शतपथब्राह्मणम्/काण्डम् ९/अध्यायः ५/ब्राह्मण १

विकिस्रोतः तः
Jump to navigation Jump to search


९.५.१.[१] अथ यजमानव्रतमीमांसा

अथातः पयोव्रततायै । पयोव्रतो दीक्षितः स्याद्देवेभ्यो ह वा अमृतमपचक्राम - ९.५.१.[१]

ते होचुः । श्रमेण तपसेदमन्विच्छामेति तच्छ्रमेण तपसान्वैच्छंस्ते दीक्षित्वा
पयोव्रता अभवन्नेतद्वै तपो यो दीक्षित्वा पयोव्रतोऽसत्तस्य घोषमाशुश्रुवुः - ९.५.१.[२]

ते होचुः । नेदीयो वै भवति भूयस्तप उपायामेति ते त्रीन्त्स्तनानुपेयुस्तत्पराददृशुः - ९.५.१.[३]

ते होचुः । नेदीयो वै भवति भूयस्तप उपायामेति ते द्वौ स्तना उपेयुस्तन्नेदीयसः
पराददृशुः - ९.५.१.[४]

ते होचुः । नेदीयो वै भवति भूयस्तप उपायामेति त एकं स्तनमुपेयुस्तदधिजगाम न त्वभिपत्तुं शेकुः - ९.५.१.[५]

ते होचुः अधि वा अगन्न त्वभिपत्तुं शक्नुमः सर्वं तप उपायामेति त उपवसथेऽनाशकमुपेयुरेतद्वै सर्वं तपो यदनाशकस्तस्मादुपवसथे नाश्नीयात् - ९.५.१.[६]

तत्प्रातरभिपद्य । अभिषुत्याग्नावजुहवुस्तदग्नावमृतमदधुः सर्वेषामु हैष देवानामात्मा यदग्निस्तद्यदग्नावमृतमदधुस्तदात्मन्नमृतमदधत ततो देवा अमृता अभवन् - ९.५.१.[७]

तद्यत्तदमृतं सोमः सः । तदद्यापि यजमानः श्रमेण तपसान्विच्छति स दीक्षित्वा
पयोव्रतो भवत्येतद्वै तपो यो दीक्षित्वा पयोव्रतोऽसत्तस्य घोषमाशृणोतीत्यहे क्रय इति - ९.५.१.[८]

स त्रीन्त्स्तनानुपैति । तत्परापश्यति स द्वौ स्तना उपैति तन्नेदीयसः परापश्यति स
एकं स्तनमुपैति तदधिगच्छति न त्वभिपत्तुं शक्नोति स उपवसथेऽनाशकमुपैत्येतद्वै सर्वं तपो यदनाशकस्तस्मादुपवसथे नाश्नीयात् - ९.५.१.[९]

तत्प्रातरभिपद्य । अभिषुत्याग्नौ जुहोति तदग्नावमृतं दधात्यथ भक्षयति तदात्मन्नमृतं धत्ते सोऽमृतो भवत्येतद्वै मनुष्यस्यामृतत्वं यत्सर्वमायुरेति तथो हानेनात्मना सर्वमायुरेति - ९.५.१.[१०]

अग्नौ हुत्वाथ भक्षयति । दैवो वा अस्यैष आत्मा मानुषोऽयं देवा उ वा अग्रेऽथ मनुष्यास्तस्मादग्नौ हुत्वाथ भक्षयति - ९.५.१.[११]

९.५.१.[१२] अथ समिष्टयजुर्मीमांसा

अथातः समिष्टयजुषामेव मीमांसा । देवाश्चासुराश्चोभये प्राजापत्याः प्रजापतेः पितुर्दायमुपेयुर्वाचमेव सत्यानृते सत्यं चैवानृतं च त उभय एव सत्यमवदन्नुभयेऽनृतं ते ह सदृशं वदन्तः सदृशा एवासुः - ९.५.१.[१२]

ते देवा उत्सृज्यानृतम् । सत्यमन्वालेभिरेऽसुरा उ होत्सृज्य सत्यमनृतमन्वालेभिरे - ९.५.१.[१३]

तद्धेदं सत्यमीक्षां चक्रे । यदसुरेष्वास देवा वा उत्सृज्यानृतं सत्यमन्वालप्सत हन्त तदयानीति तद्देवानाजगाम - ९.५.१.[१४]

अनृतमु हेक्षां चक्रे । यद्देवेष्वासासुरा वा उत्सृज्य सत्यमनृतमन्वालप्सत हन्त तदयानीति तदसुरानाजगाम - ९.५.१.[१५]

ते देवाः । सर्वं सत्यमवदन्त्सर्वमसुरा अनृतं ते देवा आसक्ति सत्यं वदन्त ऐषावीरतरा इवासुरनाढ्यतरा इव तस्मादु हैतद्य आसक्ति सत्यं वदत्यैषावीरतर इवैव भवत्यनाढ्यतर इव स ह त्वेवान्ततो भवति देवा ह्येवान्ततोऽभवन् - ९.५.१.[१६]

अथ हासुराः । आसक्त्यनृतं वदन्त ऊष इव पिपिशुराढ्या इवासुस्तस्मादु हैतद्य आसक्त्यनृतं वदत्यूष इवैव पिश्यत्याढ्य इव भवति परा ह त्वेवान्ततो भवति परा ह्यसुरा अभवन् - ९.५.१.[१७]

तद्यत्तत्सत्यम् । त्रयी सा विद्या ते देवा अब्रुवन्यज्ञं कृत्वेदं सत्यं तनवामहा इति - ९.५.१.[१८]

ते दीक्षणीयां निरवपन् । तदु हासुरा अनुबुबुधिरे यज्ञं वै कृत्वा तद्देवाः सत्यं तन्वते प्रेत तदाहरिष्यामो यदस्माकं तत्रेति तस्य समिष्टयजुरहुतमासाथाजग्मुस्तस्मात्तस्य यज्ञस्य समिष्टयजुर्न जुह्वति ते देवा असुरान्प्रतिदृश्य समुल्लुप्य यज्ञमन्यत्कर्तुं दध्रिरेऽन्यद्वै कुर्वन्तीति पुनः प्रेयुः - ९.५.१.[१९]

तेषु प्रेतेषु । प्रायणीयं निरवपंस्तदु हासुरा अन्वेव बुबुधिरे तस्य शंयोरुक्तमासाथाजग्मुस्तस्मात्स यज्ञः शंय्वन्तस्ते देवा असुरान्प्रतिदृश्य समुल्लुप्य यज्ञमन्यदेव कर्तुं दध्रिरेऽन्यद्वै कुर्वन्तीति पुनरेव प्रेयुः - ९.५.१.[२०]

तेषु प्रेतेषु । राजानं क्रीत्वा पर्युह्याथास्मा आतिथ्यं हविर्निरवपंस्तदु हासुरा अन्वेव बुबुधिरे तस्येडोपहूताऽऽसाथाजग्मुस्तस्मात्स यज्ञ इडान्तस्ते देवा असुरान्प्रतिदृश्य समुल्लुप्य यज्ञमन्यदेव कर्तुं दध्रिरेऽन्यद्वै कुर्वन्तीति पुनरेव प्रेयुः - ९.५.१.[२१]

तेषु प्रेतेषु । उपसदोऽतन्वत ते तिस्र एव सामिधेनीरनूच्य देवता एवायजन्न प्रयाजान्नानुयाजानुभयतो यज्ञस्योदसादयन्भूयिष्ठं हि तत्रात्वरन्त तस्मादुपसत्सु तिस्र एव सामिधेनीरनूच्य देवता एव यजति न प्रयाजान्नानुयाजानुभयतो यज्ञस्योत्सादयति - ९.५.१.[२२]

त उपवसथेऽग्नीषोमीयं पशुमालेभिरे । तदु हासुरा अन्वेव बुबुधिरे तस्य समिष्टयजूंष्यहुतान्यासुरथाजग्मुस्तस्मात्तस्य पशोः समिष्टयजूंषि न जुह्वति ते देवा असुरान्प्रतिदृश्य समुल्लुप्य यज्ञमन्यदेव कर्तुं दध्रिरे। अन्यद्वै कुर्वन्तीति पुनरेव प्रेयुः।। - ९.५.१.[२३]

तेषु प्रेतेषु । प्रातः प्रातःसवनमतन्वत तदु हासुरा अन्वेव बुबुधिरे तस्यैतावत्कृतमास यावत्प्रातःसवनमथाजग्मुस्ते देवा असुरान्प्रतिदृश्य समुल्लुप्य यज्ञमन्यदेव कर्तुं दध्रिरे। अन्यद्वै कुर्वन्तीति पुनरेव प्रेयुः।। - ९.५.१.[२४]

तेषु प्रेतेषु । माध्यन्दिनं सवनमतन्वत तदु हासुरा अन्वेव बुबुधिरे तस्यैतावत्कृतमास यावन्माध्यन्दिनमथाजग्मुस्ते देवा असुरान्प्रतिदृश्य समुल्लुप्य यज्ञमन्यदेव कर्तुं दध्रिरे। अन्यद्वै कुर्वन्तीति पुनरेव प्रेयुः।। - ९.५.१.[२५]

तेषु प्रेतषु । सवनीयेन पशुनाऽचरंस्तदु हासुरा अन्वेव बुबुधिरे तस्यैतावत्कृतमास यावदेतस्य पशोः क्रियतेऽथाजग्मुस्ते देवा असुरान्प्रतिदृश्य समुल्लुप्य यज्ञमन्यदेव कर्तुं दध्रिरे। अन्यद्वै कुर्वन्तीति पुनरेव प्रेयुः।। - ९.५.१.[२६]

तेषु प्रेतेषु । तृतीयसवनमतन्वत तत्समस्थापयन्यत्समस्थापयंस्तत्सर्वं सत्यमाप्नुवंस्ततोऽसुरा अपपुप्रुविरे ततो देवा अभवन्परासुरा भवत्यात्मना पराऽस्य द्विषन्भ्रातृव्यो भवति य एवं वेद - ९.५.१.[२७]

ते देवा अब्रुवन् । ये न इमे यज्ञाः सामिसंस्थिता यानिमान्विजहतोऽगामोप तज्जानीत यथेमान्त्संस्थापयामेति तेऽब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्तदिच्छत यथेमान्यज्ञान्त्संस्थापयामेति - ९.५.१.[२८]

ते चेतयमानाः । एतानि समिष्टयजूंष्यपश्यंस्तान्यजुहवुस्तैरेतान्यज्ञान्त्समस्थापयन्यत्समस्थापयंस्तस्मात्संस्थितयजूंष्यथ यत्समयजंस्तस्मात्समिष्टयजूंषि - ९.५.१.[२९]

ते वा एते नव यज्ञाः । नवैतानि समिष्टयजूंषि तद्यदेतानि जुहोत्येतानेवैतद्यज्ञान्त्संस्थापयत्युभयानि जुहोत्यध्वरस्य चाग्नेश्चाध्वरस्य पूर्वाण्यथाग्नेस्तस्योक्तो बन्धुः - ९.५.१.[३०]

द्वे अग्नेर्जुहोति । द्विपाद्यजमानो यजमानोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैतद्यज्ञं संस्थापयतीष्टो यज्ञो भृगुभिरिष्टो अग्निराहुतः पिपर्तु न इति - ९.५.१.[३१]

तान्युभयान्येकादश सम्पद्यन्ते । एकादशाक्षरा त्रिष्टुब्वीर्यंत्रिष्टुब्वीर्यमेवैतद्यज्ञमभिसम्पादयति - ९.५.१.[३२]

यद्वेवैकादश । एकादशाक्षरा वै त्रिष्टुप्त्रैष्टुभ इन्द्र इन्द्रो यज्ञस्यात्मेन्द्रो देवता तद्य एव यज्ञस्यात्मा या देवता तस्मिन्नेवैतद्यज्ञमन्ततः प्रतिष्ठापयति - ९.५.१.[३३]

९.५.१.[३४] अथ देविकाहवींषि

समिष्टयजूंषि हुत्वावभृथं यन्ति । अवभृथादुदेत्योदयनीयेन चरित्वानूबन्ध्यस्य पशुपुरोडाशमनु देविकानां हवींषि निर्वपति - ९.५.१.[३४]

एतद्वै प्रजापतिः । प्राप्य राद्ध्वेवामन्यत स दिक्षु प्रतिष्ठायेदं सर्वं दधद्विदधदतिष्ठद्यद्दधद्विदधदतिष्ठत्तस्माद्धाता तथैवैतद्यजमानो दिक्षु प्रतिष्ठायेदं सर्वं दधद्विदधत्तिष्ठति - ९.५.१.[३५]

यद्वेवैतानि हवींषि निर्वपति । दिश एषोऽग्निस्ता उ एवामूः पुरस्ताद्दर्भस्तम्बं च लोगेष्टकाश्चोपदधाति ताः प्राणभृतः प्रथमायां चितौ सर्वैव द्वितीया सर्वा तृतीया सर्वा चतुर्थ्यथ पञ्चम्यै चितेरसपत्ना नाकसदः पञ्चचूडास्ता ऊर्ध्वा उत्क्रामन्त्य आयंस्ताभ्यः प्रजापतिरबिभेत्सर्वं वा इदमिमाः पराच्योऽत्येष्यन्तीतिता धाता भूत्वा पर्यगच्छत्तासु प्रत्यतिष्ठत् - ९.५.१.[३६]

स यः स धातासौ स आदित्यः । अथ यत्तद्दिशां परमं क्रान्तमेतत्तद्यस्मिन्नेष एतत्प्रतिष्ठितस्तपति - ९.५.१.[३७]

स यः स धातायमेव स धात्रः । द्वादशकपालः पुरोडाशो द्वादशकपालो द्वादशमासाः संवत्सरः संवत्सरः प्रजापतिः प्रजापतिर्धाताथ यत्तद्दिशां परमं क्रान्तमेतानि तानि पूर्वाणि हवींष्यनुमत्यै चरू राकायै चरुः सिनीवाल्यै चरुः कुह्व्यै चरुस्तद्यदेतानि निर्वपति यदेव तद्दिशां परमं क्रान्तं तस्मिन्नेवैनमेतत्प्रतिष्ठापयति तं सर्वं जुहोत्येतस्यैव कृत्स्नतायै - ९.५.१.[३८]

ता वा एता देव्यः । दिशो ह्येताश्छन्दांसि वै दिशश्छन्दांसि देव्योऽथैष कः प्रजापतिस्तद्यद्देव्यश्च कश्च तस्माद्देविकाः पञ्च भवन्ति पञ्च हि दिशः - ९.५.१.[३९]

तदाहुः । नैतानि हवींषि निर्वपेन्नेदतिरेचयानीति तानि वै निर्वपेदेव कामेभ्यो वा एतानि हवींषि निरुप्यन्ते न वै कामानामतिरिक्तमस्ति यद्वै किं च पशुपुरोडाशमनु हविर्निरुप्यते पशावेव स मध्यतो मेधो धीयत उभयानि निर्वपत्यध्वरस्य चाग्नेश्चाध्वरस्य पूर्वमथाग्नेस्तस्योक्तो बन्धुरुच्चैः पशुपुरोडाशो भवत्युपांश्वेतानीष्टिर्ह्यनुब्रूहि प्रेष्येति पशुपुरोडाशस्याहानुब्रूहि यजेत्येतेषामिष्टिर्हि समानः स्विष्टकृत्समानीडा - ९.५.१.[४०]

तस्य वा एतस्य पशोः । जुह्वति समिष्टयजूंष्यभ्यवयन्ति हृदयशूलेनावभृथं संस्था ह्येष पशुर्हृदयशूलेन चरित्वा - ९.५.१.[४१]

प्रत्येत्य वैश्वकर्मणानि जुहोति । विश्वानि कर्मण्ययमग्निस्तान्यस्यात्र सर्वाणिकर्माणि कृतानि भवन्ति तान्येतत्प्रीणाति तानि हविषा देवतां करोति यस्यै वैदेवतायै हविर्गृह्यते सा देवता न सा यस्यै न गृह्यतेऽथोविश्वकर्मायमग्निस्तमेवैतत्प्रीणाति - ९.५.१.[४२]

९.५.१.[४३] अथ वैश्वकर्मणहोमः

यद्वेव वैश्वकर्मणानि जुहोति । प्रायणं च हाग्नेरुदयनं च सावित्राणि प्रायणं वैश्वकर्मणान्युदयनं स यत्सावित्राण्येव जुहुयान्न वैश्वकर्मणानि यथा प्रायणमेव कुर्यान्नोदयनं तादृक्तदथ यद्वैश्वकर्मणान्येव जुहुयान्न सावित्राणि यथोदयनमेव कुर्यान्न प्रायणं तादृक्तदुभयानि जुहोति प्रायणं च तदुदयनं च करोति - ९.५.१.[४३]

अष्टावमूनि भवन्ति । एवमिमानि तद्यथा प्रायणं तथोदयनं करोति स्वाहाकारोऽमीषां नवमो भवत्येवमेषां तद्यथा प्रायणं तथोदयनं करोत्याहुतिरमीषां दशमी भवत्येवमेषां तद्यथा प्रायणं तथोदयनं करोति संततां तत्राहुतिं जुहोति रेतो वै तत्र यज्ञो रेतसोऽविच्छेदाय स्रुवेणेह स्वाहाकारं निरुक्तं हि रेतो जातं भवति - ९.५.१.[४४]

यदाकूतात् । समसुस्रोद्धृदो वा मनसो वा सम्भृतं चक्षुषो वेत्येतस्माद्ध्येतत्सर्वस्मादग्रे कर्म समभवत्तदनु प्रेत सुकृतामु लोकं यत्र ऋषयो जग्मुः प्रथमजाः पुराणा इत्यमूनेतदृषीनाह - ९.५.१.[४५]

एतं सधस्थ । परि ते ददामीति स्वर्गो वै लोकः सधस्थस्तदेनं स्वर्गाय लोकाय परिददाति यमावहाच्छेवधिं जातवेदाः अन्वागन्ता यज्ञपतिर्वो अत्र तं स्म जानीत परमे व्योमन्निति यथैव यजुस्तथा बन्धुः - ९.५.१.[४६]

एतं जानाथ । परमे व्योमन्देवाः सधस्था विद रूपमस्य यदागच्छात्पथिभिर्देवयानैरिष्टापूर्ते कृणवाथाविरस्मा इति यथैव यजुस्तथाबन्धुरुद्बुध्यस्वाग्ने येन वहसीति तयोरुक्तो बन्धुः - ९.५.१.[४७]

प्रस्तरेण परिधिना । स्रुचा वेद्या च बर्हिषा ऋचेमं यज्ञं नो नय स्वर्देवेषु गन्तव इत्येतैर्नो यज्ञस्य रूपैः स्वर्गं लोकं गमयेत्येतत् - ९.५.१.[४८]

यद्दत्तं यत्परादानम् । यत्पूर्तं याश्च दक्षिणाः तदग्निर्वैश्वकर्मणः स्वर्देवेषु नो दधदिति यच्चैव सम्प्रति दध्मो यच्चासम्प्रति तन्नोऽयमग्निर्वैश्वकर्मणः स्वर्गे लोके दधात्वित्येतत् - ९.५.१.[४९]

यत्र धारा अनपेताः । मधोर्घृतस्य च याः तदग्निर्वैश्वकर्मणः स्वर्देवेषु नो दधदिति यथैव यजुस्तथा बन्धुः - ९.५.१.[५०]

अष्टौ वैश्वकर्मणानि जुहोति । अष्टाक्षरा गायत्री गायत्रोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्नेन प्रीणाति - ९.५.१.[५१]

वैश्वकर्मणानि हुत्वा नाम करोति । यदा वै सर्वः कृत्स्नो जातो भवत्यथ नाम कुर्वन्त्यत्र वा एष सर्वः कृत्स्नो जातो भवति - ९.५.१.[५२]

नाम कृत्वाथैनमुपतिष्ठते । सर्वेण वा एष एतमात्मना चिनोति स यदेतामत्रात्मनः परिदां न वदेतात्र हैवास्यैष आत्मानं वृञ्जीताथ यदेतामत्रात्मनः परिदां वदते तथो हास्यैष आत्मानं न वृङ्क्ते ये अग्नयः पाञ्चजन्या अस्यां पृथिव्यामधि तेषामसि त्वमुत्तमः प्र नो जीवातवे सुवेति ये केचाग्नयः पञ्चचितिका अस्यां पृथिव्यामधि तेषामसि त्वं सत्तमः प्रोअस्माञ्जीवनाय सुवेत्येतदनुष्टुभा वाग्वा अनुष्टुब्वागु सर्वाणि छन्दांसि सर्वैरेवास्मा एतच्छन्दोभिर्निह्नुत उपस्थायाग्निं समारोह्य निर्मथ्योदवसानीयया यजते - ९.५.१.[५३]

अथ मैत्रावरुण्या पयस्यया यजते । देवत्रा वा एष भवति य एतत्कर्म करोति दैवम्वेतन्मिथुनं यन्मित्रावरुणौ स यदेतयानिष्ट्वा मानुष्यां चरेत्प्रत्यवरोहः स यथा दैवः सन्मानुषः स्यात्तादृक्तदथ यदेतया मैत्रावरुण्या पयस्यया यजते दैवमेवैतन्मिथुनमुपैत्येतयेष्ट्वा कामं यथाप्रतिरूपं चरेत् - ९.५.१.[५४]

यद्वेवैतया मैत्रावरुण्या पयस्यया यजते । प्रजापतेर्विस्रस्ताद्रेतः परापतत्तं यत्र देवाः समस्कुर्वंस्तदस्मिन्नेतया मैत्रावरुण्या पयस्यया रेतोऽदधुस्तथैवास्मिन्नयमेतद्दधाति - ९.५.१.[५५]

स यः स प्रजापतिर्व्यस्रंसत । अयमेव स योऽयमग्निश्चीयतेऽथ यदस्मात्तद्रेतः परापतदेषा सा पयस्या मैत्रावरुणी भवति प्राणोदानौ वै मित्रावरुणौ प्राणोदाना उ वै रेतः सिक्तं विकुरुतः पयस्या भवति पयो हि रेतो यज्ञो भवति यज्ञो ह्येव यज्ञस्य रेत उपांशु भवत्युपांशु हि रेतः सिच्यतेऽन्ततो भवत्यन्ततो हि रेतो धीयते - ९.५.१.[५६]

तस्यै वाजिनेन चरन्ति । तस्मिन्दक्षिणां दधाति तूपरौ मिथुनौ दद्यादित्यभ्याज्ञाय नैवमन्य इति ह स्माह माहित्थिः स्रवत्यु हैषाग्निचित आहुतिः सोमाहुतिर्यामनिष्टके जुहोति - ९.५.१.[५७]

स स्वयमातृण्णा एवोपदधीत । इमे वै लोकाः स्वयमातृण्णा इम उ लोका एषोऽग्निश्चितः - ९.५.१.[५८]

ऋतव्या एवोपदधीत । संवत्सरो वा ऋतव्याः संवत्सर एषोऽग्निश्चितः - ९.५.१.[५९]

विश्वज्योतिष एवोपदधीत । एता वै देवता विश्वज्योतिष एता उ देवता एषोऽग्निश्चितः - ९.५.१.[६०]

९.५.१.[६१] अथ गार्हपत्यस्य पुनश्चितिः

पुनश्चितिमेवोपदधीत । पुनर्यज्ञो हैष उत्तरा हैषा देवयज्या पुनर्यज्ञमेवैतदुपधत्त उत्तरामेव देवयज्यामुप हैनं पुनर्यज्ञो न तथा कुर्याद्यो वाव चितेऽग्निर्निधीयते तामेवेष्टकामेष सर्वोऽग्निरभिसम्पद्यते तद्यदग्नौ जुहोति तदेवास्य यथा सर्वस्मिञ्छाण्डिलेऽग्नौ संचिते पक्षपुच्छवत्याहुतयो हुताः स्युरेवमस्यैता आहुतयो हुता भवन्ति - ९.५.१.[६१]

९.५.१.[६२] अथ उख्यसम्भरणमीमांसा

सर्वाणि वा एष भूतानि । सर्वान्देवान्गर्भो भवति योऽग्निं बिभर्ति स योऽसंवत्सरभृतं चिनुत एतानि ह स सर्वाणि भूतानि गर्भं भूतं निर्हते यो न्वेव मानुषं गर्भं निर्हन्ति तन्न्वेव परिचक्षतेऽथ किं य एतं दैवो ह्येष नासंवत्सरभृतस्यऽर्त्विजा भवितव्यमिति ह स्माह वात्स्यो नेदस्य देवरेतसस्य निर्हण्यमानस्य मेद्यसानीति - ९.५.१.[६२]

षण्मास्यमन्तमं चिन्वीतेत्याहुः । षण्मास्या वा अन्तमा गर्भा जाता जीवन्तीति स
यद्यसंवत्सरभृते महदुक्थं शंसेदृगशीतीः शंसेदसर्वं वैतद्यदसंवत्सरभृतोऽसर्वं तद्यदृगशीतयो विकृष्टं त्वेनं स भूयो विकर्षेद्यदि चैव संवत्सरभृतः स्याद्यदि चासंवत्सरभृतः सर्वमेव महदुक्थं शंसेत् - ९.५.१.[६३]

अथ ह शाण्डिल्यायनः प्राच्यां जगाम । तं ह दैयाम्पातिरुवाच शाण्डिल्यायन कथमग्निश्चेतव्यो ग्लायामोऽह संवत्सरभृतायाग्निमु चिकीषामह इति - ९.५.१.[६४]

स होवाच । कामं न्वा एनं स चिन्वीत येन पुरा संवत्सरं भृतः स्यात्तं ह्येव तं भृतं सन्तं चिनुत इति - ९.५.१.[६५]

कामम्वेवैनं स चिन्वीत । यः संवत्सरमभिषविष्यन्त्स्यादेष वा एनं प्रत्यक्षमन्नेन बिभर्त्येताभिराहुतिभिः - ९.५.१.[६६]

कामम्वेवैनं स चिन्वीत । यः संवत्सरमग्निहोत्रं जुहुयाद्बिभर्ति वा एनमेष योऽग्निहोत्रं जुहोति - ९.५.१.[६७]

कामम्वेवैनं स चिन्वीत । यः संवत्सरं जातः स्यात्प्राणो वा अग्निस्तमेतद्बिभर्त्यथ ह वै रेतः सिक्तं प्राणोऽन्ववरोहति तद्विन्दते तद्यज्जातं जातं विन्दते तस्माज्जातवेदास्तस्मादप्येवंवित्कामं सद्योभृतं चिन्वीत यदु ह वा एवंवित्पिबति वा पाययति वा तदेवास्य यथा सर्वस्मिञ्छाण्डिलेऽग्नौ संचिते पक्षपुच्छवत्याहुतयो हुताः स्युरेवमस्यैता आहुतयो हुता भवन्ति - ९.५.१.[६८]