सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः १०/कौल्मलबर्हिषम्

विकिस्रोतः तः
कौल्मलबर्हिषम्.
कौल्मलबर्हिषम्

परीतो षिञ्चता सुतं सोमो य उत्तमं हविः ।
दधन्वां यो नर्यो अप्स्वा३न्तरा सुषाव सोममद्रिभिः ।। १३१३ ।। ऋ. ९.१०७.१
नूनं पुनानोऽविभिः परि स्रवादब्धः सुरभिन्तरः ।
सुते चित्वाप्सु मदामो अन्धसा श्रीणन्तो गोभिरुत्तरं ।। १३१४ ।।

[सम्पाद्यताम्]

टिप्पणी

कौल्मलबर्हिषे द्वे (त्वं ह्येहि )(ग्रामगेयः)

कौल्मलबर्हिषं भवति। कुल्मलबर्हिर्वा एतेन स्वर्गं लोकमपश्यत् प्रजातिं भूमानमगच्छत् प्रजायते बहुर्भवति कौल्मलबर्हिषेण तुष्टुवानः - पञ्च.ब्रा १५.३.२०

अथ कौन्मलबर्हिषम्। एतेन वै कुन्मलबर्हिर् उभयान् पशून् अस्पृणोत् गव्यांश् चाश्व्यांश् च। तान् एवैतेन स्पृणोति। कुन्मलबर्हिर् वा अकामयतोभयान् पशून् अवरुन्धीय गव्यांश चाश्व्यांश् चेति। स एतत् सामापश्यत्। तेनास्तुत। त्वं ह्य् एहि चेरवे विदा भगं वसुत्तये। उद् वावृषस्व मघवन् गविष्टय उद् इन्द्रो अश्वमिष्टये॥ (कौल्मलबर्हिषे द्वे, साम २४०, ग्रामगेयः)। इत्य् एव गव्यांश् चाश्व्यांश् च पशून् अवारुन्द्ध। तैर् उ पशुभिर् इष्टवा स्वर्गम् एव लोकम् अगच्छत्। तद् एतत् पशव्यं स्वर्ग्यं साम। अव पशून् रुन्द्धे गच्छति स्वर्गं लोकं य एवं वेद। यद् उ कुन्मलबर्हिर् अपश्यत् तस्मात् कौन्मलबर्हिषम् इत्य् आख्यायते॥जैब्रा३.२५४