शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः २४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २३ शिवपुराणम्/संहिता ५ (उमासंहिता)
अध्यायः २४
वेदव्यासः
अध्यायः २५ →

व्यास उवाच।।
कुत्सितं योषिदर्थं यत्संप्रोक्तं पंचचूडया।।
तन्मे ब्रूहि समासेन यदि तुष्टोऽसि मे मुने।। १ ।।
सनत्कुमार उवाच ।।
स्त्रीणां स्वभावं वक्ष्यामि शृणु विप्र यथातथम् ।।
यस्य श्रवणमात्रेण भवेद्वैराग्यमुत्तमम् ।। २ ।।
स्त्रियो मूलं हि दोषाणां लघुचित्ताः सदा मुने।।
तदासक्तिर्न कर्तव्या मोक्षेप्सुभिरतन्द्रितैः ।। ३ ।।
अत्राप्युदाहरंतीममितिहासं पुरातनम् ।।
नारदस्य च संवादं पुंश्चल्या पंचचूडया ।। ४ ।।
लोकान्परिचरन्धीमान्देवर्षिर्नारदः पुरा ।।
ददर्शाप्सरसं बालां पंचचूडामनुत्तमाम्।।५।।
पप्रच्छाप्सरसं सुभ्रूं नारदो मुनिसत्तमः।।
संशयो हृदि मे कश्चित्तन्मे ब्रूहि सुमध्यमे।।६।।
एवमुक्ता तु सा विप्रं प्रत्युवाच वराप्सरा।।
विषये सति वक्ष्यामि समर्थां मन्यसेऽथ माम् ।। ७ ।।
नारद उवाच ।।
न त्वामविषये भद्रे नियोक्ष्यामि कथंचन ।।
स्त्रीणां स्वभावमिच्छामि त्वत्तः श्रोतुं सुमध्यमे ।।८।।
सनत्कुमार उवाच ।।
एतच्छ्रुत्वा वचस्तस्य देवर्षेरप्सरोत्तमा ।।
प्रत्युवाच मुनीशं तं देवर्षिं मुनिसत्तमम् ।। ९ ।।
पंचचूडोवाच ।।
मुने शृणु न शक्या स्त्री सती वै निंदितुं स्त्रिया ।।
विदितास्ते स्त्रियो याश्च यादृश्यश्च स्वभावतः ।।5.24.१०।।
न मामर्हसि देवर्षे नियोक्तुं प्रश्नमीदृशम् ।।
इत्युक्त्वा साऽभवत्तूष्णीं पंचचूडाप्सरोवरा ।। ११ ।।
अथ देवर्षिवर्यो हि श्रुत्वा तद्वाक्यमुत्तमम् ।।
प्रत्युवाच पुनस्तां वै लोकानां हितकाम्यया ।। १२ ।।
नारद उवाच ।।
मृषावादे भवेद्दोषस्सत्ये दोषो न विद्यते ।।
इति जानीहि सत्यं त्वं वदातस्तत्सुमध्यमे ।। १३ ।।
सनत्कुमार उवाच ।।
इत्युक्ता सा कृतमती रभसा चारुहासिनी ।।
स्त्रीदोषाञ्शाश्वतान्सत्यान्भाषितुं संप्रचक्रमे ।। १४ ।।
पञ्चचूडोवाच ।।
कुलीना नाथवंत्यश्च रूपवंत्यश्च योषितः ।।
मर्यादासु न तिष्ठंति स दोषः स्त्रीषु नारद ।। १५ ।।
न स्त्रीभ्यः किंचिदन्यद्वै पापीयस्तरमस्ति हि ।।
स्त्रियो मूलं हि पापानां तथा त्वमपि वेत्थ ह ।।१६।।
समाज्ञातानर्थवतः प्रतिरूपान् यथेप्सितान् ।।
यतीनन्तरमासाद्य नालं नार्य्यः प्रतीक्षितुम् ।।१७।।
असद्धर्मस्त्वयं स्त्रीणामस्माकं भवति प्रभो।।
पापीयसो नरान् यद्वै लज्जां त्यक्त्वा भजामहे ।। १८ ।।
स्त्रियं च यः प्रार्थयते सन्निकर्षं च गच्छति ।।
ईषच्च कुरुते सेवां तमेवेच्छति योषितः ।। १९ ।।
अनर्थित्वान्मनुष्याणां भयात्पतिजनस्य च ।।
मर्यादायाममर्यादाः स्त्रियस्तिष्ठंति भर्तृषु ।। 5.24.२० ।।
नासां कश्चिदमान्योऽस्ति नासां वयसि निश्चयः ।।
सुरूपं वा कुरूपं वा पुमांसमुपभुंजते ।। २१ ।।
 न भयादथ वाक्रोशान्नार्थहेतोः कथंचन ।।
न ज्ञातिकुलसम्बन्धास्त्रियस्तिष्ठंति भर्तृषु ।।२२।।
यौवने वर्तमानानामिष्टाभरणवाससाम् ।।
नारीणां स्वैरवृत्तीनां स्पृहयन्ति कुलस्त्रियः ।।२३।।
या हि शश्वद्बहुमता रक्ष्यन्ते दयिताः स्त्रियः ।।
अपि ताः सम्प्रसज्जन्ते कुब्जान्धजडवामने ।।२४।।
पंगुष्वपि च देवर्षे ये चान्ये कुत्सिता नराः।।
स्त्रीणामगम्यो लोकेषु नास्ति कश्चिन्महामुने ।। २५ ।।
यदि पुंसां गतिर्ब्रह्मन्कथंचिन्नोपपद्यते ।।
अप्यन्योन्यं प्रवर्तन्ते न च तिष्ठन्ति भर्तृषु ।। २६ ।।
अलाभात्पुरुषाणां च भयात्परिजनस्य च ।।
वधबन्धभयाच्चैव ता भग्नाशा हि योषितः ।।२७।।
चलस्वभाव दुश्चेष्टा दुर्गाह्या भवतस्तथा।।
प्राज्ञस्य पुरुषस्येह यथा रतिपरिग्रहात् ।।२८।।
नाग्निस्तुष्यति काष्ठानां नापगानां महोदधि ।।
नान्तकस्सर्वभूतानां न पुंसां वामलोचनाः ।। २९ ।।
इदमन्यच्च देवर्षे रहस्यं सर्वयोषिताम् ।।
दृष्ट्वैव पुरुषं सद्यो योनिः प्रक्लिद्यते स्त्रियाः ।।5.24.३०।।
सुस्नातं पुरुषं दृष्ट्वा सुगन्धं मलवर्जितम् ।।
योनिः प्रक्लिद्यते स्त्रीणां दृतेः पात्रादिवोदकम्।।३१।।
कायानामपि दातारं कर्त्तारं मानसांत्वयोः ।।
रक्षितारं न मृष्यंति भर्तारं परमं स्त्रियः ।।३२।।
न कामभोगात्परमान्नालंकारार्थसंचयात् ।।
तथा हितं न मन्यन्ते यथा रतिपरिग्रहात् ।। ३३ ।।
अन्तकश्शमनो मृत्युः पातालं वडवामुखम् ।।
क्षुरधारा विषं सर्पो वह्निरित्येकतः स्त्रियः ।।३४।।
यतश्च भूतानि महांति पंच यतश्च लोको विहितो विधात्रा ।।
यतः पुमांसः प्रमदाश्च निर्मिताः सदैव दोषः प्रमदासु नारद ।। ३५ ।।
सनत्कुमार उवाच।।
इति श्रुत्वा वचस्तस्या नारदस्तुष्टमानसः।।
तथ्यं मत्वा ततस्तद्वै विरक्तोभूद्धि तासु च ।। ३६ ।।
 इत्युक्तः स्त्री स्वभावस्ते पंचचूडोक्त आदरात् ।।
वैराग्यकारणं व्यास किमन्यच्छ्रोतुमर्हसि ।। ३७ ।।
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां स्त्रीस्वभाववर्णनं नाम चतुर्विंशोऽध्यायः ।।२४।।