शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः २७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २६ शिवपुराणम्/संहिता ५ (उमासंहिता)
अध्यायः २७
वेदव्यासः
अध्यायः २८ →

देव्युवाच ।।
वायोस्तु पदमाप्नोति योगाकाशसमुद्भवम् ।।
तन्मे सर्वं समाचक्ष्व प्रसन्नस्त्वं यदि प्रभो ।। १ ।।
।। शंकर उवाच ।।
पुरा मे सर्वमाख्यातं योगिनां हितकाम्यया ।।
कालं जिगाय यस्सम्यग्वायोर्लिंगं यथा भवेत् ।। २ ।।
तेन ज्ञात्वा दिनं योगी प्राणायामपरः स्थितः ।।
स जयत्यागतं कालं मासार्द्धेनैव सुंदरि ।।। ३ ।।
हृत्स्थो वायुस्सदा वह्नेर्दीपकस्सोऽनुपावकः ।।
स बाह्याभ्यंतरो व्यापी वायुस्सर्वगतो महान् ।। ४ ।।
ज्ञानविज्ञानमुत्साहः सर्वं वायोः प्रवर्तते ।।
येनेह निर्जितो वायुस्तेन सर्वमिदं जगत् ।। ५ ।।
धारणायां सदा तिष्ठेज्जरामृत्युजिघांसया ।।
योगी योगरतः सम्यग्धारणाध्यानतत्परः ।। ६ ।।
लोहकारो यथा भस्त्रामापूर्य्य मुखतो मुने ।।
साधयेद्वायुना कर्म तद्वद्योगी समभ्यसेत् ।। ७ ।।
देवस्सहस्रके नेत्रपादहस्तसहस्रकः ।।
ग्रंथीन्हि सर्वमावृत्य सोऽग्रे तिष्ठेद्दशांगुलम् ।। ८ ।।
गायत्रीं शिरसा सार्द्धं जपेद्व्याहृतिपूर्विकाम् ।।
त्रिवारमायतप्राणाः प्राणायामस्स उच्यते ।।९।।
गतागता निवर्तंते चन्द्रसूर्यादयो ग्रहाः ।।
अद्यापि न निवर्तंते योगध्यानपरायणाः ।। 5.27.१० ।।
शतमब्दं तपस्तप्त्वा कुशाग्रापः पिबेद्द्विजः ।।
तदाप्नोति फलं देवि विप्राणां धारणैकया ।। ११ ।।
यो द्विजः कल्यमुत्थाय प्राणायामैकमाचरेत् ।।
सर्वं पापं निहंत्याशु ब्रह्मलोकं स गच्छति ।।१२।।
योऽतंद्रितस्सदैकांते प्रणायामपरो भवेत् ।।
जरां मृत्युं विनिर्जित्य वायुगः खेचरीति सः ।। १३ ।।
सिद्धस्य भजते रूपं कांतिं मेधां पराक्रमम् ।।
शौर्यं वायुसमो गत्या सौख्यं श्लाघ्यं परं सुखम् ।। १४ ।।
एतत्कथितमशेषं वायोस्सिद्धिं यदाप्नुते योगी ।।
यत्तेजसोऽपि लभते तत्ते वक्ष्यामि देवेशि ।। १५ ।।
स्थित्वा सुखासने स्वे शेते जनवचनहीने तु ।।
शशिरवियुतया तेजः प्रकाशयन्मध्यमे देशे ।। १६ ।।
वह्निगतं भ्रूमध्ये प्रकाशते यस्त्वतंद्रितो योगी ।।
दीपहीनध्वांत पश्येन्न्यूनमसंशयं लोके ।। १७ ।।
नेत्रे करशाखाभिः किंचित्संपीड्य यत्नतो योगी ।।
तारं पश्यन्ध्यायेन्मुहूर्तमर्द्धं तमेकभावोऽपि ।। १८ ।।
ततस्तु तमसि ध्यायन्पश्यते ज्योतिरैश्वरम्।।
श्वेतं रक्तं तथा पीतं कृष्णमिन्द्रधनुष्प्रभम् ।।१९।।
भुवोर्मध्ये ललाटस्थं बालार्कसमतेजसम्।।
तं विदित्वा तु कामांगी क्रीडते कामरूपधृक् ।। 5.27.२० ।।
कारणप्रशमावेशं परकायप्रवेशनम् ।।
अणिमादिगुणावाप्तिर्मनसा चावलोकनम्।।२१।।
दूरश्रवण विज्ञानमदृश्यं बहुरूपधृक् ।।
सतताभ्यासयोगेन खेचरत्वं प्रजायते ।। २२ ।।
श्रुताध्ययनसंपन्ना नानाशास्त्रविशारदाः।।
ज्ञानिनोऽपि विमुह्यंते पूर्वकर्मवशानुगाः ।। २३ ।।
पश्यंतोऽपि न पश्यंति शृण्वाना बधिरा यथा ।।
यथांधा मानुषा लोके मूढाः पापविमोहिताः ।। २४ ।।
वेदाहमेतं पुरुषं महांतमादित्यवर्णं तमसः परस्तात् ।।
तमेव विदित्वातिमृत्युमेति नान्यः पंथा विद्यते प्रायणायः ।। २५ ।।
एष ते कथितः सम्यक्तेजसो विधिरुत्तमः ।।
कालं जित्वा यथा योगी चामरत्वं प्रपद्यते ।।२६।।
पुनः परतरं वक्ष्ये यथा मृत्युर्न जायते ।।
सावधानतया देवि शृणुष्वैकाग्रमानसा ।। २७ ।।
तुरीया देवि भूतानां योगिनां ध्यानिनां तथा ।।
सुखासने यथास्थानं योगी नियतमानसः ।।२८।।
समुन्नतशरीरोऽपि स बद्ध्वा करसंपुटम् ।।
चञ्च्वाकारेण वक्त्रेण पिबन्वायुं शनैश्शनैः ।।२९।।
प्रस्रवंति क्षणादापस्तालुस्था जीवदायिकाः ।।
ता जिघ्रेद्वायुनादायामृतं तच्छीतलं जलम् ।।३८।।
पिबन्ननुदिनं योगी न मृत्युवशगो भवेत् ।।
दिव्यकायो महातेजाः पिपासा क्षुद्विवर्जितः ।। ३१ ।।
बलेन नागस्तुरगो जवेन दृष्ट्या सुपर्णस्सुश्रुतिस्तु दूरात् ।।
आकुंचिताकुंडलिकृष्णकेशो गंधर्वविद्याधरतुल्यवर्णः ।।३२।।
जीवेन्नरो वर्षशतं सुराणां सुमेधसा वाक्पतिना समत्वम्।।
एवं चरन् खेचरतां प्रयाति यथेष्टचारी सुखितस्सदैव ।। ३३ ।।
पुनरन्यत्प्रवक्ष्णमि विधानं यत्सुरैरपि ।।
गोपितं तु प्रयत्नेन तच्छृणुष्व वरानने ।। ३४ ।।
समाकुंच्याभ्यसेद्योगी रसनां तालुकं प्रति ।।
किंचित्कालांतरेणैव क्रमात्प्राप्नोति लंबिकाम्।।३५।।
ततः प्रस्रवते सा तु संस्पृष्टा शीतलां सुधाम् ।।
पिबन्नेव सदा योगी सोऽमरत्वं हि गच्छति ।। ३६ ।।
रेफाग्रं लंबकाग्रं करतलघटनं शुभ्रपद्मस्य बिन्दोस्तेनाकृष्टा सुधेयं पतति परपदे देवतानंदकारी ।।
सारं संसारतारं कृतकलुषतरं कालतारं सतारं येनेदं प्लावितांगं स भवति न मृतः क्षुत्पिपासाविहीनः।।३७।।
एभिर्युक्ता चतुर्भिः क्षितिधरतनये योगिभिर्वै धरैषा धैर्य्यान्नित्यं कुतोऽन्तं सकलमपि जगद्यत्सुखप्रापणाय।।
स्वप्ने देही विधत्ते सकलमपि सदा मानयन्यच्च दुःखं स्वर्गे ह्येवं धरित्र्याः प्रभवति च ततो वा स किञ्चिच्चतुर्णाम् ।। ३८ ।। तस्मान्मंत्रैस्तपोभिर्व्रतनियमयुतैरौषधैर्योगयुक्ता धात्री रक्ता मनुष्यैर्नयविनययुतैर्धर्मविद्भिः क्रमेण ।।
भूतानामादि देवो न हि भवति चलः संयुतो वै चतुर्णां तस्मादेवं प्रवक्ष्ये विधिमनुगदितं छायिकं यच्छिवाख्यम् ।।३९।।
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां कालवंचनशिवप्राप्तिवर्णनं नाम सप्तविंशोऽध्यायः।।२७।।