शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः २०

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← अध्यायः १९ शिवपुराणम्/संहिता ५ (उमासंहिता)
अध्यायः २०
वेदव्यासः
अध्यायः २१ →

।। व्यास उवाच ।।
सनत्कुमार सर्वज्ञ तत्प्राप्तिं वद सत्तम ।।
यद्गत्वा न निवर्तंते शिवभक्तियुता नराः ।। १ ।।
।। सनत्कुमार उवाच ।।
पराशरसुत व्यास शृणु प्रीत्या शुभां गतिम् ।।
व्रतं हि शुद्धभक्तानां तथा शुद्धं तपस्विनाम् ।।२।।
ये शिवं शुद्धकर्माणस्सुशुद्धतपसान्विताः ।।
समर्चयन्ति तं नित्यं वन्द्यास्ते सर्वथान्वहम् ।।३।।
नातप्ततपसो यांति शिवलोकमनामयम् ।।
शिवानुग्रहसद्धेतुस्तप एव महामुने।।४।।
तपसा दिवि मोदन्ते प्रत्यक्षं देवतागणाः।।
ऋषयो मुनयश्चैव सत्यं जानीह मद्वचः ।।५।।
सुदुर्द्धरं दुरासाध्यं सुधुरं दुरतिक्रमम्।।
तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम् ।। ६ ।।
सुस्थितस्तपसि ब्रह्मा नित्यं विष्णुर्हरस्तथा।।
देवा देव्योऽखिलाः प्राप्तास्तपसा दुर्लभं फलम् ।।७।।
येन येन हि भावेन स्थित्वा यत्क्रियते तपः ।।
ततस्संप्राप्यतेऽसौ तैरिह लोके न संशयः ।। ८ ।।
सात्त्विकं राजसं चैव तामसं त्रिविधं स्मृतम् ।।
विज्ञेयं हि तपो व्यास सर्वसाधनसाधनम्।।९।।
सात्त्विकं दैवतानां हि यतीनामूर्द्ध्वरेतसाम् ।।
राजसं दानवानां हि मनुष्याणां तथैव च ।।
तामसं राक्षसानां हि नराणां क्रूरकर्मणाम् ।।5.20.१०।।
त्रिविधं तत्फलं प्रोक्तं मुनिभिस्तत्त्वदर्शिभिः ।।
जपो ध्यानं तु देवानामर्चनं भक्तितश्शुभम्।।११।।
सात्त्विकं तद्धि निर्दिष्टमशेषफलसाधकम् ।।
इह लोके परे चैव मनोभिप्रेतसाधनम् ।। १२ ।।
कामनाफलमुद्दिश्य राजसं तप उच्यते ।।
निजदेहं सुसंपीड्य देहशोषकदुस्सहैः ।। १३ ।।
तपस्तामसमुद्दिष्टं मनोभिप्रेतसाधनम् ।। १४ ।।
उत्तमं सात्त्विकं विद्याद्धर्मबुद्धिश्च निश्चला ।।
स्नानं पूजा जपो होमः शुद्धशौचमहिंसनम् ।।१५।।
व्रतोपवासचर्या च मौनमिन्द्रियनिग्रहः ।।
धीर्विद्या सत्यमक्रोधो दानं क्षांतिर्दमो दया ।।१६।।
वापीकूपतडागादेः प्रसादस्य च कल्पना ।।
कृच्छ्रं चांद्रायणं यज्ञस्सुतीर्थान्याश्रमाः पुनः ।। १७ ।।
धर्मस्थानानि चैतानि सुखदानि मनीषिणाम् ।।
सुधर्मः परमो व्यासः शिवभक्तेश्च कारणम् ।।१८।।
संक्रातिविषुवद्योगो नादमुक्ते नियुज्यताम्।।
ध्यानं त्रिकालिकं ज्योतिरुन्मनीभावधारणा ।।१९।।
रेचकः पूरकः कुम्भः प्राणायामस्त्रिधा स्मृतः ।।
नाडीसंचारविज्ञानं प्रत्याहारनिरोधनम् ।।5.20.२०।।
तुरीयं तदधो बुद्धिरणिमाद्यष्टसंयुतम्।।
पूर्वोत्तमं समुद्दिष्टं परज्ञानप्रसाधनम्।।२१।।
काष्ठावस्था मृतावस्था हरितावेति कीर्तिताः।।
नानोपलब्धयो ह्येतास्सर्वपापप्रणाशनाः ।।२२।।
नारी शय्या तथा पानं वस्त्रधूपविलेपनम्।।
ताम्बूलभक्षणं पंच राजैश्वर्य्यविभूतयः ।।२३।।
हेमभारस्तथा ताम्रं गृहाश्च रत्नधेनवः।।
पांडित्यं वेदशास्त्राणां गीतनृत्यविभूषणम्।ा२४।।
शंखवीणामृदंगाश्च गजेन्द्रश्छत्रचामरे।।
भोगरूपाणि चैतानि एभिश्शक्तोऽनुरज्यते ।। २५ ।।
आदर्शवन्मुनेस्नेहैस्तिलवत्स निपीड्यते।।
अरं गच्छेति चाप्येनं कुरुते ज्ञानमोहितः।।२६।।
जानन्नपीह संसारे भ्रमते घटियंत्रवत्।।
सर्वयोनिषु दुःखार्तस्स्थावरेषु चरेषु च।।२७।।
एवं योनिषु सर्वासु प्रतिक्रम्य भ्रमेण त।।
कालांतरवशाद्याति मानुष्यमतिदुर्लभम् ।। २८ ।।
व्युत्क्रमेणापि मानुष्यं प्राप्यते पुण्यगौरवात् ।।
विचित्रा गतयः प्रोक्ताः कर्मणां गुरुलाघवात्।।२९।।
मानुष्यं च समासाद्य स्वर्गमोक्षप्रसाधनम् ।।
नाचरत्यात्मनः श्रेयस्स मृतश्शोचते चिरम् ।।5.20.३०।।
देवासुराणां सर्वेषां मानुष्यं चाति दुर्लभं ।।
तत्संप्राप्य तथा कुर्यान्न गच्छेन्नरकं यथा ।। ३१ ।।
स्वर्गापवर्गलाभाय यदि नास्ति समुद्यमः ।।
दुर्लभं प्राप्य मानुष्यं वृथा तज्जन्म कीर्तितम् ।। ३२ ।।
सर्वस्य मूलं मानुष्यं चतुर्वर्गस्य कीर्तितम् ।।
संप्राप्य धर्मतो व्यास तद्यत्तादनुपालयेत्।।३३।।
धर्ममूलं हि मानुष्यं लब्ध्वा सर्वार्थसाधकम् ।।
यदि लाभाय यत्नः स्यान्मूलं रक्षेत्स्वयं ततः ।।३४।।
मानुष्येऽपि च विप्रत्वं यः प्राप्य खलु दुर्लभम् ।।
नाचरत्यात्मनः श्रेयः कोऽन्यस्तस्मादचेतनः ।। ३५ ।।
द्वीपानामेव सर्वेषां कर्मभूमिरियमुच्यते ।।
इतस्स्वर्गश्च मोक्षश्च प्राप्यते समुपार्जितः ।। ३६ ।।
देशेऽस्मिन्भारते वर्षे प्राप्य मानुष्यमध्रुवम् ।।
न कुर्यादात्मनः श्रेयस्तेनात्मा खलु वंचितः।।३७।।
कर्मभूमिरियं विप्र फलभूमिरसौ स्मृता ।।
इह यत्क्रियते कर्म स्वर्गे तदनुभुज्यते।।३८।।
यावत्स्वास्थ्यं शरीरस्य तावद्धर्मं समाचरेत्।।
अस्वस्थश्चोदितोऽप्यन्यैर्न किंचित्कर्तुमुत्सहेत् ।। ३९ ।।
अध्रुवेण शरीरेण ध्रुवं यो न प्रसाधयेत् ।।
ध्रुवं तस्य परिभ्रष्टमध्रुवं नष्टमेव च ।। 5.20.४० ।।
आयुषः खंडखंडानि निपतंति तदग्रतः ।।
अहोरात्रोपदेशेन किमर्थं नावबुध्यते ।। ४१ ।।
यदा न ज्ञायते मृत्युः कदा कस्य भविष्यति ।।
आकस्मिके हि मरणे धृतिं विंदति कस्तथा ।। ४२ ।।
परित्यज्य यदा सर्वमेकाकी यास्यति ध्रुवम् ।।
न ददाति कदा कस्मात्पाथेयार्थमिदं धनम् ।। ४३ ।।
गृहीतदानपाथेयः सुखं याति यमालयम् ।।
अन्यथा क्लिश्यते जंतुः पाथेयरहिते पथि ।।४४।।
येषां कालेय पुण्यानि परिपूर्णानि सर्वतः।।
गच्छतां स्वर्गदेशं हि तेषां लाभः पदेपदे ।।४५।।
इति ज्ञात्वा नरः पुण्यं कुर्यात्पापं विवर्जयेत् ।।
पुण्येन याति देवत्वमपुण्यो नरकं व्रजेत् ।। ४६ ।।
ये मनागपि देवेशं प्रपन्नाश्शरणं शिवम् ।।
तेऽपि घोरं न पश्यंति यमं न नरकं तथा।।४७।।
किंतु पापैर्महामोहैः किंचित्काले शिवाज्ञया ।।
वसंति तत्र मानुष्यास्ततो यांति शिवास्पदम् ।।४८।।
ये पुनस्सर्वभावेन प्रतिपन्ना महेश्वरम् ।।
न ते लिम्पंति पापेन पद्मपत्रमिवाम्भसा ।। ४९ ।।
उक्तं शिवेति यैर्नाम तथा हरहरेति च।।
न तेषां नरकाद्भीतिर्यमाद्धि मुनिसत्तम ।।5.20.५०।।
परलोकस्य पाथेयं मोक्षोपायमनामयम् ।।
पुण्यसंघैकनिलयं शिव इत्यक्षरद्वयम् ।। ५१ ।।
शिवनामैव संसारमहारोगेकशामकम् ।।
नान्यत्संसाररोगस्य शामकं दृश्यते मया ।। ५२ ।।
ब्रह्महत्यासहस्राणि पुरा कृत्वा तु पुल्कसः ।।
शिवेति नाम विमलं श्रुत्वा मोक्षं गतः पुरा ।। ५३ ।।
तस्माद्विवर्द्धयेद्भक्तिमीश्वरे सततं बुधः।।
शिवभक्त्या महाप्राज्ञ भुक्तिं मुक्तिं च विंदति।।५४।।
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां मनुविशेषकथनं नाम विंशोऽध्यायः ।। २० ।।