शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः २५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २४ शिवपुराणम्/संहिता ५ (उमासंहिता)
अध्यायः २५
वेदव्यासः
अध्यायः २६ →

व्यास उवाच ।।
सनत्कुमार सर्वज्ञ त्वत्सकाशान्मया मुने।।
स्त्रीस्वभावः श्रुतः प्रीत्या कालज्ञानं वदस्व मे ।। १ ।।
सनत्कुमार उवाच ।।
इदमेव पुराऽपृच्छत्पार्वती परमेश्वरम् ।।
श्रुत्वा नानाकथां दिव्यां प्रसन्ना सुप्रणम्य तम् ।। २ ।।
पार्वत्युवाच ।।
भगवंस्त्वत्प्रसादेन ज्ञातं मे सकलं मतम् ।।
यथार्चनं तु ते देव यैर्मंत्रैश्च यथाविधि ।। ।। ३ ।।
अद्यापि संशयस्त्वेकः कालचक्रं प्रति प्रभो ।।
मृत्युचिह्नं यथा देव किं प्रमाणं यथायुषः ।। ४।।
तथा कथय मे नाथ यद्यहं तव वल्लभा ।।
इति पृष्टस्तया देव्या प्रत्युवाच महेश्वरः ।।५।।
।। ईश्वर उवाच ।।
सत्यं ते कथयिष्यामि शास्त्रं सर्वोत्तमं प्रिये ।।
येन शास्त्रेण देवेशि नरैः कालः प्रबुध्यते ।।६।।
अहः पक्षं तथा मासमृतुं चायनवत्सरौ।।
स्थूलसूक्ष्मगतैश्चिह्नैर्बहिरंतर्गतैस्तथा ।। ७ ।।
तत्तेहं सम्प्रवक्ष्यामि शृणु तत्त्वेन सुन्दरि ।।
लोकानामुपकारार्थं वैराग्यार्थमुमेऽधुना ।। ८ ।।
अकस्मात्पांडुरं देहमूर्द्ध्वरागं समंततः ।।
तदा मृत्युं विजानीयात्षण्मासाभ्यन्तरे प्रिये ।।९।।
मुखं कर्णौ तथा चक्षुर्जिह्वास्तम्भो यदा भवेत्।।
तदा मृत्युं विजानीयात्षण्मासाभ्यन्तरे प्रिये।।5.25.१०।।
रौरवानुगतं भद्र ध्वनिं नाकर्णयेद्द्रुतम्।।
षण्मासाभ्यंतरे मृत्युर्ज्ञातव्यः कालवेदिभिः ।।११।।
रविसोमाग्निसंयोगाद्यदोद्योतं न पश्यति ।।
कृष्णं सर्वं समस्तं च षण्मासं जीवितं तथा ।। १२ ।।
वामहस्तो यदा देवि सप्ताहं स्पंदते प्रिये ।।
जीवितं तु तदा तस्य मासमेकं न संशयः ।। १३ ।।
उन्मीलयति गात्राणि तालुकं शुष्यते यदा।।
जीवितं तु तदा तस्य मासमेकं न संशयः ।। १४ ।।
नासा तु स्रवते यस्य त्रिदोषे पक्षजीवितम् ।।
वक्त्रं कंठं च शुष्येत षण्मासांते गतायुषः ।।१५।।
स्थूलजिह्वा भवेद्यस्य द्विजाः क्लिद्यंति भामिनि ।।
षण्मासाज्जायते मृत्युश्चिह्नैस्तैरुपलक्षयेत्।।१६।।
अंबुतैलघृतस्थं तु दर्पणे वरवर्णिनि ।।
न पश्यति यदात्मानं विकृतं पलमेव च ।। १७ ।।
षण्मासायुस्स विज्ञेयः कालचक्रं विजानता ।।
अन्यच्च शृणु देवेशि येन मृत्युर्विबुद्ध्यते।।१८।।
शिरोहीनां यदा छायां स्वकीयामुपलक्षयेत् ।।
अथवा छायया हीनं मासमेकं न जीवति।।१९।।
आंगिकानि मयोक्तानि मृत्युचिह्नानि पार्वति।।
बाह्यस्थानि ब्रुवे भद्रे चिह्नानि शृणु सांप्रतम्।।5.25.२०।।
रश्मिहीनं यदा देवि भवेत्सोमार्कमण्डलम्।।
दृश्यते पाटलाकारं मासार्दे्धेन विपद्यते।।२१।।
अरुंधती महायानमिंदुलक्षणवर्जितम्।।
अदृष्टतारको योऽसौ मासमेकं स जीवति।।२२।।
दृष्टे ग्रहे च दिङ्मोहः षण्मासाज्जायते ध्रुवम्।।
उतथ्यं न ध्रुवं पश्येद्यदि वा रविमण्डलम्।।२३।।
रात्रौ धनुर्यदापश्येन्मध्याह्ने चोल्कपातनम्।।
वेष्ट्यते गृध्रकाकैश्च षण्मासायुर्न संशयः।।२४।।
ऋषयस्स्वर्गपंथाश्च दृश्यंते नैव चाम्बरे।।
षण्मासायुर्विजनीयात्पुरुषैः कालवेदिभिः ।।।२५।।
अकस्माद्राहुणा ग्रस्तं सूर्यं वा सोममेव च ।।
दिक्चक्रं भ्रांतवत्पश्येत्षण्मासान्म्रियते स्फुटम् ।।२६।।
नीलाभिर्मक्षिकाभिश्च ह्यकस्माद्वेष्ट्यते पुमान् ।।
मासमेकं हि तस्यायुर्ज्ञातव्यं परमार्थतः ।। ।।२७।।
गृध्रः काकः कपोतश्च शिरश्चाक्रम्य तिष्ठति ।।
शीघ्रं तु म्रियते जंतुर्मासैकेन न संशयः ।। २८ ।।
एवं चारिष्टभेदस्तु बाह्यस्थः समुदाहृतः ।।
मानुषाणां हितार्थाय संक्षेपेण वदाम्यहम् ।। २९ ।।
हस्तयोरुभयोर्देवि यथा कालं विजानते ।।
वामदक्षिणयोर्मध्ये प्रत्यक्षं चेत्युदाहृतम् ।।5.25.३०।।
एवं पक्षौ स्थितौ द्वौ तु समासात्सुरसुंदरि ।।
शुचिर्भूत्वा स्मरन्देवं सुस्नातस्संयतेन्द्रियः ।। ।। ३१ ।।
हस्तौ प्रक्षाल्य दुग्धेनालक्तकेन विमर्दयेत् ।।
गंधैः पुष्पैः करौ कृत्वा मृगयेच्च शुभाशुभम् ।।३२।।
कनिष्ठामादितः कृत्वा यावदंगुष्ठकं प्रिये ।।
पर्वत्रयक्रमेणैव हस्तयोरुभयोरपि ।।३३।।
प्रतिपदादिविन्यस्य तिथिं प्रतिपदादितः ।। ।।
संपुटाकारहस्तौ तु पूर्वदिङ्मुखसंस्थितः ।। ३४ ।।
स्मरेन्नवात्मकं मंत्रं यावदष्टोत्तरं शतम् ।।
निरीक्षयेत्ततो हस्तौ प्रतिपर्वणि यत्नतः ।। ३५ ।।
तस्मिन्पर्वणि सा रेखा दृश्यते भृंगसन्निभा ।।
तत्तिथौ हि मृतिर्ज्ञेया कृष्णे शुक्ले तथा प्रिये ।। ३६ ।।
अधुना नादजं वक्ष्ये संक्षेपात्काललक्षणम् ।।
गमागमं विदित्वा तु कर्म कुर्याञ्छृणु प्रिये ।। ३७ ।।
आत्मविज्ञानं सुश्रोणि चारं ज्ञात्वा तु यत्नतः ।।
क्षणं त्रुटिर्लवं चैव निमेषं काष्ठकालिकम् ।। ३८ ।।
मुहूर्तकं त्वहोरात्रं पक्षमासर्तुवत्सरम् ।।
अब्दं युगं तथा कल्पं महाकल्पं तथैव च ।। ३९ ।।
एवं स हरते कालः परिपाट्या सदाशिवः ।।
वामदक्षिणमध्ये तु पथि त्रयमिदं स्मृतम् ।।5.25.४०।।
दिनानि पंच चारभ्य पंचविंशद्दिनावधि ।।
वामाचारगतौ नादः प्रमाणं कथितं तव ।।४१।।
भूतरंध्रदिशश्चैव ध्वजश्च वरवर्णिनि ।।
वामचारगतौ नादः प्रमाणं कालवेदिनः।।४२।।
ऋतोर्विकारभूताश्च गुणास्तत्रैव भामिनि ।।
प्रमाणं दक्षिणं प्रोक्तं ज्ञातव्यं प्राणवेदिभिः ।। ४३ ।।
भूतसंख्या यदा प्राणान्वहंते च इडादयः ।।
वर्षस्याभ्यंतरे तस्य जीवितं हि न संशयः ।। ४४ ।।
दशघस्रप्रवाहेण ह्यब्दमानं स जीवति ।।
पंचदशप्रवाहेण ह्यब्दमेकं गतायुषम् ।।४५।।
विंशद्दिनप्रवाहेण षण्मासं लक्षयेत्तदा ।।
पंचविंशद्दिनमितं वहते वामनाडिका ।।४६।।
जीवितं तु तदा तस्य त्रिमासं हि गतायुषः ।।
षड्विंशद्दिनमानेन मासद्वयमुदाहृतम् ।।४७ ।।
सप्तविंशद्दिनमितं वहतेत्यतिविश्रमा ।।
मासमेकं समाख्यातं जीवितं वामगोचरे।।४८।।
एतत्प्रमाणं विज्ञेयं वामवायुप्रमाणतः ।।
सव्येतरे दिनान्येव चत्वारश्चानुपूर्वशः ।।४९।।
चतुस्स्थाने स्थिता देवि षोडशैताः प्रकीर्तिताः ।।
तेषां प्रमाणं वक्ष्यामि साम्प्रतं हि यथार्थतः।।।5.25.५०।
षड्दिनान्यादितः कृत्वा संख्यायाश्च यथाविधि ।।
एतदंतर्गते चैव वामरंध्रे प्रकाशितम् ।।५१।।
षड्दिनानि यदा रूढं द्विवर्षं च स जीवति ।।
मासानष्टौ विजानीयाद्दिनान्यष्ट च तानि तु ।। ५२ ।।
प्राणः सप्तदशे चैव विद्धि वर्षं न संशयः ।।
सप्तमासान्विजानीयाद्दिनैः षड्भिर्न संशयः ।।५३।।
अष्टघस्रप्रभेदेन द्विवर्षं हि स जीवति ।।
चतुर्मासा हि विज्ञेयाश्चतुर्विंशद्दिनावधिः।।५४।।
यदा नवदिनं प्राणा वहंत्येव त्रिमासकम्।।
मासद्वयं च द्वे मासे दिना द्वादश कीर्तिताः।।५५।।
पूर्ववत्कथिता ये तु कालं तेषां तु पूर्वकम्।।
अवांतरदिना ये तु तेन मासेन कथ्यते ।। ५६ ।।
एकादश प्रवाहेण वर्षमेकं स जीवति ।।
मासा नव तथा प्रोक्ता दिनान्यष्टमितान्यपि ।।५७।।
द्वादशेन प्रवाहेण वर्षमेकं स जीवति ।।
मासान् सप्त विजानीयात्षड्घस्रांश्चाप्युदाहरेत् ।।५८।।
नाडी यदा च वहति त्रयोदशदिनावधि ।।
सम्वत्सरं भवेत्तस्य चतुर्मासाः प्रकीर्तिताः ।।५९।।
चतुर्विशद्दिनं शेषं जीवितं च न संशयः ।।
प्राणवाहा यदा वामे चतुर्द्दशदिनानि तु ।। 5.25.६० ।।
सम्वत्सरं भवेत्तस्य मासाः षट् च प्रकीर्तिताः ।।
चतुर्विंशद्दिनान्येव जीवितं च न संशयः ।। ६१ ।।
पंचदशप्रवाहेण नव मासान्स जीवति ।।
चतुर्विशद्दिनान्येव कथितं कालवेदिभिः ।।६२।।
षोडशाहप्रवाहेण दशमासान्स जीवति ।।
चतुर्विशद्दिनाधिक्यं कथितं कालवेदिभिः ।। ६३ ।।
सप्तदशप्रवाहेण नवमासैर्गतायुषम् ।।
अष्टादशदिनान्यत्र कथितं साधकेश्वरि ।। ६४ ।।
वामचारं यदा देवि ह्यष्टादशदिनावधिः ।।
जीवितं चाष्टमासं तु घस्रा द्वादश कीर्तिताः ।। ६५ ।।
चतुर्विंशद्दिनान्यत्र निश्चयेनावधारय ।।
प्राणवाहो यदा देवि त्रयोविंशद्दिनावधिः ।। ६६ ।।
चत्वारः कथिता मासाः षड्दिनानि तथोत्तरे ।।
चतुर्विंशप्रवाहेण त्रीन्मासांश्च स जीवति।। ६७ ।।
दिनान्यत्र दशाष्टौ च संहरंत्येव चारतः ।।
अवांतरदिने यस्तु संक्षेपात्ते प्रकीर्तितः ।। ६८ ।।
वामचारः समाख्यातो दक्षिणं शृणु सांप्रतम् ।।
अष्टाविंशप्रवाहेण तिथिमानेन जीवति ।। ६९ ।।
प्रवाहेण दशाहेन तत्संस्थेन विपद्यते ।।
त्रिंशद्धस्रप्रवाहेन पञ्चाहेन विपद्यते।। 5.25.७० ।।
एकत्रिंशद्यदा देवि वहते च निरंतरम् ।।
दिनत्रयं तदा तस्य जीवितं हि न संशयः ।।७१।।
द्वात्रिंशत्प्राणसंख्या च यदा हि वहते रविः ।।
तदा तु जीवितं तस्य द्विदिनं हि न संशयः ।।७२।।
दक्षिणः कथितः प्राणो मध्यस्थं कथयामि ते।।
एकभागगतो वायुप्रवाहो मुखमण्डले।। ७३।।
धावमानप्रवाहेण दिनमेकं स जीवति ।।
चक्रमे तत्परासोर्हि पुराविद्भिरुदाहृतम् ।। ७४ ।।
एतत्ते कथितं देवि कालचक्रं गतायुषः ।।
लोकानां च हितार्थाय किमन्यच्छ्रोतुमिच्छसि ।। ७५ ।।
इति श्रीशिवमहापुराणे पंचम्यामुमासंहितायां कालज्ञानवर्णनं नाम पंचविंशोऽध्यायः।।२५।।