शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः ३१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३० शिवपुराणम्/संहिता ५ (उमासंहिता)
अध्यायः ३१
वेदव्यासः
अध्यायः ३२ →

शौनक उवाच ।।
देवानां दानवानां च गन्धर्वोरगरक्षसाम् ।।
सृष्टिं तु विस्तरेणेमां सूतपुत्र वदाशु मे ।।१।।
सूत उवाच ।।
यदा न ववृधे सा तु वीरणस्य प्रजापतिः ।।
सुतां सुतपसा युक्तामाह्वयत्सर्गकारणात् ।। २ ।।
स मैथुनेन धर्मेण ससर्ज विविधाः प्रजाः ।।
ताः शृणु त्वं महाप्राज्ञ कथयामि समासतः ।। ३ ।।
तस्यां पुत्रसहस्राणि वीरिण्यां पंच वीर्यवान्।।
आश्रित्य जनयामास दक्ष एव प्रजापतिः ।।४।।
एतान्सृष्टांस्तु तान्दृष्ट्वा नारदः प्राह वै मुनिः ।।
सर्वं स तु समुत्पन्नो नारदः परमेष्ठिनः ।।५।।
श्रुतवान्वा कश्यपाद्वै पुंसां सृष्टिर्भविष्यति ।।
दक्षस्येव दुहितृषु तस्मात्तानब्रवीत्तु सः ।। ६ ।।
अजानतः कथं सृष्टिं बालिशा वै करिष्यथ ।।
दिशं कांचिदजानंतस्तस्माद्विज्ञाय तां भुवम् ।। ७ ।।
इत्युक्ताः प्रययुस्सर्वे आशां विज्ञातुमोजसा ।।
तदंतं न हि संप्राप्य न निवृत्ताः पितुर्गृहम् ।।८।।
तज्ज्ञात्वा जनयामास पुनः पंचशतान्सुतान्।।
तानुवाच पुनस्सोऽपि नारदस्सर्वदर्शनः।। ९ ।।
नारद उवाच ।।
भुवो मानमजानंतः कथं सृष्टिं करिष्यथ ।।
सर्वे हि बालिशाः किं हि सृष्टिकर्तुं समुद्यताः ।। 5.31.१० ।।
सूत उवाच।।
तेऽपि तद्वचनं श्रुत्वा निर्यातास्सर्वतोदिशम् ।।
सुबलाश्वा दक्षसुता हर्यश्वा इव ते पुरा ।। ११ ।।
अनंतं पुष्करं प्राप्य गतास्तेऽपि पराभवम् ।।
अद्यापि न निवर्तंते समुद्रेभ्य इवापगाः ।। १२ ।।
तदाप्रभृति वै भ्राता भ्रातुरन्वेषणे रतः ।।
प्रयातो नश्यति मुने तन्न कार्य्यं विपश्चिता ।।१३।।
तांश्चापि नष्टान्विज्ञाय पुत्रान्दक्षः प्रजापतिः ।।
स च क्रोधा द्ददौ शापं नारदाय महात्मने।।१४।।
कुत्रचिन्न लभस्वेति संस्थितिं कलहप्रिय ।।
तव सान्निध्यतो लोके भवेच्च कलहस्सदा ।। १५ ।।
सांत्वितोऽथ विधात्रा हि स दक्षस्तु प्रजापतिः।।
कन्याः षष्ट्यसृजत्पश्चाद्वीरिण्यामिति नः श्रुतम्।।१६।।
ददौ स दश धर्माय कश्यपाय त्रयोदश ।।
सप्तविंशति सोमाय चतस्रोऽरिष्टनेमिने ।। १७ ।।
द्वे चैवं ब्रह्मपुत्राय द्वे चैवाङ्गिरसे तदा ।।
द्वे कृशाश्वाय विदुषे तासां नामानि मे शृणु ।।१८।।
अरुंधती वसुर्य्यामिर्लम्बा भानुर्मरुत्वती ।।
संकल्पा च मुहूर्ता च संध्या विश्वा च वै मुने ।। १९ ।।
धर्मपत्न्यो मुने त्वेतास्तास्वपत्यानि मे शृणु ।।
विश्वेदेवास्तु विश्वायास्साध्यान्साध्या व्यजायत ।।5.31.२०।।
मरुत्वत्यां मरुत्वंतो वसोस्तु वसवस्तथा ।।
भानोस्तु भानवस्सर्वे मुहूर्तायां मुहूर्तजाः।।२१।।
लम्बायाश्चैव घोषोऽथ नागवीथी च यामिजा ।।
पृथिवी विषमस्तस्यामरुन्धत्यामजायत ।।२२।।
संकल्पायास्तु सत्यात्मा जज्ञे संकल्प एव हि।।
अयादया वसोः पुत्रा अष्टौ ताञ्छृणु शौनक ।। २३ ।
अयो धुवश्च सोमश्च धरश्चैवानिलोऽनलः ।।
प्रत्यूषश्च प्रभासश्च वसवाऽष्टा च नामतः ।। २४ ।।
अयस्य पुत्रो वैतण्डः श्रमः शांतो मुनिस्तथा ।।
ध्रुवस्य पुत्रो भगवान्कालो लोकभावनः ।।२५।।
सोमस्य भगवान्वर्चा वर्चस्वी येन जायते ।।
धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा ।। २६ ।।
मनोहरायाश्शिशिरः प्राणोऽथ रमणस्तथा ।।
अनिलस्य शिवा भार्य्या यस्याः पुत्राः पुरोजवः ।।२७।।
अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु।।
अग्निपुत्रः कुमारस्तु शरस्तम्बे श्रियावृते।।२८।।
तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठतः।।
अपत्यं कृत्तिकानां तु कार्तिकेय इति स्मृतः।।२९।।
प्रत्यूषस्य त्वभूत्पुत्र ऋषिर्नाम्ना तु देवलः।।
द्वौ पुत्रौ देवलस्यापि प्रजावन्तौ मनीषिणौ।।5.31.३०।।
बृहस्पते तु भगिनी वरस्त्री ब्रह्मचारिणी ।।
योगसिद्धा जगत्कृत्स्नं समंताद्व्यचरत्तदा ।।३१।।
प्रभासस्य तु सा भार्य्या वसूनामष्टमस्य च।।
विश्वकर्मा महाभाग तस्य जज्ञे प्रजापतिः।।३२।।
कर्ता शिल्पसहस्राणां त्रिदशानां च वार्द्धकिः।।
भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः ।। ३३ ।।
यस्सर्वासां विमानानि देवतानां चकार ह ।।
मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः ।। ३४ ।।
मतांतरमाह ।।
रैवतोऽजो भवो भीमो वाम उग्रो वृषाकपिः ।।
अजैकपादहिर्बुध्न्यो बहुरूपो महानिति ।। ३९ ।।
सरूपायां प्रसूतस्य स्त्रियां रुद्रश्च कोटिशः ।।
तत्रैकादशमुख्यास्तु तन्नामानि मुने शृणु ।।३६।।
अजैकपादहिर्बुध्न्यस्त्वष्टा रुद्रश्च वीर्यवान्।।
हरश्च बहुरूपश्च त्र्यम्बकश्चापराजितः ।। ३७ ।।
वृषाकपिश्च शम्भुश्च कपर्दी रैवतस्तथा ।।
एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः ।। ३८ ।।
शतं त्वेवं समाख्यातं रुद्राणाममितौजसाम्।।
शृणु कश्यपपत्नीनां नामानि मुनिसत्तम।।३९।।
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सर्गवर्णनं नामैकऽत्रिंशोध्यायः ।। ३१ ।।