ऋग्वेदः सूक्तं १०.१४१

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.१४१ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १०.१४० ऋग्वेदः - मण्डल १०
सूक्तं १०.१४१
अग्निस्तापसः
सूक्तं १०.१४२ →
विश्वे देवाः । अनुष्टुप्।


अग्ने अच्छा वदेह नः प्रत्यङ्नः सुमना भव ।
प्र नो यच्छ विशस्पते धनदा असि नस्त्वम् ॥१॥
प्र नो यच्छत्वर्यमा प्र भगः प्र बृहस्पतिः ।
प्र देवाः प्रोत सूनृता रायो देवी ददातु नः ॥२॥
सोमं राजानमवसेऽग्निं गीर्भिर्हवामहे ।
आदित्यान्विष्णुं सूर्यं ब्रह्माणं च बृहस्पतिम् ॥३॥
इन्द्रवायू बृहस्पतिं सुहवेह हवामहे ।
यथा नः सर्व इज्जनः संगत्यां सुमना असत् ॥४॥
अर्यमणं बृहस्पतिमिन्द्रं दानाय चोदय ।
वातं विष्णुं सरस्वतीं सवितारं च वाजिनम् ॥५॥
त्वं नो अग्ने अग्निभिर्ब्रह्म यज्ञं च वर्धय ।
त्वं नो देवतातये रायो दानाय चोदय ॥६॥


सायणभाष्यम्

‘अग्ने' इति षडृचं त्रयोदशं सूक्तं तापसगुणविशिष्टस्याग्नेरार्षं वैश्वदेवमनुष्टुभम् । तथा चानुक्रान्तम्-‘ अग्नेऽच्छाग्निस्तापसो वैश्वदेवमानुष्टुभं हि' इति । गतो विनियोगः ॥


अग्ने॒ अच्छा॑ वदे॒ह नः॑ प्र॒त्यङ्नः॑ सु॒मना॑ भव ।

प्र नो॑ यच्छ विशस्पते धन॒दा अ॑सि न॒स्त्वं ॥१

अग्ने॑ । अच्छ॑ । व॒द॒ । इ॒ह । नः॒ । प्र॒त्यङ् । नः॒ । सु॒ऽमनाः॑ । भ॒व॒ ।

प्र । नः॒ । य॒च्छ॒ । वि॒शः॒ । प॒ते॒ । ध॒न॒ऽदाः । अ॒सि॒ । नः॒ । त्वम् ॥

अग्ने । अच्छ । वद । इह । नः । प्रत्यङ् । नः । सुऽमनाः । भव ।

प्र । नः । यच्छ । विशः । पते । धनऽदाः । असि । नः । त्वम् ॥

हे “अग्ने “इह अस्मिन् देशे “नः अस्मान् “अच्छ “वद आभिमुख्येन प्रियं ब्रूहि । तथा “प्रत्यङ् “नः अस्मान् प्रत्यञ्चन् "सुमनाः शोभनमनस्को “भव । हे “विशस्पते यजमानलक्षणायाः प्रजायाः पालयितः “नः अस्मभ्यं “प्र “यच्छ धनानि प्रदेहि यतः “त्वं “नः अस्माकं “धनदाः “असि धनानां दाता भवसि ॥


प्र नो॑ यच्छत्वर्य॒मा प्र भगः॒ प्र बृह॒स्पतिः॑ ।

प्र दे॒वाः प्रोत सू॒नृता॑ रा॒यो दे॒वी द॑दातु नः ॥२

प्र । नः॒ । य॒च्छ॒तु॒ । अ॒र्य॒मा । प्र । भगः॑ । प्र । बृह॒स्पतिः॑ ।

प्र । दे॒वाः । प्र । उ॒त । सू॒नृता॑ । रा॒यः । दे॒वी । द॒दा॒तु॒ । नः॒ ॥

प्र । नः । यच्छतु । अर्यमा । प्र । भगः । प्र । बृहस्पतिः ।

प्र । देवाः । प्र । उत । सूनृता । रायः । देवी । ददातु । नः ॥

“अर्यमा अरीणां नियन्ता अर्याणां निर्माता वैतत्संज्ञो देवः "नः अस्मभ्यं “प्र “यच्छतु धनम् । तथा “भगः एतत्संज्ञको देवश्च “प्र यच्छतु । “बृहस्पतिः च “प्र यच्छतु । सर्वे देवाः च “प्र यच्छन्तु । "उत अपि च "सूनृता प्रियसत्यवाग्रूपा “देवी देवनशीला सरस्वती “रायः धनानि “नः अस्मभ्यं “प्र “ददातु ॥ ‘ उडिदम्' इत्यादिना रायो विभक्तिरुदात्ता ।।


सोमं॒ राजा॑न॒मव॑से॒ऽग्निं गी॒र्भिर्ह॑वामहे ।

आ॒दि॒त्यान्विष्णुं॒ सूर्यं॑ ब्र॒ह्माणं॑ च॒ बृह॒स्पतिं॑ ॥३

सोम॑म् । राजा॑नम् । अव॑से । अ॒ग्निम् । गीः॒ऽभिः । ह॒वा॒म॒हे॒ ।

आ॒दि॒त्यान् । विष्णु॑म् । सूर्य॑म् । ब्र॒ह्माण॑म् । च॒ । बृह॒स्पति॑म् ॥

सोमम् । राजानम् । अवसे । अग्निम् । गीःऽभिः । हवामहे ।

आदित्यान् । विष्णुम् । सूर्यम् । ब्रह्माणम् । च । बृहस्पतिम् ॥

“राजानं राजमानमीश्वरं वा “सोमम् “अग्निं च “गीर्भिः स्तुतिभिः “अवसे रक्षणार्थं “हवामहे आह्वयामहे । तथा “आदित्यान् अदितेः पुत्रान् मित्रादीन् “विष्णुं “सूर्यं “ब्रह्माणं प्रजापति “बृहस्पतिं “च रक्षणार्थमाह्वयामहे । ।


इं॒द्र॒वा॒यू बृह॒स्पतिं॑ सु॒हवे॒ह ह॑वामहे ।

यथा॑ नः॒ सर्व॒ इज्जनः॒ संग॑त्यां सु॒मना॒ अस॑त् ॥४

इ॒न्द्र॒वा॒यू इति॑ । बृह॒स्पति॑म् । सु॒ऽहवा॑ । इ॒ह । ह॒वा॒म॒हे॒ ।

यथा॑ । नः॒ । सर्वः॑ । इत् । जनः॑ । सम्ऽग॑त्याम् । सु॒ऽमनाः॑ । अस॑त् ॥

इन्द्रवायू इति । बृहस्पतिम् । सुऽहवा । इह । हवामहे ।

यथा । नः । सर्वः । इत् । जनः । सम्ऽगत्याम् । सुऽमनाः । असत् ॥

इन्द्रश्च वायुश्च “इन्द्रवायू । “ उभयत्र वायोः प्रतिषेधो वक्तव्यः' (पा. सू. ६. ३. २६. १) इत्यानङः प्रतिषेधः । ‘नोत्तरपदेऽनुदात्तादौ ' इति ‘देवताद्वन्द्वे च ' इति प्राप्तस्योभयपदप्रकृतिस्वरस्य निषेधः । ‘ समासस्य ' इत्यन्तोदात्तत्वम् । “बृहस्पतिं बृहतां देवानां पालकम् । तद्बृहतोः करपत्योः' ( पा. सू. ६. १. १५७ ) इति सुट्तलोपौ । वनस्पत्यादित्वादुभयपदप्रकृतिस्वरत्वम् । “सुहवा सुहवौ सुह्वानौ इन्द्रवायू बृहस्पतिं च “इह अस्मिन् कर्मणि “हवामहे आह्वयामहे । “यथा “नः अस्माकं “सर्व “इत् सर्व एव “जनः “संगत्यां संगमने धनस्य प्राप्तौ “सुमनाः “असत् शोभनमनस्को भवेत् तथा आह्वयामह इत्यर्थः । अस्तेर्लेट्यडागमः ॥


अ॒र्य॒मणं॒ बृह॒स्पति॒मिंद्रं॒ दाना॑य चोदय ।

वातं॒ विष्णुं॒ सर॑स्वतीं सवि॒तारं॑ च वा॒जिनं॑ ॥५

अ॒र्य॒मण॑म् । बृह॒स्पति॑म् । इन्द्र॑म् । दाना॑य । चो॒द॒य॒ ।

वात॑म् । विष्णु॑म् । सर॑स्वतीम् । स॒वि॒तार॑म् । च॒ । वा॒जिन॑म् ॥

अर्यमणम् । बृहस्पतिम् । इन्द्रम् । दानाय । चोदय ।

वातम् । विष्णुम् । सरस्वतीम् । सवितारम् । च । वाजिनम् ॥

हे स्तोतः अर्यमादीन् देवान् “दानाय धनप्रदानाय “चोदय स्तुत्या प्रेरय । तथा “वातं वायुं “विष्णुं “सरस्वतीं “वाजिनम् अन्नवन्तं बलवन्तं वा “सवितारं “च दानाय प्रेरय ॥


त्वं नो॑ अग्ने अ॒ग्निभि॒र्ब्रह्म॑ य॒ज्ञं च॑ वर्धय ।

त्वं नो॑ दे॒वता॑तये रा॒यो दाना॑य चोदय ॥६

त्वम् । नः॒ । अ॒ग्ने॒ । अ॒ग्निऽभिः॑ । ब्रह्म॑ । य॒ज्ञम् । च॒ । व॒र्ध॒य॒ ।

त्वम् । नः॒ । दे॒वऽता॑तये । रा॒यः । दाना॑य । चो॒द॒य॒ ॥

त्वम् । नः । अग्ने । अग्निऽभिः । ब्रह्म । यज्ञम् । च । वर्धय ।

त्वम् । नः । देवऽतातये । रायः । दानाय । चोदय ॥

हे “अग्ने “त्वम् “अग्निभिः त्वद्विभूतिभूतैरन्यैरग्निभिः सार्धं “नः अस्माकं “ब्रह्म स्तोत्रं “यज्ञं “च “वर्धय । तथा “त्वं “नः अस्माकं “देवतातये । यज्ञनामैतत् । यागार्थं "रायः धनस्य “दानाय प्रदानाय “चोदय दातॄन् प्रेरय ॥ ॥ २९ ॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१४१&oldid=166958" इत्यस्माद् पुनः प्राप्तिः