शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः २८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २७ शिवपुराणम्/संहिता ५ (उमासंहिता)
अध्यायः २८
वेदव्यासः
अध्यायः २९ →

देव्युवाच ।।
देवदेव महादेव कथितं कालवंचनम्।।
शब्दब्रह्मस्वरूपं च योगलक्षणमुत्तमम्।।१।।
कथितं ते समासेनच्छायिकं ज्ञानमुत्तमम्।।
विस्तरेण समाख्याहि योगिनां हितकाम्यया ।। २ ।।
।। शंकर उवाच ।।
शृणु देवि प्रवक्ष्यामिच्छायापुरुषलक्षणम् ।।
यज्ज्ञात्वा पुरुषः सम्यक्सर्वपापैः प्रमुच्यते ।।३।।
सूर्य्यं हि पृष्ठतः कृत्वा सोमं वा वरवर्णिनि ।।
शुक्लाम्बरधरस्स्रग्वी गंधधूपादिवासितः ।।४।।
संस्मरेन्मे महामंत्रं सर्वकामफलप्रदम्।।
नवात्मकं पिंडभूतं स्वां छायां संनिरीक्षयेत् ।। ५ ।।
दृष्ट्वा तां पुनराकाशे श्वेतवर्णस्वरूपिणीम् ।।
स पश्यत्येकभावस्तु शिवं परमकारणम्।।६।।
ब्रह्मप्राप्तिर्भवेत्तस्य कालविद्भिरितीरितम् ।।
ब्रह्महत्यादिकैः पापैर्मुच्यते नात्र संशयः ।।७।।
शिरोहीनं यदा पश्येत्षड्भिर्मासैर्भवेत्क्षयः।।
समस्तं वाङ्मयं तस्य योगिनस्तु यथा तथा।।८।।
शुक्ले धर्मं विजानीयात्कृष्णे पापं विनिर्दिशेत्।।
रक्ते बंधं विजानीयात्पीते विद्विषमादिशेत्।।९।।
विवाहो बंधुनाशस्स्याद्द्वितुंडे चैव क्षुद्भयम् ।।
विकटौ नश्यते भार्य्या विजंघे धनमेव हि ।।5.28.१०।।
पादाभावे विदेशस्स्यादित्येतत्कथितं मया ।।
तद्विचार्य्यं प्रयत्त्नेन पुरुषेण महेश्वरि ।। ११ ।।
सम्यक्तं पुरुषं दृष्ट्वा संनिवेश्यात्मनात्मनि ।।
जपेन्नवात्मकं मंत्रं हृदयं मे महेश्वरि ।। १२ ।।
वत्सरे विगते मंत्री तन्नास्ति यन्न साधयेत् ।।
अणिमादिगुणानष्टौ खेचरत्वं प्रपद्यते ।।१३।।
पुनरन्यत्प्रवक्ष्यामि शक्तिं ज्ञातुं दुरासदाम् ।।
प्रत्यक्षं दृश्यते लोके ज्ञानिनामग्रतः स्थितम् ।।१४।।
अज्ञेया लिख्यते लोके या सर्पीकृतकुण्डली ।।
सा मात्रा यानसंस्थापि दृश्यते न च पठ्यते ।।१५।।
ब्रह्माण्डमूर्ध्निगा या च स्तुता वेदैस्तु नित्यशः ।।
जननी सर्वविद्यानां गुप्तविद्येति गीयते ।। १६ ।।
खेचरा सा विनिर्दिष्टा सर्वप्राणिषु संस्थिता ।।
दृश्यादृश्याचला नित्या व्यक्ताव्यक्ता सनातनी ।। १७ ।।
अवर्णा वर्णसंयुक्ता प्रोच्यते बिंदुमालिनी ।।
तां पश्यन्सर्वदा योगी कृतकृत्योऽभिजायते ।।१८।।
सर्वतीर्थकृतस्नानाद्भवेद्दानस्य यत्फलम्।।
सर्वयज्ञफलं यच्च मालिन्या दर्शनात्तदा।।१९।।
प्राप्नोत्यत्र न संदेहस्सत्यं वै कथितं मया ।।
सर्वतीर्थेषु यत्स्नात्वा दत्त्वा दानानि सर्वशः ।।5.28.२०।।
सर्वेषां देवि यज्ञानां यत्फलं तल्लभेत्पुमान्।।
किं बहूक्त्या महेशानि सर्वान्कामान्समश्नुते।।२१।।
तस्माज्ज्ञानं यथायोगमभ्यसेत्सततं बुधः।।
अभ्यासाज्जायते सिद्धिर्योगोऽभ्यासात्प्रवर्धते।।२२।।
संवित्तिर्लभ्यतेऽभ्यासादभ्यासान्मोक्षमश्नुते।।
अभ्यासस्सततं कार्यो धीमता मोक्षकारणम्।।२३।।
इत्येतत्कथितं देवि भुक्तिमुक्तिफलप्रदम्।।
किमन्यत्पृच्छ्यते तत्त्वं वद सत्यं ब्रवीमि ते।।२४।।
सूत उवाच।।
इति श्रुत्वा ब्रह्मपुत्रवचनं परमार्थदम्।।
प्रसन्नोऽभूदति व्यासः पाराशर्य्यो मुनीश्वराः।।२५।।
सनत्कुमारं सर्वज्ञं ब्रह्मपुत्रं कृपानिधिम्।।
व्यासः परमसंतुष्टः प्रणनाम मुहुर्मुहुःष।२६।
ततस्तुष्टाव तं व्यासः कालेयस्स मुनीश्वरः।।
सनत्कुमारं मुनयः सुरविज्ञानसागरम्।।२७।।
व्यास उवाच ।।
कृतार्थोऽहं मुनिश्रेष्ठ ब्रह्मत्वं मे त्वया कृतम् ।।
नमस्तेऽस्तु नमस्तेऽतु धन्यस्त्वं ब्रह्मवित्तमः ।। २८ ।।
सूत उवाच ।।
इति स्तुत्वा स कालेयो ब्रह्मपुत्रं महामुनिम् ।।
तूष्णीं बभूव सुप्रीतः परमानंदनिर्भरः ।।२९।।
ब्रह्मपुत्रस्तमामंत्र्य पूजितस्तेन शौनकः ।।
ययौ स्वधाम सुप्रीतो व्यासोऽपि प्रीतमानसः ।। 5.28.३० ।।
इति मे वर्णितो विप्राः सुखदः परमार्थयुक् ।।
सनत्कुमारकालेयसंवादो ज्ञानवर्द्धनः ।।३१।।
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां छायापुरुषदर्शनवर्णनं नामाष्टाविंशोऽध्यायः ।।२८।।