शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः ३०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २९ शिवपुराणम्/संहिता ५ (उमासंहिता)
अध्यायः ३०
वेदव्यासः
अध्यायः ३१ →

सूत उवाच ।।
संसृष्टासु प्रजास्वेव आपवोऽथ प्रजाप्रतिः ।।
लेभे वै पुरुषः पत्नीं शतरूपामयो निजाम्।। १ ।।
आपवस्य महिम्ना तु दिवमावृत्य तिष्ठतः ।।
धर्मेणैव महात्मा स शतरूपाप्यजायत ।। २ ।।
सा तु वर्षशतं तप्त्वा तपः परमदुश्चरम् ।।
भर्तारं दीप्ततपसं पुरुषं प्रत्यपद्यत ।। ३ ।।
स वै स्वायंभुवो जज्ञे पुरुषो मनुरुच्यते ।।
तस्यैकसप्ततियुगं मन्वंतरमिहोच्यते ।। ४ ।।
वैराजात्पुरुषाद्वीरा शतरूपा व्यजायत ।।
प्रियव्रतोत्तानपादौ वीरकायामजायताम् ।।५।।
काम्या नाम महाभागा कर्दमस्य प्रजापतेः ।।
काम्यापुत्रास्त्रयस्त्वासन्सम्राट्साक्षिरविट्प्रभुः ।।६।।
उत्तानपादोऽजनयत्पुत्राञ्छक्रसमान्प्रभुः ।।
ध्रुवं च तनयं दिव्यमात्मानंदसुवर्चसम्।। ७ ।।
धर्मस्य कन्या सुश्रोणी सुनीतिर्नाम विश्रुता ।।
उत्पन्ना चापि धर्म्मेण धुवस्य जननी तथा ।। ८ ।।
ध्रुवो वर्षसहस्राणि त्रीणि दिव्यानि कानने ।।
तपस्तेपे स बालस्तु प्रार्थयन्स्थानमव्ययम् ।। ९ ।।
तस्मै ब्रह्मा ददौ प्रीतस्स्थानमात्मसमं प्रभुः ।।
अचलं चैव पुरतस्सप्तर्षीणां प्रजापतिः ।।5.30.१०।।
तस्मात्पुष्टिश्च धान्यश्च ध्रुवात्पुत्रौ व्यजायताम् ।।
पुष्टिरेवं समुत्थायाः पञ्चपुत्रानकल्मषान् ।।११।।
रिपुं रिपुंजयं विप्रं वृकलं वृषतेजसम् ।।
रिपोरेवं च महिषी चाक्षुषं सर्वतोदिशम् ।।१२।।
अजीजनत्पुष्करिण्यां वरुणं चाक्षुषो मनुः ।।
मनोरजायन्त दश नड्वलायां महौजसः।।१३।।
कन्यायां हि मुनिश्रेष्ठ वैश्यजन्म प्रजायतेः।।
पुरुर्मासः शतद्युम्नस्तपस्वी सत्यवित्कविः ।।१४।।
अग्निष्टोमोऽतिरात्रश्चातिमन्युस्सुयशा दश।।
पूरोरजनयत्पुत्रान्षडाग्नेयी महाप्रभान् ।।१५।।
अङ्गं सुमनसं ख्यातिं सृतिमंगिरसं गयम्।।
अङ्गात्सुनीथा भार्य्या वै वेनमेकमसूयत।।१६।।
अपचारेण वेनस्य कोपस्तेषां महानभूत्।।
हुंकारेणैव तं जघ्नुर्मुनयो धर्मतत्पराः।।१७।।
अथ प्रजार्थमृषयः प्रार्थिताश्च सुनीथया।।
सारस्वतास्तदा तस्य ममंथुर्दक्षिणं करम्।।१८।।
वेनस्य पाणौ मथिते संबभूव ततः पृथुः ।।
स धन्वी कवची जातस्तेजसादित्यसन्निभः ।। १९ ।।
अवतारस्य विष्णोर्हि प्रजापालनहे तवे ।।
धर्मसंरक्षणार्थाय दुष्टानां दंडहेतवे ।।5.30.२०।।
पृथुर्वैन्यस्तदा पृध्वीमरक्षत्क्षत्रपूर्वजः ।।
राजसूयाभिषिक्तानामाद्यस्स वसुधापतिः ।।२१।।
तस्माच्चैव समुत्पन्नौ निपुणौ सूतमागधौ ।।
तेनेयं गौर्मुनिश्रेष्ठ दुग्धा सर्वहिताय वै ।। २२ ।।
सर्वेषां वृत्तिदश्चाभूद्देवर्षिसुर रक्षसाम् ।।
मनुष्याणां विशेषेण शतयज्ञकरो नृपः ।। २३ ।।
पृथोः पुत्रौ तु जज्ञाते धर्मज्ञौ भुवि पार्थिवौ ।।
विजिताश्वश्च हर्यक्षो महावीरौ सुविश्रुतौ ।।२४।।
शिखंडिनी चाजनयत्पुत्रं प्राचीनबर्हिषम् ।।
प्राचीनाग्राः कुशास्तस्य पृथिवीतलचारिणः।२५।।
समुद्रतनया तेन धर्मतस्सुविवाहिता।।
रेजेऽधिकतरं राजा कृतदारो महाप्रभुः।।२६।।
समुद्रतनयायास्तु दश प्राचीनबर्हिषः।।
बभूवुस्तनया दिव्या बहुयज्ञकरस्य वै ।। २७ ।।
सर्वे प्राचेतसा नाम्ना धनुर्वेदस्य पारगाः ।।
अपृथग्धर्माचरणास्तेऽतप्यंत महत्तपः ।। २८ ।।
दशवर्षसहस्राणि समुद्रसलिलेशयाः ।।
रुद्रगीतं जपंतश्च शिवध्यानपरायणाः ।। २९ ।।
तपश्चरत्सु पृथिव्यामभवंश्च महीरुहाः ।।
अरक्ष्यमाणायां पृथ्व्यां बभूवाथ प्रजाक्षयः ।। 5.30.३० ।।
तान्दृष्ट्वा तु निवृत्तास्ते तपसो लब्धसद्वराः ।।
चुक्रुधुर्मुनिशार्दूल दग्धुकामा स्तपोबलाः ।। ३१ ।।
प्राचेतसा मुखेभ्यस्ते प्रासृजन्नग्निमारुतौ ।।
वृक्षानुन्मूल्य वायुस्तानदहद्धव्यवाहनः ।। ३२ ।।
वृक्षक्षयं ततो दृष्ट्वा किंचिच्छेषेषु शाखिषु ।।
उपगम्याब्रवीदेतान्राजा सोमः प्रतापवान् ।। ३३ ।।
सोम उवाच ।।
कोपं यच्छत राजानस्सर्वे प्राचीनबर्हिषः ।।
अनुभूतानुकन्येयं वृक्षाणां वरवर्णिनी ।। ३४ ।।
भविष्यं जानता सा तु धृता गर्भेण वै मया ।।
भार्य्या वोऽस्तु महाभागास्सोमवंशविवर्द्धिनी ।। ३५ ।।
अस्यामुत्पत्स्यते विद्वान्दक्षो नाम प्रजापतिः ।।
सृष्टिकर्ता महातेजा ब्रह्मपुत्रः पुरातनः।।। ।।३६।।
युष्माकं तेजसार्द्धेन मम चानेन तेजसा ।।
ब्रह्मतेजोमयो भूपः प्रजा संवर्द्धयिष्यति ।। ३७ ।।
ततस्सोमस्य वचनाज्जगृहुस्ते प्रचेतसः ।।
भार्य्यां धर्मेण तां प्रीत्या वृक्षजां वरवर्णिनीम् ।।३८।।
तेभ्यस्तस्यास्तु संजज्ञे दक्षो नाम प्रजापतिः ।।
सोऽपि जज्ञे महातेजास्सोमस्यांशेन वै मुने ।। ३९ ।।
अचरांश्च चरांश्चैव द्विपदोऽथ चतुष्पदः ।।
संसृज्य मनसा दक्षो मैथुनीं सृष्टिमारभत् ।। 5.30.४० ।।
वीरणस्य सुतां नाम्ना वीरणीं स प्रजापतेः ।।
उपयेमे सुविधिना सुधर्मेण पतिव्रताम् ।। ४१ ।।
हर्य्यश्वानयुतं तस्यां सुतान्पुण्यानजीजनत् ।।
ते विरक्ता बभूवुश्च नारदस्योपदेशतः ।। ४२ ।।
तच्छुत्वा स पुनर्दक्षस्सुबलाश्वानजीजनत् ।।
नामतस्तनयांस्तस्यां सहस्रपरिसंख्यया ।।४३।।
तेऽपि भ्रातृपथा यातास्तन्मुनेरुपदेशतः ।।
नागमन्पितृसान्निध्यं विरक्ता भिक्षुमार्गिणः ।।४४।।
तच्छ्रुत्वा शापमाक्रुद्धो मुनये दुस्सहं ददौ ।।
कुत्रचिन्न लभस्वेति संस्थितिं कलहप्रिय ।। ४५ ।।
सांत्वितोऽथ विधात्रा हि स पश्चादसृजत्स्त्रियः ।।
महाज्वालास्वरूपेण गुणैश्चापि मुनीश्वरः ।। ४६ ।।
ददौ स दश धर्माय कश्यपाय त्रयोदश ।।
द्वे चैवं ब्रह्मपुत्राय द्वे चैवाङ्गिरसे तदा ।। ४७ ।।
द्वे कृशाश्वाय विदुषे मुनये मुनिसत्तम ।।
शिष्टास्सोमाय दक्षोऽपि नक्षत्राख्या ददौ प्रभुः ।। ४८ ।।
ताभ्यो दक्षस्य पुत्रीभ्यो जाता देवासुरादयः ।।
बहवस्तनया ख्यातास्तैस्सर्वैः पूरितं जगत् ।।४९।।
ततः प्रभृति विप्रेन्द्र प्रजा मैथुनसंभवाः ।।
संकल्पाद्दर्शनात्स्पर्शात्पूर्वेषां सृष्टिरुच्यते ।।5.30.५०।।
।। शौनक उवाच ।।
अंगुष्ठाद्ब्रह्मणो जज्ञे दक्षश्चोक्तस्त्वया पुरा।।
कथं प्राचेतसत्वं हि पुनर्लेभे महातपाः ।। ५१ ।।
एतं मे संशयं सूत प्रत्याख्यातुं त्वमर्हसि ।।
चित्रमेतत्स सोमस्य कथं श्वशुरतां गतः ।। ५२ ।।
।। सूत उवाच ।।
उत्पत्तिश्च निरोधश्च नित्यं भूतेषु वर्तते ।।
कल्पेकल्पे भवंत्येते सर्वे दक्षादयो मुने ।। ५३ ।।
इमां विसृष्टिं दक्षस्य यो विद्यात्सचराचराम् ।।
प्रजावानायुषा पूर्णस्स्वर्गलोके महीयते ।।५४।।
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सर्गवर्णनं नाम त्रिंशोऽध्यायः ।। ३० ।।