ऋग्वेदः सूक्तं १०.१००

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.१०० इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १०.९९ ऋग्वेदः - मण्डल १०
सूक्तं १०.१००
दुवस्युर्वान्दनः
सूक्तं १०.१०१ →
दे. विश्वे देवाः। जगती, १२ त्रिष्टुप् ।


इन्द्र दृह्य मघवन्त्वावदिद्भुज इह स्तुतः सुतपा बोधि नो वृधे ।
देवेभिर्नः सविता प्रावतु श्रुतमा सर्वतातिमदितिं वृणीमहे ॥१॥
भराय सु भरत भागमृत्वियं प्र वायवे शुचिपे क्रन्ददिष्टये ।
गौरस्य यः पयसः पीतिमानश आ सर्वतातिमदितिं वृणीमहे ॥२॥
आ नो देवः सविता साविषद्वय ऋजूयते यजमानाय सुन्वते ।
यथा देवान्प्रतिभूषेम पाकवदा सर्वतातिमदितिं वृणीमहे ॥३॥
इन्द्रो अस्मे सुमना अस्तु विश्वहा राजा सोमः सुवितस्याध्येतु नः ।
यथायथा मित्रधितानि संदधुरा सर्वतातिमदितिं वृणीमहे ॥४॥
इन्द्र उक्थेन शवसा परुर्दधे बृहस्पते प्रतरीतास्यायुषः ।
यज्ञो मनुः प्रमतिर्नः पिता हि कमा सर्वतातिमदितिं वृणीमहे ॥५॥
इन्द्रस्य नु सुकृतं दैव्यं सहोऽग्निर्गृहे जरिता मेधिरः कविः ।
यज्ञश्च भूद्विदथे चारुरन्तम आ सर्वतातिमदितिं वृणीमहे ॥६॥
न वो गुहा चकृम भूरि दुष्कृतं नाविष्ट्यं वसवो देवहेळनम् ।
माकिर्नो देवा अनृतस्य वर्पस आ सर्वतातिमदितिं वृणीमहे ॥७॥
अपामीवां सविता साविषन्न्यग्वरीय इदप सेधन्त्वद्रयः ।
ग्रावा यत्र मधुषुदुच्यते बृहदा सर्वतातिमदितिं वृणीमहे ॥८॥
ऊर्ध्वो ग्रावा वसवोऽस्तु सोतरि विश्वा द्वेषांसि सनुतर्युयोत ।
स नो देवः सविता पायुरीड्य आ सर्वतातिमदितिं वृणीमहे ॥९॥
ऊर्जं गावो यवसे पीवो अत्तन ऋतस्य याः सदने कोशे अङ्ग्ध्वे ।
तनूरेव तन्वो अस्तु भेषजमा सर्वतातिमदितिं वृणीमहे ॥१०॥
क्रतुप्रावा जरिता शश्वतामव इन्द्र इद्भद्रा प्रमतिः सुतावताम् ।
पूर्णमूधर्दिव्यं यस्य सिक्तय आ सर्वतातिमदितिं वृणीमहे ॥११॥
चित्रस्ते भानुः क्रतुप्रा अभिष्टिः सन्ति स्पृधो जरणिप्रा अधृष्टाः ।
रजिष्ठया रज्या पश्व आ गोस्तूतूर्षति पर्यग्रं दुवस्युः ॥१२॥


सायणभाष्यम्

नवमेऽनुवाके त्रयोदश सूक्तानि । तत्र ‘इन्द्र दृह्य' इति द्वादशर्चं प्रथमं सूक्तं वन्दनपुत्रस्य दुवस्योरार्षं वैश्वदेवम् । द्वादशी त्रिष्टुप् । शिष्टा जगत्यः । तथा चानुक्रान्तम्-' इन्द्र दुवस्युर्वान्दनो वैश्वदेवं त्वन्त्या त्रिष्टुप् ' इति । गतो विनियोगः ॥


इंद्र॒ दृह्य॑ मघवं॒त्वाव॒दिद्भु॒ज इ॒ह स्तु॒तः सु॑त॒पा बो॑धि नो वृ॒धे ।

दे॒वेभि॑र्नः सवि॒ता प्राव॑तु श्रु॒तमा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥१

इन्द्र॑ । दृह्य॑ । म॒घ॒ऽव॒न् । त्वाऽव॑त् । इत् । भु॒जे । इ॒ह । स्तु॒तः । सु॒त॒ऽपाः । बो॒धि॒ । नः॒ । वृ॒धे ।

दे॒वेभिः॑ । नः॒ । स॒वि॒ता । प्र । अ॒व॒तु॒ । श्रु॒तम् । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥

इन्द्र । दृह्य । मघऽवन् । त्वाऽवत् । इत् । भुजे । इह । स्तुतः । सुतऽपाः । बोधि । नः । वृधे ।

देवेभिः । नः । सविता । प्र । अवतु । श्रुतम् । आ । सर्वऽतातिम् । अदितिम् । वृणीमहे ॥

हे "इन्द्र मघवन् धनवन् त्वं “त्वावदित् त्वत्सदृशमेव शत्रुबलं “दृह्य मारय । किमर्थम् । “भुजे अस्माकं भोगाय। तदर्थम् “इह अस्मिन् यज्ञे “स्तुतः सन् “सुतपाः सुतस्य अभिषुतस्य सोमस्य पाता “बोधि बुध्यस्व । भवेत्यर्थः । किमर्थम् । “नः अस्माकं वृधे वर्धनाय । किंच “देवेभिः देवैः सह “नः अस्माकं “श्रुतं विश्रुतं यज्ञं “सविता सर्वस्य स्वस्वकर्मसु प्रेरको देवः “प्रावतु प्ररक्षतु । किंच “सर्वतातिम् । स्वार्थिकस्तातिल् । सर्वां सर्वात्मिकाम् । यद्वा । सर्वे तायन्तेऽस्यामिति सर्वतातिः । छान्दसो दीर्घः । तादृशीम् “अदितिम् अखण्डनीयां देवमातरम् “आ “वृणीमहे ॥


भरा॑य॒ सु भ॑रत भा॒गमृ॒त्वियं॒ प्र वा॒यवे॑ शुचि॒पे क्रं॒ददि॑ष्टये ।

गौ॒रस्य॒ यः पय॑सः पी॒तिमा॑न॒श आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥२

भरा॑य । सु । भ॒र॒त॒ । भा॒गम् । ऋ॒त्विय॑म् । प्र । वा॒यवे॑ । शु॒चि॒ऽपे । क्र॒न्दत्ऽइ॑ष्टये ।

गौ॒रस्य॑ । यः । पय॑सः । पी॒तिम् । आ॒न॒शे । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥

भराय । सु । भरत । भागम् । ऋत्वियम् । प्र । वायवे । शुचिऽपे । क्रन्दत्ऽइष्टये ।

गौरस्य । यः । पयसः । पीतिम् । आनशे । आ । सर्वऽतातिम् । अदितिम् । वृणीमहे ॥

“भराय संग्रामकारिणे सर्वेषां पोषकाय वेन्द्राय “ऋत्वियं काले जातं प्राप्तकालं “भागं “सु “भरत सुष्ठु संपादयत हे ऋत्विजः । तथा “शुचिपे शुद्धस्य सोमस्य पात्रे क्रन्ददिष्टये शब्दितगमनाय । वायोः शीघ्रगमने हि शब्दः प्रत्यक्षः । तादृशाय “वायवे “देवाय “प्र भरत भगमिति शेषः । “यः देवः “गौरस्य गौरवर्णस्य पशोः “पयसः “पीतिं पानम् “आनशे प्राप्नोति तस्मै वायवे । शिष्टमुक्तम् ॥


आ नो॑ दे॒वः स॑वि॒ता सा॑विष॒द्वय॑ ऋजूय॒ते यज॑मानाय सुन्व॒ते ।

यथा॑ दे॒वान्प्र॑ति॒भूषे॑म पाक॒वदा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥३

आ । नः॒ । दे॒वः । स॒वि॒ता । सा॒वि॒ष॒त् । वयः॑ । ऋ॒जु॒ऽय॒ते । यज॑मानाय । सु॒न्व॒ते ।

यथा॑ । दे॒वान् । प्र॒ति॒ऽभूषे॑म । पा॒क॒ऽवत् । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥

आ । नः । देवः । सविता । साविषत् । वयः । ऋजुऽयते । यजमानाय । सुन्वते ।

यथा । देवान् । प्रतिऽभूषेम । पाकऽवत् । आ । सर्वऽतातिम् । अदितिम् । वृणीमहे ॥

“सविता सर्वस्य प्रेरकः सूर्यः “नः अस्माकं संबन्धिने “ऋजूयते ऋजुकामाय “सुन्वते अभिषवं कुर्वते “यजमानाय “वयः अन्नं “पाकवत् पाकोपेतम् । व्यवहितमप्येतदत्र संबध्यते । “आ “साविषत् आभिमुख्येन प्रसौति । सौतेर्ण्यन्ताल्लेटि रूपम् । "यथा येन प्रकारेण “देवान् “प्रतिभूषेम प्रतिभवेम । भवतेर्लिङि सिप्शपौ। द्विविकरणता । यद्वा । ‘भूष अलंकारे'। भौवादिकः । भूषयेमेत्यर्थः ॥


इंद्रो॑ अ॒स्मे सु॒मना॑ अस्तु वि॒श्वहा॒ राजा॒ सोमः॑ सुवि॒तस्याध्ये॑तु नः ।

यथा॑यथा मि॒त्रधि॑तानि संद॒धुरा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥४

इन्द्रः॑ । अ॒स्मे इति॑ । सु॒ऽमनाः॑ । अ॒स्तु॒ । वि॒श्वहा॑ । राजा॑ । सोमः॑ । सु॒वि॒तस्य॑ । अधि॑ । ए॒तु॒ । नः॒ ।

यथा॑ऽयथा । मि॒त्रऽधि॑तानि । स॒म्ऽद॒धुः । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥

इन्द्रः । अस्मे इति । सुऽमनाः । अस्तु । विश्वहा । राजा । सोमः । सुवितस्य । अधि । एतु । नः ।

यथाऽयथा । मित्रऽधितानि । सम्ऽदधुः । आ । सर्वऽतातिम् । अदितिम् । वृणीमहे ॥

“इन्द्रः देवः “अस्मे अस्माकं “सुमनाः सुमनस्कः अनुग्रहचेताः “अस्तु भवतु । “विश्वहा सर्वेष्वप्यहःसु । “राजा “सोमः च “नः अस्माकं “सुवितस्य सुवितं स्तोत्रम् “अध्येतु अधिगच्छतु । “यथायथा येन येन प्रकारेण अस्माकं “मित्रधितानि मित्रनिहितानि धनानि “संदधुः तथाधिगच्छतु सोमः । तथेन्द्रोऽपि सुमना अस्त्विति समन्वयः ।।


इंद्र॑ उ॒क्थेन॒ शव॑सा॒ परु॑र्दधे॒ बृह॑स्पते प्रतरी॒तास्यायु॑षः ।

य॒ज्ञो मनुः॒ प्रम॑तिर्नः पि॒ता हि क॒मा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥५

इन्द्रः॑ । उ॒क्थेन॑ । शव॑सा । परुः॑ । द॒धे॒ । बृह॑स्पते । प्र॒ऽत॒री॒ता । अ॒सि॒ । आयु॑षः ।

य॒ज्ञः । मनुः॑ । प्रऽम॑तिः । नः॒ । पि॒ता । हि । क॒म् । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥

इन्द्रः । उक्थेन । शवसा । परुः । दधे । बृहस्पते । प्रऽतरीता । असि । आयुषः ।

यज्ञः । मनुः । प्रऽमतिः । नः । पिता । हि । कम् । आ । सर्वऽतातिम् । अदितिम् । वृणीमहे ॥

अयम् “इन्द्रः “उक्थेन “शवसा स्तुत्येन बलेन “परुः पर्व यज्ञियमस्मदीयं वा “दधे धारयति । हे "बृहस्पते “आयुषः ममायुष्यस्य “प्रतरीता प्रवर्धयिता “असि भव । तथा “यज्ञो “मनुः मन्ता “प्रमतिः प्रकृष्टा मतिर्यस्य सः “नः “पिता पालकः सन् “कं सुखं प्रयच्छतु । यद्वा । यज्ञो मन्त्रो बुद्धिश्च प्रत्येकं सुखं प्रयच्छतु ॥


इंद्र॑स्य॒ नु सुकृ॑तं॒ दैव्यं॒ सहो॒ऽग्निर्गृ॒हे ज॑रि॒ता मेधि॑रः क॒विः ।

य॒ज्ञश्च॑ भूद्वि॒दथे॒ चारु॒रंत॑म॒ आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥६

इन्द्र॑स्य । नु । सुऽकृ॑तम् । दैव्य॑म् । सहः॑ । अ॒ग्निः । गृ॒हे । ज॒रि॒ता । मेधि॑रः । क॒विः ।

य॒ज्ञः । च॒ । भू॒त् । वि॒दथे॑ । चारुः॑ । अन्त॑मः । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥

इन्द्रस्य । नु । सुऽकृतम् । दैव्यम् । सहः । अग्निः । गृहे । जरिता । मेधिरः । कविः ।

यज्ञः । च । भूत् । विदथे । चारुः । अन्तमः । आ । सर्वऽतातिम् । अदितिम् । वृणीमहे ॥

“दैव्यं देवानां हितं “सहः बलं यदस्ति तत् “इन्द्रस्य “सुकृतं इन्द्रेण खलु सुष्ठु संपादितम् । यद्वा । यत्सुकृतं दैव्यं सहो बलं मरुत्संज्ञकमस्ति तदिन्द्रस्य नु इन्द्रस्य संबन्धि खलु । अथवा। इन्द्रस्य नु संबन्धि सुकृतं दैव्यं सहो देवार्हं बलम् अग्निर्गृहे अस्मदीये यागगृहे वर्तत इति शेषः । इन्द्रस्य संबन्धी सुष्ठु संपादितो देवानां बलभूतोऽग्निर्गार्हपत्यः सन् वर्तत इत्यर्थः । स चाग्निः “जरिता देवानां स्तोता “मेधिरः। मेधो यज्ञो हविर्वा । तद्वान् “कविः क्रान्तप्रज्ञः “यज्ञः यष्टव्यः “च “भूत् भवति । कुत्र । “विदथे यज्ञे। किंच सोऽग्निः “चारुः चरणीयः “अन्तमः अस्माकमन्तिकतमश्च ॥ ॥ १६ ॥


न वो॒ गुहा॑ चकृम॒ भूरि॑ दुष्कृ॒तं नाविष्ट्यं॑ वसवो देव॒हेळ॑नं ।

माकि॑र्नो देवा॒ अनृ॑तस्य॒ वर्प॑स॒ आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥७

न । वः॒ । गुहा॑ । च॒कृ॒म॒ । भूरि॑ । दुः॒ऽकृ॒तम् । न । आ॒विःऽत्य॑म् । व॒स॒वः॒ । दे॒व॒ऽहेळ॑नम् ।

माकिः॑ । नः॒ । दे॒वाः॒ । अनृ॑तस्य । वर्प॑सः । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥

न । वः । गुहा । चकृम । भूरि । दुःऽकृतम् । न । आविःऽत्यम् । वसवः । देवऽहेळनम् ।

माकिः । नः । देवाः । अनृतस्य । वर्पसः । आ । सर्वऽतातिम् । अदितिम् । वृणीमहे ॥

हे देवाः “वः युष्माकं “गुहा गुहायां प्रच्छन्ने देशे “भूरि प्रभूतं "दुष्कृतं पापम् । द्रोहमित्यर्थः । “न “चकृम । तथा “आविष्ट्यम् आविः संभूतं “देवहेळनं देवानां क्रोधनं तन्निमित्तं द्रोहं “न चकृम हे “वसवः वासका देवाः । किंच हे “देवाः “नः अस्माकम् “अनृतस्य “वर्पसः रूपस्य प्राप्तिः “माकिः मा भूत्। इतः परं मानुषं रूपं मा भूदित्यर्थः । शिष्टमुक्तम् ॥


अपामी॑वां सवि॒ता सा॑विष॒न्न्य१॒॑ग्वरी॑य॒ इदप॑ सेधं॒त्वद्र॑यः ।

ग्रावा॒ यत्र॑ मधु॒षुदु॒च्यते॑ बृ॒हदा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥८

अप॑ । अमी॑वाम् । स॒वि॒ता । सा॒वि॒ष॒त् । न्य॑क् । वरी॑यः । इत् । अप॑ । से॒ध॒न्तु॒ । अद्र॑यः ।

ग्रावा॑ । यत्र॑ । म॒धु॒ऽसुत् । उ॒च्यते॑ । बृ॒हत् । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥

अप । अमीवाम् । सविता । साविषत् । न्यक् । वरीयः । इत् । अप । सेधन्तु । अद्रयः ।

ग्रावा । यत्र । मधुऽसुत् । उच्यते । बृहत् । आ । सर्वऽतातिम् । अदितिम् । वृणीमहे ॥

“सविता सर्वस्य प्रेरकः सवितृदेवोऽस्माकं संबन्धिनम् “अमीवां रोगम् “अप “साविषत् अपप्रेरयतु । अपगमयत्वित्यर्थः । तथा “वरीय “इत् उरुतरमपि पापं “न्यक् नीचीनम् “अप “सेधन्त्वद्रयः पर्वताभिमानिनो देवा अभिषवाश्मानो वा । एतत्सर्वं कुत्र भवत्विति चेत् उच्यते । यत्र यस्मिन् प्रदेशे यस्मिन् यागे वा मधुरस्य सोमस्य सोता “ग्रावा “बृहत् प्रवृद्धम् “उच्यते स्तूयते तत्र ॥


ऊ॒र्ध्वो ग्रावा॑ वसवोऽस्तु सो॒तरि॒ विश्वा॒ द्वेषां॑सि सनु॒तर्यु॑योत ।

स नो॑ दे॒वः स॑वि॒ता पा॒युरीड्य॒ आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥९

ऊ॒र्ध्वः । ग्रावा॑ । व॒स॒वः॒ । अ॒स्तु॒ । सो॒तरि॑ । विश्वा॑ । द्वेषां॑सि । स॒नु॒तः । यु॒यो॒त॒ ।

सः । नः॒ । दे॒वः । स॒वि॒ता । पा॒युः । ईड्यः॑ । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥

ऊर्ध्वः । ग्रावा । वसवः । अस्तु । सोतरि । विश्वा । द्वेषांसि । सनुतः । युयोत ।

सः । नः । देवः । सविता । पायुः । ईड्यः । आ । सर्वऽतातिम् । अदितिम् । वृणीमहे ॥

हे “वसवः देवाः “सोतरि सोमाभिषवकर्तरि मयि “ग्रावा “ऊर्ध्वः उन्नतः “अस्तु । तेनोच्छ्रितेन “विश्वा द्वेषांसि सर्वानपि द्वेष्टॄन् “सनुतः निगूढान् “युयोत पृथक्कुरुत । “सः “सविता "देवः “नः अस्माकं “पायुः पालयिता। 'कृवापाजि°' इत्यादिनोण् । प्रत्ययस्वरः । सः “ईड्यः स्तोतव्यश्च ॥


ऊर्जं॑ गावो॒ यव॑से॒ पीवो॑ अत्तन ऋ॒तस्य॒ याः सद॑ने॒ कोशे॑ अं॒ग्ध्वे ।

त॒नूरे॒व त॒न्वो॑ अस्तु भेष॒जमा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥१०

ऊर्ज॑म् । गा॒वः॒ । यव॑से । पीवः॑ । अ॒त्त॒न॒ । ऋ॒तस्य॑ । याः । सद॑ने । कोशे॑ । अ॒ङ्ग्ध्वे ।

त॒नूः । ए॒व । त॒न्वः॑ । अ॒स्तु॒ । भे॒ष॒जम् । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥

ऊर्जम् । गावः । यवसे । पीवः । अत्तन । ऋतस्य । याः । सदने । कोशे । अङ्ग्ध्वे ।

तनूः । एव । तन्वः । अस्तु । भेषजम् । आ । सर्वऽतातिम् । अदितिम् । वृणीमहे ॥

हे गावः आशिरार्थाः यूयं “यवसे तृणवति देशे “पीवः प्रवृद्धम् “ऊर्जं रसम् “अत्तन अत्त । “याः “ऋतस्य यज्ञस्य “सदने गृहे "कोशे गोष्ठे दोहनस्थाने “अङ्ध्वे व्यञ्जयथ ता अत्तन । “तनूरेव । जन्ये जनकशब्दः । तनूरेव क्षीरमेव “तन्वः सोमरसस्य “भेषजम् “अस्तु । यद्वा । पृथगेव वाक्यम् । अस्माकं तन्वो भेषजमस्तु । किंच तनूरेव पशुशरीरमेव । पशुना :यागे सति स्वर्गस्य संपादयितुं शक्यत्वात् ॥


क्र॒तु॒प्रावा॑ जरि॒ता शश्व॑ता॒मव॒ इंद्र॒ इद्भ॒द्रा प्रम॑तिः सु॒ताव॑तां ।

पू॒र्णमूध॑र्दि॒व्यं यस्य॑ सि॒क्तय॒ आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥११

क्र॒तु॒ऽप्रावा॑ । ज॒रि॒ता । शश्व॑ताम् । अवः॑ । इन्द्रः॑ । इत् । भ॒द्रा । प्रऽम॑तिः । सु॒तऽव॑ताम् ।

पू॒र्णम् । ऊधः॑ । दि॒व्यम् । यस्य॑ । सि॒क्तये॑ । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥

क्रतुऽप्रावा । जरिता । शश्वताम् । अवः । इन्द्रः । इत् । भद्रा । प्रऽमतिः । सुतऽवताम् ।

पूर्णम् । ऊधः । दिव्यम् । यस्य । सिक्तये । आ । सर्वऽतातिम् । अदितिम् । वृणीमहे ॥

“क्रतुप्रावा कर्मणां पूरकः । ‘ प्रा पूरणे'। आतो मनिन्” इत्यादिना वनिप् । “जरिता स्तोता। यजमानं साधु सोमः कृत इति स्तौति । यद्वा । “शश्वतां सर्वेषां जरयिता “इन्द्र “इत् इन्द्र एव “सुतावतां सोमवतां यजमानानाम् “अवः रक्षकः “भद्रा भद्रया स्तुत्या “प्रमतिः । “यस्य इन्द्रस्य “सिक्तये सेकाय पानाय “ऊधः उद्धततरं द्रोणकलशं “पूर्णं सोमेन पूर्णं भवति स एवावः स एव प्रमतिरिति ॥


चि॒त्रस्ते॑ भा॒नुः क्र॑तु॒प्रा अ॑भि॒ष्टिः संति॒ स्पृधो॑ जरणि॒प्रा अधृ॑ष्टाः ।

रजि॑ष्ठया॒ रज्या॑ प॒श्व आ गोस्तूतू॑र्षति॒ पर्यग्रं॑ दुव॒स्युः ॥१२

चि॒त्रः । ते॒ । भा॒नुः । क्र॒तु॒ऽप्राः । अ॒भि॒ष्टिः । सन्ति॑ । स्पृधः॑ । ज॒र॒णि॒ऽप्राः । अधृ॑ष्टाः ।

रजि॑ष्ठया । रज्या॑ । प॒श्वः । आ । गोः । तूतू॑र्षति । परि॑ । अग्र॑म् । दु॒व॒स्युः ॥

चित्रः । ते । भानुः । क्रतुऽप्राः । अभिष्टिः । सन्ति । स्पृधः । जरणिऽप्राः । अधृष्टाः ।

रजिष्ठया । रज्या । पश्वः । आ । गोः । तूतूर्षति । परि । अग्रम् । दुवस्युः ॥

हे इन्द्र “ते “भानुः प्रकाशः “चित्रः आश्चर्यभूतश्चायनीयो वा । तथा “क्रतुप्राः स भानुरस्माकं कर्मणां पूरकः “अभिष्टिः अभ्येषणीयः । हे इन्द्र ते “जरणिप्राः स्तोतॄणां धनस्य पूरयित्र्यः “अधृष्टाः अन्यैरप्रधृष्याः “स्पृधः स्पर्धाः “सन्ति । यस्मादेवं तस्मात् “रजिष्ठया ऋजुतमया “रज्या रज्ज्वा “गोः “पश्वः पशोः “अयं “दुवस्युः परिचरणमिच्छन्नेतन्नामर्षिः “परि “तूतूर्षति अभित्वरयति ॥ ॥ १७ ॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१००&oldid=180523" इत्यस्माद् पुनः प्राप्तिः