सामग्री पर जाएँ

शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः २१

विकिस्रोतः तः
← अध्यायः २० शिवपुराणम्/संहिता ५ (उमासंहिता)
अध्यायः २१
वेदव्यासः
अध्यायः २२ →

।। व्यास उवाच ।।
ब्राह्मणत्वं हि दुष्प्राप्यं निसर्गाद्ब्राह्मणो भवेत् ।।
ईश्वरस्य मुखात्क्षत्रं बाहुभ्यामूरुतो विशः ।। १ ।।
पद्भ्यां शूद्रस्समुत्पन्न इति तस्य मुखाच्छ्रुतिः ।।
किमु स्थितिमधःस्थानादाप्नुवन्ति ह्यतो वद ।। २ ।।
सनत्कुमार उवाच ।।
दुष्कृतेन तु कालेय स्थानाद्भ्रश्यन्ति मानवाः ।।
श्रेष्ठं स्थानं समासाद्य तस्माद्रक्षेत पण्डितः ।। ३ ।।
यस्तु विप्रत्वमुत्सृज्य क्षत्रयोन्यां प्रसूयते ।।
ब्राह्मण्यात्स परिभ्रष्टः क्षत्रियत्वं निषेवते ।।४।।
अधर्मसेवनान्मूढस्तथैव परिवर्तते ।।
जन्मान्तरसहस्राणि तमस्याविशते यतः ।।५।।
तस्मात्प्राप्य परं स्थानं प्रमाद्यन्न तु नाशयेत् ।।
स्वस्थानं सर्वदा रक्षेत्प्राप्यापि विपदो नरः ।। ६ ।।
ब्राह्मणत्वं शुभं प्राप्य ब्राह्मण्यं योऽवमन्यते ।।
भोज्याभोज्यं न जानाति स पुमान्क्षत्रियो भवेत् ।। ७ ।।
कर्मणा येन मेधावी शूद्रो वैश्यो हि जायते ।।
तत्ते वक्ष्यामि निखिलं येन वर्णोत्तमो भवेत् ।। ८ ।।
शूद्रकर्म यथोद्दिष्टं शूद्रो भूत्वा समाचरेत् ।।
यथावत्परिचर्य्यां तु त्रिषु वर्णेषु नित्यदा ।। ९ ।।
कुरुते कामयानस्तु शूद्रोऽपि वैश्यतां व्रजेत् ।।
यो योजयेद्धनैर्वैश्यो जुह्वानश्च यथाविधि ।। 5.21.१० ।।
अग्निहोत्रमुपादाय शेषान्न कृतभोजनः ।।
स वैश्यः क्षत्रियकुले जायते नात्र संशयः ।। ११ ।।।
क्षत्त्रियो जायते यज्ञैसंस्कृतैरात्तदक्षिणैः ।।
अधीते स्वर्गमन्विच्छंस्त्रेताग्निशरणं सदा ।। १२ ।।
आर्द्रहस्तपदो नित्यं क्षितिं धर्मेण पालयेत् ।।
ऋतुकालाभिगामी च स्वभार्य्याधर्मतत्परः।।१३।।
सर्वातिथ्यं त्रिवर्गस्य भूतेभ्यो दीयतामिति ।।
गोब्राह्मणात्मनोऽर्थं हि संग्रामाभिहतो भवेत् ।।१४।।
तेनाग्निमन्त्रपूतात्मा क्षत्त्रियो ब्राह्मणो भवेत् ।।
विधितो ब्राह्मणो भूत्वा याजकस्तु प्रजायते ।। १५ ।
स्वकर्मनिरतो नित्यं सत्यवादी जितेन्द्रियः।।
प्राप्यते विपुलस्स्वर्गो देवानामपि वल्लभः।।१६।।
ब्रह्मणत्वं हि दुष्प्राप्यं कृच्छ्रेण साध्यते नरैः ।।
ब्राह्मण्यात्सकलं प्राप्य मोक्षश्चापि मुनीश्वर ।। १७ ।।
तस्मात्सर्वप्रयत्नेन ब्राह्मणो धर्मतत्परः ।।
साधनं सर्ववर्गस्य रक्षेद्ब्राह्मण्यमुत्तमम् ।। १८ ।।
व्यास उवाच ।।
संग्रामस्येह माहात्म्यं त्वयोक्तं मुनिसत्तम ।।
एतदिच्छाम्यहं श्रोतुं ब्रूहि त्वं वदतां वर ।। १९ ।।
सनत्कुमार उवाच ।।
अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः ।।
न तत्फलमवाप्नोति संग्रामे यदवाप्नुयात् ।। 5.21.२० ।।
इति तत्त्वविदः प्राहुर्यज्ञकर्मविदस्सदा ।।
तस्मात्तत्ते प्रवक्ष्यामि यत्फलं शस्त्रजीविनाम्।।२१।।
धर्मलाभोऽर्थलाभश्च यशोलाभस्तथैव च ।।
यश्शूरो वांछते युद्धं विमृन्दन्परवाहिनीम् ।। २२ ।।
तस्य धर्मार्थ कामाश्च यज्ञश्चैव सदक्षिणः ।।
परं ह्यभिमुखं दत्त्वा तद्यानं योऽधिरोहति ।। २३ ।।
विष्णुलोके स जायेत यश्च युद्धेऽपराजितः ।।
अश्वमेधानवाप्नोति चतुरो न मृतस्स चेत्।। २४ ।।
यस्तु शस्त्रमनुत्सृज्य म्रियते वाहिनी मुखे ।।
सम्मुखो वर्तते शूरस्स स्वर्गान्न निवर्तते ।। २५ ।।
राजा वा राजपुत्रो वा सेनापतिरथापि वा ।।
हतक्षात्रेण यः शूरस्तस्य लोकोऽक्षयो भवेत् ।। २६ ।।
यावंति तस्य रोमाणि भिद्यन्तेऽस्त्रैर्महाहवे ।।
तावतो लभते लोकान्सर्वकामदुघाऽक्षयान् ।।२७।।
वीरासनं वीरशय्या वीरस्थानस्थितिस्स्थिरा ।।
सर्वदा भवति व्यास इह लोके परत्र च ।। २८ ।।।
गवार्थे ब्राह्मणार्थे च स्थानस्वाम्यर्थमेव च ।।
ये मृतास्ते सुखं यांति यथा सुकृतिनस्तथा ।। २९ ।।
यः कश्चिद्ब्राह्मणं हत्वा पश्चात्प्राणान्परित्यजेत् ।।
तत्रासौ स्वपतेर्युद्धे स स्वर्गान्न निवर्तते।।5.21.३०।।
क्रव्यादैर्दतिभिश्चैव हतस्य गतिरुत्तमा ।।
द्विजगोस्वामिनामर्थे भवेद्विपुलदाक्षया।।३१।।
शक्नोत्विह समर्थश्च यष्टुं क्रतुशतैरपि।।
आत्मदेहपरित्यागः कर्तुं युधि सुदुष्करः .।।३२।।
युद्धं पुण्यतमं स्वर्ग्यं रूपज्ञं सर्वतोमुखम् ।।
सर्वेषामेव वर्णानां क्षत्रियस्य विशेषतः ।।३३।।
भृशं चैव प्रवक्ष्यामि युद्धधर्मं सनातनम् ।।
यादृशाय प्रहर्तव्यं यादृशं परिवर्जयेत्।।३४।।
आततायिनमायांतमपि वेदांतगं द्विजम्।।
जिघांसंतं जिघांसेत्तु न तेन ब्रह्महा भवेत्।।३५।।
हंतव्योऽपि न हंतव्यः पानीयं यश्च याचते।।
रणे हत्वातुरान्व्यास स नरो ब्रह्महा भवेत् ।।३६।।
व्याधितं दुर्बलं बालं स्त्र्यनाथौ कृपणं ध्रुवम्।।
धनुर्भग्नं छिन्नगुणं हत्वा वै ब्रह्महा भवेत् ।।३७।।
एवं विचार्य्य सद्धीमान्भवेत्प्रीत्याः रणप्रियः।।
सजन्मनः फलं प्राप्य परत्रेह प्रमोदते।।३८।।
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां रणफलवर्णनं नामैकविंशोऽध्यायः ।।२१।।