृहीतो ऽस्य् अश्विभ्यां त्वैष ते योनिर् माध्वीभ्यां त्वा ॥

1.4.7 अनुवाक 7 आश्विन् ग्रहः

1
प्रातर्युजौ वि मुच्येथाम् अश्विनाव् एह गच्छतम् । अस्य सोमस्य पीतये ॥
उपयामगृहीतो ऽस्य् अश्विभ्यां त्वैष ते योनिर् अश्विभ्यां त्वा ॥

1.4.8 अनुवाक 8 शुक्रग्रहः

1
अयं वेनश् चोदयत् पृश्निगर्भा ज्योतिर्जरायू रजसो विमाने । इमम् अपाꣳ संगमे सूर्यस्य शिशुं न विप्रा मतिभी रिहन्ति ॥
उपयामगृहीतो ऽसि शण्डाय त्वैष ते योनिर् वीरताम् पाहि ॥

1.4.9 अनुवाक 9 मन्थिग्रहः

1
तम् प्रत्नथा पूर्वथा विश्वथेमथा ज्येष्ठतातिम् बर्हिषदꣳ सुवर्विदम् । प्रतीचीनं वृजनं दोहसे गिराऽऽशुं जयन्तम् अनु यासु वर्धसे ॥
उपयामगृहीतो ऽसि मर्काय त्वैष ते योनिः प्रजाः पाहि ॥

1.4.10 अनुवाक 10 आग्रयणग्रहः

1
ये देवा दिव्य् एकादश स्थ पृथिव्याम् अध्य् एकादश स्थाप्सुषदो महिनैकादश स्थ ते देवा यज्ञम् इमं जुषध्वम् ।
उपयामगृहीतो ऽस्य् आग्रयणो ऽसि स्वाग्रयणो जिन्व यज्ञं जिन्व यज्ञपतिम् अभि सवना पाहि विष्णुस् त्वाम् पातु विशम् त्वम् पाहीन्द्रियेणैष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः ॥

1.4.11 अनुवाक 11 भ्रातृव्यवतः आग्रयणग्रहः

1
त्रिꣳशत् त्रयश् च गणिनो रुजन्तो दिवꣳ रुद्राः पृथिवीं च सचन्ते । एकादशासो अप्सुषदः सुतꣳ सोमं जुषन्ताꣳ सवनाय विश्वे ॥
उपयामगृहीतो ऽस्य् आग्रयणो ऽसि स्वाग्रयणो जिन्व यज्ञं जिन्व यज्ञपतिम् अभि सवना पाहि विष्णुस् त्वाम् पातु विशं त्वं पाहीन्द्रियेणैष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः ॥

1.4.12 अनुवाक 12 उक्थ्यग्रहः

1
उपयामगृहीतो ऽसीन्द्राय त्वा बृहद्वते वयस्वत उक्थायुवे यत् त इन्द्र बृहद् वयस् तस्मै त्वा विष्णवे त्वैष ते योनिर् इन्द्राय त्वोक्थायुवे ॥

1.4.13अनुवाक 13 ध्रुवग्रहः

1
मूर्धानं दिवो अरतिम् पृथिव्या वैश्वानरम् ऋताय जातम् अग्निम् । कविꣳ सम्राजम् अतिथिं जनानाम् आसन्न् आ पात्रं जनयन्त देवाः ॥
उपयामगृहीतो ऽस्य् अग्नये त्वा वैश्वानराय ध्रुवो ऽसि ध्रुवक्षितिर् ध्रुवाणां ध्रुवतमो ऽच्युतानाम् अच्युतक्षित्तम एष ते योनिर् अग्नये त्वा वैश्वानराय ॥

1.4.14 अनुवाक 14 ऋतुग्रहाः

1
मधुश् च माधवश् च शुक्रश् च शुचिश् च नभश् च नभस्यश् चेषश् चोर्जश् च सहश् च सहस्यश् च तपश् च तपस्यश् च ।
उपयामगृहीतो ऽसि
सꣳसर्पो ऽसि ।
अꣳहस्पत्याय त्वा ॥

1.4.15 अनुवाक 15 ऐन्द्राग्नग्रहाः

1
इन्द्राग्नी आ गतꣳ सुतं गीर्भिर् नभो वरेण्यम् अस्य पातं धियेषिता ॥
उपयामगृहीतो ऽसीन्द्राग्निभ्यां त्वैष ते योनिर् इन्द्राग्निभ्यां त्वा ॥

1.4.16 अनुवाक 16 वैश्वदेवग्रहः

1
ओमासश् चर्षणीधृतो विश्वे देवास आ गत । दाश्वाꣳसो दाशुषः सुतम् ॥
उपयामगृहीतो ऽसि विश्वेभ्यस् त्वा देवेभ्य एष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः ॥

1.4.17 अनुवाक 17 पूर्वोमरुत्वतीयग्रहः

1
मरुत्वन्तं वृषभं वावृधानम् अकवारिं दिव्यꣳ शासम् इन्द्रम् । विश्वासाहम् अवसे नूतनायो ऽग्रꣳ सहोदाम् इह तꣳ हुवेम ॥
उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वत एष ते योनिर् इन्द्राय त्वा मरुत्वते ॥

1.4.18 अनुवाक 18 उत्तरो मरुत्वतीयग्रहः

1
इन्द्र मरुत्व इह पाहि सोमं यथा शार्याते अपिबः सुतस्य । तव प्रणीती तव शूर शर्मन्न् आ विवासन्ति कवयः सुयज्ञाः ॥
उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वत एष ते योनिर् इन्द्राय त्वा मरुत्वते ॥

1.4.19 अनुवाक 19 तृतीयो मरुत्वतीयग्रहः

1
मरुत्वाꣳ इन्द्र वृषभो रणाय पिबा सोमम् अनुष्वधम् मदाय । आ सिञ्चस्व जठरे मध्व ऊर्मिं त्वꣳ राजासि प्रदिवः सुतानाम् ॥
उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वत एष ते योनिर् इन्द्राय त्वा मरुत्वते ॥

1.4.20 अनुवाक 20 माहेन्द्रग्रहः

1
महाꣳ इन्द्रो य ओजसा पर्जन्यो वृष्टिमाꣳ इव । स्तोमैर् वत्सस्य वावृधे ॥
उपयामगृहीतो ऽसि महेन्द्राय त्वैष ते योनिर् महेन्द्राय त्वा ॥

1.4.21अनुवाक 21 माहेन्द्रग्रहः

1
महाꣳ इन्द्रो नृवद् आ चर्षणिप्रा उत द्विबर्हा अमिनः सहोभिः । अस्मद्रियग् वावृधे वीर्यायो उरुः पृथुः सुकृतः कर्तृभिर् भूत् ॥
उपयाम गृहीतो ऽसि महेन्द्राय त्वैष ते योनिर् महेन्द्राय त्वा ॥

1.4.22 अनुवाक 22 आदित्यग्रहः

1
कदा चन स्तरीर् असि नेन्द्र सश्चसि दाशुषे । उपोपेन् नु मघवन् भूय इन् नु ते दानं देवस्य पृच्यते ॥
उपयामगृहीतो ऽस्य् आदित्येभ्यस् त्वा
कदा चन प्र युच्छस्य् उभे नि पासि जन्मनी । तुरीयादित्य सवनं त इन्द्रियम् आ तस्थाव् अमृतं दिवि ॥
यज्ञो देवानाम् प्रत्य् एति सुम्नं आदित्यासो भवता मृडयन्तः । आ वो ऽर्वाची सुमतिर् ववृत्याद् अꣳहोश् चिद् या वरिवोवित्तराऽसत् ॥
विवस्व आदित्यैष ते सोमपीथस् तेन मन्दस्व तेन तृप्य तृप्यास्म ते वयं तर्पयितारो या दिव्या वृष्टिस् तया त्वा श्रीणामि ॥

1.4.23 अनुवाक 23 सावित्रग्रहः

1
वामम् अद्य सवितर् वामम् उ श्वो दिवेदिवे वामम् अस्मभ्यꣳ सावीः । वामस्य हि क्षयस्य देव भूरेर् अया धिया वामभाजः स्याम ॥
उपयामगृहीतो ऽसि देवाय त्वा सवित्रे ॥

1.4.24 अनुवाक 24 सावित्रग्रहः

1
अदब्धेभिः सवितः पायुभिष् ट्वꣳ शिवेभिर् अद्य परि पाहि नो गयम् । हिरण्यजिह्वः सुविताय नव्यसे रक्षा माकिर् नो अघशꣳस ईशत ॥
उपयामगृहीतो ऽसि देवाय त्वा सवित्रे ॥

1.4.25 अनुवाक 25 सावित्रग्रहः

1
हिरण्यपाणिमूतये सवितारम् उप ह्वये । स चेत्ता देवता पदम् ॥
उपयामगृहीतो ऽसि देवाय त्वा सवित्रे ॥

1.4.26 अनुवाक 26 वैश्वदेवग्रहः

1
सुशर्माऽसि सुप्रतिष्ठानो ।
बृहद् उक्षे नमः।
एष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः ॥

1.4.27अनुवाक 27 पात्नीवतग्रहः

1
बृहस्पतिसुतस्य त इन्दो इन्द्रियावतः पत्नीवन्तं ग्रहं गृह्णामि ।
अग्ना३इ पत्नीवा३ः सजूर् देवेन त्वष्ट्रा सोमम् पिब स्वाहा ॥

1.4.28 अनुवाक 28 हारियोजनग्रहः

1
हरिर् असि हारियोजनो हर्योः स्थाता वज्रस्य भर्ता पृश्नेः प्रेता तस्य ते देव सोमेष्टयजुष स्तुतस्तोमस्य शस्तोक्थस्य हरिवन्तं ग्रहं गृह्णामि
हरीः स्थ हर्योर् धानाः सहसोमाः ।
इन्द्राय स्वाहा ॥

1.4.29 अनुवाक 29 आग्नेयः अतिग्राह्यग्रहः

1
अग्न आयूꣳषि पवस आ सुवोर्जम् इषं च नः । आरे बाधस्व दुच्छुनाम्
उपयामगृहीतो ऽस्य् अग्नये त्वा तेजस्वत एष ते योनिर् अग्नये त्वा तेजस्वते ॥

1.4.30 अनुवाक 30 ऐन्द्रः अतिग्राह्यग्रहः

1
उत्तिष्ठन्न् ओजसा सह पीत्वा शिप्रे अवेपयः । सोमम् इन्द्र चमू सुतम् ॥
उपयामगृहीतो ऽसीन्द्राय त्वौजस्वत एष ते योनिर् इन्द्राय त्वौजस्वते ॥

1.4.31 अनुवाक 31 सौर्यः अतिग्राह्यग्रहः

1
तरणिर् विश्वदर्शतो ज्योतिष्कृद् असि सूर्य । विश्वम् आ भासि रोचनम् ॥
उपयामगृहीतो ऽसि सूर्याय त्वा भ्राजस्वत एष ते योनिः सूर्याय त्वा भ्राजस्वते ॥

1.4.32 अनुवाक 32

1
आ प्यायस्व मदिन्तम सोम विश्वाभिर् ऊतिभिः । भवा नः सप्रथस्तमः ॥

1.4.33 अनुवाक 33

1
ईयुष् ट ये पूर्वतराम् अपश्यन् व्युछन्तीम् उषसम् मर्त्यासः । अस्माभिर् ऊ नु प्रतिचक्ष्याभूद् ओ ते यन्ति ये अपरीषु पश्यान् ॥

1.4.34 अनुवाक 34

1
ज्योतिष्मतीं त्वा सादयामि
ज्योतिष्कृतं त्वा सादयामि
ज्योतिर्विदं त्वा सादयामि
भास्वतीं त्वा सादयामि
ज्वलन्तीं त्वा सादयामि
मल्मलाभवन्तीं त्वा सादयामि
दीप्यमानां त्वा सादयामि
रोचमानां त्वा सादयामि
अजस्रां त्वा सादयामि
बृहज्ज्योतिषं त्वा सादयामि
बोधयन्तीं त्वा सादयामि
जाग्रतीं त्वा सादयामि ॥

1.4.35 अनुवाक 35

1
प्रयासाय स्वाहायासाय स्वाहा वियासाय स्वाहा संयासाय स्वाहोद्यासाय स्वाहाऽवयासाय स्वाहा शुचे स्वाहा शोकाय स्वाहा तप्यत्वै स्वाहा तपते स्वाहा ब्रह्महत्यायै स्वाहा सर्वस्मै स्वाहा ॥

1.4.36 अनुवाक 36

1
चित्तꣳ संतानेन भवं यक्ना रुद्रं तनिम्ना पशुपतिꣳ स्थूलहृदयेनाग्निꣳ हृदयेन रुद्रं लोहितेन शर्वम् मतस्नाभ्याम् महादेवम् अन्तःपार्श्वेनौषिष्ठहनꣳ शिङ्गीनिकोश्याभ्याम् ॥

1.4.37 अनुवाक 37 षोडशिग्रहः

1
आ तिष्ठ वृत्रहन् रथं युक्ता ते ब्रह्मणा हरी । अर्वाचीनꣳ सु ते मनो ग्रावा कृणोतु वग्नुना ॥
उपयामगृथीतो ऽसीन्द्राय त्वा षोडशिन एष ते योनिर् इन्द्राय त्वा षोडशिने ॥

1.4.38 अनुवाक 38 षोडशिग्रहः
1
इन्द्रम् इद् धरी वहतो ऽप्रतिधृष्टशवसम् ऋषीणां च स्तुतीर् उप यज्ञं च मानुषाणाम्
उपयामगृहीतो ऽसीन्द्राय त्वा षोडशिन एष ते योनिर् इन्द्राय त्वा षोडशिने ॥

1.4.39 अनुवाक 39 षोडशिग्रहः

1
असावि सोम इन्द्र ते शविष्ठ धृष्णव् आ गहि । आ त्वा पृणक्त्व् इन्द्रियꣳ रजः सूर्यं न रश्मिभिः ॥
उपयामगृहीतो ऽसीन्द्राय त्वा षोडशिन एष ते योनिर् इन्द्राय त्वा षोडशिने ॥

1.4.40अनुवाक 40 षोडशिग्रहः

1
सर्वस्य प्रतिशीवरी भूमिस् त्वोपस्थ आऽधित । स्योनास्मै सुषदा भव यच्छास्मै शर्म सप्रथाः ॥
उपयामगृथीतो ऽसीन्द्राय त्वा षोडशिन एष ते योनिर् इन्द्राय त्वा षोडशिने ॥

1.4.41 अनुवाक 41 षोडशिग्रहः

1
महाꣳ इन्द्रो वज्रबाहुः षोडशी शर्म यच्छतु । स्वस्ति नो मघवा करोतु हन्तु पाप्मानं यो ऽस्मान् द्वेष्टि ॥
उपयामगृथीतो ऽसीन्द्राय त्वा षोडशिन एष ते योनिर् इन्द्राय त्वा षोडशिने ॥

1.4.42 अनुवाक 42 षोडशिग्रहः

1
सजोषा इन्द्रः सगणो मरुद्भिः सोमम् पिब वृत्रहञ् छूर विद्वान् । जहि शत्रूꣳर् अप मृधो नुदस्वाथाभयं कृणुहि विश्वतो नः ॥
उपयामगृथीतो ऽसीन्द्राय त्वा षोडशिन एष ते योनिर् इन्द्राय त्वा षोडशिने ॥

1.4.43 अनुवाक 43 दक्षिणा

1
उद् उ त्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् ॥
चित्रं देवानाम् उद् अगाद् अनीकं चक्षुर् मित्रस्य वरुणस्याग्नेः । आप्रा द्यावापृथिवी अन्तरिक्षꣳ सूर्य आत्मा जगतस् तस्थुषश् च ॥
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्य् अस्मज् जुहुराणम् एनो भूयिष्ठां ते नमउक्तिं विधेम ॥
दिवं गच्छ सुवः पत
रूपेण

2
वो रूपम् अभ्य् ऐमि वयसा वयः ।
तुथो वो विश्ववेदा वि भजतु वर्षिष्ठे अधि नाके ।
एतत् ते अग्ने राध ऐति सोमच्युतम् ।
तन् मित्रस्य पथा नय ।
ऋतस्य पथा प्रेत चन्द्रदक्षिणा यज्ञस्य पथा सुविता नयन्तीः ।
ब्राह्मणम् अद्य राध्यासम् ऋषिम् आर्षेयम् पितृमन्तम् पैतृमत्यꣳ सुधातुदक्षिणम् ।
वि सुवः पश्य व्यन्तरिक्षम् ।
यतस्व सदस्यैः (2)
अस्मद्दात्रा देवत्रा गच्छत मधुमतीः प्रदातारम् आ विशतानवहायास्मान् देवयानेन पथेत सुकृतां लोके सीदत
तन् नः सꣳस्कृतम् ॥

1.4.44 अनुवाक 44 समिष्टयजुर्होमः

1
धाता रातिः सवितेदं जुषन्ताम् प्रजापतिर् निधिपतिर् नो अग्निः । त्वष्टा विष्णुः प्रजया सꣳरराणो यजमानाय द्रविणं दधातु ॥
सम् इन्द्र णो मनसा नेषि गोभिः सꣳ सूरिभिर् मघवन्त् सꣳ स्वस्त्या । सम् ब्रह्मणा देवकृतं यद् अस्ति सं देवानाꣳ सुमत्या यज्ञियानाम् ॥
सं वर्चसा पयसा सं तनूभिर् अगन्महि मनसा सꣳ शिवेन । त्वष्टा नो अत्र वरिवः कृणोतु

2
अनु मार्ष्टु तनुवो यद् विलिष्टम् ॥
यद् अद्य त्वा प्रयति यज्ञे अस्मिन्न् अग्ने होतारम् अवृणीमहीह । ऋधग् अयाड् ऋधग् उताशमिष्ठाः प्रजानन् यज्ञम् उप याहि विद्वान् ॥
स्वगा वो देवाः सदनम् अकर्म य आजग्म सवनेदं जुषाणाः । जक्षिवाꣳसः पपिवाꣳसश् च विश्वे ऽस्मे धत्त वसवो वसूनि ॥
यान् आवह उशतो देव देवान् तान्

3
प्रेरय स्वे अग्ने सधस्थे ।
वहमाना भरमाणा हवीꣳषि वसुं घर्मं दिवम् आ तिष्ठतानु ॥
यज्ञ यज्ञं गच्छ यज्ञपतिं गच्छ स्वां योनिं गच्छ स्वाहा ।
एष ते यज्ञो यज्ञपते सहसूक्तवाकः सुवीरः स्वाहा
देवा गातुविदो गातुं वित्त्वा गातुम् इत
मनसस् पत इमं नो देव देवेषु यज्ञꣳ स्वाहा वाचि स्वाहा वाते धाः ॥

1.4.45 अनुवाक 45 अवभृथः

1
उरुꣳ हि राजा वरुणश् चकार सूर्याय पन्थाम् अन्वेतवा उ । अपदे पादा प्रतिधातवे ऽकर् उतापवक्ता हृदयाविधश् चित् ॥
शतं ते राजन् भिषजः सहस्रम् उर्वी गम्भीरा सुमतिष् टे अस्तु । बाधस्व द्वेषो निर्ऋतिम् पराचैः कृतं चिद् एनः प्र मुमुग्ध्य् अस्मत्
अभिष्ठितो वरुणस्य पाशः ।
अग्नेर् अनीकम् अप आ विवेश । अपां नपात् प्रतिरक्षन्न् असुर्यं दमेदमे

2
समिधं यक्ष्य् अग्ने ।
प्रति ते जिह्वा घृतम् उच् चरण्येत्
समुद्रे ते हृदयम् अप्स्व् अन्तः । सं त्वा विशन्त्व् ओषधीर् उतापो यज्ञस्य त्वा यज्ञपते हविर्भिः । सूक्तवाके नमोवाके विधेम ।
अवभृथ निचंकुण निचेरुर् असि निचंकुणाव देवैर् देवकृतम् एनो ऽयाड् अव मर्त्यैर् मर्त्यकृतम् उरोर् आ नो देव रिषस् पाहि
सुमित्रा न आप ओषधयः

3
सन्तु दुर्मित्रास् तस्मै भूयासुर् यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः ।
देवीर् आप एष वो गर्भस् तं वः सुप्रीतꣳ सुभृतम् अकर्म देवेषु नः सुकृतो ब्रूतात्
प्रतियुतो वरुणस्य पाशः प्रत्यस्तो वरुणस्य पाशः ।
एधो ऽस्य् एधिषीमहि समिद् असि तेजो ऽसि तेजो मयि धेहि ।
अपो अन्व् अचारिषꣳ रसेन सम् असृक्ष्महि पयस्वाꣳ अग्न आगमं तम् मा सꣳ सृज वर्चसा ॥

1.4.46 अनुवाक 46 काम्येष्टियाज्यापुरोनुवाक्या

1
यस् त्वा हृदा कीरिणा मन्यमानो ऽमर्त्यम् मर्त्यो जोहवीमि । जातवेदो यशो अस्मासु धेहि प्रजाभिर् अग्ने अमृतत्वम् अश्याम् ॥
यस्मै त्वꣳ सुकृते जातवेद उ लोकम् अग्ने कृणवः स्योनम् । अश्विनꣳ स पुत्रिणं वीरवन्तं गोमन्तꣳ रयिं नशते स्वस्ति ॥
त्वे सु पुत्र शवसो ऽवृत्रन् कामकातयः । न त्वाम् इन्द्राति रिच्यते ॥
उक्थौक्थे सोम इन्द्रम् ममाद नीथेनीथे मघवानम्

2
सुतासः । यद् ईꣳ सबाधः पितरं न पुत्राः समानदक्षा अवसे हवन्ते ॥
अग्ने रसेन तेजसा जातवेदो वि रोचसे । रक्षोहाऽमीवचातनः ॥
अपो अन्व् अचारिषꣳ रसेन सम् असृक्षमहि । पयस्वाꣳ अग्न आगमं तम् मा सꣳ सृज वर्चसा ॥
वसुर् वसुपतिर् हिकम् अस्य् अग्ने विभावसुः । स्याम ते सुमताव् अपि ॥
त्वाम् अग्ने वसुपतिं वसूनाम् अभि प्र मन्दे

3
अध्वरेषु राजन् । त्वया वाजं वाजयन्तो जयेमाभि ष्याम पृत्सुतीर् मर्त्यानाम् ॥
त्वाम् अग्ने वाजसातमं विप्रा वर्धन्ति सुष्टुतम् । स नो रास्व सुवीर्यम् ॥
अयं नो अग्निर् वरिवः कृणोत्व् अयम् मृधः पुर एतु प्रभिन्दन् । अयꣳ शत्रूञ् जयतु जर्हृषाणो ऽयं वाजं जयतु वाजसातौ ॥
अग्निनाग्निः सम् इध्यते कविर् गृहपतिर् युवा । हव्यवाड् जुह्वास्यः ॥
त्वꣳ ह्य् अग्ने अग्निना विप्रो विप्रेण सन्त् सता । सखा सख्या समिध्यसे ॥
उद् अग्ने शुचयस् तव
वि ज्योतिषा ॥