मैत्रायणीसंहिता/काण्डं १/प्रपाठकः ०३

विकिस्रोतः तः

ग्रहाः

1.3.1 अनुवाकः1
हविष्मतीरिमा आपो हविष्मान् देवो अध्वरः ।
हविष्मं आविवासति हविष्मं अस्तु सूर्यः ॥
अग्नेर्वोऽपन्नगृहस्य सदसि सादयामि
देवानां भागधेयीः स्थ ,
इन्द्राग्न्योर्भागधेयीः स्थ
मित्रावरुणयोर्भागधेयीः स्थ
विश्वेषां देवानां भागधेयीः स्थ
सुम्नायुवः सुम्न्याय सुम्नं धत्त ॥
हृदे त्वा
मनसे त्वा
दिवे त्वा
सूर्याय त्वा ।
ऊर्ध्वमिममध्वरं दिवि देवेषु होत्रा यच्छ ॥
शृणोत्वग्निः समिधा हवं मे शृण्वन्त्वापो धिषणाश्च देवीः ।
शृणोतु ग्रावाणो विदुषो नु यज्ञं शृणोतु देवः सविता हवं मे ॥
देवीरापो अपां नपाद्य ऊर्मिर्हविष्य इन्द्रियावान् मदिन्तमस्तं देवेभ्यः शुक्रपेभ्यो दात येषां भागः स्थ स्वाहा
कार्ष्यसि समुद्रस्य वोऽक्षित्या उन्नये
वसूनां रुद्राणामादित्यानां पन्नेजनीः स्थ
वसवो रुद्रा आदित्या एता वः पन्नेजनीः
समुद्रं गन्धर्वेष्ठां अन्वातिष्ठत वातस्य पत्मनेडिता
वामी ते संदृशि विश्वं रेतो धेषीय तव वामीरनु संदृशि ॥
यमग्ने पृत्सु मर्त्यमवा वाजेषु यं जुनाः ।
स यन्ता शश्वतीरिषः ॥
जुष्टो वाचो भूयासं ,
जुष्टो वाचस्पति ,
र्यद्वाचो मधुमत्तस्मै स्वाहा
स्वाहा सरस्वत्यै ॥

1.3.2 अनुवाकः2
निग्राभ्याः स्थ देवश्रुतो
तर्पयत मा ,
आयुर्मे तर्पयत
तर्पयत मा
प्राणं मे तर्पयत
तर्पयत मा ,
अपानं मे तर्पयत
तर्पयत मा
व्यानं मे तर्पयत
तर्पयत मा
चक्षुर्मे तर्पयत
तर्पयत मा
श्रोत्रं मे तर्पयत
तर्पयत मा
मनो मे तर्पयत
तर्पयत मा
वाचं मे तर्पयत
तर्पयत मा ,
आत्मानं मे तर्पयत
तर्पयत मा
प्रजां मे तर्पयत
तर्पयत मा
गृहान् मे तर्पयत
तर्पयत मा
पशून् मे तर्पयत
तर्पयत मा
गणैर्मा मा वितीतृषत
तर्पयत मा ॥

1.3.3 अनुवाकः3
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां आददे
ग्रावास्यध्वरकृद्देवेभ्यो ,
गभीरमिममध्वरं कृधि ॥
इन्द्राय त्वा सुषुत्तमं मधुमन्तं पयस्वन्तम् ।
इन्द्राय त्वाभिमातिघ्ने ,
इन्द्राय त्वा वसुमते रुद्रवते ,
इन्द्राय त्वादित्यवते ॥
अग्नये त्वा रायस्पोषदे
विष्णवे त्वा
श्येनाय त्वा सोमभृते
विष्णवे त्वा ॥
श्वात्राः स्थ वृत्रतुरो राध्वं गूर्ता अमृतस्य पत्नीः ।
ता देवीर्देवत्रेमं यज्ञं धत्तोपहूताः सोमस्य पिबत ॥
यत्ते सोम दिवि ज्योतिर् यत्पृथिव्यां यदुरा अन्तरिक्षे
तेनास्मै यज्ञपतय उरु राये कृधि ,
अधि धात्रे वोचो ,
मा भैर्मा संविक्था ,
ऊर्जं धत्स्व ,
ऊर्जमस्मासु धेहि
धिषणे ईडिते इडेथां
ऊर्जं दधाथां
ऊर्जमस्मासु धत्तं ,
मा वां हिंसिषं ,
मास्मान् युवं हिंसिष्टं ॥

1.3.4 अनुवाकः4
वाचस्पतये पवस्व वृष्णो अंशुभ्यां गभस्तिपूतः ॥
देवो देवानां पवित्रमअसि येषां भागोऽसि ॥
मधुमतीर्ना इषस्कृधि
स्वांकृतोऽसि ,
उर्वन्तरिक्षं वीहि
विश्वेभ्य इन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यो ,
मनस्त्वाष्टु
स्वाहा त्वा सुभव सूर्याय
देवेभ्यस्त्वा मरीचिपेभ्यः
प्राणाय त्वा
यत्ते सोमादाभ्यं नाम जागृवि तस्मै ते सोम सोमाय स्वाहा
प्रागपागधरागुदगेतास्त्वा दिशा आधावन्तु ,
अम्ब निस्मर
समरिर्विदाम् ॥


1.3.5 अनुवाकः5
उपयामगृहीतोऽसि ॥
अन्तर्यच्छ मघवन्पाहि सोमं उरुष्य रायः समिषो यजस्व ॥
अन्तस्ते द्यावापृथिवी दधाम्यन्तर्दधाम्युर्वन्तरिक्षम् ।
सजोषा देवैरवरैः परैश्चान्तर्यामे मघवन्मादयस्व ॥
वाक् त्वाष्टु
स्वाहा त्वा सुभव सूर्याय
देवेभ्यस्त्वा मरीचिपेभ्यो ,
अपानाय त्वा ॥

1.3.6 अनुवाकः6
आ वायो भूष शुचिपा उप नः सहस्रं ते नियुतो विश्ववार ।
उपो ते अन्धो मद्यमयामि यस्य देव दधिषे पूर्वपेयम् ॥
उपयामगृहीतोऽसि
वायवे त्वा ॥
इन्द्रवायू इमे सुता उप प्रयोभिरागतं ।
इन्दवो वां उशन्ति हि ॥
उपयामगृहीतोऽसि
वायव इन्द्रवायुभ्यां त्वा ,
एष ते योनिः
सजोषोभ्यां त्वा ॥

1.3.7 अनुवाकः7
अयं वां मित्रावरुणा सुतः सोम ऋतावृधा ।
ममेदिह श्रुतं हवं ॥
उपयामगृहीतो असि
मित्रावरुणाभ्यां त्वा ,
एष ते योनिर्ऋतायुभ्यां त्वा ॥

1.3.8 अनुवाकः8
या वां कशा मधुमत्यश्विना सूनृतावती ।
तया यज्ञं मिमिक्षतं ॥
उपयामगृहीतोऽसि ,
अश्विभ्यां त्वा ,
एष ते योनिः ,
माध्वीभ्यां त्वा ॥
 
1.3.9 अनुवाकः9
उपयामगृहितोऽसि
देवेभ्यस्त्वा ,
उपयामगृहीतोऽसि
विश्वदेवेभ्यस्त्वा ,
उपयामगृहीतोऽसि
विश्वेभ्यस्त्वा देवेभ्यः ॥
दितेः पुत्राणामदितेरकारिषमुरुशर्मणां बृहतां वरूथिनां ।
येषां नामानि विहितानि धामशश्चित्तैर्यजन्ति भुवनाय जीवसे ॥
उपयामगृहीतोऽसि विष्णोस्त्वोरुक्रमे गृह्णामि, विष्ण उरुक्रमैष ते सोमस्तं रक्षस्व,
मा त्वा दभन् दुश्चक्षास्ते मावक्षत् , अयं वसुः पुरोवसुर्वाक्पा वाचं मे पातु ,
अयं वसुर्विदद्वसुश्चक्षुष्पाश्चक्षुर्मे पातु , अयं वसुः संयद्वसुः श्रोत्रपाः श्रोत्रं मे पातु ॥

1.3.10 अनुवाकः10
अयं वेनश्चोदयत्पृश्निगर्भा ज्योतिर्जरायू रजसो विमाने ।
इममपां संगमे सूर्यस्य शिशुं न विप्रा मतिभी रिहन्ति ॥
उपयामगृहीतोऽसि , शण्डाय त्वा , एष ते योनि , र्वीरतायै त्वा ॥
 
1.3.11 अनुवाकः11
तं प्रत्नथा पूर्वथा विश्वथेमथा ज्येष्ठराजं बर्हिषदं स्वर्दृशम् ।
प्रतीचीनं वृजनं दोहसे गिराशुं जयन्तमनु यासु वर्धसे ॥
उपयामगृहीतोऽसि , मर्काय त्वा , एष ते योनिः, प्रजाभ्यस्त्वा ॥

1.3.12 अनुवाकः12
अपनुत्तौ शण्डामर्कौ सह तेन यं द्विष्मो , अछिन्नस्य ते देव सोम दक्षस्य रायस्पोषस्य सुवीर्यस्याभिग्रहीतारः स्याम ॥ तुथोऽसि जनधाया , देवास्त्वा शुक्रपाः प्रणयन्तु , तुथोऽसि जनधाया , देवास्त्वा मन्थिपाः प्रणयन्तु , अनाधृष्टासि ,
सुवीराः प्रजाः प्रजनयन् परीहि , सुप्रजाः प्रजाः प्रजनयन्नभिपरीहि ॥
इन्द्रेण मन्युना युजावबाधे पृतन्यतः । घ्नता वृत्राण्यप्रति ॥
संजग्मानौ दिवा पृथिव्या शुक्रौ शुक्रशोचिषौ तौ देवौ शुक्रामन्थिना आयुर्यज्ञे धत्तमायुर्यज्ञपतौ , पुमांसं गर्भमाधत्तं गवीण्योः प्राणान् पशुषु यच्छतं , शुक्रस्याधिष्ठानं असि मन्थिनोऽधिष्ठानं असि , निरस्तः शण्डो , निरस्तो मर्कः सह तेन यं द्विष्मः ॥
या प्रथमा संस्कृतिर् यज्ञे अस्मिन् यः परमो बृहस्पतिश्चिकित्वान् ।
यो मध्यमो वरुणो मित्रो अग्निस्तस्मा इन्द्राय सुतमाजुहोत तस्मै सूर्याय सुतमाजुहोत ॥

1.3.13 अनुवाकः13
ये देवा दिव्येकादश स्थ पृथिव्यामध्येकादश स्थ ।
अप्सुक्षितो महिनैकादश स्थ ते देवासो यज्ञं इमं जुषध्वम् ॥
उपयामगृहीतोऽसि , आग्रायाणोऽसि स्वाग्रयणः , जिन्व यज्ञं , जिन्व यज्ञपतिम् , अभि सवनानि पाहि , अतस्त्वा विष्णुः पातु , विशं त्वं पाहीन्द्रियेण , एष ते योनि , र्विश्वेभ्यस्त्वा देवेभ्यः ॥

1.3.14 अनुवाकः14
उपयामगृहीतोऽसि ॥
इन्द्राय त्वा बृहद्वते वयस्वत उक्थायुवं । यत्त इन्द्र बृहद्वयस्तस्मै त्वा विष्णवे त्वा ॥ एष ते योनि , रिन्द्राय त्वा , उपयामगृहीतोऽसि , देवेभ्यस्त्वा देवायुवं गृह्णामि , पुनर्हविरसि , देवेभ्यस्त्वा देवायुवं पृणच्मि यज्ञस्यायुषे ॥

1.3.15 अनुवाकः15
मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आ जातमग्निम् ।
कविं सम्राजमतिथिं जनानामासन्ना पात्रं जनयन्त देवाः ॥
उपयामगृहीतोऽसि , वैश्वानराय त्वा ॥ ध्रुवोऽसि ध्रुवक्षितिर् ध्रुवाणां ध्रुवतमोऽच्युतानामच्युतक्षित्तमः , एष ते योनि , र्वैश्वानराय त्वा ॥
ध्रुवं ध्रुवेण हविषा वः सोमं नयामसि ।
यथा नः सर्वा इज्जनः संगमे सुमना असत् ॥
दिवि दिव्यान् दृंहान्तरिक्षे अन्तरिक्ष्यान् पृथिव्यान् पार्थिवान् ॥

1.3.16 अनुवाकः16
उपयामगृहीतोऽसि , मधवे त्वा , माधवाय त्वा , शुक्राय त्वा , शुचये त्वा , नभसे त्वा , नभस्याय त्वा , इषाय त्वा , ऊर्जाय त्वा , सहसे त्वा , सहस्याय त्वा ,
तपसे त्वा , तपस्याय त्वा ॥


1.3.17 अनुवाकः17
इन्द्राग्नी आगतं सुतं गीर्भिर् नभो वरेण्यम् । अस्य पातं धियेषिता ॥
उपयामगृहीतोऽसि , इन्द्राग्निभ्यां त्वा , एष ते योनिः , इन्द्राग्निभ्यां त्वा ॥

1.3.18 अनुवाकः18
ओमासश्चर्षणीधृतो विश्वे देवासा आगत ।
दाश्वांसो दाशुषः सुतं ॥
उपयामगृहीतोऽसि
विश्वेभ्यस्त्वा देवेभ्यो ,
एष ते योनिः , विश्वेभ्यस्त्वा देवेभ्यः ॥


1.3.19 अनुवाकः19
इन्द्र मरुत्व इह पाहि सोमं यथा शार्याते अपिबः सुतस्य ।
तव प्रणीती तव शूर शर्मन्नाविवासन्ति कवयः सुयज्ञाः ॥
उपयामगृहीतोऽसि , इन्द्राय त्वा मरुत्वते , एष ते योनिः , इन्द्राय त्वा मरुत्वते ॥

1.3.20 अनुवाकः20
जनिष्ठा उग्रः सहसे तुराय मन्द्र ओजिष्ठो बहुलाभिमानः ।
अवर्धन्निन्द्रं मरुतश्चिदत्र माता यद्वीरं जजनज्जनिष्ठम् ॥
उपयामगृहीतोऽसि , इन्द्राय त्वा मरुत्वते , एष ते योनिः , इन्द्राय त्वा मरुत्वते ॥

1.3.21 अनुवाकः21
मरुत्वन्तं वृषभं वावृधानं अकवारिं दिव्यं शासं इन्द्रम् ।
विश्वासाहमवसे नूतनायोग्रं सहोदामिह तं हुवे ॥
उपयामगृहीतोऽसि , इन्द्राय त्वा मरुत्वते , एष ते योनिः , इन्द्राय त्वा मरुत्वते ॥


1.3.22 अनुवाकः22
मरुत्वां इन्द्र वृषभो रणाय पिबा सोममनुष्वधं मदाय ।
आसिञ्चस्व जठरे मध्व ऊर्मिं त्वं राजासि प्रदिवः सुतानां ॥
उपयामगृहीतोऽसि , इन्द्राय त्वा मरुत्वते , एष ते योनिः , इन्द्राय त्वा मरुत्वते ॥

1.3.23 अनुवाकः23
सजोषा इन्द्र सगणो मरुद्भिः सोमं पिब वृत्रहा शूर विद्वान् ।
जहि शत्रूंरप मृधो नुदस्वाथाभयं कृणुहि विश्वतो नः ॥
उपयामगृहीतोऽसि , इन्द्राय त्वा मरुत्वते , एष ते योनिः , इन्द्राय त्वा मरुत्वते ॥

1.3.24 अनुवाकः24
महं इन्द्रो य ओजसा पर्जन्यो वृष्टिमं इव ।
स्तोमैर्वत्सस्य वावृधे ॥
उपयामगृहीतोऽसि , महेन्द्राय त्वा , एष ते योनिः , महेन्द्राय त्वा ॥

1.3.25 अनुवाकः25
महं इन्द्रो नृवदा चर्षणिप्रा उत द्विबर्हा अमिनः सहोभिः ।
अस्मद्रियग् वावृधे वीर्यायोरुः पृथुः सुकृतः कर्तृभिर्भूत् ॥
उपयामगृहीतोऽसि , महेन्द्राय त्वा , एष ते योनिः , महेन्द्राय त्वा ॥

1.3.26 अनुवाकः26
कदा चन स्तरीरसि नेन्द्र सश्चसि दाशुषे ।
उपोपेन्नु मघवन् भूया इन्नु ते दानं देवस्य पृच्यते ॥
उपयामगृहीतोऽसि , आदित्येभ्यस्त्वा ॥
कदा चन प्रयुच्छस्युभे निपासि जन्मनी ।
तुरीयादित्य सवनं त इन्द्रियमातस्था अमृतं दिवि ॥
उपयामगृहीतोऽसि , आदित्येभ्यस्त्वा ॥
यज्ञो देवानां प्रत्येतु सुम्नमादित्यासो भवता मृडयन्तः ।
आ वोऽर्वाची सुमतिर्ववृत्यादंहोश्चिद्या वरिवोवित्तरासत् ॥
अहं परस्तादहमवस्तादहं विश्वस्य भुवनस्य राजा ।
अहं सूर्यमुभभयतो ददर्श यदन्तरिक्षं तदु नः पिताभूत् ॥
उन्नम्भय पृथिवीं भिन्ध्यादो दिव्यं नभः ।
उद्नो दिव्यस्य नो धातरीशानो विष्या दृतिम् ॥ (पाठा. – धृतिम्)

1.3.27 अनुवाकः27
अदब्धेभिः सवितः पायुभिष्ट्वं शिवेभिरद्य परिपाहि नो वृधे ।
हिरण्यजिह्वः सुविताय नव्यसे रक्षा माकिर् नो अघशँस ईशत ॥
उपयामगृहीतोऽसि , सावित्रोऽसि जनधाया , जिन्व यज्ञं , जिन्व यज्ञपतिम् , अभि सवनानि पाहि , अतस्त्वा विष्णुः पातु , विशं त्वं पाहीन्द्रियेण ॥

1.3.28 अनुवाकः28
उपयामगृहीतोऽसि ॥ सुशर्मासि सुप्रतिष्ठानो , बृहदुक्षे नमः ॥ एष ते योनिः ,
विश्वेभ्यस्त्वा देवेभ्यः ॥

1.3.29 अनुवाकः29
उपयामगृहीतोऽसि , बृहस्पतिसुतस्य त इन्द इन्द्रियावतः ॥
पत्नीवन्तं ग्रहं राध्यासं ॥
अग्ना3इ पत्नीवा3न्त्सजूस्त्वष्टा सोमं पिब ॥

1.3.30 अनुवाकः30
उपयामगृहीतोऽसि , हरिरसि हारियोजनो हरिवान् हर्योः स्थाता , स्तुतस्तोमस्य ते देव सोम शस्तोक्थस्येष्टयजुषः ॥ हरिवतो हारियोजनस्य हरिवन्तं ग्रहं राध्यासं ॥
हर्योर् धाना हरिवतीः सहसोमा इन्द्राय , रय्यै त्वा , पोषाय त्वा ॥


1.3.31 अनुवाकः31
अग्ना आयूंषि पवसा आसुवोर्जमिषं च नः ।
आरे बाधस्व दुच्छुनां ॥
उपयामगृहीतोऽसि , अग्नये त्वायुष्मते , एष ते योनिः , अग्नये त्वायुष्मते ॥

1.3.32 अनुवाकः32
ओजस्तदस्य तित्विष उभे यत्समवर्तयत् । इन्द्रश्चर्मेव रोदसी ॥
उपयामगृहीतोऽसि , इन्द्राय त्वौजस्वते , एष ते योनिः , इन्द्राय त्वौजस्वते ॥

1.3.33 अनुवाकः33
अदृश्रन्नस्य केतवो वि रश्मयो जनं अनु । भ्राजन्तो अग्नयो यथा ॥
उपयामगृहीतोऽसि , सूर्याय त्वा भ्राजस्वते , एष ते योनिः , सूर्याय त्वा भ्राजस्वते ॥
 
1.3.34 अनुवाकः34
इन्द्रमिद्धरी वहतोऽप्रतिधृष्टशवसं । ऋषीणां च स्तुतीरुप यज्ञं च मानुषाणां ॥
उपयामगृहीतोऽसि , इन्द्राय त्वा हरिवते , एष ते योनिः , इन्द्राय त्वा हरिवते ॥

1.3.35 अनुवाकः35
उपयामगृहीतोऽसि , प्रजापतये त्वा ज्योतिष्मते ज्योतिष्मन्तं गृह्णामि , रातं देवेभ्यो , दक्षाय दक्षवृधम, ग्निह्वरेभ्यस्त्वा ऋतायुभ्या इन्द्रज्येष्ठेभ्यो वरुणराजभ्यो वातापिभ्यः पर्जन्यात्मभ्यः , पृथिव्यै त्वा , अन्तरिक्षाय त्वा , दिवे त्वा , अद्भ्यस्त्वा , ओषधीभ्यो वनस्पतिभ्यस्त्वा , प्राणाय त्वा , अपानाय त्वा , व्यानाय त्वा , सते त्वा , असते त्वा , भूताय त्वा , भव्याय त्वा , येन प्रजा अछिद्रा अजायन्त तस्मै त्वा प्रजापतये विश्वकर्मणे विश्वव्यचसे विभूदाव्ने विभुं भागं जुहोमि स्वाहा ॥
तिस्रो जिह्वस्य समिधः परिज्मनोऽग्नेरकृण्वन्नुशिजो अमृत्यवे ।
तासामेकामदधुर्मर्त्ये भुजं लोकमु द्वे उप जामी ईयतुः ॥

1.3.36 अनुवाकः36
अग्निः प्रातः सवनात्पात्वस्मान् वैश्वानरो विश्वश्रीर्विश्वशंभूः ।
स नः पावको द्रविणं दधात्वायुष्मन्तः सहभक्षाः स्याम ॥
अग्नये त्वा प्रवृहामि गायत्रेण छन्दसा , इन्द्राय त्वा प्रवृहामि त्रैष्टुभेन छन्दसा ,
आदित्येभ्यस्त्वा प्रवृहामि जागतेन छन्दसा , रेशीनां त्वा पत्मन्नाधूनोमि , मान्दानां त्वा पत्मन्नाधूनोमि , भन्दनानां त्वा पत्मन्नाधूनोमि , पूतनानां त्वा पत्मन्नाधूनोमि ,
पस्त्यानां त्वा पत्मन्नाधूनोमि , माध्वीनां त्वा पत्मन्नाधूनोमि , मदुघानां त्वा पत्मन्नाधूनोमि , देवयानीनां त्वा पत्मन्नाधूनोमि , उपयामगृहीतोऽसि , शुक्रं त्वा शुक्र शुक्राय गृह्णाम्यह्नो रूपे सूर्यस्य रश्मिषु ॥
आ समुद्रा अचुच्यवुर् दिवो धारा असश्चत ॥
ककुभं रूपं वृषभस्य रोचते बृहत् , वसूनामाधीतौ रुद्राणां कर्मन्नादित्यानां चेतसि ,
इन्द्राय त्वा विभूवसे जुहोमि ,
उशिक् त्वं देव सोम गायत्रेण छन्दसाग्नेर् धामोपेहि
वशी त्वं देव सोम त्रैष्टुभेन छन्दसेन्द्रस्य धामोपेहि ,
अस्मत्सखा देव सोम जागतेन छन्दसा विश्वेषां देवानां प्रियं पाथा उपेहि ॥

1.3.37 अनुवाकः37
उदु त्यं जातवेदसं देवं वहन्ति केतवः ।
दृशे विश्वाय सूर्यम् ॥
चित्रं देवानां उदगाद् अनीकं चक्षुर् मित्रस्य वरुणस्याग्नेः ।
आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ॥
द्यां गच्छ , स्वर्गच्छ ,
रूपं वो रूपेणाभ्येमि वयसा वयस्तुथो वो विश्ववेदा विभजतु वर्षिष्ठे अधि नाके पृथिव्याः ॥
एतत्ते अग्ने राध एति सोमच्युतं ,
तन् मित्रस्य पथा नय ॥
अयं नो अग्निर्वरिवस्कृणोत्वयं मृधः पुर एतु प्रभिन्दन् ।
अयं शत्रून् जयतु जर्हृषाणोऽयं वाजं जयतु वाजसातौ ॥
ऋतस्य पथा प्रेत चन्द्रदक्षिणा ,
ब्राह्मणमद्य ऋध्यासं पितृमन्तं पैतृमत्यं ऋषिमार्षेयं सुधातुदक्षिणं ॥
वि स्वः पश्यः व्यन्तरिक्षम् ,
यत स्वः सदस्यैः ,
अस्मद्राता मधुमतीर्देवत्रा गच्छत ,
प्रदातारं आविशत ,
अनवहायास्मान् देवयानेन पथा सुकृतां लोके सीदत
तन्नः संस्कृतं ॥


1.3.38 अनुवाकः38
धाता रातिः सवितेदं जुषन्तां प्रजापतिर्वरुणो मित्रो अग्निः ।
विष्णुस्त्वष्टा प्रजया संरराणो यजमानाय द्रविणं दधातु ॥
सं इन्द्र नो मनसा नेषि गोभिः सं सूरिभिर्हरिवः सं स्वस्त्या ।
सं ब्रह्मणा देवकृतं यदस्ति सं देवानां सुमतौ यज्ञियानां ॥
सं वर्चसा पयसा सं तनूभिरगन्महि मनसा सं शिवेन ।
त्वष्टा सुदत्रो विदधातु रायोऽनु नो मार्ष्टु तन्वो यद्विरिष्टं ॥
सुगा वो देवाः सदना कृणोमि य आजग्मेदं सवनं जुषाणाः ।
जक्षिवांसः पपिवांसश्च विश्वेऽस्मे धत्त वसवो वसूनि ॥
यानावह उशतो देव देवांस्तान् प्रेरय स्वे अग्ने सधस्थे ।
वहमाना भरमाणा हवींष्यसुं घर्मं दिवमातिष्ठतानु ॥
यदद्य त्वा प्रयति यज्ञे अस्मिन्न् अग्ने होतारं अवृणीमहीह ।
ऋधग् अयाड् ऋधग् उताशमिष्ट विद्वान् प्रजानन्नुपयाहि यज्ञं ॥
यज्ञ यज्ञं गच्छ , यज्ञपतिं गच्छ , स्वं योनिं गच्छ स्वाहा ,
एष ते यज्ञो यज्ञपते सहसूक्तवाकः सुवीरस्तेन संभव
भ्राजं गच्छ , देवा गातुविदो गातुं वित्त्वा गातुमित ,
मनसस्पते सुधात्विमं यज्ञं दिवि देवेषु वाते धाः स्वाहा ॥

1.3.39 अनुवाकः39
उरुं हि राजा वरुणश्चकार सूर्याय पन्थां अन्वेतवा उ ।
अपदे पादा प्रतिधातवेऽकरुतापवक्ता हृदयाविधश्चित् ॥
शतं ते राजन् भिषजः सहस्रमुर्वी गभीरा सुमतिष्टे अस्तु ॥
आरे बाधस्व निर्ऋतिं पराचैः कृतं चिदेनः प्रमुमुग्ध्यस्मत् ॥
अग्नेरनीकमप आविवेशापां नपात् प्रतिरक्षदसुर्यान् ॥
दमेदमे समिधं यक्ष्यग्ने प्रति ते जिह्वा घृतमुच्चरण्यत् ॥
समुद्रे ते हृदयमप्स्वन्तः सं त्वा विशन्त्वौषधीरुतापः ।
यज्ञस्य ते यज्ञपते सूक्तोक्तौ नमोवाके विधेम स्वाहा ॥
अवभृथ निचुङ्कुण निचेरुरसि निचुङ्कुणः , गृहं गृहो , अव नो देवैर्देवकृतमेनो यक्षि , अव मर्त्यैर्मर्त्यकृतं चिकित्वान् , उरोरा नो देव रिषस्पाहि ,
अप्सु धौतस्य ते देव सोम नृभिष्टुतस्य यस्ते गोसनिर्भक्षो यो अश्वसनिस्तस्य ता उपहूता उपहूतस्य भक्षयामि , विचृत्तो वरुणस्य पाशः , प्रत्यस्तो वरुणस्य पाशो ,
नमो वरुणस्य पाशाय , उन्नेतर्वसीयो ना उन्नयाभिः ॥
उदुत्ते मधुमत्तमा गिरः स्तोमास ईरते ।
सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥
कण्वा इव भृगवः सूर्या इव विश्वमिद्धितमानशुः ।
उदेतः प्रजामुत वर्चो दधाना युष्मान् राय उत यज्ञा असश्चतः ॥
गायत्रं छन्दो अनु संरभध्वं अथा स्यात सुरभयो गृहेषु ।
एधोऽस्येधिषीमहि समिदसि समेधिषीमहि ॥
अपो अद्यान्वचारिषं रसेन समसृक्ष्महि ।
पयस्वानग्ना आगमं तं मा संसृज वर्चसा ॥