ऋग्वेदः सूक्तं १०.१५

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.१५ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १०.१४ ऋग्वेदः - मण्डल १०
सूक्तं १०.१५
शङ्खो यामायनः
सूक्तं १०.१६ →
दे. पितरः। त्रिष्टुप्, ११ जगती



उदीरतामवर उत्परास उन्मध्यमाः पितरः सोम्यासः ।
असुं य ईयुरवृका ऋतज्ञास्ते नोऽवन्तु पितरो हवेषु ॥१॥
इदं पितृभ्यो नमो अस्त्वद्य ये पूर्वासो य उपरास ईयुः ।
ये पार्थिवे रजस्या निषत्ता ये वा नूनं सुवृजनासु विक्षु ॥२॥
आहं पितॄन्सुविदत्राँ अवित्सि नपातं च विक्रमणं च विष्णोः ।
बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस्त इहागमिष्ठाः ॥३॥
बर्हिषदः पितर ऊत्यर्वागिमा वो हव्या चकृमा जुषध्वम् ।
त आ गतावसा शंतमेनाथा नः शं योररपो दधात ॥४॥
उपहूताः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु ।
त आ गमन्तु त इह श्रुवन्त्वधि ब्रुवन्तु तेऽवन्त्वस्मान् ॥५॥
आच्या जानु दक्षिणतो निषद्येमं यज्ञमभि गृणीत विश्वे ।
मा हिंसिष्ट पितरः केन चिन्नो यद्व आगः पुरुषता कराम ॥६॥
आसीनासो अरुणीनामुपस्थे रयिं धत्त दाशुषे मर्त्याय ।
पुत्रेभ्यः पितरस्तस्य वस्वः प्र यच्छत त इहोर्जं दधात ॥७॥
ये नः पूर्वे पितरः सोम्यासोऽनूहिरे सोमपीथं वसिष्ठाः ।
तेभिर्यमः संरराणो हवींष्युशन्नुशद्भिः प्रतिकाममत्तु ॥८॥
ये तातृषुर्देवत्रा जेहमाना होत्राविद स्तोमतष्टासो अर्कैः ।
आग्ने याहि सुविदत्रेभिरर्वाङ्सत्यैः कव्यैः पितृभिर्घर्मसद्भिः ॥९॥
ये सत्यासो हविरदो हविष्पा इन्द्रेण देवैः सरथं दधानाः ।
आग्ने याहि सहस्रं देववन्दैः परैः पूर्वैः पितृभिर्घर्मसद्भिः ॥१०॥
अग्निष्वात्ताः पितर एह गच्छत सदःसदः सदत सुप्रणीतयः ।
अत्ता हवींषि प्रयतानि बर्हिष्यथा रयिं सर्ववीरं दधातन ॥११॥
त्वमग्न ईळितो जातवेदोऽवाड्ढव्यानि सुरभीणि कृत्वी ।
प्रादाः पितृभ्यः स्वधया ते अक्षन्नद्धि त्वं देव प्रयता हवींषि ॥१२॥
ये चेह पितरो ये च नेह याँश्च विद्म याँ उ च न प्रविद्म ।
त्वं वेत्थ यति ते जातवेदः स्वधाभिर्यज्ञं सुकृतं जुषस्व ॥१३॥
ये अग्निदग्धा ये अनग्निदग्धा मध्ये दिवः स्वधया मादयन्ते ।
तेभिः स्वराळसुनीतिमेतां यथावशं तन्वं कल्पयस्व ॥१४॥

सायणभाष्यम्

उदीरताम्' इति चतुर्दशर्चं पञ्चदशं सूक्तम् । अत्रानुक्रम्यते-‘उदीरतां षळूना शङ्खः पित्र्यं जगत्येकादशी ' इति । ' यामायनाः परे पञ्च' (अनु.) इति वचनाद्यमपुत्रः शङ्खाख्य ऋषिः । ‘अग्निष्वात्ताः' इत्येषा जगती शिष्टास्त्रिष्टुभः । पितरो देवता । गतः सूक्तविनियोगः । अष्टकायाम् ‘उदीरतामवरे' इत्याद्या अष्टावृचो होमार्थाः । सूत्रितं च – ‘उदीरतामवर उत्परास इत्यष्टाभिर्हुत्वा' ( आश्व. गृ. २. ४. ६) इति । महापितृयज्ञे पितरः सोमवन्तः' इत्यस्यानुवाक्या ‘उदीरताम् । इत्येषा । सूत्रितं च -‘पितरोऽग्निष्वात्ता यम उदीरतामवर उत्परासः' (आश्व. श्रौ. २. १९) इति । आग्निमारुतेऽप्येषा धाय्या । सूत्रितं च- ‘मातली कव्यैर्यमो अङ्गिरोभिरुदीरतामवर उत्परासः' (आ. श्रौ. ५. २० ) इति ॥


उदी॑रता॒मव॑र॒ उत्परा॑स॒ उन्म॑ध्य॒माः पि॒तरः॑ सो॒म्यासः॑ ।

असुं॒ य ई॒युर॑वृ॒का ऋ॑त॒ज्ञास्ते नो॑ऽवंतु पि॒तरो॒ हवे॑षु ॥१

उत् । ई॒र॒ता॒म् । अव॑रे । उत् । परा॑सः । उत् । म॒ध्य॒माः । पि॒तरः॑ । सो॒म्यासः॑ ।

असु॑म् । ये । ई॒युः । अ॒वृ॒काः । ऋ॒त॒ऽज्ञाः । ते । नः॒ । अ॒व॒न्तु॒ । पि॒तरः॑ । हवे॑षु ॥

उत् । ईरताम् । अवरे । उत् । परासः । उत् । मध्यमाः । पितरः । सोम्यासः ।

असुम् । ये । ईयुः । अवृकाः । ऋतऽज्ञाः । ते । नः । अवन्तु । पितरः । हवेषु ॥

त्रिविधाः पितर उत्तमा मध्यमा अधमाश्चेति । यथाविधं श्रौतं कर्मानुष्ठाय पितृत्वं प्राप्ता उत्तमाः । स्मार्तकर्ममात्रपरा मध्यमाः । अत्रापि कैश्चित्संस्कारैर्विकला अधमाः। एतदेवाभिप्रेत्य • ये अग्निदग्धा ये अनग्निदग्धाः' इत्यादिमन्त्रः समाम्नातः । तेषु “अवरे निकृष्टाः “उदीरताम् उत्तमं हविः प्राप्नुवन्तु । “परासः उत्तमाः “पितरः "उत् ईरताम् । मध्यमाः पितरश्च उत् ईरताम् । ते सर्वेऽप्यस्मद्विषये “सोम्यासः सोम्या अनुग्रहपराः सन्तु । “ये पितरः “अवृकाः वृकवदरण्यश्ववदस्मासु हिंसामकुर्वन्तः “ऋतज्ञाः अस्मदनुष्ठितं यज्ञं जानन्तः “असुम् अस्मत्प्राणम् “ईयुः रक्षितुं प्राप्ताः “ते “पितरः "हवेषु अस्मदीयेष्वाह्वानेषु “नः अस्मान् “अवन्तु रक्षन्तु ॥


महापितृयज्ञे ‘पितरो बर्हिषदः' इत्यस्य इदं पितृभ्यः' इति द्वितीयानुवाक्या। सूत्रं तु पूर्वमेवोदाहृतम् ( आश्व. श्रौ. २. १९ )। आग्निमारुते ‘इदं पितृभ्यः' इत्येषा धाय्या । सूत्रित च-' आहं पितॄन्त्सुविदत्राँ अवित्सीदं पितृभ्यो नमो अस्त्वद्य स्वादुष्किलायमिति चतस्रः' (आश्व. श्रौ. ५. २०) इति ॥ इ॒दं पि॒तृभ्यो॒ नमो॑ अस्त्व॒द्य ये पूर्वा॑सो॒ य उप॑रास ई॒युः ।

ये पार्थि॑वे॒ रज॒स्या निष॑त्ता॒ ये वा॑ नू॒नं सु॑वृ॒जना॑सु वि॒क्षु ॥२

इ॒दम् । पि॒तृऽभ्यः॑ । नमः॑ । अ॒स्तु॒ । अ॒द्य । ये । पूर्वा॑सः । ये । उप॑रासः । ई॒युः ।

ये । पार्थि॑वे । रज॑सि । आ । निऽस॑त्ताः । ये । वा॒ । नू॒नम् । सु॒ऽवृ॒जना॑सु । वि॒क्षु ॥

इदम् । पितृऽभ्यः । नमः । अस्तु । अद्य । ये । पूर्वासः । ये । उपरासः । ईयुः ।

ये । पार्थिवे । रजसि । आ । निऽसत्ताः । ये । वा । नूनम् । सुऽवृजनासु । विक्षु ॥

“पूर्वासः यजमानोत्पत्तेः पूर्वमुत्पन्ना ज्येष्ठभ्रातृपितामहादयः "ये “ईयुः पितृलोकं प्राप्ताः । "ये चान्ये “उपरासः यजमानजन्मन उपरि उत्पन्नाः कनिष्ठभ्रातृस्वपुत्रादय ईयुः पितृलोकं प्राप्ताः । “ये अप्यन्ये “पार्थिवे पृथिवीसंबन्धिनि “रजसि रजोगुणकार्येऽस्मिन् कर्मणि “आ “निषत्ताः हविः स्वीकर्तुमागत्योपविष्टाः । “ये “वा केचिदन्ये बन्धुवर्गरूपाः पितरः “विक्षु बन्धुरूपासु प्रजासु आ निषत्ताः श्राद्धादिस्वीकारायागत्योपविष्टाः । कीदृशीषु विक्षु। “सुवृजनासु । वृज्यते परित्यज्यते दारिद्र्यमनेनेति वृजनं धनम् । शोभनं वृजनं यासां ताः सुवृजनाः । तादृशीषु धनसमृद्ध्या श्राद्धादिकर्मपरास्वित्यर्थः । सर्वेभ्य उक्तेभ्यः “पितृभ्यः “अद्य अस्मिन् कर्मणि “इदं “नमः “अस्तु । अयमाहुतिप्रदानपूर्वको नमस्कारो भवतु ॥


आहं पि॒तॄन्त्सु॑वि॒दत्राँ॑ अवित्सि॒ नपा॑तं च वि॒क्रम॑णं च॒ विष्णोः॑ ।

ब॒र्हि॒षदो॒ ये स्व॒धया॑ सु॒तस्य॒ भजं॑त पि॒त्वस्त इ॒हाग॑मिष्ठाः ॥३

आ । अ॒हम् । पि॒तॄन् । सु॒ऽवि॒दत्रा॑न् । अ॒वि॒त्सि॒ । नपा॑तम् । च॒ । वि॒ऽक्रम॑णम् । च॒ । विष्णोः॑ ।

ब॒र्हि॒ऽसदः॑ । ये । स्व॒धया॑ । सु॒तस्य॑ । भज॑न्त । पि॒त्वः । ते । इ॒ह । आऽग॑मिष्ठाः ॥

आ । अहम् । पितॄन् । सुऽविदत्रान् । अवित्सि । नपातम् । च । विऽक्रमणम् । च । विष्णोः ।

बर्हिऽसदः । ये । स्वधया । सुतस्य । भजन्त । पित्वः । ते । इह । आऽगमिष्ठाः ॥

“अहं यजमानः “सुविदत्रान् मदीयां भक्तिं सुष्ठु जानतः “पितॄन् “अवित्सि आभिमुख्येन लब्धवानस्मि । “विष्णोः व्यापिनो यज्ञस्य “नपातं “च विनाशाभावं च “विक्रमणं “च विशेषेण प्रवृत्तिं च लब्धवानस्मि । “ये पितरः “बर्हिषदः बर्हिषि सीदन्ति “ते “इह अस्मिन् कर्मणि “आगमिष्ठाः अतिशयेनागताः। आदरपूर्वं समागत्य “स्वधया पुरोडाशाद्यन्नेन सह "सुतस्य अभिषुतस्य सोमलक्षणस्य “पित्वः पितोरन्नस्य भागं “भजन्त सेवन्ते उपयुञ्जते ॥


बर्हि॑षदः पितर ऊ॒त्य१॒॑र्वागि॒मा वो॑ ह॒व्या च॑कृमा जु॒षध्वं॑ ।

त आ ग॒ताव॑सा॒ शंत॑मे॒नाथा॑ नः॒ शं योर॑र॒पो द॑धात ॥४

बर्हि॑ऽसदः । पि॒त॒रः॒ । ऊ॒ती । अ॒र्वाक् । इ॒मा । वः॒ । ह॒व्या । च॒कृ॒म॒ । जु॒षध्व॑म् ।

ते । आ । ग॒त॒ । अव॑सा । शम्ऽत॑मेन । अथ॑ । नः॒ । शम् । योः । अ॒र॒पः । द॒धा॒त॒ ॥

बर्हिऽसदः । पितरः । ऊती । अर्वाक् । इमा । वः । हव्या । चकृम । जुषध्वम् ।

ते । आ । गत । अवसा । शम्ऽतमेन । अथ । नः । शम् । योः । अरपः । दधात ॥

हे “बर्हिषदः । यज्ञे सीदन्तीति बर्हिषदः । अत्रापि ‘ ये वै यज्वानस्ते पितरो बर्हिषदः' (तै.ब्रा.१.६.९) इत्यत्र श्रुतत्वाद्यागं कृत्वा प्रेत्य पितृलोकं प्राप्ता बर्हिषदः । तादृशा हे "पितरः "अर्वाक् अर्वाचीनानामस्माकम् “ऊती रक्षा भवद्भिः कर्तव्येति शेषः । “वः युष्मदर्थम् “इमा “हव्या एतानि हवींषि “चकृम अतस्तानि “जुषध्वम् । “ते हविर्जुष्टवन्तो यूयं “शंतमेन सुखतमेन “अवसा रक्षणेन निमित्तभूतेन “आ “गत आभिमुख्येनास्मान् प्राप्नुत । “अथ अनन्तरं “नः अस्मभ्यं “शं सुखं “योः दुःखवियोगम् “अरपः पापरहितं च “दधात दत्त ।।


महापितृयज्ञे ‘ पितरः सोमवन्तः' इत्यस्य याज्या ‘उपहूताः पितरः' इत्येषा। सूत्रितं च -- ’उपहूताः पितरः सोम्यासस्त्वं सोम प्र चिकितो मनीषा ' ( आश्व. श्रौ. २. १९) इति ।।

उप॑हूताः पि॒तरः॑ सो॒म्यासो॑ बर्हि॒ष्ये॑षु नि॒धिषु॑ प्रि॒येषु॑ ।

त आ ग॑मंतु॒ त इ॒ह श्रु॑वं॒त्वधि॑ ब्रुवंतु॒ ते॑ऽवंत्व॒स्मान् ॥५

उप॑ऽहूताः । पि॒तरः॑ । सो॒म्यासः॑ । ब॒र्हि॒ष्ये॑षु । नि॒ऽधिषु॑ । प्रि॒येषु॑ ।

ते । आ । ग॒म॒न्तु॒ । ते । इ॒ह । श्रु॒व॒न्तु॒ । अधि॑ । ब्रु॒व॒न्तु॒ । ते । अ॒व॒न्तु॒ । अ॒स्मान् ॥

उपऽहूताः । पितरः । सोम्यासः । बर्हिष्येषु । निऽधिषु । प्रियेषु ।

ते । आ । गमन्तु । ते । इह । श्रुवन्तु । अधि । ब्रुवन्तु । ते । अवन्तु । अस्मान् ॥

“सोम्यासः सोम्या अस्मदनुग्रहपराः सोमसंपादिनो वा “पितरः “बर्हिष्येषु यागार्हेषु .”प्रियेषु तृप्तिकरेषु “निधिषु निधिसदृशेषु हविःषु निमित्तभूतेषु सत्सु “उपहूताः अस्माभिराहूताः “ते पितरः “आ “गमन्तु आगच्छन्तु । आगत्य च “इह अस्मिन् कर्मणि अस्माभिः प्रयुक्ताः स्तुतीः “श्रुवन्तु शृण्वन्तु । श्रुत्वा च "अधि “ब्रुवन्तु । साधुरयं यजमान इत्यादरेण कथयन्तु । "ते तादृशाः पितरः “अस्मान् “अवन्तु रक्षन्तु ॥ ॥ १७ ॥


आच्या॒ जानु॑ दक्षिण॒तो नि॒षद्ये॒मं य॒ज्ञम॒भि गृ॑णीत॒ विश्वे॑ ।

मा हिं॑सिष्ट पितरः॒ केन॑ चिन्नो॒ यद्व॒ आगः॑ पुरु॒षता॒ करा॑म ॥६

आ॒ऽअच्य॑ । जानु॑ । द॒क्षि॒ण॒तः । नि॒ऽसद्य॑ । इ॒मम् । य॒ज्ञम् । अ॒भि । गृ॒णी॒त॒ । विश्वे॑ ।

मा । हिं॒सि॒ष्ट॒ । पि॒त॒रः॒ । केन॑ । चि॒त् । नः॒ । यत् । वः॒ । आगः॑ । पु॒रु॒षता॑ । करा॑म ॥

आऽअच्य । जानु । दक्षिणतः । निऽसद्य । इमम् । यज्ञम् । अभि । गृणीत । विश्वे ।

मा । हिंसिष्ट । पितरः । केन । चित् । नः । यत् । वः । आगः । पुरुषता । कराम ॥

पितॄणामयं स्वाभाविको धर्मः ‘अथैनं पितरः प्राचीनावीतिनः सव्यं जान्वाच्य' (श. ब्रा. २. ४. २. २ ) इति वचनात् । हे पितरः “विश्वे सर्वे यूयं “जानु "आच्य भूमौ निपात्य “दक्षिणतः दक्षिणपार्श्वे “निषद्य उपविश्य “इमम् अस्मदीयं “यज्ञमभि “गृणीत अभिष्टुत । विशिष्टतृप्तियोगात् परया प्रीत्या सगुणोऽयं यज्ञ इति प्रशंसतेत्यर्थः । अपि च “वः युष्माकं “यत् किंचित् कर्मवैगुण्यजनितम् “आगः अपराधं “पुरुषता मनुष्यत्वेन हेतुना “कराम वयं कृतवन्तः हे “पितरः तेन “केन “चित् अप्यपराधेन “नः अस्मान् “मा “हिंसिष्ट ॥


आसी॑नासो अरु॒णीना॑मु॒पस्थे॑ र॒यिं ध॑त्त दा॒शुषे॒ मर्त्या॑य ।

पु॒त्रेभ्यः॑ पितर॒स्तस्य॒ वस्वः॒ प्र य॑च्छत॒ त इ॒होर्जं॑ दधात ॥७

आसी॑नासः । अ॒रु॒णीना॑म् । उ॒पऽस्थे॑ । र॒यिम् । ध॒त्त॒ । दा॒शुषे॑ । मर्त्या॑य ।

पु॒त्रेभ्यः॑ । पि॒त॒रः॒ । तस्य॑ । वस्वः॑ । प्र । य॒च्छ॒त॒ । ते । इ॒ह । ऊर्ज॑म् । द॒धा॒त॒ ॥

आसीनासः । अरुणीनाम् । उपऽस्थे । रयिम् । धत्त । दाशुषे । मर्त्याय ।

पुत्रेभ्यः । पितरः । तस्य । वस्वः । प्र । यच्छत । ते । इह । ऊर्जम् । दधात ॥

“अरुणीनाम् आरोचमानानां ज्वालानां वा देवतानां वा “उपस्थे समीपस्थाने वेद्याख्ये “आसीनासः उपविष्टाः पितरो यूयं “दाशुषे हविर्दत्तवते “मर्त्याय मनुष्याय यजमानाय “रयिं धनं “धत्त दत्त । हे “पितरः यूयं “तस्य यजमानस्य “पुत्रेभ्यः “वस्वः वसु धनं “प्र “यच्छत । “ते तादृशा यूयम् “इह अस्मिन् अस्मदीये कर्मणि “ऊर्जं धनं “दधात निधत्त ॥


ये नः॒ पूर्वे॑ पि॒तरः॑ सो॒म्यासो॑ऽनूहि॒रे सो॑मपी॒थं वसि॑ष्ठाः ।

तेभि॑र्य॒मः सं॑ररा॒णो ह॒वींष्यु॒शन्नु॒शद्भिः॑ प्रतिका॒मम॑त्तु ॥८

ये । नः॒ । पूर्वे॑ । पि॒तरः॑ । सो॒म्यासः॑ । अ॒नु॒ऽऊ॒हि॒रे । सो॒म॒ऽपी॒थम् । वसि॑ष्ठाः ।

तेभिः॑ । य॒मः । स॒म्ऽर॒रा॒णः । ह॒वींषि॑ । उ॒शन् । उ॒शत्ऽभिः॑ । प्र॒ति॒ऽका॒मम् । अ॒त्तु॒ ॥

ये । नः । पूर्वे । पितरः । सोम्यासः । अनुऽऊहिरे । सोमऽपीथम् । वसिष्ठाः ।

तेभिः । यमः । सम्ऽरराणः । हवींषि । उशन् । उशत्ऽभिः । प्रतिऽकामम् । अत्तु ॥

“सोम्यासः सोमसंपादिनः “वसिष्ठाः । वस्तृतमाः कृताच्छादना धनवत्तमा वा “नः अस्माकं "ये “पूवें पितरः “सोमपीथं सोमपानम् “अनूहिरे आनुपूर्व्येण देवेभ्यश्च पितृभ्यश्च प्राप्नुवन्तः । दत्तवन्त इत्यर्थः । “उशन् पितृभिः सह संभोगं कामयमानः “यमः पितृपतिः “उशद्भिः यमेन सह संभोगं कामयमानैः “तेभिः तैरस्मदीयैः पितृभिः सह “रराणः रममाणः “हवींषि अस्माभिर्दत्तानि “प्रतिकामं कामकामं प्रति “अत्तु । यानि यानि हवींषि कामयते तानि तानि भक्षयत्वित्यर्थः ॥ महापितृयज्ञे अग्नेः कव्यवाहनस्य • ये तातृषुः' इत्येषा प्रथमानुवाक्या । सूत्रितं च- ये तातृषुर्देवत्रा जेहमानास्त्वदग्ने काव्या त्वन्मनीषाः ' ( आश्व. श्रौ. २. १९) इति ॥


ये ता॑तृ॒षुर्दे॑व॒त्रा जेह॑माना होत्रा॒विदः॒ स्तोम॑तष्टासो अ॒र्कैः ।

आग्ने॑ याहि सुवि॒दत्रे॑भिर॒र्वाङ्स॒त्यैः क॒व्यैः पि॒तृभि॑र्घर्म॒सद्भिः॑ ॥९

ये । त॒तृ॒षुः । दे॒व॒ऽत्रा । जेह॑मानाः । हो॒त्रा॒ऽविदः॑ । स्तोम॑ऽतष्टासः । अ॒र्कैः ।

आ । अ॒ग्ने॒ । या॒हि॒ । सु॒ऽवि॒दत्रे॑भिः । अ॒र्वाङ् । स॒त्यैः । क॒व्यैः । पि॒तृऽभिः॑ । घ॒र्म॒सत्ऽभिः॑ ॥

ये । ततृषुः । देवऽत्रा । जेहमानाः । होत्राऽविदः । स्तोमऽतष्टासः । अर्कैः ।

आ । अग्ने । याहि । सुऽविदत्रेभिः । अर्वाङ् । सत्यैः । कव्यैः । पितृऽभिः । घर्मसत्ऽभिः ॥

"देवत्रा देवान् "जेहमानाः क्रमेण गच्छन्तः । क्रमेण देवत्वं प्राप्ता इत्यर्थः । "होत्राविदः यज्ञान् सम्यक् कर्तुं वेदितारः “अर्कैः अर्चनीयैः स्तोत्रैः “स्तोमतष्टासः स्तोमानां च सम्यक्कर्तारः "ये पितरः “तातृषुः तृष्यन्ति हे “अग्ने त्वं तैः “पितृभिः “अर्वाङ् अस्मदभिमुखः “आ “याहि आगच्छ । कीदृशैः । "सुविदत्रेभिः सुविदत्रैः सत्यैः अविसंवादिभिः “कव्यैः । कव्यं नाम पितृदेवत्यं हविः । तत्संबन्धिभिः । यद्वा कव्यैः कविभिर्मेधाविभिः । स्वार्थिको यत् । “घर्मसद्भिः यज्ञसादिभिः ॥ ये सत्यास हविरद हविष्पा इन्द्रेण देवैः सरथं दधानाः ।।


ये स॒त्यासो॑ हवि॒रदो॑ हवि॒ष्पा इंद्रे॑ण दे॒वैः स॒रथं॒ दधा॑नाः ।

आग्ने॑ याहि स॒हस्रं॑ देववं॒दैः परैः॒ पूर्वैः॑ पि॒तृभि॑र्घर्म॒सद्भिः॑ ॥१०

ये । स॒त्यासः॑ । ह॒विः॒ऽअदः॑ । ह॒विः॒ऽपाः । इन्द्रे॑ण । दे॒वैः । स॒ऽरथ॑म् । दधा॑नाः ।

आ । अ॒ग्ने॒ । या॒हि॒ । स॒हस्र॑म् । दे॒व॒ऽव॒न्दैः । परैः॑ । पूर्वैः॑ । पि॒तृऽभिः॑ । घ॒र्म॒सत्ऽभिः॑ ॥

ये । सत्यासः । हविःऽअदः । हविःऽपाः । इन्द्रेण । देवैः । सऽरथम् । दधानाः ।

आ । अग्ने । याहि । सहस्रम् । देवऽवन्दैः । परैः । पूर्वैः । पितृऽभिः । घर्मसत्ऽभिः ॥

"सत्यासः सत्याः “ये पितरः “हविरदः भक्षणयोग्यस्य हविषोऽत्तारो भक्षयितारः "हविष्पाः पानयोग्यस्य हविषः पातारः “इन्द्रेण “देवैः “सरथं समानमेकं तुल्यं वा रथं “दधानाः। लडर्थे शानच् । गमनाय सदा धारयन्ति हे “अग्ने तैः “पितृभिः सह “आ “याहि आगच्छ। कीदृशः । “सहस्रम् । तृतीयार्थे प्रथमा । सहस्रेण । बहुभिरित्यर्थः । "देववन्दैः देवसंबन्धिभिः स्तोत्रैर्युक्तः परैः परकालीनैः “पूर्वैः पूर्वकालीनैः "घर्मसद्भिः यज्ञसादिभिर्महावीरसादिभिरादित्यसादिभिर्वा ॥ ॥१८॥

अग्नि॑ष्वात्ताः पितर॒ एह ग॑च्छत॒ सदः॑सदः सदत सुप्रणीतयः ।

अ॒त्ता ह॒वींषि॒ प्रय॑तानि ब॒र्हिष्यथा॑ र॒यिं सर्व॑वीरं दधातन ॥११

अग्नि॑ऽस्वात्ताः । पि॒त॒रः॒ । आ । इ॒ह । ग॒च्छ॒त॒ । सदः॑ऽसदः । स॒द॒त॒ । सु॒ऽप्र॒नी॒त॒यः॒ ।

अ॒त्त । ह॒वींषि॑ । प्रऽय॑तानि । ब॒र्हिषि॑ । अथ॑ । र॒यिम् । सर्व॑ऽवीरम् । द॒धा॒त॒न॒ ॥

अग्निऽस्वात्ताः । पितरः । आ । इह । गच्छत । सदःऽसदः । सदत । सुऽप्रनीतयः ।

अत्त । हवींषि । प्रऽयतानि । बर्हिषि । अथ । रयिम् । सर्वऽवीरम् । दधातन ॥

“अग्निष्वात्ताः अग्निना स्वादिता एतन्नामकाः “पितरः यूयम् “इह अस्मिन् पितृकर्मणि “आ “गच्छत । आगत्य च हे सुप्रणीतयः अभिपूजितप्रणयनाः यूयं “सदःसदः तत्तत्स्थानं “सदत सीदत । तत्र तत्र स्थाने यथेष्टमुपविशतेत्यर्थः। उपविश्य च “बर्हिषि आसादितानि “प्रयतानि शुचीनि “हवींषि “अत्त भक्षयत । “अथ अनन्तरं “सर्ववीरं सर्वैर्वीरैः पुत्रपौत्रैरुपेतं “रयिं धनं “दधातन अस्मभ्यं दत्त ॥


महापितृयज्ञे वषट्कारक्रियायां ‘त्वमग्न ईळितः' इत्येषा स्विष्टकृतो याज्या । सूत्रितं च -- ’योऽग्निः कव्यवाहनस्त्वमग्न ईळितो जातवेद इति संयाज्ये ' ( आश्व. श्रौ. २. १९ ) इति ॥

त्वम॑ग्न ईळि॒तो जा॑तवे॒दोऽवा॑ड्ढ॒व्यानि॑ सुर॒भीणि॑ कृ॒त्वी ।

प्रादाः॑ पि॒तृभ्यः॑ स्व॒धया॒ ते अ॑क्षन्न॒द्धि त्वं दे॑व॒ प्रय॑ता ह॒वींषि॑ ॥१२

त्वम् । अ॒ग्ने॒ । ई॒ळि॒तः । जा॒त॒ऽवे॒दः॒ । अवा॑ट् । ह॒व्यानि॑ । सु॒र॒भीणि॑ । कृ॒त्वी ।

प्र । अ॒दाः॒ । पि॒तृऽभ्यः॑ । स्व॒धया॑ । ते । अ॒क्ष॒न् । अ॒द्धि । त्वम् । दे॒व॒ । प्रऽय॑ता । ह॒वींषि॑ ॥

त्वम् । अग्ने । ईळितः । जातऽवेदः । अवाट् । हव्यानि । सुरभीणि । कृत्वी ।

प्र । अदाः । पितृऽभ्यः । स्वधया । ते । अक्षन् । अद्धि । त्वम् । देव । प्रऽयता । हवींषि ॥

हे “जातवेदः । जातं सर्वं जगद्वेत्तीति जातवेदाः । तथाविध हे अग्ने “ईळितः अस्माभिः स्तुतः “त्वं “हव्यानि अस्मदीयानि हवींषि “सुरभीणि सुगन्धीनि “कृत्वी कृत्वा “अवाट् वहनं कृतवानसि । कृत्वा च “पितृभ्यः “प्रादाः। “ते च पितरः “स्वधया स्वधाकारेण दत्तं हविः “अक्षन् अदन्तु । हे “देव “त्वम् अपि “प्रयता प्रयत्नसंपादितानि “हवींषि “अद्धि भक्षय ॥


ये चे॒ह पि॒तरो॒ ये च॒ नेह यांश्च॑ वि॒द्म याँ उ॑ च॒ न प्र॑वि॒द्म ।

त्वं वे॑त्थ॒ यति॒ ते जा॑तवेदः स्व॒धाभि॑र्य॒ज्ञं सुकृ॑तं जुषस्व ॥१३

ये । च॒ । इ॒ह । पि॒तरः॑ । ये । च॒ । न । इ॒ह । यान् । च॒ । वि॒द्म । यान् । ऊं॒ इति॑ । च॒ । न । प्र॒ऽवि॒द्म ।

त्वम् । वे॒त्थ॒ । यति॑ । ते । जा॒त॒ऽवे॒दः॒ । स्व॒धाभिः॑ । य॒ज्ञम् । सुऽकृ॑तम् । जु॒ष॒स्व॒ ॥

ये । च । इह । पितरः । ये । च । न । इह । यान् । च । विद्म । यान् । ऊं इति । च । न । प्रऽविद्म ।

त्वम् । वेत्थ । यति । ते । जातऽवेदः । स्वधाभिः । यज्ञम् । सुऽकृतम् । जुषस्व ॥

“ये “च “पितरः “इह अस्मत्समीपे वर्तन्ते ये “च “इह “न सन्ति । “यांश्च पितॄन् विद्म संनिकृष्टत्वाज्जानीमः “याँ “च “न अपि च न “प्रविद्म विप्रकृष्टत्वाद्वयं न विजानीमः । “यति “ते यावन्तस्ते भवन्ति तान् सर्वान् यथोक्तान हे “जातवेदः उत्पन्न सर्ववस्तुविषयज्ञानाग्ने त्वं वेत्थ जानासि। “स्वधाभिः हविर्लक्षणैरन्नैः “सुकृतं साधु कृतं यज्ञं जुषस्व प्रीत्या गृहाण ॥


पूर्वोक्त एव यागे ‘ये अग्निदग्धाः' इत्येषा याज्या। सूत्रितं च--- ये अग्निदग्धा ये अनग्निदग्धा इमं यम प्रस्तरमा हि सीदेति द्वे' ( आश्व. श्रौ. २. १९) इति ।।

ये अ॑ग्निद॒ग्धा ये अन॑ग्निदग्धा॒ मध्ये॑ दि॒वः स्व॒धया॑ मा॒दयं॑ते ।

तेभिः॑ स्व॒राळसु॑नीतिमे॒तां य॑थाव॒शं त॒न्वं॑ कल्पयस्व ॥१४

ये । अ॒ग्नि॒ऽद॒ग्धाः । ये । अन॑ग्निऽदग्धाः । मध्ये॑ । दि॒वः । स्व॒धया॑ । मा॒दय॑न्ते ।

तेभिः॑ । स्व॒ऽराट् । असु॑ऽनीतिम् । ए॒ताम् । य॒था॒ऽव॒शम् । त॒न्व॑म् । क॒ल्प॒य॒स्व॒ ॥

ये । अग्निऽदग्धाः । ये । अनग्निऽदग्धाः । मध्ये । दिवः । स्वधया । मादयन्ते ।

तेभिः । स्वऽराट् । असुऽनीतिम् । एताम् । यथाऽवशम् । तन्वम् । कल्पयस्व ॥

"ये पितरः “अग्निदग्धाः अग्निना भस्मीकृताः। श्मशानं प्राप्ता इत्यर्थः । “ये च पितरः “अनग्निदग्धाः श्मशानकर्म न प्राप्ताः “मध्ये “दिवः द्युलोकस्य मध्ये “स्वधया हविर्लक्षणेनान्नेन “मादयन्ते तृप्यन्ति' हे अग्ने “स्वराट् स्वकर्मोपभोगेन दीप्यमानः “तेभिः तैः पितृभिः सहितः सन् “असुनीतिं प्राणानां विषयेषु नेतारमस्मत्पित्रन्तरात्मानम् “एतां “तन्वम् एतद्देवताशरीरं “यथावशं यथाकामं “कल्पयस्व समर्थयस्व । ग्रासयेत्यर्थः॥ ॥ १९ ॥

[सम्पाद्यताम्]

टिप्पणी

शङ्कुः शङ्खं च

शङ्कुः

शङ्खोपरि पौराणिकीयाः संदर्भाः

पाञ्चजन्योपरि वैदिकसंदर्भाः

वैदिकवाङ्मये उद्गातृगणसंज्ञकस्य सामवेदीयऋत्विजानां शङ्कुप्रचारसंज्ञकं कृत्यं भवति(स्कन्दपुराणम् ६.१८८)।(इतः परं सम्प्रति ज्ञातं नास्ति)। अयं प्रतीयते यत् शङ्कोः छायायाः शोधनं होतॄसंज्ञकस्य ऋग्वेदीयऋत्विग्गणस्य कार्यमस्ति। कर्मकाण्डे उद्गातृगणस्य गायनस्य संज्ञा स्तोत्रं भवति। प्रति स्तोत्रगानस्य पश्चात् होतॄभिः तस्य शंसनं भवति। होता, मैत्रावरुण, ब्राह्मणाच्छंसी एवं अच्छावाक, एते चत्वारः होत्रकाः भवन्ति एवं तेषां शंसनं क्रमिकरूपेण घटति। स्तोत्रस्य मूलं ऋग्वेदस्य सूक्तस्य एकाधिक ऋचा भवति। गायने अस्य पुनरुक्तिः भवति। शंसने सम्पूर्णसूक्तस्य अन्येभिः सूक्तैः सह एकवारं त्वरितगत्या वाचनं भवति। एष प्रतीयते यत् शंसनस्य अपर संज्ञा शङ्खः अस्ति। स्तोत्रस्य गायनं देवताविशेषाय भवति। शंसनं तेषां प्रकृत्यै भवति।

स्कन्द पुराणे ५.१.२७.११८ शंखिणे विष्णवे गोर्दक्षिणायाः निर्देशमस्ति। सूर्यतः प्राप्तानां रश्मीनां श्रेष्ठतमं उपयोगं, तेषां जीवनोपयोगे रूपान्तरणं गोः कृत्यमस्ति। कथासरित्सागरे १२.७.७७ अश्वश्रेष्ठस्य उल्लेखमस्ति यस्य ह्रेषः शङ्खतुल्यमस्ति। पुराणेषु सार्वत्रिकरूपेण शङ्खतीर्थेषु कुष्ठदोषतः मुक्त्योः उल्लेखाः सन्ति। डा. फतहसिंहानुसारेण कुष्ठस्यार्थं गुणस्य दूरस्थितितः, दुर्गमस्थितितः अस्ति (अथर्ववेदः १९.३९)। यदा गुणस्य उपयोगं सार्वजनिके क्षेत्रे अथवा स्वव्यवहारे भवति, तदा कुष्ठतः मुक्तिः भवति। अयं अश्वस्य स्थितिरस्ति। शिवपुराणे ५.२६.४० नवप्रकाराणां नादानां कथनमस्ति(घोषं १ कांस्यं २ तथा शृंगं ३ घण्टां ४ वीणा ५ दिवंशजान् ६ ।। दुन्दुभिं ७ शंखशब्दं ८ तु नवमं मेघगर्जितम् ९) ।। तेषां मध्ये शङ्खनादः अष्टमं अस्ति। शङ्खनादेन कामरूपस्य उपलब्धिः भवति, अयं कथनमस्ति। वर्तमानसूक्तस्य ऋषिः शंखः यामायनः अस्ति। यमस्य प्राप्तिहेतु शंखनादः एकः उपायमस्ति। शंखस्य कामना अस्ति यत् अचेतनमनस्य अपरसंज्ञा चित्तस्य पालकाः ये पितरः सन्ति, ते अस्माभि ईरकाः, प्रेरकाः भवन्तु। शंखतः पूर्वीयाः ये नादाः सन्ति, तेषां समावेशं केन प्रकारेण अस्ति, अयं अन्वेषणीयः। मीमांसाकोशे (भागः ७, पृष्ठ ३८११) कथनमस्ति - शङ्खन्यायेन उपलक्षकस्य अग्नीषोमीयपुरोडाशस्य अभावेऽपि उपलक्ष्ये काले यागो अस्ति। यथा -- शङ्खध्वनिवेलायां राजसेवार्थं प्रतिदिनमागन्तव्यम् इत्युक्ते कस्मिंश्चिद्दिने तं शङ्खं धमतः पुरुषस्याऽभावेनोपलक्षकस्य ध्वनेरभावेऽपि उपलक्षिते तस्मिन् काले सेवकाः समागच्छन्ति, तथा अत्रापि द्रष्टव्यम् - वि १०।८।१९ । अयं संकेतमस्ति यत् यदा शङ्खनादः भवति, तदा सर्वे कर्मकराः, सर्वाः कर्तृका शक्तयः आविर्भवन्ति।

महाभारते भीष्मपर्वणि २५.१५ कथनमस्ति यत् युद्धारम्भः शंखध्वनितः अभवत्। श्रीकृष्णेन पाञ्चजन्यसंज्ञकस्य शङ्खस्य ध्मानं कृतं, अर्जुनेन देवदत्तसंज्ञकस्य, युधिष्ठिरेण अनन्तविजयस्य, भीमेण पौण्ड्रस्य, नकुल-सहदेवेन सुघोष - मणिपुष्पकस्य। पाञ्चजन्यः किं भवति, अस्मिन् संदर्भे पुराणेषु एवं वैदिके वाङ्मये विभिन्नाः कथनाः सन्ति। पुराणेषु कथा अस्ति यत् कृष्णबलरामयोः गुरोः सांदीपनेः पुत्रस्य हरणं पञ्चजनेन दैत्येन कृतमासीत्। कृष्णबलरामयोः विद्याध्ययनस्य समाप्त्यनन्तरं गुरुणा दक्षिणारूपेण स्वपुत्रस्य जीवितस्य आनयनस्य अपेक्षा प्रकटिता आसीत्। कृष्णः पञ्चजनस्य वधं अकरोत्, किन्तु गुरोः पुत्रः तस्य उदरे नासीत्। तदा कृष्णेन यमनगरीतः गुरोः पुत्रं आनाय्य तं स्वगुरवे प्रादात्। ऋग्वेदे कथनमस्ति -

अग्निरृषिः पवमानः पाञ्चजन्यः पुरोहितः ।

तमीमहे महागयम् ॥ऋ. ९.६६.२०

यः पाञ्चजन्यमस्ति, तस्य पुरोहितं भवितुं अपेक्षा अस्ति। पुरोहितः भूत्वा सा चेतना भविष्यस्य दर्शकः, मार्गदर्शकः भविष्यति। यदि एवं न घटति, तदा तत् पांचजन्यं घोषं आसुरः अस्ति। अत्र कृष्णस्य गुरुः सांदीपनिः किं अस्ति। सांदीपनि अर्थात् यः भावी घटनासु विषये दीपनं प्राप्नोति, भव्यं प्रति किंचित् प्रकाशं प्राप्नोति। पुराणेषु सगर-पुत्रस्य असमञ्जस्य अपि अपर संज्ञा पंचजनः अस्ति। असमञ्जसः अर्थात् ऊहापोहस्य स्थिति।

पाञ्चजन्यघोषस्य यः मूलः पञ्चजनः अस्ति, तस्य पञ्चजनस्य पञ्च घटकाः के सन्ति, अस्मिन् संदर्भे वाङ्मये विवेचना अस्ति। केषांचित् मते देवमनुष्याः, गन्धर्वाप्सरसः, पितरः, सर्पाः पञ्चजनाः सन्ति (ऐतरेय ब्राह्मणम् ३.३१)। शतपथब्राह्मण ९.५.१.५३ मतानुसारेण य़ः घोषः आत्मानं वृङ्क्ते, यः घोषः जीवनस्य प्रेरणं करोति, तत् पञ्चचितिकस्य अग्नेः घोषमस्ति।

अर्जुनेन देवदत्तसंज्ञकस्य शंखस्य ध्मानम् भवति। एष प्रतीयते यत् देवदत्तः दैवदत्तस्य, प्रारब्धस्य प्रतीकमस्ति। यः स्वभाग्यस्य विषये संतुष्टमस्ति, यः मन्यते यत् यत्किंचित् वर्तमानकाले घटितमस्ति, तत् तस्य प्रारब्धानुसारेण सर्वोत्तमं अस्ति, तस्मिन् परिवर्तनस्य कोपि अपेक्षा नास्ति, तत् दैवदत्त शंखमस्ति।

भीमेन पौण्ड्रकसंज्ञकस्य शंखस्य ध्मानं भवति। पुण्डरीकस्य (पद्मस्य) अर्थं अस्ति -- पङ्कतः, पापपङ्कतः कस्यचित् पुण्यस्य उद्धारं संभवमस्ति। उद्धृतपुण्यः एव पुण्डरीकमस्ति। अयं वाङ्मये हंसेन नीरक्षीरविवेककरणस्य तुल्यमस्ति।

अयं प्रतीयते यत् कर्मकाण्डे पाञ्चजन्यघोषः होतासंज्ञकस्य ऋत्विजस्य कृत्यमस्ति, देवदत्त मैत्रावरुणस्य, पौण्डं ब्राह्मणाच्छंसिनः एवं सुघोष-मणिपुष्पकः अच्छावाकस्य।

कर्मकाण्डे एकलस्तोत्रस्योपरि एकलशस्त्रविशेषस्य शंसनं भवति। किन्तु महाभारते सर्वेषां शस्त्राणां शंसनं युगपत् भवति।

पुराणेषु विष्णोः चतुर्षु करेषु शङ्ख, चक्र, गदा, पद्मस्य उल्लेखं भवति। यदि शंखस्य तादात्म्यं शस्त्रेण सह अस्ति, तदा किं पद्मस्य तादात्म्यं स्तोत्रेण सह अस्ति, अयं अन्वेषणीयः।


पञ्चजनशङ्खोपरि डा. अरुण उपाध्यायस्य टिप्पणी--

समुद्री जीव का अस्थि कवच- यह बजाने के काम आता था। यह पञ्चजन द्वीप से आथा था जो जम्बू द्वीप के ८ उपद्वीपों में था।(भागवतपुराण (५/१९)-जम्बूद्वीपस्य च राजन् उपद्वीपान् अष्टौ हैक उपदिशन्ति। (२९) तद्यथा-स्वर्णप्रस्थ-श्चन्द्रशुक्ल-आवर्तनो-नारमणको-मन्दरहरिणः - पाङ्चजन्यः -सिंहलो-लङ्केति॥(३०)। जम्बू द्वीप के पूर्व भाग में ५ द्वीपों का समूह आजकल जापान (पञ्चजन से निप्पन, जापान) कहते हैं। इसके ५ मुख्य द्वीपों में एक सखालिन पर अभी रूस का अधिकार है। आज भी जापान के मन्दिरों में शङ्ख बजा कर ही पूजा होती है। शङ्ख या अन्य समुद्री उत्पाद जापान में ही सबसे अधिक हैं।


(६) संख्या-१ पर १३ शून्य रखने पर जो संख्या (१०१३) आती है उसे शङ्ख या वेद में समान उच्चारण से शङ्कु कहते हैं। यह विश्व (ब्रह्माण्ड) को धारण करने वाले कूर्म चक्र की माप है। इसके विषय में कहा है कि शङ्कु द्वारा विश्व का धारण होता है। इसके ३ अर्थ हैं-

(१) शङ्कु रख कर उसकी छाया आदि से पृथ्वी की माप करते है।

(२) शङ्कु को समतल से काटने पर जो सतह बनती है (वृत्त, दीर्घवृत्त, conic sections) उसी कक्षा में घूमने से ग्रह नक्षत्र आदि स्थिर हैं।

(३) ब्रह्माण्ड पृथ्वी से शङ्कु गुणा बड़ा है। पृथ्वी का व्यास १००० योजन मानने पर (योजन की परिभाषा- पृथ्वी व्यास /१०००) कूर्म चक्र १ लक्ष शङ्कु है। कूर्म का अर्थ है यह करने में समर्थ है और ब्रह्माण्ड का निर्माण करता है। ब्रह्म वैवर्त्त पुराण में इसे गोलोक (किरण क्षेत्र) कहा है, आज कल इसे गैलेक्सी का आभामण्डल (कोरोना galaxy corona) कहते हैं। पृथ्वी को मापदण्ड मानने पर बाहरी धाम क्रमशः २-२ गुणा बड़े होते जाते हैं, जिसको अहर्गण माप कहते हैं। ३ धाम पृथ्वी के भीतर हैं, अतः कूर्म का मान पृथ्वी x २५३ अर्थात् ५३+३ ५६ अहर्गण है। ५६ अक्षरों के छन्द को शक्वरी कहते हैं क्योंकि ब्रह्माण्ड के बाहर उसका प्रकाश भी समाप्त हो जाता है और रात्रि (शक्वरी) जैसा है।



मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१५&oldid=161934" इत्यस्माद् पुनः प्राप्तिः