शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः २२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २१ शिवपुराणम्/संहिता ५ (उमासंहिता)
अध्यायः २२
वेदव्यासः
अध्यायः २३ →

व्यास उवाच ।।
विधिं तात वदेदानीं जीव जन्मविधानतः ।।
गर्भे स्थितिं च तस्यापि वैराग्यार्थं मुनीश्वर ।। १ ।।
सनत्कुमार उवाच।।
शृणु व्यास समासेन शास्त्रसारमशेषतः ।।
वदिष्यामि सुवैराग्यं मुमुक्षोर्भवबंधकृत्।।२।।
पाकपात्रस्य मध्ये तु पृथगन्नं पृथग्जलम्।।
अग्नेरूर्ध्वं जलं स्थाप्यं तदन्नं च जलोपरि।।३।।
जलस्याधस्स चाग्निर्हि स्थितोऽग्निं धमते शनैः ।।
वायुनाधम्यमानोऽग्निरत्युष्णं कुरुते जलम् ।।४।।
तदन्नमुष्णतोयेन समन्तात्पच्यते पुनः।।
द्विधा भवति तत्पक्वं पृथक्किट्टं पृथग्रसः।।५।।
मलैर्द्वादशभिः किट्टं भिन्नं देहाद्बहिर्भवेत्।।
रसस्तु देहे सरति स पुष्टस्तेन जायते।।६।।
कर्णाक्षिनासिका जिह्वा दन्ताः शिश्नो गुदं नखाः ।।
मलाश्रयः कफः स्वेदो विण्मूत्रं द्वादश स्मृताः ।। ७ ।।
हृत्पद्मे प्रतिबद्धाश्च सर्वनाड्यस्समंततः ।।
ज्ञेया रसप्रवाहिन्यस्तत्प्रकारं ब्रुवे मुने ।। ८ ।।
तासां मुखेषु तं सूक्ष्मं प्राणस्स्थापयेत् रसम् ।।
रसेन तेन नाडीस्ताः प्राणं पूरयते पुनः ।।९।।
पुनः प्रयांति संपूर्णास्ताश्च देहं समंततः ।।
ततस्स नाडीमध्यस्थश्शरीरेणात्मना रसः ।।5.22.१०।।
पच्यते पच्यमानाच्च भवेत्पाकद्वयं पुनः ।।
त्वक् तया वेष्ट्यते पूर्वं रुधिरं च प्रजायते।।११।।
रक्ताल्लोमानि मांसं च केशाः स्नायुश्च मांसतः।।
स्नायुतश्च तथास्थीनि नखा मज्जास्थिसंभवाः।।१२।।
मज्जाकारणवैकल्यं शुक्रं हि प्रसवात्मकम्।।
इति द्वादशधान्नस्य परिणामः प्रकीर्तिताः।।१३।।
शुक्रोऽन्नाज्जायते शुक्राद्दिव्यदेहस्य संभवः।।
ऋतुकाले यदा शुक्रं निर्दोषं योनिसंस्थितम्।।१४।।
तद्वा तद्वायुसंस्पृष्टं स्त्रीरक्तेनैकतां व्रजेत् ।।
विसर्गकाले शुक्रस्य जीवः कारणसंयुतः ।।१५।।
संवृतः प्रविशेद्योनिं कर्मभिस्स्वैर्नियोजितः ।।
तच्छुक्ररक्तमेकस्थमेकाहात्कलिलं भवेत् ।।३१।
पंचरात्रेण कलिलं बुद्बुदाकारतां व्रजेत् ।।
बुद्बुदस्सप्तरात्रेण मांसपेशी भवेत्पुनः।।१७।।
ग्रीवा शिरश्च स्कंधौ च पृष्ठवंशस्तथोदरम्।।
पाणिपादन्तथा पार्श्वे कटिर्गात्रं तथैव च।।१८।।
द्विमासाभ्यन्तरेणैव क्रमशस्संभवेदिह।।
त्रिभिर्मासैः प्रजायंते सर्वे ह्यंकुरसंधयः।।१९।।
मासैश्चतुर्भिरंगुल्यः प्रजायंते यथाक्रमम्।।
मुखं नासा च कर्णौ मासैः पंचभिरेव च।।5.22.२०।।
दन्तपंक्तिस्तथा गुह्यं जायंते च नखाः पुनः।।
कर्णयोस्तु भवेच्छिद्रं षण्मासाभ्यंतरेण तु ।।२१।।
पायुर्मेहमुपस्थं च नाभिश्चाभ्युपजायते।।
संधयो ये च गात्रेषु मासैर्जायंति सप्तभिः ।।२२।।
अंगप्रत्यंगसंपूर्णः परिपक्वस्स तिष्ठति ।।
उदरे मातुराच्छन्नो जरायौ मुनि सत्तम ।। २३ ।।
मातुराहारचौर्य्येण षड्विधेन रसेन तु ।।
नाभिनालनिबद्धेन वर्द्धते स दिनेदिने ।। २४ ।।
ततस्मृतिं लभेज्जीवस्संपूर्णेऽस्मिञ्शरीरके ।।
सुखं दुःखं विजानाति निद्रास्वप्नं पुराकृतम् ।। २५ ।।
मृतश्चाहं पुनर्जातो जातश्चाहं पुनर्मृतः ।।
नानायोनिसहस्राणि मया दृष्टानि जायता ।। २६ ।।
अधुना जातमात्रोऽहं प्राप्तसंस्कार एव च ।।
श्रेयोऽमुना करिष्यामि येन गर्भे न संभवः ।। २७ ।।
गर्भस्थश्चिंतयत्येवमहं गर्भाद्विनिस्सृतः ।।
अन्वेष्यामि शिवज्ञानं संसारविनिवर्तकम् ।।२८।।
एवं स गर्भदुःखेन महता परिपीडितः ।।
जीवः कर्मवशादास्ते मोक्षोपायं विचिंतयन् ।। २९ ।।
यथा गिरिवराक्रांतः कश्चिद्दुःखेन तिष्ठति ।।
तथा जरायुणा देही दुःखं तिष्ठति वेष्टितः ।। 5.22.३० ।।
पतितस्सागरे यद्वद्दुःखमास्ते समाकुलः ।।
गर्भोदकेन सिक्तांगस्सर्वदाकुलितस्तदा ।। ३१ ।।
लोहकुंभे यथा न्यस्तः पच्यते कश्चिदग्निना ।।
गर्भकुंभे तथा क्षिप्तः पच्यते जठराग्निना ।। ३२ ।।
सूचीभिरग्निवर्णाभिनिर्भिन्नस्य निरंतरम् ।।
यद्दुःखं जायते तस्य तत्र संस्थस्य चाधिकम् ।। ३३ ।।
गर्भावासात्परं दुःखं कष्टं नैवास्ति कुत्रचित् ।।
देहिनां दुःखबहुलं सुघोरमतिसंकटम् ।। ३४ ।।
इत्येतत्सुमहद्दुःखं पापिनां परिकीर्तितम् ।।
केवलं धर्मबुदीनां सप्तमासैर्भवस्सदा ।।३५।।
गर्भात्सुदुर्लभं दुःखं योनियंत्रनिपीडनात् ।।
भवेत्पापात्मनां व्यास न हि धर्मयुतात्मनाम् ।।। ३६ ।।
इक्षुवत्पीड्यमानस्य यंत्रेणैव समंततः ।।
शिरसा ताड्यमानस्य पाप मुद्गरकेण च ।।३७।।
यंत्रेण पीडिता यद्वन्निस्सारा स्स्युस्तिलाः क्षणात् ।।
तथा शरीरं निस्सारं योनियंत्रनिपीडनात् ।। ३८ ।।
अस्थिपादतुलास्तंभं स्नायुबन्धेन यंत्रितम्।।
रक्तमांसमृदालिप्तं विण्मूत्रद्रव्यभाजनम् ।। ३९ ।।
केशरोमनखच्छन्नं रोगायतनमातुरम् ।।
वदनैकमहाद्वारं गवाक्षाष्टकभूषितम् ।। 5.22.४० ।।
ओष्ठद्वयकपाटं च तथा जिह्वार्गलान्वितम्।।
भोगतृष्णातुरं मूढं रागद्वेषवशानुगम्।।४१।।
संवर्तितांगप्रत्यंगं जरायुपरिवेष्टितम्।।
संकटेनाविविक्तेन योनिमार्गेण निर्गतम्।।४२।।
विण्मूत्ररक्तसिक्तांगं विकोशिकसमुद्भवम्।।
अस्थिपञ्जरविख्यातमस्मिञ्ज्ञेयं कलेवरम्।।४३।।
शतत्रयं षष्ट्यधिकं पंचपेशीशतानि च।।
सार्द्धाभिस्तिसृभिश्छन्नं समंताद्रोमकोटिभिः ।।४४ ।।
शरीरं स्थूलसूक्ष्माभिर्दृश्याऽदृश्या हि तास्स्मृताः ।।
एतावतीभिर्नाडीभिः कोटिभिस्तत्समंततः।।४५।।
अस्वेदमधुभिर्याभिरंतस्थः स्रवते बहिः।।
द्वात्रिंशद्दशनाः प्रोक्ता विंशतिश्च नखाः स्मृताः ।। ४६ ।।
पित्तस्य कुडवं ज्ञेयं कफस्याथाढकं स्मृतम् ।।
वसायाश्च पलं विंशत्तदर्धं कपिलस्य च ।।४७।।
पंचार्द्धं तु तुला ज्ञेया पलानि दश मेदसः ।।
पलत्रयं महारक्तं मज्जायाश्च चतुर्गुणम् ।। ४८ ।।
शुक्रोर्द्धं कुडवं ज्ञेयं तद्बीजं देहिनां बलम् ।।
मांसस्य चैकपिंडेन पलसाहस्रमुच्यते ।।४९।।
रक्तं पलशतं ज्ञेयं विण्मूत्रं यत्प्रमाणत।।
अंजलयश्च चत्वारश्चत्वारो मुनिसत्तम।।5.22.५०।।
इति देहगृहं ह्येतन्नित्यस्यानित्यमात्मनः ।।
अविशुद्धं विशुद्धस्य कर्मबंधाद्विनिर्मितम् ।। ५१ ।।
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां देहोत्पत्तिवर्णनं नाम द्वाविंशोऽध्यायः ।। २२ ।।