स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः २७

विकिस्रोतः तः

।। सनत्कुमार उवाच ।। ।।
योऽवंत्यामंकपादाख्ये पश्येद्रामजनार्दनौ ।।
ययोर्दर्शनमात्रेण यमलोकं न पश्यति ।। १ ।।
।। व्यास उवाच ।। ।।
कथं तावंकपादाख्ये यातावत्र महामुने ।।
न पश्येद्यमलोकं स यद्यपि ब्रह्महा भवेत् ।। २ ।।
।। सनत्कुमार उवाच ।। ।।
भारावतारणार्थाय देवौ रामजनार्दनौ ।।
अवतीर्णौ यदोर्वंशे दिव्यरूपौ महाद्युतौ ।। ३ ।।
कंसं हत्वा सचाणूरमुग्रसेनं नराधिपम् ।।
अभिषिच्य स्वयं राज्ये यदुसिंह उवाच तम् ।। ४ ।।
किं कार्यं ते मया ब्रूहि कर्तव्यं ते सुते हते ।।
एवमुक्तः स राजा वां उग्रसेनोऽब्रवीदिदम्।। ५ ।।
सर्वं संपत्स्यते कृष्ण भवतो हि न दुर्लभम् ।।
विज्ञाताखिलविज्ञानौ भवितारावुभावपि ।। ६ ।।
गच्छेतमुज्जयिन्यां वै कृतविद्यौ भविष्यथ।।
ततः सांदीपनिं विप्रं जग्मतू रामकेशवौ।।७।।
कण्ठस्थांश्चक्रतुर्वेदानाचारमखिलं च तौ।।
सरहस्यं धनुर्वेदं ससंहारं तथैव च ।।८।।
अहोरात्रैश्चतुःषष्ट्या तदद्भुतमभूद्द्विज ।।
सांदीपनिरसंभाव्यं तयोः कर्मातिमानुषम् ।। ९ ।।
विचिंत्य तौ तदा मेने प्राप्तौ चंद्र दिवाकरौ।।
ततः किंचित्स नोवाच स्नातुं तीर्थमथाययौ ।।5.1.27.१०।।
शिष्यैस्तु सहितो विप्रो महाकालवनेऽविशत् ।।
शिष्यैः सह प्रविष्टौ द्वौ तदा तौ रामकेशवौ।११।।
वन्दमानौ महाकालं स तं केशवमव्रवीत्।।
त्वया नाथेन देवानां मानुष्यत्वे हि तिष्ठता ।। १२।।
सुखमासीच्च साधूनामज्ञानानां च सर्वदा ।।
जने पीडाकरा ये तु सदा वा बलदर्पिताः ।।१३।।
युवाभ्यां ते हताः सर्वे कंसप्रमुखतो नृपाः ।
मुनिसिद्धसुरादीनां स्थितिः कार्या त्वयाऽनघ ।।१४।।
करिष्यामि तमित्युक्त्वा स नमस्य ततो ययौ ।।
दृष्ट्वा सांदीपनिं शिष्या ऊचुरेवं दिनेदिने ।। १५ ।।
कस्य न श्रद्दधे तेषां वचस्त्वत्यद्भुतं यतः ।।
स्वयं ययौ ततो द्रष्टुमाश्चर्यं शिष्यभाषितम् ।। १६ ।।
ततस्तत्रोत्थितः शब्दः संश्लेषे च तथा तयोः।।
तावागतौ गृहं तत्र गुरुर्वचनमब्रवीत् ।। १७ ।।
न वै ज्ञातौ मया वीरौ यदुवृष्णिकुलोद्भवौ ।।
ततः सांदीपनिं कृष्णः कृतकृत्योऽब्रवीद्वचः ।। १८ ।।
गुर्वर्थं किं ददामीति सह रामेण हर्षितः ।।
तच्छुत्वा वचनं हृद्यं गुरुः प्रोवाच हर्षितः ।। १९ ।।
पुत्रमिच्छाम्यहं त्वत्तो यो मृतो लवणांभसि ।।
पुत्र एको हि मे जातः स चापि तिमिना हृतः ।। 5.1.27.२० ।।
प्रभासे तीर्थयात्रायां त्वमेव तमिहानय ।।
तथेति चाब्रवीत्कृष्णो रामस्यानुमते गतः ।। २१ ।।
तं समुद्र उवाचेदं दैत्यः पंचजनो महान्।।
तिमि रूपेण तं बालं ग्रस्तवान्मयि संस्थितः ।। २२ ।।
ततः पंचजनं हत्वा ग्राहरूपं महाबलम् ।।
तन्मध्यस्थं च जग्राह शंखं ग्रस्तो हि यः पुरा ।। २३ ।।
जलेश्वरगृहात्तेन ग्राहेणातीव लीलया ।।
तस्योदरे यदा बालं नाप्तवांस्तु जनार्दनः ।। २४ ।।
यमालयगतं मत्वा तदा वरुणमब्रवीत् ।।
भगवान्यादसामीश रथो मे दीयतां महान्।।२५।।
पुराजिरे हता दैत्या दानवा बलदर्पिताः।।
मया येन रथेनाद्य मह्यं स दीयतां रथः।।२६।।
न्यासभूतो रथो यस्ते विधृतो निहतारिणा।।
मया धर्मं पुरस्कृ्त्य स दीयतामपांपते।।२७।।
येनाहवे प्रेतराजं जित्वा पश्यामि बालकम्।।
एतच्छ्रुत्वा प्रहृष्टात्मा ज्ञात्वा कार्यार्थिनं हरिम् ।।
ददौ तं रथमक्षोभ्यं रणे तस्मै सुरासुरैः ।। २८ ।।
ततो हरिः समालोक्य रथं रत्नपरिष्कृतम् ।।
द्वीपिचर्मपरीधानं वैयाघ्रपरिवारितम् ।। २९ ।।
नाना चित्रविचित्रांगं गरुडध्वजराजितम् ।।
संयुक्तं शैब्यसुग्रीवपुष्पदंतबलाहकैः ।। 5.1.27.३० ।।
अजेयं देवदेवेंद्रदानवासुरराक्षसैः ।।
अनेकायुधसंपूर्णं मणिविद्रुमभूषितम् ।।३१।।
सहस्रसूर्यप्रतिमं चारुवक्त्रचतुर्युगम्।।
किंकिणीशतशोभाढ्यं घंटाचामरचं द्रिकम् ।। ३२ ।।
संवर्ताकारविषमं खगेंद्रवरकेतनम् ।।
दृष्ट्वा कृष्णः सरामस्तु मुमुदे वीतविस्मयात् ।। ३३ ।।
प्रदक्षिणमुपाकृत्य देवताभ्यः प्रणम्य च ।।
आरुरोह रथं विष्णुर्विमानं साग्रयोजनम् ।। ३४ ।।
ततो जगाम त्वरितो जनार्दनो जगन्निवासो यमलोकमाश्रिताम् ।।
दिशं सहस्रैः किरणै र्वृतां पुरीं दध्मौ च शंखं परिगृह्य चाच्युतः ।। ३५ ।।
तत्र प्रध्यापयामास शंखं शार्ङ्गधनुर्धरः ।।
तेन शब्देन वित्रस्ताः कृतांतालयवासिनः ।।। ३६ ।।
नरकांतर्गता मर्त्याः पापाचारपरायणाः ।।
सुखमापुः प्रसन्नाश्च वह्नयः कृष्णदर्शनात् ।। ३७।।
शस्त्राणि कुंठतां प्रापुर्यंत्राणि विविधानि च ।।
विदीर्णानि तदा चासुर्देवदेवस्य दर्शनात् ।। ३८ ।।
असिपत्रवनंनाम शीर्णपर्णमजायत ।।
रौरवनाम नरकमभैरवमभूत्तदा ।। ३९ ।।
अभैरवं भैरवाख्यं कुंभीपाकमवाचिकम् ।।
शृंगाटं शृंगसदृशं लोहसूच्यप्यसूचिका ।। 5.1.27.४० ।।
दुस्तरा सुतरा जाता नदी वैतरणी नृणाम् ।।
नरकांते तदा जाते गते विश्वेश्वरे विभौ । ४१ ।।
पापक्षयात्ततः सर्वे ते मुक्ता नारका नराः ।।
पदमव्ययमासाद्य दृष्ट्वा विष्णुं तमोऽपहम् ।। ४२ ।।
विमानेषु सहस्रेषु ह्यारूढास्ते समंततः ।।
समीक्ष्य पुंडरीकाक्षं मुक्तास्ते सर्वपातकात् ।। ४३ ।।
ततः शून्यं मुने जातं सर्वं निरयमंडलम् ।।
दर्शनात्तस्य देवस्य विष्णोर्विश्वस्वरूपिणः ।। ४४ ।।
ततो दूताः कृतांतस्य कृष्णं च युद्धकारिणम् ।।
वारयामासुरत्युग्रा विशंतं नरकान्प्रति ।। ४५ ।। ।।
।। किंकरा ऊचुः ।। ।।
मा वीरानेन मार्गेण रथमानय मानवन् ।।
प्रयांत्यधोगतिं पापात्परस्त्रीस्वापहारकाः ।। ४६ ।।
यमादिष्टा नराः पापा येऽमोच्या वर्षकोटिभिः ।।
दृष्ट्वा त एव सद्यस्त्वां गताः स्वर्गमपावृताः ।। ४७ ।।
एतच्छ्रुत्वा वचस्तेषां कृपया पीडितो भृशम् ।।
पुनः प्रोवाच मधुहा मोक्षायाहमुपागतः ।। ४८ ।।
सर्वेषां स्वर्गदाताहं यमलोकनिवारकः ।।
अंजसा यमराड्दूता यमायाख्यात मे वचः ।। ४९ ।।
एतच्छ्रुत्वा वचो दूताः सत्वरा यममागताः ।।
सर्वमाचक्षिरे वृत्तं यथा नारकमोक्षणम् ।। 5.1.27.५० ।।
ततो यमो रुषाविष्टः प्राह तान्यमकिंकरान् ।।
यः कश्चिदागतो मर्त्यो मर्यादाभेदकृन्नरः ।। ५१ ।।
तं गत्वा वारयध्वं वै गृहीत्वानीयतामिति ।।
अयं नरांतको यातु किंकरः सह किंकरैः ।। ५२ ।।
एवमुक्तो यमेनाथ किंकरः स नरांतकः ।।
गत्वा तं वारयामास वाग्भिरुग्राभिरच्युतम् ।। ५३ ।।
यदा न वारितस्तस्थौ तदा क्रुद्धो नरांतकः ।।
तदा शरैरतीवोग्रैस्ताडितस्तेन केशवः ।। ५४ ।।
बलदेवोपि समरे ताडितो विविधैः शरैः ।।
तावुभौ ताडितौ घोरैः समंताद्यमकिंकरैः ।। ५५ ।।
आदाय धनुषी दिव्ये जघ्नतुर्यमकिंकरान्।।
बाणैरनेकसाहस्रैः क्रुद्धौ रामजनादर्नौ ।। ५६ ।।
नरांतकोऽपि समरे बलेन बलिनार्दितः ।।
पपात गदया भिन्नो मूर्ध्नि निर्यातलोचनः ।। ५७ ।।
ततो नरांतके वीरे पतिते यमकिंकरे ।।
किंकराणामभूत्सैन्यमार्तं रणपराङ्मुखम् ।। ५८ ।।
रामकृष्णाभ्यां ते दूता हन्यमाना भयातुराः ।।
यमाय कथयामासुर्नरांतकस्तु पातितः ।। ५९ ।।
ततो यमो ययौ क्रुद्धः समंतात्किंकरैर्वृतः ।।
प्राह ततो यमः क्रुद्धो नो जितोहं पुरा परैः ।।5.1.27.६० ।।
ततो वादित्रनिर्घोषैस्तुमुलानकगोमुखैः ।।
नानाडमरुकैश्चैव चित्रगुप्तैश्च गच्छति ।। ६१ ।।
देवा विद्याधराः सिद्धा दृष्ट्वा यांतं महाबलम् ।।
कृतांतस्य रणेऽक्षोभ्यं कामपालं जगत्पतिम् ।। ६२ ।।
ततस्ते किंकराः सर्वे चित्रगुप्तेन नोदिताः।।
रथमावृत्य बाणौघैः प्रविव्यधुः समंततः ।। ६३ ।।
बलं च केशवं संख्ये जघ्नतुस्तावुभावपि ।।
रणे च विविधैर्बाणैश्चित्रगुप्तस्य पश्यतः ।। ६४ ।।
विदार्य च सहस्राणि किंकराणां समंततः ।।
कृतांतानीकिनीमध्ये कृतांत इव केशवः ।।
चचार रणदुर्धर्षः कामपालेन पालितः ।। ६५ ।।
ततश्चित्रगुप्तो रणे किंकराद्यं विदीर्णं निरीक्ष्यार्तनादं चकार ।। ६६ ।।
शरैः पंचभिः कृष्णमायांतमाजौ जघानाष्टभिर्वक्त्रदेशे स भिन्नः ।।
शरार्तो रथोपस्थ आसीत्तदार्तस्तमालोक्य भिन्नं रणे नष्टसंज्ञम् ।। ६७ ।।
रथं स्वं समादाय यातः कृतांतस्ततश्चित्रगुप्ते शरार्ते प्रसुप्ते ।।
रणे कीर्तिलुप्ते भयक्षोभयुक्तः स्वसैन्यैश्च युक्तो भयार्तो निषण्णः ।। ६८ ।।
प्रधानाश्च भग्ना विचित्राश्च भग्रास्ततश्चित्रगुप्तं निशम्याथ भग्नम् ।।
स कालस्तमायांतमालोक्य दूराद्वरसैन्यमादाय देवारि शत्रुम् ।। ६९ ।।
विनाशाय युध्यद्युगांते प्रजानां यथा वाडवो ज्वालवृद्धः प्रवृत्तः ।।
तमायांतमालोक्य कालं करालं शरैरावृणोदंतकं कालकल्पैः ।। 5.1.27.७० ।।
स कालः करालं समादाय दंडं मुमोचाच्युते पश्यतां देवतानाम् ।।
ततः कालदंडः प्रजानां विनाशो हरेः संनिकाशं समभ्याजगाम ।। ७१ ।।
ततो देवगंधर्वयक्षा मुनींद्राः परं विस्मयं प्रापुरावीक्ष्य रामम् ।।
ज्वलंतं च जग्राह कालस्य दंडं स रामो वरलीलयाऽनंतमूर्तिः ।। ७२ ।।
गृहीते बलेनाहवे कालदंडे मोक्तुकामे पुनः कालनाशाय वै।
तूर्णमभ्येत्य तत्रांतरे रणे वारयामास कृष्णं तदा।।७३।।
मा मुंचेत्यब्रवीद्वेधाः कालं कालायुधं बल।।
त्वया बलवता वीर चराचरधरा धरा।।७४।।
धार्यते शिरसा देव संसारे नास्ति ते समः ।।
त्वया विश्वपतिर्विष्णुरुत्संगेन सदोह्यते।।
कोऽन्योस्ति त्वत्समो राम यो जगद्दहने क्षमः ।।
जगत्स्रष्टा जगद्गोप्ता जगद्धर्ता जगत्पतिः ।।७६।।
पाल्यते यत्त्वया सोपि विष्णुर्विश्वैकनायकः ।।
कस्ते स्तुतिकरोऽस्तीह को गुणान्वक्तुमर्हति ।। ७७ ।।
ततो वयं त्वदंकस्थविष्णुनाभिभवा यतः ।।
इत्युक्त्वा बलदेवं च वासुदेवं पुनर्वचः ।। ७८ ।।
उवाच चतुरास्यस्तु स्तुतिश्च वृतः सुरैः ।।
कृष्णकृष्ण करालस्य कालस्यास्य कृपां कुरु ।। ७९ ।।
यतो भवंतमायांतं विष्णुं विश्वैकनायकम् ।।
वेत्ति नायं जगन्नाथं नरकार्णवतारकम् ।। 5.1.27.८० ।।
त्वया वै भगवन्पूर्वं यमः संस्थापितः पदे ।।
नृणां दुष्कृतकर्तॄणां नरकाय यमः प्रभो ।। ८१ ।।
तस्मादस्य जगन्नाथ क्षम्यतां पुरुषोत्तम ।।
विभो कृपां कुरुष्वास्य ब्रूहि यत्ते विवक्षितम् ।। ८२ ।।
एतच्छुत्वाऽब्रवीत्कृष्णो धातः शृणु गुरोर्मम ।।
सांदीपनेः समानीतः सुतस्तेनागताविह ।। ८३ ।।
समर्प्यतां गुरुश्रेष्ठ श्रेष्ठाय गुरुदक्षिणा ।।
आवाभ्यां वै प्रतिज्ञातो तस्मात्सा पाल्यतां विभो ।। ८४ ।।
एतत्पितामहः श्रुत्वा यमं समरनिर्जितम् ।।
समाहूयाब्रवीद्विष्णुर्यद्ब्रवीति कुरुष्व तत् ।। ८५ ।।
तच्छ्रुत्वा धर्मराजस्तु विरंचिमिदमब्रवीत् ।।
भगवन्विश्वकृल्लोके नैष मार्गस्त्वया कृतः ।। ८६ ।।
यमलोकमनुप्राप्य कायहीनः शरीरवान् ।।
यत्कायरहितो याति नैतदत्र प्रपद्यते ।। ८७ ।।
तच्छुत्वा हि पुनर्ब्रह्मा विश्वस्यास्य विभुः स्वयम् ।।
विश्वकृद्विश्वहद्यस्माद्यदिच्छति करोतु तत् ।। ८८ ।।
तस्मादर्पय पुत्रं त्वं मुनेः सांदीपनेश्च यः ।।
नरके यं पुनः कृत्वा तं चानय महामते ।। ८९ ।।
तच्छुत्वा धर्मराजस्तु पुत्रं सांदीपनेस्तथा ।।
ससर्ज बाल रूपं च तदात्मानं तदुद्भवम् ।। 5.1.27.९० ।।
अर्पयामास कृष्णस्य बालं रूपसमन्वितम् ।।
स सर्वदेवतानां च तदद्भुतमिवाभवत् ।। ९१ ।।
ततः प्राप्य गुरोः पुत्रं प्रभुः प्रीतः प्रजापतिम् ।।
प्राह प्राप्तो मया ब्रह्मन्स्वरूपो द्विजदारकः ।। ९२ ।।
।। श्रीकृष्ण उवाच ।। ।।
अद्यप्रभृति लोकेश देशे मच्चरणां किते ।।
अवंत्यामंकपादाख्ये मृता नेक्षंति ते यमम् ।। ९३ ।।
महाकालपुरे देवमाद्यं वै पुरुषोत्तमम् ।।
विश्वरूपं च गोविंदं शंखोद्धारं च केश वम् ।। ९४ ।।
ये पश्यंति कुशस्थल्यामेतेषां मूर्तिपंचकम् ।।
ते नरा न गमिष्यंति विरंचे निरयं क्वचित् ।। ९५ ।।
तथैवागमनादत्र मम रामस्य ना रकाः ।।
विमुक्तास्ते त्वघाद्घोरात्प्राप्नुवंत्वखिला दिवम् ।। ९६ ।।
इत्युक्ते वचने वेधाः प्रोवाच प्रीतिमान्हरिम् ।।
यत्त्वयोक्तं वचः कृष्ण तदस्तु सकलं सदा ।। ९७ ।।
ये च त्वामादिपुरुषं प्रथमं पुरुषोत्तमम् ।।
प्रणम्य पश्चाद्रक्ष्यंति स्नात्वा शिवसरस्यपि ।। ९८ ।।
अधोज्वालं महाकालं सोऽश्वमेधफलं लभेत् ।।
एवमुक्तो हरिः पुत्रमादाय बलिना सह ।। ९९ ।।
संमान्य वेधसं कालं समारोहद्रथं ततः ।।
शंखमापूरयामास कृतकार्यो जनार्दनः ।। 5.1.27.१०० ।।
मोक्षाय निरयस्थानां नृणां वै पापकर्मणाम् ।।
ततस्ते शंखशब्देन स्मरणेनाच्युतस्य च ।। १ ।।
दिव्यान्विमानानारुह्य दिवमेवाखिला गताः ।।
शून्यं तन्मंडलं जातं नारायणसमागमे ।। २ ।।
कालोऽपि दंडमासाद्य बलदेवात्पुनः पुरम् ।।
प्रविवेश ततो धाता तत्रैवांतरधीयत ।। ३ ।।
कृष्णोपि बलवान्धीरः प्राप्त उज्जयिनीं पुरीम् ।।
बलदेवसहायस्तु सत्वरेणाशुगामिना ।। ४ ।।
ततः सांदीपनेः पुत्रमर्पयामास केशिहा ।।
गुरवे यत्प्रतिज्ञातं स तस्मादनृणोऽभवत् ।। ५ ।।
एवं सांदीपनिः पुत्रं दृष्ट्वा च पुनरागतम् ।।
नागरास्तत्र राजा च विस्मयं परमं ययुः ।। ६ ।।
तौ वीरावर्चयामासुर्मत्वा देवोत्तमोत्तमौ ।।
सांदीपनिरुवाचेदं तौ च रामजनार्दनौ ।। ७ ।।
इह स्थास्यति वां कीर्तिर्यावदाभूतसंप्लवम् ।।
स्थाने मदीय एतस्मिंस्तिष्ठंतौ यदुनंदनौ ।।८।।
न विज्ञातौ मया वीरौ यदुवृष्णिकुलोद्भवौ ।।
नरनारायणौ देवौ देवकार्यार्थमागतौ ।।९।।
नाल्पमृत्युर्भवेत्तस्य न व्याधिर्न च दुर्गतिः ।।
प्राप्य ह्यत्र च यः स्नाति स्वर्गलोके स मोदते ।।5.1.27.११०।।
शंखिनं विश्वरूपं च गोविदं चक्रिणं तथा ।।
चत्वारि विष्णुक्षेत्राणि अंकपादस्तु पंचमः ।। ११ ।।
एषां यात्रां प्रवक्ष्यामि यथा कार्या मनीषिभिः ।।
मंदाकिन्यां कृतस्नानो दृष्ट्वा रामजनार्दनौ ।। १२ ।।
शंखोद्धारे ततः स्नात्वा प्रपश्येद्बलकेशवौ ।।
स्नानं कृत्वा ततः कुंडे गोविंदं च समर्चयेत ।। १३ ।।
चक्रिणं च ततो दृष्ट्वा देवदेवं च शंखिनम् ।।
अंकपादौ ततो दृष्ट्वा विश्वरूपं ततो व्रजेत् ।। १४ ।।
तस्याग्रतः करीकुंडे स्नानं कृत्वा यथाविधि ।।
पुनस्तेन प्रकारेण प्रपश्येद्बलकेशवौ ।। १५ ।।
स्नानं कृत्वा ततः कुंडे गोविंदं च समर्चयेत् ।।
तथैव चक्रिहलिनौ दृष्ट्वा तं केशवं व्रजेत् ।। १६ ।।
शिप्रांभसि नरः स्नात्वा भक्त्या संपूज्य केशवम् ।।
परावृत्यांकपादे तु तां रात्रिं गमयेच्छुचिः ।। १७ ।।
प्रातर्वै भोजयेत्तत्र पंच विप्रांश्च सुव्रतान् ।।
गोदक्षिणां शंखिने तु विश्वरूपाय वै हयम् ।। १८ ।।
गोविंदाय गजं दद्यात्सर्वं दद्याच्च केशवे ।।
उपोष्य द्वादशीं विप्र योंऽकपादं समर्चयेत् ।। १९ ।।
गंधपुष्पैश्च धूपैश्च नैवेद्यैर्विविधैस्तथा ।।
श्राद्धं यः कुरुते सर्वं तस्य पुण्यफलं शृणु ।। 5.1.27.१२० ।।
कुलानां शतमुद्धृत्य विमानैः सर्वकामिकैः ।।
गीतनृत्यादिभोगैश्च वैकुंठे सुचिरं वसेत् ।। २१ ।।
पुनर्लोक मिमं प्राप्य पवित्रे जायते कुले ।।
प्राप्नोत्यनंतसंतानं विष्णुलोकं पुनर्व्रजेत् ।।१२२।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पंचम आवंत्सयखण्डेऽवंतीक्षेत्रमाहात्म्येंऽकपादमाहात्म्यवर्णनं नाम सप्तविंशोऽध्यायः ।।२७।। ।। छ ।।