शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः २३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २२ शिवपुराणम्/संहिता ५ (उमासंहिता)
अध्यायः २३
वेदव्यासः
अध्यायः २४ →

सनत्कुमार उवाच ।।
शृणु व्यास महाबुद्धे देहस्याशुचितां मुने ।।
महत्त्वं च स्वभावस्य समासात्कथयाम्यहम् ।।१।।
शुक्रशोणितसंयोगाद्देहस्संजायते यतः।।
नित्यं विण्मूत्रसंपूर्णस्तेनायमशुचिस्स्मृतः।।२।।
यथांतर्विष्ठया पूर्णश्शुचिमान्न बहिर्घटः ।।
शोध्यमानो हि देहोऽयं तेनायमशुचिस्ततः ।। ३ ।।
संप्राप्यातिपवित्राणि पंचगव्यहवींषि चा।
अशुचित्वं क्षणाद्यांति किमन्यदशुचिस्ततः ।।४।।
हृद्यान्यप्यन्नपानानि यं प्राप्य सुरभीणि च ।।
अशुचित्वं प्रयांत्याशु किमन्यदशुचिस्ततः ।।५।।
हे जनाः किन्न पश्यंति यन्निर्याति दिनेदिने ।।
स्वदेहात्कश्मलं पूतिस्तदाधारः कथं शुचिः ।। ६ ।।
देहस्संशोध्यमानोऽपि पंचगव्यकुशांबुभिः ।।
घृष्यमाण इवांगारो निर्मलत्वं न गच्छति ।। ७ ।।
स्रोतांसि यस्य सततं प्रभवंति गिरेरिव ।।
कफमूत्रपुरीषाद्यैस्स देहश्शुध्यते कथम् ।।८।।
सर्वाशुचिनिधानस्य शरीरस्य न विद्यते ।।
शुचिरेकः प्रदेशोऽपि विण्मूत्रस्य दृतेरिव ।। ९ ।।
सृष्ट्वात्मदेहस्रोतांसि मृत्तोयैः शोध्यते करः ।।
तथाप्यशुचिभांडस्य न विभ्रश्यति किं करः ।। 5.23.१० ।।
कायस्सुगंधधूपाद्यैर्य न्नेनापि सुसंस्कृतः ।।
न जहाति स्वभावं स श्वपुच्छमिव नामितम्।।११।।
यथा जात्यैव कृष्णोर्थः शुक्लस्स्यान्न ह्युपायतः।।
संशोद्ध्यमानापि तथा भवेन्मूर्तिर्न निर्मला ।। १२ ।।
जिघ्रन्नपि स्वदुर्गंधं पश्यन्नपि स्वकं मलम् ।।
न विरज्येत लोकोऽयं पीडयन्नपि नासिकाम् ।।१३।।
अहो मोहस्य माहात्म्यं येनेदं छादितं जगत् ।।
शीघ्रं पश्यन्स्वकं दोषं कायस्य न विरज्यते ।।१४।।
स्वदेहस्य विगंधेन न विरज्येत यो नरः ।।
विरागकारणं तस्य किमेतदुपदिश्यते ।। १५ ।।
सर्वस्यैव जगन्मध्ये देह एवाशुचिर्भवेत् ।।
तन्मलावयवस्पर्शाच्छुचिरप्यशुचिर्भवेत् ।। १६ ।।
गंधलेपापनोदार्थ शौचं देहस्य कीर्तितम् ।।
द्वयस्यापगमाच्छुद्धिश्शुद्धस्पर्शाद्विशुध्यति ।।१७।।
गंगातोयेन सर्वेण मृद्भारैः पर्वतोपमैः ।।
आमृत्योराचरेच्छौचं भावदुष्टो न शुध्यति ।। १८ ।।
तीर्थस्नानैस्तपोभिर्वा दुष्टात्मा नैव शुध्यति ।।
श्वदृतिः क्षालिता तीर्थे किं शुद्धिमधिगच्छति ।। १९ ।।
अंतर्भावप्रदुष्टस्य विशतोऽपि हुताशनम् ।।
न स्वर्गो नापवर्गश्च देहनिर्दहनं परम् ।।5.23.२०।।
सर्वेण गांगेन जलेन सम्यङ् मृत्पर्वतेनाप्यथ भावदुष्टः ।।
आजन्मनः स्नानपरो मनुष्यो न शुध्यतीत्येव वयं वदामः ।। २१ ।।
प्रज्वाल्य वह्निं घृततैलसिक्तं प्रदक्षिणावर्तशिखं महांतम् ।।
प्रविश्य दग्धस्त्वपि भावदुष्टो न धर्ममाप्नोति फलं न चान्यत ।। २२ ।।
गंगादितीर्थेषु वसंति मत्स्या देवालये पक्षिगणाश्च नित्यम् ।।
भावोज्झितास्ते न फलं लभंते तीर्थावगाहाच्च तथैव दानात् ।। २३ ।।
भावशुद्धिः परं शौचं प्रमाणे सर्वकर्मसु ।।
अन्यथाऽऽलिंग्यते कांता भावेन दुहितान्यथा ।। २४ ।।
मनसो भिद्यते वृत्तिरभिन्नेष्वपि वस्तुषु ।।
अन्यथैव सुतं नारी चिन्तयत्यन्यथा पतिम् ।। २५ ।।
पश्यध्वमस्य भावस्य महाभाग्यमशेषतः ।।
परिष्वक्तोपि यन्नार्य्या भावहीनं न कामयेत् ।। २६ ।।
नाद्याद्विविधमन्नाद्यं भक्ष्याणि सुरभीणि च ।।
यदि चिंतां समाधत्ते चित्ते कामादिषु त्रिषु ।। २७ ।।
गृह्यते तेन भावेन नरो भावाद्विमुच्यते ।।
भावतश्शुचि शुद्धात्मा स्वर्गं मोक्षं च विंदति ।। २८ ।।
भावेनैकात्मशुद्धात्मा दहञ्जुह्वन्स्तुवन्मृतः ।।
ज्ञानावाप्तेरवाप्याशु लोकान्सुबहुयाजिनाम् ।। २९ ।।
ज्ञानामलांभसा पुंसां सद्वैराग्यमृदा पुनः ।।
अविद्यारागविण्मूत्रलेपगंधविशोधनम् ।। 5.23.३० ।।
एवमेतच्छरीरं हि निसर्गादशुचि स्मृतम् ।।
त्वङ्मात्रसारं निःसारं कदलीसारसन्निभम् ।। ३१ ।।
ज्ञात्वैवं दोषवद्देहं यः प्राज्ञश्शिथिलो भवेत् ।।
देह भोगोद्भवाद्भावाच्छमचित्तः प्रसन्नधीः ।। ३२ ।।
सोऽतिक्रामति संसारं जीवन्मुक्तः प्रजायते ।।
संसारं कदलीसारदृढग्राह्यवतिष्ठते ।। ।। ३३ ।।
एवमेतन्महाकष्टं जन्म दुःखं प्रकीर्तितम् ।।
पुंसामज्ञानदोषेण नानाकार्मवशेन च ।। ३४ ।।
श्लोकार्धेन तु वक्ष्यामि यदुक्तं ग्रन्थकोटिभिः ।।
ममेति परमं दुःखं न ममेति परं सुखम् ।। ३५ ।।
बहवोपीह राजानः परं लोक मितो गताः ।।
निर्ममत्वसमेतास्तु बद्धाश्शतसहस्रशः ।।३६।।
गर्भस्थस्य स्मृतिर्यासीत्सा च तस्य प्रणश्यति ।।
संमूर्छितेन दुःखेन योनियन्त्रनिपीडनात् ।।३७।।
बाह्येन वायुना वास्य मोहसङ्गेन देहिनः ।।
स्पृष्टमात्रेण घोरेण ज्वरस्समुपजायते ।।३८।।
तेन ज्वारेण महता सम्मोहश्च प्रजायते ।।
सम्मूढस्य स्मृतिभ्रंशश्शीघ्रं संजायते पुनः ।। ३९ ।।
स्मृतिभ्रंशात्ततस्तस्य स्मृतिर्न्नोऽपूर्वकर्मणः।।
रतिः संजायते तूर्णं जन्तोस्तत्रैव जन्मनि ।। 5.23.४० ।।
रक्तो मूढश्च लोकोऽयं न कार्य्ये सम्प्रवर्तते ।।
न चात्मानं विजानाति न परं न च दैवतम् ।। ४१ ।।
न शृणोति परं श्रेयस्सति कर्णेऽपि सन्मुने ।।
न पश्यति परं श्रेयस्सति चक्षुषि तत्क्षमे ।। ४२ ।।
समे पथि शनैर्गच्छन् स्खलतीव पदेपदे ।।
सत्यां बुद्धौ न जानाति बोध्यमानो बुधैरपि ।। ४३ ।।
संसारे क्लिश्यते तेन गर्भलोभवशानुगः ।।
गर्भस्मृतेन पापेन समुज्झितमतिः पुमान् ।।४४।।
इत्थं महत्परं दिव्यं शास्त्रमुक्तं शिवेन तु ।।
तपसः कथनार्थाय स्वर्गमोक्षप्रसाधनम् ।। ४५ ।।
ये सत्यस्मिच्छिवे ज्ञाने सर्वकामार्थ साधने ।।
न कुर्वन्त्यात्मनः श्रेयस्तदत्र महदद्भुतम् ।।४६।।
अव्यक्तेन्द्रियवृत्तित्वाद्बाल्ये दुःखं महत्पुनः ।।
इच्छन्नपि न शक्नोति वक्तुं कर्त्तुं प्रतिक्रियाम् ।। ४७ ।।
दंतोत्थाने महद्दुःखमल्पेन व्याधिना तथा ।।।
बालरोगैश्च विविधै पीडा बालग्रहैरपि ।। ४८ ।।
क्वचित्क्षुत्तृट्परीतांगः क्वचित्तिष्ठति संरटन् ।।
विण्मूत्रभक्षणाद्यं च मोहाद्बालस्समाचरेत् ।।४९।।
कौमारे कर्णपीडायां मातापित्रोश्च साधनः ।।
अक्षराध्ययनाद्यैश्च नानादुःखं प्रवर्तते ।।5.23.५०।।
बाल्ये दुःखमतीत्यैव पश्यन्नपि विमूढधीः।।
न कुर्वीतात्मनः श्रेयस्तदत्र महदद्भुतम् ।। ५१ ।।
प्रवृत्तेन्द्रियवृत्तित्वात्कामरोगप्रपीडनात्।।
तदप्राप्ते तु सततं कुतस्सौख्यं तु यौवने ।। ५२ ।।
ईर्ष्यया च महद्दुःखं मोहाद्रक्तस्य तस्य च ।।
नेत्रस्य कुपितस्येव त्यागी दुःखाय केवलम् ।। ५३ ।।
न रात्रौ विंदते निद्रां कामाग्निपरिवेदितः ।।
दिवापि च कुतस्सौख्यमर्थोपार्जनचिंतया ।। ५४ ।।
स्त्रीष्वध्यासितचित्तस्य ये पुंसः शुक्रबिन्दवः ।।
ते सुखाय न मन्यन्ते स्वेदजा इव ते तथा ।। ५५ ।।
कृमिभिस्तुद्यमानस्य कुष्ठिनो वानरस्य च ।।
कंडूयनाभितापेन यद्भवेत्स्त्रिषु तद्विदः ।। ५६ ।।
यादृशं मन्यते सौख्यं गंडे पूतिविनिर्गमात् ।।
तादृशं स्त्रीषु मन्तव्यं नाधिकं तासु विद्यते ।। ५७ ।।
विण्मूत्रस्य समुत्सर्गात्सुखं भवति यादृशम्।।
तादृशं स्त्रीषु विज्ञेयं मूढैः कल्पितमन्यथा ।।५८।।
नारीष्ववस्तुभूतासु सर्वदोषाश्रयासु वा।
नाणुमात्रं सुखं तासु कथितं पंचचूडया ।। ५९ ।।
सम्माननावमानाभ्यां वियोगेनेष्टसंगमात् ।।
यौवनं जरया ग्रस्तं क्व सौख्यमनुपद्रवम्।।5.23.६०।।
वलीपलितखालित्यैश्शिथिलिकृतविग्रहम्।।
सर्वक्रियास्वशक्तिं च जरया जर्जरीकृतम्।।६१।।
स्त्रीपुंसयौवनं हृद्यमन्योऽन्यस्य प्रियं पुरा।।
तदेव जरयाग्रस्तमनयोरपि न प्रियम्।।६२।।
अपूर्ववत्स्वमात्मानं जरया परिवर्तितम्।।
यः पश्यन्नपि रज्येत कोऽन्यस्तस्मादचेतनः।।६३।।
जराभिभूतः पुरुषः पुत्रीपुत्रादिबांधवैः।।
आसक्तत्वाद्दुराधर्षैर्भृत्यैश्च परिभूयते।।६४।।
धर्ममर्थं च कामं वा मोक्षं वातिजरातुरः।।
अशक्तस्साधितुं तस्माद्युवा धर्मं समाचरेत्।।६५।।
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां संसारचिकित्सायां देहा शुचित्वबाल्याद्यवस्थादुःखवर्णनं नाम त्रयोविंशोऽध्यायः।।२३।।