स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १८८

विकिस्रोतः तः
Jump to navigation Jump to search

॥ सूत उवाच ॥ ॥
ततस्तु पंचमे चाह्नि संजाते ते द्विजोत्तमाः ॥
श्वेतधौतांबराः सर्वे सुस्नाताः शुचयः स्थिताः ॥ ॥ १ ॥
चक्रुः सर्वाणि कर्माणि पुलस्त्येन प्रबोधिताः ॥
सदोमध्ये गताश्चैव ऋत्विग्वरणपूर्वकाः ॥ २ ॥
अध्वर्युणा समादिष्टान्प्रैषान्प्रोचुर्यथा क्रमम् ॥
होमार्थं दीप्तवह्नौ च ऋत्विग्भिः सुसमाहितैः ॥ ३ ॥
एतस्मिन्नेव काले तु ह्युद्गात्रा कर्म योजितम् ॥
शंकुभिः क्रियते यच्च साम गीतिप्रसूचितम्॥ ४ ॥
सप्तावर्तं द्विजश्रेष्ठाः सदोमध्यगतेन च ॥
यत्राऽऽगच्छंति ते सर्वे देवा यज्ञांशलालसाः ॥ ५ ॥
सोमपानकृते चैव विशेषेण मुदान्विताः ॥
प्रारब्धे सोमभक्ष्येऽथ गीते चोद्गातृनिर्मिते ॥ ६ ॥
आगता कन्यका चैका सामगीतिसमुत्सुका ॥
शंकुकर्णनजं चित्रं वांछमाना विचक्षणा ॥ ७ ॥
छन्दोगस्य सुता श्रेष्ठा देवशर्माभिधस्य च ॥
औदुम्बरीति नाम्ना सा सामश्रवणलालसा ॥ ८ ॥
उद्गातारं च सदसि वचनं व्याजहार सा ॥
यथायथा प्रवर्तंते शंकवः सामसूचिताः ॥ ९ ॥
दक्षिणाग्नौ द्रुतं गत्वा कुरु होमं यथोदितम् ॥
येन त्वं मुच्यसे पापान्न चेद्व्यर्थो भविष्यति ॥ ६.१८८.१० ॥
तस्यास्तद्वचनं श्रुत्वा साभिप्रायं द्विजोत्तमाः ॥
ततः स चिन्तयामास यावत्तद्व्याहृतं वचः ॥ ११ ॥
ततः पप्रच्छ तां कन्या मुद्गाता विस्मयान्वितः ॥
कुतस्त्वमसि चाऽऽयाता सुता कस्य वदस्व मे ॥ १२ ॥
॥ औदुम्बर्युवाच ॥ ॥
पर्वतस्य सुता चास्मि विख्याता देवशर्मणः ॥
जातिस्मरा महाभाग प्राप्ता गन्धर्वलोकतः ॥ १३ ॥
॥ उद्गातोवाच ॥ ॥
गन्धर्वस्य सुता कस्य केन शप्तासि पुत्रिके ॥
कदा ते भविता मोक्षो मानुषत्वस्य कीर्त्तय ॥ १४ ॥
॥ औदुम्बर्युवाच ॥ ॥
नारदः पर्वतश्चैव गन्धर्वौ विदितौ जनैः ॥
पर्वतस्य सुता चास्मि शप्ताहं नारदेन हि ॥ १५ ॥
विपंचीं वादयन्स्वैरं दृष्टः स मुनिसत्तमः ॥
अजानंत्या च तानानां विशेषं मूर्च्छनोद्भवम् ॥
मया स हसितोऽतीव तानभंगतया गतः ।। १६ ॥
ततः स कुपितो मह्यं ददौ शापं द्विजोत्तमः ॥
मिथ्यापहसितो यस्मादहं शापमतोऽर्हसि ॥ १७ ॥
मानुषाणामयं धर्मस्तस्मात्त्वं मानुषी भव ॥
मया प्रसादितः सोऽथ पित्रा सार्धं मुनीश्वरः ॥ १८ ॥
शापांतं कुरु मे नाथ बालिशाया विशेषतः ॥
मानुषत्वं च मे भूयात्सुस्थाने सुकुले विभो ॥ १९ ॥
सुस्थाने चांतकालश्च ब्राह्मणस्य निवेशने ॥
ततोऽहं तेन संप्रोक्ता चमत्कारपुरें शुभे । ६.१८८.२० ॥
देवशर्मा तु विप्रेंद्रः कुलीनः सर्वशास्त्रवित् ॥
तस्य तु ब्राह्मणी नाम्ना सत्यभामेति विश्रुता ॥ २१ ॥
तस्या गर्भं समासाद्य मानुषत्वं समाचर ॥
यदा पैतामहो यज्ञस्तस्मिन्क्षेत्रे भविष्यति ॥ २२ ॥
उद्गातुः समये तस्य शंकोश्चैव विपर्यये ॥
तदा तु स त्वया वाच्यो ह्यस्थाने शंकुराहितः ॥
सर्वदेवसभा मध्ये तदा मोक्षो भविष्यति ॥ २३ ॥
इमां मे दैविकीं कांतां तनुं पश्य द्विजोत्तम ॥
विमानं पश्य चायातं पित्रा संप्रेषितं मम ॥ २४ ॥ ॥
॥ उद्गातोवाच ॥ ॥
तुष्टोऽहं ते विशालाक्षि यज्ञस्याऽविघ्नकारके ॥
न वृथा दर्शनं मे स्याद्विशेषाद्देवसंभवे ॥
वरं वरय मत्तस्त्वं तस्मादौदुम्बरीप्सितम् ॥ २५ ॥
औदुम्बर्युवाच ॥ ॥
यदि मे यच्छसि वरं सन्तुष्टो ब्राह्मणोत्तम ॥
सर्वेषामेव देवानां पुरतश्च ददस्व तम् ॥ २६ ॥
अद्यप्रभृति यः कश्चिद्यज्ञं भूमौ समाचरेत् ॥
तस्मिन्सदसि मध्यस्था मूर्तिः कार्या यथा मम ॥ ॥ २७ ॥
ततो मत्पुरतश्चैव कार्यं शकुप्रचारणम् ॥
स्वर्गस्थाया भवेत्तुष्टिर्मम तेन कृतेन च ॥ २८ ॥
॥ सूत उवाच ॥ ॥
तस्यास्तद्वचनं श्रुत्वा उद्गाता तामथाब्रवीत् ॥
अद्यप्रभृति यः कश्चिद्यज्ञमत्र करिष्यति ॥ २९ ॥
सदोमध्ये तु तां स्थाप्य पूजयित्वा विलेपनैः ॥
वस्त्रैराभरणैश्चैव गन्धपुष्पानुलेपनैः ॥ ६.१८८.३० ॥
ततः शंकुप्रचारं तु करिष्यति तदग्रतः ॥
एतद्वाक्यं मया प्रोक्तं सर्वदेवसमा गमे ॥ ३१ ॥
नान्यथा भावि भद्रं ते त्वं संतोषं परं व्रज ॥
त्वया विरहितं भद्रे सदःकर्म करिष्यति ॥ ३२ ॥
वृथा भावि च तत्सर्वं यथा भस्महुतं तथा ॥
या नारी सदसो मध्ये फलैस्त्वां पूजयिष्यति ॥ ३३ ॥
फलेफले कोटिगुणं तस्याः श्रेयो भविष्यति ॥
सफलाश्च दिशः सर्वा भविष्यंति न संशयः ॥ ३४ ॥
वस्त्रमाभरणं या च पुष्पधूपादिकं तथा ॥
तुभ्यं दास्यति तत्सर्वं तस्याः कोटिगुणं फलम् ॥ ३५ ॥
परं तावत्प्रतीक्षस्व मा विमानं समारुह ॥
देवि केनापि कार्येण तव पूजां समाचरे ॥ ३६ ॥
॥ देवा ऊचुः ॥ ॥
युक्तं त्वया द्विजश्रेष्ठ वचनं समुदाहृतम् ॥
अस्माकमपि वाक्येन सत्यमेतद्भविष्यति ॥ ३७ ॥
॥ सूत उवाच ॥ ॥
उद्गात्रा सैतमुक्ता च तिष्ठतिष्ठेत्यथोदिता ॥
देवी वरविमानेन गृहीता सांऽबरे स्थिता ॥ ३८ ॥
एतस्मिन्नेव काले तु देवशर्मसुताऽभवत् ॥
देवी नगरमध्यस्थां सर्वा नार्यो द्विजोत्तमाः ॥ ३९ ॥
कुतूहलात्समायातास्तस्या दर्शनलालसाः ॥
काचित्फलानि चादाय काचिद्वस्त्राणि भक्तितः ॥
यथार्हं पूजिता ताभिः सर्वाभिश्च द्विजोत्तमाः ॥ ६.१८८.४० ॥
श्रुत्वा स्वदुहितुः सोऽपि देवशर्मा समाययौ ॥
सपत्नीकः प्रहृष्टात्मा विस्मयोत्फुल्ललोचनः ॥ ४१ ॥
सोऽपि यावत्प्रणामं च तस्याश्चक्रे द्विजो त्तमाः ॥
सपत्नीकस्तदा प्रोक्त्वा निषिद्धस्तु तथा तया ॥ ४२ ॥
ताततात नमस्कारं मा मे कुरु सहांबया ॥
प्राप्ता स्वर्गगतिर्नाम मम नाशं प्रया स्यति ॥ ४३ ॥
तिष्ठात्रैव सपत्नीको यावदद्य दिनं विभो ॥
त्वामादाय सपत्नीकं यास्यामि त्रिदिवालयम् ॥
अनेनैव शरीरेण याचयित्वा सुरो त्तमान् ॥ ४४ ॥
ततस्तौ हर्षितौ तत्र पितरौ हि व्यवस्थितौ ॥
प्रेक्षमाणौ सुतायास्तां पूजां जनविनिर्मिताम् ॥
मन्यमानौ तदात्मानमधिकं सर्व देहिनाम् ॥ ४५ ॥
तस्य ये स्वजनाः केचित्सर्वे तेऽपि द्विजोत्तमाः ॥
शंसमाना सुतां तां तु तत्समीपं व्यवस्थिताः ॥ ४६ ॥
एतस्मिन्नंतरे प्राप्तो भृगुर्यत्र पितामहः ॥
निष्क्रम्य सदसस्तस्मात्कृताञ्जलिरुवाच तम् ॥ ४७ ॥
उद्गात्रा देव चात्मीयो मार्गः श्रुतिविवर्जितः ॥
विहितः कन्यकां धृत्वा सदोमध्ये सुरेश्वर ॥ ४८ ॥
देवत्वं जल्पितं तस्या नागर्याः सुरसंनिधौ ॥
सोमपानं तथा कुर्मो वयं तत्र तया सह ॥ ४९ ॥
ततो विधिस्तमानीय पप्रच्छ द्विजसत्तमाः॥
काऽसौ कन्या किमर्थं च सदोमध्ये धृता त्वया॥६.१८८.५॥।
सोऽब्रवीच्छापभ्रष्टेयं गन्धर्वी ब्राह्मणालये ॥
अवतीर्णा विधेर्यज्ञे मुक्ति रस्याः प्रकीर्तिता ॥५१॥
नारदेन पुरा देव कोपेन च तथा मुदा ॥
तस्या देव वरो दत्तो मया तुष्टेन सांप्रतम् ॥ ५२ ॥
शंकुप्रचारं नो बाह्यं तव संपत्स्यते क्वचित् ॥
देवैः सर्वैः समानीता प्रतिष्ठां प्रपितामह ॥ ५३ ॥
एतस्मिन्नंतरे प्राप्ताः कैलासाच्च द्विजोत्तमाः ॥
श्रुत्वा चौदुंबरीजातं माहात्म्यं धरणीतले ॥ ५४ ॥
यज्ञे पैतामहे चैव हाटकेश्वरसंभवे ॥
क्षेत्रे पुण्यतमे तत्र पूजार्थं द्विजसत्तमाः ॥५५॥
हृष्टा मातृगणा ये च अष्टषष्टिप्रमाणतः ॥
पूज्यंते ये च गन्धर्वैः सिद्धैः साध्यैर्मरुद्गणैः ॥ ५६ ॥
पृथक्पृथग्विधै रूपैर्लोकविस्मयकारकैः ॥
नृत्यंत्यश्च हसंत्यश्च गायंत्यश्च तथापराः ॥ ॥ ५७ ॥
तासां कोलाहलं श्रुत्वा ब्रह्मविष्णुपुरःसराः ॥
विस्मयं परमं प्राप्ताः सर्वे देवाः सवासवाः ॥ ५८ ॥
किमेतदिति जल्पंतः प्रोत्थिता यज्ञमंडपात् ॥
एतस्मिन्नंतरे प्राप्ताः सर्वास्ता यत्र पद्मजः ॥ ५९ ॥
प्रणम्य शिरसा हृष्टास्ततः प्रोचुस्तु सादरम् ॥
वयमेवं समायाताः श्रुत्वा ते यज्ञमुत्तमम् ॥ ६.१८८.६० ॥
आमंत्रिताश्च देवेश वायुना जगदायुना ॥
यज्ञभागा न चास्माकं विद्यंते यज्ञकर्मणि ॥ ६१ ॥
एतान्येव दिनानीह नायातास्तेन पद्मज ॥
औदुंबरीं वयं श्रुत्वा ह्यपूर्वां तेन संगताः ॥ ६२ ॥
सा दृष्ट्वा पूजिताऽस्माभिः प्रणिपातपुरःसरम्॥।
पर्वतस्य सुता यस्माद्गन्धर्वस्य महात्मनः ॥ ६३ ॥
सर्वकामप्रदा स्त्रीणां सर्वदेवैः प्रतिष्ठिता ॥
स्थानं दर्शय चास्माकं त्वं देव प्रपितामह ॥ ६४ ॥
अष्टषष्टिप्रमाणश्च गणोऽस्माकं व्यवस्थितः ॥
तच्छ्रुत्वा पद्मजो ज्ञात्वा संकीर्णं यतमंडपम् ॥
व्याप्तं देवगणैः सर्वैस्त्रयस्त्रिंशत्प्रमाणकैः ॥ ६५ ॥
ततो मध्यगमाहूय स तदा नगरोद्भवम् ॥
श्रुताध्ययनसंपन्नं वृहस्पतिमिवापरम् ॥
अब्रवीच्छ्लक्ष्णया वाचा त्यक्ता मौनं पितामहः ॥ ६६ ॥
त्वं गत्वा मम वाक्येन विप्रान्नागरसंभवान् ॥
प्रब्रूहि गोत्रमुख्यांश्च ह्यष्टषष्टिप्रमाणतः ॥ ६७ ॥
एते मातृगणाः प्राप्ता अष्टषष्टिप्रमाणकाः ॥
एकैक गोत्रमुख्याश्च एकैकस्य प्रमाणतः ॥ ६८ ॥
स्वेस्वे भूमिविभागे च स्थानं यच्छतु सांप्रतम् ॥
एतत्साहाय्यकं कार्यं भवद्भिर्मम नागराः ॥
प्रसादं प्रचुरं कृत्वा येन तुष्टिं प्रयांति च ॥ ६९ ॥
ततः स सत्वरं गत्वा तान्समाहूय नागरान्॥
प्रोवाच विनयोपेतः प्रणिपत्य ततः परम् ॥ ६.१८८.७० ॥
तच्छ्रुत्वा नागराः सर्वे संतोषं परमं गताः॥
एकैकस्य गणस्यैव ददुः स्थानं निजं तदा॥७१॥
ततस्ताः मातरः सर्वाः प्रणिपत्य पितामहम्॥
तदनन्तरमेवाथ गायत्रीं भक्तिपूर्वकम्॥७२॥
विप्रसंसूचिते स्थाने सर्वाश्चैव व्यवस्थिताः॥
पूजितास्तर्पिताश्चैव बलिभिर्विविधैरपि॥७३॥
ततो गायन्ति ता हृष्टा नृत्यंति च हसंति च॥
तर्पिता ब्राह्मणेन्द्रैश्च प्रोचुश्च तदनन्तरम्॥७४॥
न यास्यामो परं स्थानं स्थास्यामोत्रैव सर्वदा॥
ईदृशा यत्र विप्रेन्द्राः सर्वे भक्तिसमन्विताः॥७५॥
ईदृशं च महाक्षेत्रं हाटकेश्वरसंभवम्॥
एतस्मिन्नेव काले तु सावित्री तत्र संस्थिता॥७६॥
प्रणिपत्य द्विजैः सर्वैर्गच्छमाना निवारिता॥
मा देवयजनं गच्छ सावित्रि पतिवल्लभे॥७७॥
ब्रह्मणा परिणीतास्ति गायत्रीति वरांगना॥७८॥
तच्छ्रुत्वा वचनं तेषां सावित्री भ्रांतलोचना॥
दुःखशोकसमोपेता बाष्पव्याकुललोचना॥७९॥
दृष्ट्वा ता नृत्यमानाश्च गायमानास्तथैव च॥
उत्कूर्दतीर्धरापृष्ठे संतोषं परमं गताः॥६.१८८.८०॥
शशापाथ च सावित्री बाष्पगद्गदया गिरा।
सपत्न्या मम यत्पूजां कृत्वा वै सुसमागताः॥८१॥
न प्रणामः कृतोऽस्माकं मम दुःखेन दुःखिताः ॥
तस्मान्नैवापरं स्थानं गमिष्यथ कथंचन ॥ ८२ ॥
नागराणां च नो पूजा कदाचित्प्रभविष्यति ॥
न प्रासादोऽथ युष्माकं कदाचित्संभविष्यति ॥ ८३ ॥
शीतकाले तु शीतेन ह्युष्णकाले च रश्मिभिः ॥
वर्षाकाले तु तोयेन क्लेशं यास्य थ भूरिशः ॥८४॥
एवमुक्त्वा ततो देवी सा तत्रैव व्यवस्थिता ॥
नागराणां वरस्त्रीभिः सर्वाभिः परिवारिता ॥ ८५ ॥
संबोध्यमाना सततं सुस्त्रीणां चेष्टितेन च ॥
एतस्मिन्नेव काले तु भगवांस्तीक्ष्णदीधितिः ॥ ८६ ॥
अस्तं गतो महाञ्छब्दः प्रस्थितो यज्ञमंडपे ॥
याज्ञिकानां तु विप्राणां सुमहाञ्छास्त्रसंभवः ॥ ८७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये मातृगणगमनसावित्रीदत्त मातृगणशापवर्णनंनामाष्टाशीत्युत्तरशततमोऽध्यायः ॥१८८॥