शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः २९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २८ शिवपुराणम्/संहिता ५ (उमासंहिता)
अध्यायः २९
वेदव्यासः
अध्यायः ३० →

शौनक उवाच।।
श्रुतं मे महदाख्यानं यत्त्वया परिकीर्तितम् ।।
सनत्कुमारकालेयसंवादं परमार्थदम् ।।१।।
अतोहं श्रोतुमिच्छामि यथा सर्गस्तु ब्रह्मणः ।।
समुत्पन्नं तु मे ब्रूहि यथा व्यासाच्च ते श्रुतम् ।।२।।
सूत उवाच ।।
मुने शृणु कथां दिव्यां सर्वपापप्रणाशिनीम् ।।
कथ्यमानां मया चित्रां बह्वर्थां श्रुतविस्तराम् ।। ३ ।।
यश्चैनां पाठयेत्तां च शृणुयाद्वाऽप्यभीक्ष्णशः ।।
स्ववंशधारणं कृत्वा स्वर्गलोके महीयते ।। ४ ।।
प्रधानं पुरुषो यत्तन्नित्यं सदसदात्मकम् ।।
प्रधानपुरुषो भूत्वा निर्ममे लोकभावनः ।। ५ ।।
स्रष्टारं सर्वभूतानां नारायणपरायणम् ।।
तं वै विद्धि मुनिश्रेष्ठ ब्रह्माणममितौजसम् ।। ६ ।।
यस्मादकल्पयत्कल्पान्तमग्राश्शुचयो यतः ।।
भवंति मुनिशार्दूल नमस्तस्मै स्वयम्भुवे ।।७।।
तस्मै हिरण्यगर्भाय पुरुषायेश्वराय च ।।
नमस्कृत्य प्रवक्ष्यामि भूयः सर्गमनुत्तमम् ।।८।।
ब्रह्मा स्रष्टा हरिः पाता संहर्ता च महेश्वरः ।।
तस्य सर्गस्य नान्योऽस्ति काले काले तथा गते ।। ९ ।।
सोऽपि स्वयंभूर्भगवान्सिसृक्षुर्विविधाः प्रजाः ।।
अप एव ससर्जादौ तासु वीर्यमवासृजत् ।।5.29.१०।।
आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।।
अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ।। ११ ।।
हिरण्यवर्णमभवत्तदंडमुदकेशयम् ।।
तत्र जज्ञे स्वयं ब्रह्मा स्वयंभूरिति विश्रुतः ।। १२ ।।
हिरण्यगर्भो भगवानुषित्वा परिवत्सरम् ।।
तदंडमकरोद्द्वैधं दिवं भूमि च निर्ममे ।। १३ ।।
अधोऽथोर्द्ध्वं प्रयुक्तानि भुवनानि चतुर्द्दश ।।
तयोश्शकलयोर्मध्य आकाशममृजत्प्रभुः ।।१४।।
अप्सु पारिप्लवां पृथ्वीं दिशश्च दशधा दिवि ।।
तत्र काले मनो वाचं कामक्रोधावथो रतिम्।।१५।।
मरीचिमत्र्यंगिरसौ पुलस्त्यं पुलहं क्रतुम ।।
वसिष्ठं तु महतेजास्सोऽसृजत्सप्त मानसान्।। १६ ।।
सप्त बह्माण इत्येते पुराणे निश्चयं गताः ।।
ततोऽसृजत्पुनर्ब्रह्मा रुद्रान्क्रोधसमुद्भवान् ।। १७ ।।
सनत्कुमारं च ऋषिं सर्वेषामपि पूर्वजम् ।।
सप्त चैते प्रजायंते पश्चाद्रुद्राश्च सर्वतः ।। १८ ।।
अतस्सनत्कुमारस्तु तेजस्संक्षिप्य तिष्ठति ।।
तेषां सप्तमहावंशा दिव्या देवर्षिपूजिताः ।।१९।।
प्रजायन्ते क्रियावन्तो महर्षिभिरलंकृताः ।।
विद्युतोऽशनि मेघांश्च रोहितेन्द्रधनूंषि च ।।5.29.२०।।
पयांसि च ससर्जादौ पर्जन्यं च ससर्ज ह ।।
ऋचो यजूंषि सामानि निर्ममे यज्ञसिद्धये ।। २१ ।।
पूज्यांस्तैरयजन्देवानित्येवमनुशुश्रुम ।।
मुखाद्देवानजनयत्पितॄंश्चैवाथ वक्षसः ।।
प्रजनाच्च मनुष्यान्वै जघनान्निर्ममेऽसुरान् ।। २२ ।।
उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे ।।
आपवस्य प्रजासर्गं सृजतो हि प्रजापतेः ।।२३।।
सृज्यमानाः प्रजाश्चैव नावर्द्धन्त यदा तदा ।।
द्विधा कृत्वात्मनो देहं स्त्री चैव पुरुषोऽभवत्।। २४ ।।
ससृजेऽथ प्रजास्सर्वा महिम्ना व्याप्य विश्वतः ।।
विराजमसृजद्विष्णुस्स सृष्टः पुरुषो विराट् ।। २५ ।।
द्वितीयं तं मनुं विद्धि मनोरन्तरमेव च ।।
स वैराजः प्रजास्सर्वास्ससर्ज पुरुषः प्रभुः ।। २६ ।।
नारायणविसर्गस्य प्रजास्तस्याप्ययोनिजः ।।
आयुष्मान्कीर्तिमान्धन्यः प्रजावांश्चाभवत्ततः ।।२७।।
इत्येवमादिसर्गस्ते वर्णितो मुनिसत्तम ।।
आदिसर्गं विदित्वैवं यथेष्टां प्राप्नुयाद्गतिम् ।। २८ ।।
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायामादिसर्गवर्णनं नाम एकोनत्रिंशोऽध्यायः ।।२९।।