ऋग्वेदः सूक्तं १०.१२६

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.१२६ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १०.१२५ ऋग्वेदः - मण्डल १०
शैलूषिः कुल्मलबर्हिषः, वामदेव्योंऽहोमुग्वा
सूक्तं १०.१२७ →
दे. विश्वे देवाः। उपरिष्टाद्बृहती, ८ त्रिष्टुप्
मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१


न तमंहो न दुरितं देवासो अष्ट मर्त्यम् ।
सजोषसो यमर्यमा मित्रो नयन्ति वरुणो अति द्विषः ॥१॥
तद्धि वयं वृणीमहे वरुण मित्रार्यमन् ।
येना निरंहसो यूयं पाथ नेथा च मर्त्यमति द्विषः ॥२॥
ते नूनं नोऽयमूतये वरुणो मित्रो अर्यमा ।
नयिष्ठा उ नो नेषणि पर्षिष्ठा उ नः पर्षण्यति द्विषः ॥३॥
यूयं विश्वं परि पाथ वरुणो मित्रो अर्यमा ।
युष्माकं शर्मणि प्रिये स्याम सुप्रणीतयोऽति द्विषः ॥४॥
आदित्यासो अति स्रिधो वरुणो मित्रो अर्यमा ।
उग्रं मरुद्भी रुद्रं हुवेमेन्द्रमग्निं स्वस्तयेऽति द्विषः ॥५॥
नेतार ऊ षु णस्तिरो वरुणो मित्रो अर्यमा ।
अति विश्वानि दुरिता राजानश्चर्षणीनामति द्विषः ॥६॥
शुनमस्मभ्यमूतये वरुणो मित्रो अर्यमा ।
शर्म यच्छन्तु सप्रथ आदित्यासो यदीमहे अति द्विषः ॥७॥
यथा ह त्यद्वसवो गौर्यं चित्पदि षिताममुञ्चता यजत्राः ।
एवो ष्वस्मन्मुञ्चता व्यंहः प्र तार्यग्ने प्रतरं न आयुः ॥८॥

[सम्पाद्यताम्]

सायणभाष्यम्

' न तम् ' इत्यष्टर्चं चतुर्दशं सूक्तं शिलूषपुत्रस्य कुल्मलबर्हिषस्यार्षं वामदेवपुत्रस्यांहोमुङ्नाम्नो वा । वैश्वदेवम् । अष्टमी त्रिष्टुप् शिष्टा उपरिष्टाद्बृहत्यः । त्र्यष्टकद्वादशकवत्युपरिष्टाद्बृहती । ' अन्त्यश्चेदुपरिष्टाद्बृहती ' ( अनु. ७.४) इति हि तल्लक्षणम् । तथा चानुक्रान्तं- न तं शैलूषः३ कुल्मलबर्हिषो३ वामदेव्यो वांहोमुग्वैश्वदेवमुपरिष्टाद्बार्हतमन्त्या त्रिष्टुप् ' इति । गतो विनियोगः ।।

न तमंहो॒ न दु॑रि॒तं देवा॑सो अष्ट॒ मर्त्य॑म् ।

स॒जोष॑सो॒ यम॑र्य॒मा मि॒त्रो नय॑न्ति॒ वरु॑णो॒ अति॒ द्विषः॑ ॥

न । तम् । अंहः । न । दुःऽइतम् । देवासः । अष्ट । मर्त्यम् ।।

सजोषसः । यम् । अर्यमा । मित्रः । नयन्ति । वरुणः । अति । द्विषः ॥ १ ॥

हे “देवासः देवाः ॥ आज्जसेरसुक् ॥ “तं "मर्त्यं मनुष्यम् “अंहः पापं "दुरितं तत्फलरूपं दुर्गमन च “न “अष्ट न प्राप्नोति ॥ अशेश्छान्दसे लुङि ‘झलो झलि' इति सिचो लोपः। अडभावश्छान्दसः ॥ अरीन्नियच्छतीति “अर्यमा प्रमीतेस्त्रायको देवः मित्रः पापानां निवारयिता देवः “वरुणः । एते त्रयो देवाः “सजोषसः संगताः समानं प्रीयमाणा वा भवन्तः “द्विषः द्वेष्टॄन् शत्रूनतिक्रम्य “यं स्तोतारं “नयन्ति अभिमतं देशं प्रापयन्ति तं नाष्टेत्यन्वयः ॥


तद्धि व॒यं वृ॑णी॒महे॒ वरु॑ण॒ मित्रार्य॑मन् ।

येना॒ निरंह॑सो यू॒यं पा॒थ ने॒था च॒ मर्त्य॒मति॒ द्विषः॑ ॥

तत् । हि । वयम् । वृणीमहे । वरुण । मित्र । अर्यमन् ।

येन । निः । अंहसः । यूयम् । पाथ । नेथ । च । मर्त्यम् । अति । द्विषः ॥ २ ॥

हिरवधारणे । “तद्धि तदेव रक्षणं “वयं “वृणीमहे प्रार्थयामहे ॥ ‘ सतिशिष्टोऽपि विकरणस्य स्वरो लसार्वधातुकस्वरं न बाधते' (पा. म. ६. १. १५८, ११) इति वचनात्तिङ एव स्वरः शिष्यते । ' हि च' इति निघातप्रतिषेधः ॥ हे “वरुण हे “मित्र हे “अर्यमन् येन रक्षणेन “मर्त्यं स्तोतारम् “अंहसः पापात् “यूयं “निः "पाथ निःशेषेण रक्षथ ॥ ‘ पा रक्षणे'। अदादिकः । 'यद्वृत्तान्नित्यम्' इति निघातप्रतिषेधः ॥ येन च रक्षणेन मर्त्यं मनुष्यं स्तोतारं “द्विषः “अति “नेथ अतीत्य नयथ अभीष्टं प्रापयथ तद्वृणीमह इत्यन्वयः ॥ नयतेश्छान्दसः शपो लुक् ॥


ते नू॒नं नो॒ऽयमू॒तये॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।

नयि॑ष्ठा उ नो ने॒षणि॒ पर्षि॑ष्ठा उ नः प॒र्षण्यति॒ द्विषः॑ ॥

३.अयं वरुणो मित्रः च अर्यमा च देवाः नः अस्माकम् ऊतये रक्षणाय नूनम् अवश्यं भवन्तु । नेपणि नेतव्ये विषये हे वरुणादयः यूयं नः अस्मान् नयिष्ठाः नयत ।। वचनव्यत्यायः । यद्वा । प्रत्येकाभिप्रायेणैकवचनम् । छान्दसो लुङ् ।। उशब्दः समुच्चये पदपूरणार्थो वा । पर्षणि पारयितव्ये विषये नः अस्मान् द्विषः अति पर्पिष्ठाः अतिपारयथ ।। नयिष्ठा इतिवत्प्रक्रिया ।।


यू॒यं विश्वं॒ परि॑ पाथ॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।

यु॒ष्माकं॒ शर्म॑णि प्रि॒ये स्याम॑ सुप्रणीत॒योऽति॒ द्विषः॑ ॥

४.हे देवा वरुणादयः यूयं विश्वं सर्वं जगत् परि पाथ परितो रक्षथ । हे सुप्रणीतयः शोभनप्रणयना मित्रादयः युष्माकं युष्मदीये युष्माभिर्दत्ते प्रिये अनुकूले वेद्ये शर्मणि सुखे वयं स्याम भवेम । द्विषः द्वेष्टॄंश्च अति क्रामेम ।।


आ॒दि॒त्यासो॒ अति॒ स्रिधो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।

उ॒ग्रं म॒रुद्भी॑ रु॒द्रं हु॑वे॒मेन्द्र॑म॒ग्निं स्व॒स्तयेऽति॒ द्विषः॑ ॥

५.आदित्यासः अदितेः पुत्रा वरुणादयो देवा स्रिधः हिंसकान् शत्रूनस्मान् अति नयन्तु । मरुद्भिः पुत्रैः सहितम् उग्रम् उद्गूर्णतेजसं रुद्रम् इन्द्रमग्निं च स्वस्तये क्षेमाय हुवेम आह्वयेमहि ।। ह्वयतेराशीर्लिङि ' बहुलं छन्दसि ' इति संप्रसारणम् । लिङ्याशिष्यङ्।।आहूतास्ते अस्मान् द्विषः द्वेष्टॄन् अति नयन्तु।।


नेता॑र ऊ॒ षु ण॑स्ति॒रो वरु॑णो मि॒त्रो अ॑र्य॒मा ।

अति॒ विश्वा॑नि दुरि॒ता राजा॑नश्चर्षणी॒नामति॒ द्विषः॑ ॥

६.नेतारः नयनकुशलाः ।। नयतेः साधुकारिणि तृन् ।। वरुणादयो देवाः नः अस्माकं पापानि सु सुष्ठि तिरः तिरोधानमदर्शनं नयन्तु । उ इति पूरणः । चर्षणीनां मनुष्याणां राजानः स्वामिनो वरुणादयो देवाः विश्वानि सर्वाणि दुरिता दुरितानि दुर्गमनानि पापफलरूपाण्यस्मान् अति नयन्तु । द्विषः द्वेष्टॄन् शत्रूंश्च अति नयन्तु ।। ' नामन्यतरस्याम् ' इति चर्षणिशब्दात्परस्य नाम उदात्तत्वम् ।।


शु॒नम॒स्मभ्य॑मू॒तये॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।

शर्म॑ यच्छन्तु स॒प्रथ॑ आदि॒त्यासो॒ यदीम॑हे॒ अति॒ द्विषः॑ ॥

७.वरुणादयो देवाः ऊतये रक्षायै शुनं सुखम् अस्मभ्यं स्तोतृभ्यः प्रयच्छन्तु । तथा आदित्यासः अदितेः पुत्रास्ते सप्रथः सर्वतः पृथु विस्तीर्णं शर्म सुखं च प्रयच्छन्तु अस्मभ्यं ददतु । यत् शर्म वयम् ईमहे याचामहे । द्विषः च अति नयन्तु ।।


यथा॑ ह॒ त्यद्व॑सवो गौ॒र्यं॑ चित्प॒दि षि॒ताममु॑ञ्चता यजत्राः ।

ए॒वो ष्व१॒॑स्मन्मु॑ञ्चता॒ व्यंह॒ः प्र ता॑र्यग्ने प्रत॒रं न॒ आयुः॑ ॥

८.हे वसवः वासकाः। हे यजत्राः यागार्हा मित्रादयो देवाः ।। ' अमिनक्षि०' ( उ. सू. ३.१०५) इत्यादिना यजेरत्रन्प्रत्ययः ।। त्यत् ते प्रसिद्धा यूयम् ।। ' सुपां सुलुक्' इति विभक्तेर्लुक् ।। यथा ह यथा खलु पदि पादे सितां बद्धाम् । ' पद्दन् इत्यादिना पादशब्दस्य पदादेशः । ' ऊडिदं-पदादि ( पा. सू. ६. १. १७१) इत्यादिना सप्तम्या उदात्तत्वम् । ' षिञ् बन्धने ' इत्यस्मान्निष्ठा ।। ईदृशीं गौर्यं गौरीं गौरवर्णां सोमक्रयणीं गाम् ।। ' षिद्गौरादिभ्यश्च ' ( पा. सू. ४.१. ४१) इति ङीष् । अमि पूर्वः ' ( पा. सू. ६. १. १०७) इत्यत्र ' वा छन्दसि ' ( पा. सू. ६.१ .१०६) इत्यनुवर्तनात्पूर्वरूपस्य पूर्वसवर्णदीर्घस्य चाभावे यण् । ' उदात्तस्वरितयोर्यणः०' इति परस्यानुदात्तस्य स्वरितत्वम् ।। ईदृशीं गाम् अमुञ्चत यथा खलु यूयं विश्वावसोर्गन्धर्वान्मोचितवन्तः एवो एवमेव अस्मत् अस्मत्तः अंहः पापं सुष्ठु वि मुञ्चत विश्लेषयत । हे अग्ने नः अस्माकम् आयुः जीवनं प्रतरं प्र तारि । प्रकर्षेण त्वया प्रवर्धताम् । प्रपूर्वस्तिरतिर्वर्धनार्थः ।। प्रशब्दात्तरपि ' अमु च च्छन्दसि ' ( पा. सू. ५.४. १२) इत्यमुप्रत्ययः ।।

[सम्पाद्यताम्]

सूक्तोपरि संक्षिप्त टिप्पणी

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१२६&oldid=151763" इत्यस्माद् पुनः प्राप्तिः