शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः २६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २५ शिवपुराणम्/संहिता ५ (उमासंहिता)
अध्यायः २६
वेदव्यासः
अध्यायः २७ →

देव्युवाच ।।
कथितं तु त्वया देव कालज्ञानं यथार्थतः ।।
कालस्य वंचनं ब्रूहि यथा तत्त्वेन योगिनः ।। १ ।।
कालस्तु सन्निकृष्टो हि वर्तते सर्वजंतुषु ।।
यथा चास्य न मृत्युश्च वंचते कालमागतम् ।। २ ।।
तथा कथय मे देव प्रीतिं कृत्वा ममोपरि ।।
योगिनां च हिताय त्वं ब्रूहि सर्वसुखप्रद ।। ३ ।।
।। शंकर उवाच ।।
शृणु देवि प्रवक्ष्यामि पृष्टोहं यत्त्वया शिवे ।।
समासेन च सर्वेषां मानुषाणां हितार्थतः ।। ४ ।।
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ।।
एतेषां हि समायोगः शरीरं पांचभौतिकम् ।। ५ ।।
आकाशस्तु ततो व्यापी सर्वेषां सर्वगः स्थितः।।
आकाशे तु विलीयंते संभवंति पुनस्ततः ।। ६ ।।
वियोगे तु सदा कस्य स्वं धाम प्रतिपेदिरे ।।
तस्या स्थिरता चास्ति सन्निपातस्य सुंदरि ।। ७ ।।
ज्ञानिनोऽपि तथा तत्र तपोमंत्रबलादपि ।।
ते सर्वे सुविजानंति सर्वमेतन्न संशयः ।।८।।
देव्युवाच ।।
खं तेन यन्नश्यति घोररूपः कालः करालस्त्रिदिवैकनाथः ।।
दग्धस्त्वया त्वं पुनरेव तुष्टः स्तोत्रै स्तुतः स्वां प्रकृतिं स लेभे ।।९।।
त्वया स चोक्तः कथया जनानामदृष्टरूपः प्रचरिष्यसीति ।।
दृष्टस्त्वया तत्र महाप्रभावः प्रभोर्वरात्ते पुनरुत्थितश्च।।5.26.१०।।
तदद्य भोः काल इहास्थि किंचिन्निहन्यते येन वदस्व तन्मे ।।
त्वं योगिवर्यः प्रभुरात्मतंत्रः परोपकारात्ततनुर्महेश ।। ११ ।।
शंकर उवाच ।।
न हन्यते देववरैस्तु दैत्यैस्सयक्षरक्षोरगमानुषैश्च ।।
ये योगिनो ध्यानपरास्सदेहा भवंति ते घ्नंति सुखेन कालम् ।।१२।।
सनत्कुमार उवाच ।।
एतच्छ्रुत्वा त्रिभुवनगुरोः प्राह गौरी विहस्य सत्यं त्वं मे वद कथमसौ हन्यते येन कालः ।।
शम्भुस्तामाह सद्यो हि मकरवदने योगिनो ये क्षिपंति कालव्यालं सकलमनघास्तच्छृणुष्वैकचित्ता ।। १३ ।।
शङ्कर उवाच ।।
पंचभूतात्मको देहस्सदायुक्तस्तु तद्गुणैः ।।
उत्पाद्यते वरारोहे तद्विलीनो हि पार्थिवः ।। १४ ।।
आकाशाज्जायते वायुर्वायोस्तेजश्च जायते ।।
तेजसोऽम्बु विनिर्द्दिष्टं तस्माद्धि पृथिवी भवेत् ।। १५ ।।
पृथिव्यादीनि भूतानि गच्छंति क्रमशः परम् ।।
धरा पंचगुणा प्रोक्ता ह्यापश्चैव चतुर्गुणाः ।। १६ ।।
त्रिगुणं च तथा तेजो वायुर्द्विगुण एव च ।।
शब्दैकगुणमाकाशं पृथिव्यादिषु कीर्तितम् ।। १७ ।।
शब्दस्स्पर्शश्च रूपं च रसो गन्धश्च पंचमः ।।
विजहाति गुणं स्वं स्वं तदा भूतं विपद्यते ।। १८ ।।
तदा गुणं विगृह्णाति प्रादुर्भूतं तदुच्यते ।।
एवं जानीहि देवेशि पंचभूतानि तत्त्वतः ।। १९ ।।
तस्माद्धि योगिना नित्यं स्वस्वकालेंऽशजा गुणाः ।।
चिंतनीयाः प्रयत्नेन देवि कालजिगीषुणा ।।5.26.२०।।
देव्युवाच ।।
कथं जेजीय्यते कालो योगिभिर्योगवित्प्रभो ।।
ध्यानेन चाथ मन्त्रेण तत्सर्वं कथयस्व मे ।।२३।।।
शङ्कर उवाच।।
शृणु देवि प्रवक्ष्यामि योगिनां हितकाम्यया ।।
परज्ञानप्रकथनं न देयं यस्य कस्यचित् ।।२२।।
श्रद्दधानाय दातव्यं भक्तियुक्ताय धीमते ।।
अनास्तिकाय शुद्धाय धर्मनित्याय भामिनि ।।२३।।
सुश्वासेन सुशय्यायां योगं युंजीत योगवित् ।।
दीपं विनांधकारे तु प्रजाः सुप्तेषु धारयेत् ।।२४।।
तर्जन्या पिहितौ कर्णौ पीडयित्वा मुहूर्त्तकम्।।
तस्मात्संश्रूयते शब्दस्तुदन्वह्निसमुद्भवः ।। २५ ।।
सन्ध्यातो भुक्तमेवं हि चावसन्नं क्षणादपि ।।
सर्वरोगान्निहत्याशु ज्वरोपद्रवकान्बहून् ।। २६ ।।
यश्चोपलक्षयेन्नित्यैराकारं घटिकाद्वयम्।।
जित्वा मृत्युं तथा कामं स्वेच्छया पर्य्यटेदिह ।।२७।।
सर्वज्ञस्सर्वदर्शी च सर्वसिद्धिमवाप्नुयात्।।
यथा नदति खेऽब्दो हि प्रावृडद्भिस्सुसंयतः ।।२८।।
तं श्रुत्वा मुच्यते योगी सद्यः संसारबन्धनात्।।
ततस्स योगिभिर्न्नित्यं सूक्ष्मात्सूक्ष्मतरो भवेत्।।२९।।
एष ते कथितो देवि शब्दब्रह्मविधिक्रमः ।।
पलालमिव धान्यार्थी त्यजेद्बन्धमशेषतः।।5.26.३०।।
शब्दब्रह्मत्विदं प्राप्य ये केचिदन्यकांक्षिणः ।।
घ्नंति ते मुष्टिनाकाशं कामयंते क्षुधां तृषाम् ।।३१।।
ज्ञात्वा परमिदं ब्रह्म सुखदं मुक्तिकारणम्।।
अवाह्यमक्षरं चैव सर्वोपाधिविवर्जितम् ।। ३२ ।।
मोहिताः कालपाशेन मृत्युपाशवशंगताः ।।
शब्दब्रह्म न जानंति पापिनस्ते कुबुद्धयः।।३३।।
तावद्भवंति संसारे यावद्धाम न विंदते ।।
विदिते तु परे तत्त्वे मुच्यते जन्मबन्धनात् ।।३४।।
निद्रालस्यं महा विघ्नं जित्वा शत्रुं प्रयत्नतः।।
सुखासने स्थितो नित्यं शब्दब्रह्माभ्यसन्निति ।।३५।।
शतवृद्धः पुमांल्लब्ध्वा यावदायुस्समभ्यसेत् ।।
मृत्युञ्जयवपुस्तम्भ आरोग्यं वायुवर्द्धनम् ।।३६।।
प्रत्ययो दृश्यते वृद्धे किं पुनस्तरुणे जने।।
न चोंकारो न मन्त्रोपि नैव बीजं न चाक्षरम् ।।३७।।
अनाहतमनुच्चार्य्यं शब्दब्रह्म शिवं परम् ।।
ध्यायन्ते देवि सततं सुधिया यत्नतः प्रिये ।। ३८ ।।
तस्माच्छब्दा नव प्रोक्ताः प्राणविद्भिस्तु लक्षिताः ।।
तान्प्रवक्ष्यामि यत्नेन नादसिद्धिमनुक्रमात् ।।३९।।
घोषं १ कांस्यं २ तथा शृंगं ३ घण्टां ४ वीणा ५ दिवंशजान् ६ ।।
दुन्दुभिं ७ शंखशब्दं ८ तु नवमं मेघगर्जितम् ९ ।। 5.26.४० ।।
नव शब्दान्परित्यज्य तुंकारं तु समभ्यसेत् ।।
ध्यायन्नेवं सदा योगी पुण्यैः पापैर्न लिप्यते ।। ४१ ।
न शृणोति यदा शृण्वन्योगाभ्यासेन देविके ।।
म्रियतेभ्यसमानस्तु योगी तिष्ठेद्दिवानिशम् ।। ४२ ।।
तस्मादुत्पद्यते शब्दो मृ त्सप्तभिर्दिनैः ।।
स वै नवविधो देवि तं ब्रवीमि यथार्थतः ।। ।।
प्रथमं नदते घोषमात्मशुद्धिकरं परम् ।।
सर्वव्याधिहरं नादं वश्याकर्षणमुत्तमम् ।। ४४ ।।
द्वितीयं नादते कांस्यस्तम्भयेत्प्राणिनां गतिम् ।।
विषभूतग्रहान्सर्वान्बध्नीयान्नात्र संशयः ।। ४५ ।।
तृतीयं नादते शृंगमभिचारि नियोजयेत् ।।
विद्विडुच्चाटने शत्रोर्मारणे च प्रयोजयेत्।।४६।।
घंटानादं चतुर्थ तु वदते परमेश्वरः ।।
आकर्षस्सर्वदेवानां किं पुनर्मानुषा भुवि।।४७।।
यक्षगन्धर्वकन्याश्च तस्याकृष्टा ददंति हि ।।
यथेप्सितां महासिद्धिं योगिने कामतोऽपि वा ।।४८।।
वीणा तु पंचमो नादः श्रूयते योगिभिस्सदा।।
तस्मादुत्पद्यते देवि दूरादर्शनमेव हि ।। ४९ ।।
ध्यायतो वंशनादं तु सर्वतत्त्वं प्रजायते ।।
दुन्दुभिं ध्यायमानस्तु जरामृत्युविवर्जितः ।।5.26.५०।।
शंखशब्देन देवेशि कामरूपं प्रपद्यते ।।
योगिनो मेघनादेन न विपत्संगमो भवेत् ।।५१।।
यश्चैकमनसा नित्यं तुंकारं ब्रह्मरूपिणम् ।।
किमसाध्यं न तस्यापि यथामति वरानने ।।५२।।
सर्वज्ञस्सर्वदर्शी च कामरूपी व्रजत्यसौ ।।
न विकारैः प्रयुज्येत शिव एव न संशयः ।। ५३ ।।
एतत्ते परमेशानि शब्दब्रह्मस्वरूपकम् ।।
नवधा सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ।। ५४ ।।
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां कालवंचनवर्णनं नाम षड्विंशोऽध्यायः ।। २६ ।।