बौधायनश्रौतसूत्रम्/प्रश्नः ०६

विकिस्रोतः तः

6.1
अग्निष्टोमेन यक्ष्यमाणो भवति
स उपकल्पयते कृष्णाजिनं च कृष्णविषाणां च वासश्च मेखलां च सैषा पृथ्वी वेणीकार्या भवति त्रिवृदेकतःपाशा द्वाविꣳशतिं च दर्भपुञ्जीलानि नवनीतं चाञ्जनं च सतूलां च शरेषीकामौदुम्बरं च दण्डं चमसं च व्रतप्रदानꣳस्थालीꣳसशिक्याꣳसमेक्षणाम्
एतानि त्रयोदश यजमानस्
तावन्त्येव पत्नीमभितो भवन्ति कुम्बं च कुरीरं च वासश्च योक्त्रं चापरिमितानि च दर्भपुञ्जीलानि नवनीतं चाञ्जनं च सतूला च शरेषीकामृन्मयश्च पात्रः शङ्कुश्च स्थाली सशिक्या समेक्षणा
जुष्टे देवयजने शाला कारिता भवति
पुरोहविषि देवयजने याज्येदित्येतेषां यज्जोषयते
प्राचीनवꣳशा दिक्ष्वतीकाशा दक्षिणतो वर्षीयसी
तस्यै चतस्रो द्वारः कुर्वन्ति प्राचीं दक्षिणां प्रतीचीमुदीचीं दक्षिणतो व्रतश्रपणागारं कुर्वन्ति पश्चात्पत्नीशालम्
अथ यदि दूरे तीर्थं भवत्युत्तरेण शालां द्वौ कटपरिवारौ कुर्वन्ति पूर्वं यजमानायापरं पत्न्यै
तयोः प्राची द्वारौ कुर्वन्ति
तदुदकुम्भौ निधापयत्यथामावास्येन वा हविषेष्ट्वा नक्षत्रे वारण्योरग्नीन्समारोह्य शालामभिप्रैत्युत्तरेण शालां परीत्य पूर्वया द्वारा शालां प्रपाद्य गार्हपत्यस्यायतने मथित्वाग्नीन्विहृत्य मध्यमे वꣳशे राजानं प्रग्रथ्नन्ति
परिस्तृणन्ति
दक्षिणत उपविशतो ब्रह्मा च यजमानश्चाथ गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा सप्तहोतारं मनसानुद्रुत्याहवनीये जुहोत्यन्वारब्धे यजमाने स्वाहेत्य्
अपरं चतुर्गृहीतं गृहीत्वा यूपाहुतिं जुहोति यद्यत्र जुहोति
पूर्वाह्ण एवैतौ व्रतदुघयोर्वत्सौ बध्नन्त्यथाभ्यां व्रतोपायनीयं पाचयति
तस्याशितौ भवतः सर्पिर्मिश्रस्य पयोमिश्रस्याथाध्वर्युस्तीर्थ्यान्संभारान्याचत्यथाहैहि यजमानेति
पूर्वया द्वारोपनिष्क्रम्य यत्रापस्तद्यन्त्यथास्य प्राङ्मुखस्य दक्षिणं गोदानमद्भिरुनत्ति १
6.2
आप उन्दन्तु जीवसे दीर्घायुत्वाय वर्चस इत्यूर्ध्वाग्रं बर्हिरनूच्छ्रयत्योषधे त्रायस्वैनमिति
स्वधितिं तिर्यञ्चं निदधाति स्वधिते मैनꣳहिꣳसीरिति
प्रवपति देवश्रूरेतानि प्रवप इति
स्वस्त्युत्तराण्यशीयेत्युप्तान्तं प्रत्यभिमृशत एतयैवावृतोत्तरं गोदानमद्भिरुनत्ति यजुषा वा तूष्णीं वा
नापिताय क्षुरं प्रयच्छन्नाह नापितोप्तकेशश्मश्रुं मे निकृत्तनखं प्रब्रूतादिति
तं तथा प्राहाथैनमद्भिरभिषिञ्चत्यापो अस्मान्मातरः शुन्धन्तु घृतेन नो घृतपुवः पुनन्त्विति
संप्रधाव्य रजः प्रप्लावयति विश्वमस्मत्प्रवहन्तु रिप्रमित्युदेत्युदाभ्यः शुचिरा पूत एमीति
वसनस्यान्तेन प्रतिच्छाद्याप आचामत्यपोऽश्नादिति ब्राह्मणम्
अथ प्रदक्षिणमहतं वासः परिधत्ते सोमस्य तनूरसि तनुवं मे पाहीत्यथास्यैतन्नवनीतं विचितमुदशराव उपशेते
तस्य पाणिभ्याꣳसंप्रम्लाय मुखमेव प्रथममभ्यङ्क्ते महीनां पयोऽसि वर्चोधा असि वर्चो मयि धेहीत्य्
अनुलोममा पादाभ्याम्
अन्योऽस्य पृष्ठमभ्यनक्त्यथास्यैतदाञ्जनं पिष्टं दृषद्युपशेते सतूला च शरेषीका
तस्य प्राङ्मुखस्य प्रत्यङ्मुख उपविश्य सव्येन पाणिना दक्षिणमक्ष्यनक्ति वृत्रस्य कनीनिकासि चक्षुष्पा असि चक्षुर्मे पाहीति त्रिरनिधावं द्विरुत्तरम्
अप्यु पञ्च कृत्व आङ्क्त इति ब्राह्मणम्पञ्च कृत्व एव दक्षिणं पञ्च कृत्व उत्तरम्
अथैनमेकविꣳशत्या दर्भपुञ्जीलैः पवयति चित्पतिस्त्वा पुनातु वाक्पतिस्त्वा पुनातु देवस्त्वा सविता पुनात्वच्छिद्रे ण पवित्रेण वसोः सूर्यस्य रश्मिभिरिति
यजमानमतिवाचयति तस्य ते पवित्रपते पवित्रेण यस्मै कं पुने तच्छकेयमित्यथैनꣳसव्ये पाणावभिपात्य शालामानयत्या वो देवास ईमहे सत्यधर्माणो अध्वरे यद्वो देवास आगुरे यज्ञियासो हवामह इति
पूर्वया द्वारा शालां प्रपादयतीन्द्रा ग्नी द्यावापृथिवी आप ओषधीरित्यथैनमग्रेणाहवनीयं पर्याणीय दक्षिणत उदङ्मुखमुपवेश्याहवनीयमीक्षयति त्वं दीक्षाणामधिपतिरसीतीह मा सन्तं पाहीत्यात्मानम् २
6.3
यावदेवात्राध्वर्युश्चेष्टति तावदेष प्रतिप्रस्थाता पत्न्यै दक्षिणमुपपक्षमद्भिरुनत्ति तूष्णीं तूष्णीमूर्ध्वाग्रं बर्हिरनूच्छ्रयति
तूष्णीꣳस्वधितिं तिर्यञ्चं निदधाति
तूष्णीं प्रवपति
तूष्णीमुप्तान्तं प्रत्यभिमृशत एतयैवावृतोत्तरमुपपक्षमद्भिरुनत्ति तूष्णीमेव
नापिताय क्षुरं प्रयच्छन्नाह नापितोप्तोपपक्षां मे निकृत्तनखां प्रब्रूतादिति
तां तथा प्राहाथैनामद्भिरभिषिञ्चति तूष्णीं
तूष्णीꣳसंप्रधाव्य रजः प्रप्लावयति तूष्णीम्
अद्भिरुदेति तूष्णीम्वसनस्यान्तेन प्रतिच्छाद्याप आचामति
तूष्णीं प्रदक्षिणमहतं वासः परिधत्ते
तूष्णीमभ्यङ्क्ते
तूष्णीमाङ्क्तेऽथैनामपरिमितैर्दर्भपुञ्जीलैः पवयति तूष्णींतूष्णीमेवाथैनामानीयापरया द्वारा शालां प्रपाद्य प्राचीमुदानयन्वाचयति प्रैतु ब्रह्मणस्पत्नी वेदिं वर्णेन सीदतु । अथाहमनुकामिनी स्वे लोके विशा इहेत्यथ जघनेन गार्हपत्यमुपसीदति सुप्रजसस्त्वा वयं सुपत्नीरुपसेदिम । अग्ने सपत्नदम्भनमदब्धासो अदाभ्यमित्यथ पृष्ठ्याꣳस्तीर्त्वापः प्रणीयाग्नावैष्णवमेकादशकपालं दीक्षणीयामिष्टिं निर्वपति
तस्यै दशतयमुत्सीदति न यजमानं व्रतमुपनयति न पत्नीꣳसंनह्यति न यजमानभागं करोति न ब्रह्मभागं न बर्हिषदं पुरोडाशं करोति नान्वाहार्यं याचति न फलीकरणहोमेन चरति न समिष्टयजुर्जुहोति न पूर्णपात्रे यजमानं वाचयति न विष्णुक्रमान्क्रमतेऽथाध्वयुः प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य पत्नीः संयाज्य प्राङेत्य ध्रुवामाप्याय्याज्यस्थाल्यां प्रत्यवनीयाज्यस्थाल्याः स्रुवेणोपघातं दीक्षाहुतीर्जुहोति ३
6.4
आकूत्यै प्रयुजेऽग्नये स्वाहा मेधायै मनसेऽग्नये स्वाहा दीक्षायै तपसेऽग्नये स्वाहा सरस्वत्यै पूष्णेऽग्नये स्वाहेत्यथ स्रुचि चतुर्गृहीतं गृहीत्वा स्रुचा पञ्चमीं जुहोत्यापो देवीर्बृहतीर्विश्वशम्भुवो द्यावापृथिवी उर्वन्तरिक्षं बृहस्पतिर्नो हविषा वृधातु स्वाहेत्य्
अपरं चतुर्गृहीतं गृहीत्वाज्यस्य पूणाꣳर्! स्रुचमौद्ग्रहणं जुहोति विस्वे देवस्य नेतुर्मर्तो वृणीत सख्यम्। विश्वे राय इषुध्यसि द्युम्नं वृणीत पुष्यसे स्वाहेत्यत्रैतत्पूर्णपात्रमन्तर्वेदि निनयत्यथाग्रेणाहवनीयं पर्याहृत्य यजमानाय प्रयच्छति कृष्णाजिनं च कृष्णविषाणां च वासश्च मेखलां चौदुम्बरं दण्डं पञ्चममुष्णीषꣳषष्ठम्
अथ प्रतिप्रस्थाता पत्न्यै प्रयच्छति कुम्बं च कुरीरं च वासश्च योक्त्रं च शङ्कुं च ४
6.5
अथ यजमानायतने कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमोपस्तृणाति
तस्य शुक्लकृष्णे संमृशति शुक्लेऽङ्गुष्ठो भवति कृष्णेऽङ्गुलिरृक्सामयोः शिल्पे स्थस्ते वामारभे ते मा पातमास्य यज्ञस्योदृच इत्यथ दक्षिणं जान्वाच्याभिसर्पतीमां धियꣳशिक्षमाणस्य देव क्रतुं दक्षं वरुण सꣳशिशाधि । ययाति विश्वा दुरिता तरेम सुतर्माणमधि नावꣳरुहेमेत्यथोपस्थं कृत्वा प्रदक्षिणं मेखलां पर्यस्यत्यूर्गस्याङ्गिरस्यूर्णम्रदा ऊर्जं मे यच्छेति
पाहि मा मा मा हिꣳसीरिति निष्टर्क्यं ग्रन्थिं ग्रथ्नात्येतस्मिन्काले प्रतिप्रस्थाता योक्त्रेण पत्नीꣳसंनह्यत्याशासाना सौमनसं सं त्वा नह्यामीति द्वाभ्याम्
अथ यजमानं वाससा प्रोर्णोति विष्णोः शर्मासि शर्म यजमानस्य शर्म मे यच्छेति
वसनस्यातीकाशेषु वाचयति नक्षत्राणां मातीकाशात्पाहीति
प्रतिकृष्य वसनस्यान्तान्प्रदक्षिणमुष्णीषेण शिरो वेष्टयति श्रिया ते शिरो वेष्टयामि श्रियै यशसे ब्रह्मवर्चसायेत्य्
एतस्मिन्काले प्रतिप्रस्थाता पत्न्यै कुम्बकुरीरमध्यूहति तूष्णीम्
अथास्यैषा कृष्णविषाणा त्रिवलिर्वा पञ्चवलिर्वा शाण्या रज्ज्वा परितृणा मण्डचरवद्विग्रथिता
तां यजमानाय प्रयच्छतीन्द्र स्य योनिरसीति
मा मा हिꣳसीरिति यजमानः प्रतिगृह्णाति
तां वसनस्यान्तमायां दशायां बद्ध्वा तयान्तर्वेदि लोष्टमुद्धन्ति कृष्यै त्वा सुसस्याया इति
सुपिप्पलाभ्यस्त्वौषधीभ्य इति दक्षिणं गोदानं कण्डूयत एतस्मिन्काले प्रतिप्रस्थाता पत्न्यै शङ्कुमाबध्नात्येतेन कण्डूयस्वेत्यथास्मा ऊर्ध्वाग्रमौदुम्बरं दण्डं प्रयच्छति मुखेन संमितं सूपस्था देवो वनस्पतिरित्यूर्ध्वो मा पाह्योदृच इति यजमानः प्रतिगृह्णात्यथैनं यज्ञस्यान्वारम्भं वाचयति स्वाहा यज्ञं मनसा स्वाहा द्यावापृथिवीभ्याꣳस्वाहोरोरन्तरिक्षात्स्वाहा यज्ञं वातादारभ इत्यत्र मुष्टी करोति वाचं यच्छत्यथाहादीक्षिष्टायं ब्राह्मणोऽसावित्थंगोत्रोऽमुष्य पुत्रोऽमुष्य पौत्रोऽमुष्य नप्ता तमिन्द्रा येन्द्रा ग्निभ्यां वसुभ्यो रुद्रे भ्य आदित्येभ्यो विश्वेभो देवेभ्यो ब्राह्मणेभ्यश्च सोमपेभ्यः प्रब्रूम इति

त्रिरुपाꣳश्वाह
देवेभ्य एवैनं प्राह
त्रिरुच्चैरुपनिष्क्रम्योभयेभ्य एवैनं देवमनुष्येभ्यः प्राहेति ब्राह्मणम्
अथैनꣳसꣳशास्ति ५
6.6
दीक्षितोऽसि दीक्षितवादं वद सत्यमेव वद मानृतम्मा स्मयिष्ठार्मा कण्डूयथार्मापावृथा यदि स्मयासा अपिगृह्य स्मयासै यदि कण्डूयासै कृष्णविषाणया कण्डूयासै यदि वाचं विसृजेर्वैष्णवीमृचमनुद्र वताद्मा त्वान्यत्र दीक्षितविमितात्सूर्योऽभ्युदियाद्माभिनिम्रुक्ताद्यानि देवतानामानि यथाख्यातं तान्याचक्ष्वाथ यान्यदेवतानामानि यथाख्यातं तान्याचक्षाण उपरिष्टाद्विचक्षणं धेहि चनसितवतीं विचक्षणवतीं वाचं वद कृष्णाजिनान्मा व्यवच्छेत्था दण्डाच्चेति
स एवमेवैतत्सर्वं करोत्यथोपसमिन्धनवेलायामुत्तरेणाहवनीयं तिष्ठन्संप्रैषमाहाग्नीञ्ज्योतिष्मतः कुरुत दीक्षित वाचं यच्छ पत्नि वाचं यच्छेति
संप्रेष्य वाचंयमयोर्व्रते दोहयतोऽथाध्वर्युः पूर्वया द्वारोपनिष्क्रम्य दोहयित्वैतेनैव यथेतमेत्य गार्हपत्येऽग्निहोत्रविधिं चेष्टित्वा तप्त्वोदगुद्वास्य शीतीकृत्वातच्य वानातच्य वोत्तरे शालाखण्डे शिक्य आसजत्यथ प्रतिप्रस्थाता दक्षिणया द्वारोपनिष्क्रम्य दोहयित्वैतेनैव यथेतमेत्य व्रतश्रपणे तप्त्वोदगुद्वास्य शीतीकृत्वातच्य वानातच्य वा दक्षिणे शालाखण्डे शिक्य आसजत्य्
अथोदितेषु नक्षत्रेषु यजमानः कृष्णाजिनमासज्य पूर्वया द्वारोपनिष्क्रम्याग्रेण शालां तिष्ठन्भूर्भुवः सुवर्व्रतं कृणुत व्रतं कृणुतेति त्रिर्वाचं विसृजतेऽथातिथीनामुपस्थामेति
चनसितवतीं विचक्षणवतीं वाचं वदति
स यद्यु हामेध्यमुपाधिगच्छति तज्जपत्यबद्धं मनो दरिद्रं चक्षुः सूर्यो ज्योतिषाꣳश्रेष्ठो दीक्षे मा मा हासीरित्यथ यद्येनमभिवर्षत्युन्दतीर्बलं धत्तौजो धत्त बलं धत्त म मे दीक्षां मा तपो निर्वधिष्टेत्येवं तत्र जपति
तस्यैते यजुषी परिप्लवे आ सꣳस्थायै भवतोऽथास्मै निपतः काले यजमानायतने कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमोपस्तृणाति
स यदि बहुतयमुपस्तीर्णं भवति कृष्णाजिनादेवानन्तर्हितः संविशत्यथ संवेशनयजुर्जपति ६
6.7
अग्ने त्वꣳ सु जागृहि वयꣳसु मन्दिषीमहि । गोपाय नः स्वस्तये प्रबुधे नः पुनर्दद इति
दक्षिणतः शय एतद्वै यजमानस्यायतनꣳस्व एवायतने शयेऽग्निमभ्यावृत्य शये देवता एव यज्ञमभ्यावृत्य शय इति ब्राह्मणम्
अथैषा पत्नी जघनेन गार्हपत्यꣳसंविशति तूष्णीम्
अथाध्वर्युर्मध्यरात्र आद्रुत्य प्रबुद्धयजुर्वाचयति त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा । त्वं यज्ञेष्वीड्य इत्यथाप आचामति दैवीं धियं मनामहे सुमृडीकामभिष्टये । वर्चोधाम्यज्ञवाहसं सुपारा नो असद्वश इत्य्
अथास्मै कꣳसे वा चमसे वा निःषिच्य व्रतं प्रयच्छति
तद्दक्षिणतः परिश्रित्य व्रतयति ये देवा मनोजाता मनोयुजः सुदक्षा दक्षपितारस्ते नः पान्तु ते नोऽवन्तु तेभ्यो नमस्तेभ्यः स्वाहेत्य्यजुषा यावन्मात्रं व्रतयित्वा तूष्णीं भूयो व्रतयत्येतस्मिन्काले प्रतिप्रस्थाता पत्न्यै पात्रे निःषिच्य व्रतं प्रयच्छति
तत्सा परिश्रित्य व्रतयति तूष्णीं निर्णिज्य पात्रे प्रयच्छतोऽथ तथैव पुरा नक्षत्राणामन्तर्धानात्संप्रेष्य वाचंयमयोर्व्रते दोहयतोऽथोदित आदित्ये यजमानः कृष्णाजिनमासज्य पूर्वया द्वारोपनिष्क्रम्याग्रेण शालां तिष्ठन्भूर्भुवः सुवर्व्रतं कृणुत व्रतं कृणुतेति त्रिर्वाचं विसृजते
समानो वाचो विसर्गः समानꣳसंवेशनयजुः समानं प्रबुद्धयजुः समानमपामाचमनꣳसमानं व्रतनम्
अथ सनीहारान्प्रहिणोति
स यं मन्यते न मा प्रत्याख्यास्यतीति तं प्रथममभि प्रहिणोति विश्वे देवा अभि मामाववृत्रन्पूषा सन्या सोमो राधसा देवः सविता वसोर्वसुदावेत्याहरन्तं दृष्ट्वा जपति नानाहरन्तं रास्वेयत्सोमा भूयो भर मा पृणन्पूर्त्या विराधि माहमायुषेति
स यथारूपं प्रतिगृह्णाति ७

चन्द्र मसीति हिरण्यम्वस्त्रमसीति वास उस्रासीति गां हयोऽसीत्यश्वं छागोऽसीति छागम्मेषोऽसीति मेषम्
अथ यद्ब्राह्मणेनानादिष्टं भवति प्राजापत्यमसि मम भोगाय भवेत्येव तत्प्रतिगृह्णाति
ताः समुदायुत्य रक्षन्ति
तासां या नश्यति वा म्रियते वा वायवे त्वेति तामनुदिशति

याप्सु वा पाशे वा वरुणाय त्वेति तां या सं वा शीर्यते गर्तं वा पतति निरृत्यै त्वेति तां यामहिर्वा व्याघ्रो वा हन्ति रुद्रा य त्वेति तां तासां तिस्रः पराच्योऽथ येयं नष्टा यदि विन्देयुः कथꣳस्यादित्येतदनुदिष्टैव स्यादित्येतदेकं कमस्या अतः श्रेयाꣳसं प्रतिग्रहीतारं लभेत
दक्षिणाभिरेवैनाꣳसह दद्यादित्येकम्वायव्ययैवैनया यजेतेत्येतदपरम् ८
6.9
अथातः प्रयाणस्यैव मीमाꣳसा
दीक्षितं वायोगक्षेमो विन्दत्यन्यत्र वा देवयजनाद्दीक्षते सꣳसृजन्ति व्रते
संबध्नन्ति व्रतदुघयोर्वत्सवादधति यदाघेयं भवति नीडे गार्हपत्यं प्रउग आहवनीयम्
अपि वारण्योरग्नीन्समारोह्य बृहस्पतिवत्यर्चा प्रयाति भद्रादभि श्रेयः प्रेहि बृहस्पतिः पुरएता ते अस्त्वित्यथ यद्येनं यान्तं व्रतनवेलोपाधिगच्छत्युत्तरतोऽरणी निधाय दक्षिणतः परिश्रित्य व्रतयति
तूष्णीं तृणोदकायावस्यत्यथ यद्यपर्याणा अप उपाधिगच्छति तज्जपति देवीरापो अपां नपाद्य ऊर्मिर्हविष्य इन्द्रियावान्मदिन्तमस्तं वो मावक्रमिषमच्छिन्नं तन्तुं पृथिव्या अनु गेषमिति

सं वा गाहते सं वा तरति
सेतुमेव कृत्वात्येतीति ब्राह्मणम्
अथ यत्र वत्स्यन्भवति तदवस्यत्यथेमवस्य वर आ पृथिव्या इत्यथादित्यमुद्यन्तमुपतिष्ठत आरे शत्रून्कृणुहि सर्ववीर इत्यथ यत्र यक्ष्यमाणो भवति तदवस्यत्येदमगन्म देवयजनं पृथिव्या इत्यान्तादनुवाकस्य ९

6.10
अथातः क्रयस्यैवोपवसथः पर्याप्लवते
स उपकल्पयते चन्द्रं च छागां च कृष्णबलक्ष्यावूर्णास्तुके उष्णीषं द्वे वाससी द्वे कृष्णाजिने सोमक्रयणीꣳसैषारुणा पिङ्गलैकहायनी भवति सोमवाहनावनड्वाहौ सोमवाहनमनः प्रक्षालितमुद्धृतफलकꣳरोहितं चर्मानडुहं द्वयमिध्माबर्हिः कार्ष्मर्यमयान्परिधीनाश्ववालं प्रस्तरमैक्षवी विधृती स्थालीं पद्धरणीमꣳशुग्रहणꣳहिरण्यमौदुम्बरीꣳराजासन्दीं तस्यै नाभिदघ्नाः पादा भवन्त्यरत्निमात्राणि शीर्षाण्यनूच्यानि
सा मौञ्जीभी रज्जुभिर्व्यूता भवत्येकसराभिर्मनाग्वर्षीयसीमिव सम्राडासन्दीं यदि प्रवर्ग्यवान्सोमो भवत्यथाध्वर्युरपररात्र आद्रुत्य सꣳशास्ति त्रिस्तनव्रतं दोहयतेति

प्रातरुदित आदित्ये विसृष्टायां वाच्यग्रेण शालां तिष्ठन्देवयजनमध्यवस्यति यदि पुरस्तादनध्यवसितं भवत्यथाहैहि यजमानेति
पूर्वया द्वारा शालां प्रपाद्य पृष्ठ्याꣳस्तीर्त्वापः प्रणीयादित्यं चरुम्प्रायणीयामिष्टिं निर्वपति
हविष्कृता वाचं विसृज्य गार्हपत्य आज्यं विलाप्योत्पूयाहवनीये स्रुवाहुतिं जुहोति कविर्यज्ञस्य वितनोति पन्थां नाकस्य पृष्ठे अधि रोचने दिवः । येन हव्यं वहसि यासि दूत इतः प्रचेता अमुतः सनीयान्स्वाहेत्यथोपनिष्क्रम्य संप्रैषमाह सोमविक्रयिन्सोमꣳशोधयोपरवाणां काले रोहिते चर्मण्यानडुहेऽपामन्ते ब्राह्मणो दक्षिणत आस्तां ता गावो दूरं मा गुर्यासु सोमक्रयणी च सोमवाहनौ चानड्वाहौ सोमवाहनमनः प्रक्षालयतोद्धृतफलकमिति
यथासंप्रैषं ते कुर्वन्त्यथैतेनैव यथेतमेत्याथैतं चरुꣳश्रपयित्वाभिघार्योदञ्चमुद्वास्य षड्ढोत्रा प्रायणीयमासादयति
समानं कर्मा प्रयाजेभ्यः
पञ्च प्रयाजानिष्ट्वोदङ्ङत्याक्रम्य सꣳस्रावेण पञ्चकृत्वो ध्रुवामभिघार्य चरुमभिघारयत्युपभृतमन्ततोऽथ चतुर आज्यस्य गृह्णान आह १०

6.11
पथ्यायै स्वस्तय इत्युपाꣳश्वनुब्रूहीत्युच्चैरत्याक्रम्याश्राव्याह पथ्याꣳस्वस्तिमित्युपाꣳशु यजेत्युच्चैर्वषट्कृते पूर्वार्धे जुहोत्यथ चतुर एवाज्यस्य गृह्णान आहाग्नय इत्युपाꣳश्वनुब्रूहीत्युच्चैरत्याक्रम्याश्राव्याहाग्निमित्युपाꣳशु यजेत्युच्चैर्वषट्कृते दक्षिणार्धे जुहोत्य्
अथ चतुर एवाज्यस्य गृह्णान आह सोमायेत्युपाꣳश्वनुब्रूहीत्युच्चैरत्याक्रम्याश्राव्याह सोममित्युपाꣳशु यजेत्युच्चैर्वषट्कृतेऽपरार्धे जुहोत्यथ चतुर एवाज्यस्य गृह्णान आह सवित्र इत्युपाꣳश्वनुब्रूहीत्युच्चैरत्याक्रम्याश्राव्याह सवितारमित्युपाꣳशु यजेत्युच्चैर्वषट्कृत उत्तरार्धे जुहोत्यथोपस्तीर्य पूर्वार्धाच्चरोरवद्यन्नाहादित्यईत्युपाꣳश्वनुब्रूहीत्युच्चैः
पूर्वार्धादवदायापरार्धादवद्यत्यभिघारयति प्रत्यनक्त्यत्याक्रम्याश्राव्याहादितिमित्युपाꣳशु यजेत्युच्चैर्वषट्कृते मध्ये जुहोत्यथ वै भवत्यदितिमिष्ट्वा मारुतीमृचमन्वाह
मरुतो यद्ध वो दिव इत्यथोपस्तीर्योत्तरार्धाच्चरोरवद्यन्नाहाग्नये स्विष्टकृतेऽनुब्रूहीत्यथ वै भवत्यष्टावत्तः स्विष्टकृद्द्वादशावत्तेडा
द्विरभिघारयति न प्रत्यनक्त्यथैतन्मेक्षणमधोऽधः स्रुचावाग्नीध्रायोत्प्रयच्छन्नाहातिवालयतादेव मानुप्रहार्षीरित्यत्याक्रम्याश्राव्याहाग्निꣳस्विष्टकृतं यजेति
वषट्कृत उत्तरार्धपूर्वार्धेऽतिहाय पूर्वा आहुतीर्जुहोत्यत्रैतन्मेक्षणमाहवनीयेऽतिवाल्याद्भिरभ्युक्ष्योत्तरतः सादयत्यथोदङ्ङत्याक्रम्य यथायतनꣳस्रुचौ सादयित्वा प्राशित्रमवदायेडामवद्यत्युपहूतायामिडायामग्नीध आदधाति षडवत्तम्प्राश्नन्ति
मार्जयन्ते ११

6.12
अथ परिक्रमिणः सꣳशास्त्यनुच्छिष्टीकुर्वन्त एतं चरुं व्युद्धृत्य प्राश्नीताथैतां चरुस्थालीꣳसक्षामकाषामेतन्मेक्षणमेतं वेदमेतद्बर्हिश्चतुष्टयमुदयनीयाय निधत्तादिति
शंय्वन्तः प्रायणीयः संतिष्ठत
अत्रैतत्पूर्णपात्रमन्तर्वेदि निनयत्यथैतद्ध्रुवाज्यमाप्याय्य स्रुचि चतुर्गृहीतं गृहीत्वा सूत्रेण हिरण्यं निष्टर्क्यं बद्ध्वा दर्भनाड्यां प्रग्रथ्य स्रुच्यवदधातीयं ते शुक्र तनूरिदं वर्चस्तया संभव भ्राजं गच्छेत्यत्रैतां दर्भनाडीꣳस्रुग्दण्ड उपसंगृह्याहवनीये जुहोत्यन्वारब्धे यजमाने जूरसि धृता मनसा जुष्टा विष्णवे तस्यास्ते सत्यसवसः प्रसवे वाचो यन्त्रमशीय स्वाहेत्यपरं चतुर्गृहीतं गृहीत्वाथ याचति स्फ्यमुदपात्रं बर्हिर्हिरण्यमित्येतत्समादायाहैहि यजमानेत्यन्वग्यजमानोऽनूची पत्नी स्थालीं पद्धरणीमादाय पूर्वया द्वारोपनिष्क्रम्याग्रेण शालां तिष्ठन्यजमानमाज्यमवेक्षयति शुक्रमस्यमृतमसि वैश्वदेवꣳहविरित्यथैनꣳहिरण्यमन्तर्धायादित्यमुदीक्षयति सूर्यस्य चक्षुरारुहमग्नेरक्ष्णः कनीनिकां यदेतशेभिरीयसे भ्राजमानो विपश्चितेत्यथैताꣳसोमक्रयणीमग्रेण शालामुदीचीमतिवित्सयन्ति
तामनुमन्त्रयते चिदसि मनासीत्यान्तादनुवाकस्याथाह दक्षिणस्येर्मस्य सप्तमं पदं जोषयध्वमिति
तस्यै षट्पदान्यनुनिक्रामति १२

6.13
वस्व्यसि रुद्रा स्यदितिरस्यादित्यासि शुक्रासि चन्द्रा सीति
सप्तमं पदमभिगृह्णाति बृहस्पतिस्त्वा सुम्ने रण्वतु रुद्रो वसुभिराचिकेत्वित्यथैतस्मिन्पदे हिरण्यं निधाय संपरिस्तीर्याभिजुहोति पृथिव्यास्त्वा मूर्धन्नाजिघर्मि देवयजन इडायाः पदे घृतवति स्वाहेत्यपोद्धृत्य हिरण्यꣳस्फ्येन वा कृष्णविषाणया वा पदं परिलिखति परिलिखितꣳरक्षः परिलिखिता अरातय इदमहꣳरक्षसो ग्रीवा अपिकृन्तामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इदमस्य ग्रीवा अपिकृन्तामीत्य्
अथैनत्स्फ्येनोपसंग्राहं यावत्त्मूतं पद्धरण्याꣳसंवपत्यस्मे रायोऽस्मे राय इति त्रिस्त्वे राय इति यजमानाय प्रयच्छति
तोते राय इति यजमानः पत्न्या अथ पत्नीꣳसोमक्रयण्या समीक्षयति सं देवि देव्योर्वश्या पश्यस्वेत्यथ पत्नी यजमानमीक्षते त्वष्टीमती ते सपेय सुरेता रेतो दधाना वीरं विदेय तव संदृशीत्यथ यजमानः सोमक्रयणीमीक्षते माहꣳरायस्पोषेण वियोषमित्यथैनद्धिरण्यमद्भिः प्रक्षाल्य मध्यमायामङ्गुलौ बध्नीतेऽथैनं पदाशयमद्भिरुपसृजत्युत्सृजन्ति सोमक्रयणीं नयन्ति पत्नीं नि पद दधति १३

6.14
अथात्रैव तिष्ठन्याचति चन्द्रं च छागां च कृष्णबलक्ष्यावूर्णास्तुके उष्णीषं द्वे वाससी द्वे कृष्णाजिने सोमक्रयणीमित्यथ पृच्छति सोमविक्रयिञ्छुद्धस्ते सोमा३ इति
शुद्ध इतीतरः प्रत्याह

सुविचितꣳराजानं पुरस्ताद्भागाभिरुपतिष्ठत एष ते गायत्रो भाग इति मे सोमाय ब्रूतादेष ते त्रैष्टुभो भाग इति मे सोमाय ब्रूतादेष ते जागतो भाग इति मे सोमाय ब्रूताद्छन्दोमानाꣳसाम्राज्यं गच्छेति मे सोमाय ब्रूतादित्यथैतद्रो हितं चर्मानडुहमुत्तरलोमास्तीर्याथैतद्द्विगुणं वासः प्राचीनदशमुत्तरार्धे चर्मण उपस्तृणात्यथ हिरण्यवता पाणिना राजानमभिमृशत्यꣳशुना ते अꣳशुः पृच्यतां परुषा परुर्गन्धस्ते काममवतु मदाय रसो अच्युतोऽमात्योऽसि शुक्रस्ते ग्रह इत्यथैनमतिच्छन्दसर्चा मिमीत एकयैकयोत्सगं मिमीतेऽयातयाम्नियायातयाम्नियैवैनं मिमीते
सर्वास्वङ्गुष्ठमुपनिगृह्णात्यभि त्यं देवꣳसवितारमूण्योः कविक्रतुमर्चामि सत्यसवसꣳरत्नधामभि प्रियं मतिम्। ऊर्ध्वा यस्यामतिर्भा अदिद्युतत्सवीमनि हिरण्यपाणिरमिमीत सुक्रतुः कृपा सुवरिति
पञ्चकृत्वो यजुषा पञ्चकृत्वस्तूष्णीं दशकृत्वो मिमानोऽर्धवेलाꣳराज्ञो मिमीतेऽथातिशिष्टꣳराजानं प्रजाभ्यस्त्वेत्युपसमूहति
समुच्चित्य वसनस्यान्तान्प्रदक्षिणमुष्णीषेणोपनह्यति प्राणाय त्वेति
व्यानाय त्वेत्यनुशृन्थत्यथोपरिष्टादङ्गुल्यावकाशं कृत्वा यजमानमवेक्षयति प्रजास्त्वमनु प्राणिहि प्रजास्त्वामनु प्राणन्त्वित्यथैनं चर्मणि निदधाति
तं ततः कौत्स आदत्तेऽद्भिरभ्युक्ष्य चर्मोदूहत्य्
अथोपोत्थाय पृच्छति सोमविक्रयिन्क्रय्यस्ते सोमा३ इति
क्रय्य इतीतरः प्रत्याह
 मूजवता३ इति
मूजवतो हीतीतरः प्रत्याहाथैनं गवा पणते गवा ते क्रीणानीति
क्रीतः सोम इत्याह सोमविक्रयी वयाꣳसि व्याचक्ष्वेत्येषा ते सोमक्रयणी चन्द्रं ते छागा ते वस्त्रं त इत्यथैनꣳहिरण्येन पणते १४

6.15
सोमं ते क्रीणाम्यूर्जस्वन्तं पयस्वन्तं वीर्यवन्तमभिमातिषाहꣳशुक्रं ते शुक्रेण क्रीणामि चन्द्रं चन्द्रे णामृतममृतेन संयत्ते गोरित्युक्त्वास्मे चन्द्रा णीति यजमानाय प्रयच्छत्यथैनं प्रतीचीनग्रीवयाजया पणते तपसस्तनूरसि प्रजापतेर्वर्णस्तस्यास्ते सहस्रपोषं पुष्यन्त्याश्चरमेण पशुना क्रीणामीत्यस्मे ते बन्धुरिति यजमानमीक्षते
मयि ते रायः श्रयन्तामित्यात्मानम्
अथैनां प्रदक्षिणमावर्त्याद्भिरभ्युक्ष्योदीचीमुत्सृजति
सैषा कौत्सस्य भवत्यथ कौत्साद्रा जानमादत्ते मित्रो न एहि सुमित्रधा इति
तं यजमानस्योरौ दक्षिण आसादयतीन्द्र स्योरुमाविश दक्षिणमुशन्नुशन्तꣳस्योनः स्योनमित्यथैनं प्रत्यपोर्णुते यजमानोऽद्भिरभ्युक्ष्य कौत्साय वा परिकर्मिणे वोष्णीषं प्रयच्छत्यथ यजमानꣳशुक्लयोर्णास्तुकयाध्यस्यत्यस्मे ज्योतिरित्यथैतां कृष्णामुपग्रथ्नातीदमहꣳसर्पाणां दन्दशूकानां ग्रीवा उपग्रथ्नामीति
तया सोमविक्रयिणं विध्यति सोमविक्रयिणि तम इत्यथ सोमक्रयणाननुदिशति स्वान भ्राजाङ्घारे बम्भारे हस्त सुहस्त कृशानवेते वः सोमक्रयणास्तान्रक्षध्वं मा वो दभन्नित्य्
अथैनमादायोपोत्तिष्ठत्युदायुषा स्वायुषोदोषधीनाꣳरसेनोत्पर्जन्यस्य शुष्मेणोदस्थाममृताꣳअन्विति
दक्षिणत एतत्सोमवाहनमनः प्रागीषं योग्यकृतमुपस्थितं भवति
तदभिप्रैत्युर्वन्तरिक्षमन्विहीति
तस्य नीडे कृष्णाजिनमास्तृणात्यदित्याः सदोऽसीत्यदित्याः सद आसीदेति कृष्णाजिने राजानम्
अथैनमुपतिष्ठतेऽस्तभ्नाद्द्यामृषभो अन्तरिक्षममिमीत वरिमाणं पृथिव्या आसीदद्विश्वा भुवनानि सम्राड्विश्वेत्तानि वरुणस्य व्रतानीत्यथैनं वाससा परितनोति वनेषु व्यन्तरिक्षं ततान वाजमर्वत्सु पयो अघ्नियासु हृत्सु क्रतुं वरुणो विक्ष्वग्निं दिवि सूर्यमदधात्सोममद्र वित्यथोदु त्यं जातवेदसमिति सौर्यर्चा कृष्णाजिनं पुरस्तात्प्रत्यानह्यत्यथ सोमवाहनावानीयमानौ प्रतिमन्त्रयत उस्रावेतं धूर्षाहावनश्रू अवीरहणौ ब्रह्मचोदनविति
तयोर्दक्षिणं पूर्वं युनक्ति वरुणस्य स्कम्भनमसीति
वरुणस्य स्कम्भसर्जनमसीति शम्यामवगूहति
प्रत्यस्तो वरुणस्य पाश इति योक्त्रम्
एतयैवावृतोत्तरमनड्वाहं युनक्त्यथ दक्षिणामीषामन्वारभ्य संप्रैषमाह १५

6.16
सोमाय क्रीताय प्रोह्यमाणायानुब्रूहि सुब्रह्मण्य सुब्रह्मण्यामाह्वय मा तु त्वमाह्वा यजमान आह्वास्यतीति
यदा यजमानस्त्रिरुपाꣳश्वाह्वयतेऽथैष सुब्रह्मण्योऽन्तरेणेषे तिष्ठन्पलाशशाखां धारयन्सुब्रह्मण्यामाह्वयति सुब्रह्मण्योꣳसुब्रह्मण्योमिति त्रिस्
त्रिरुक्तायां प्रच्यावयन्ति प्रच्यवस्व भुवस्पते विश्वान्यभि धामानि मा त्वा परिपरी विदन्मा त्वा परिपन्थिनो विदन्मा त्वा वृका अघायवो मा गन्धर्वो विश्वावसुरादघद्श्येनो भूत्वा परापत यजमानस्य नो गृहे देवैः सꣳस्कृतमिति

प्रदक्षिणꣳराजानं परिवहन्त्यथैतावञ्जसोपसंक्रामतोऽध्वर्युश्च यजमानश्च यजमानस्य स्वस्त्ययन्यस्यपि पन्थामगस्महि स्वस्तिगामनेहसं येन विश्वाः परि द्विषो वृणक्ति विन्दते वस्वित्यथाग्रेण शालां तिष्ठन्नोह्यमानꣳराजानं प्रतिमन्त्रयते नमो मित्रस्य वरुणस्य चक्षसे महो द्वाय तदृतꣳसपर्यत दूरेदृशे देवजाताय केतवे दिवस्पुत्राय सूर्याय शꣳसतेत्यथैतत्सोमवाहनमनोऽग्रेण शालामुदगीषमुपस्थापयन्ति
तदुपस्तभ्नोति वरुणस्य स्कम्भनमसीति
वरुणस्य स्कम्भसर्जनमसीति शम्यामुद्गूहत्युन्मुक्तो वरुणस्य पाश इति योक्त्रम्
अथ वै भवति
विमुक्तोऽन्योऽनड्वान्भवत्यविमुक्तोऽन्योऽथातिथ्यं गृह्णाति यज्ञस्य संतत्यै पत्न्यन्वारभत इति ब्राह्मणम्
अथाहैहि यजमानेति
पूर्वया द्वारा शालां प्रपाद्य पृष्ठ्याꣳस्तीर्त्वापः प्रणीयातिथ्यं निर्वपत्यन्वारब्धायां पत्न्याम्
अथ देवस्य त्वा सवितुः प्रसव इति प्रतिपदं कृत्वा १६

6.17
अग्नेरातिथ्यमसि विष्णवे त्वा जुष्टं निर्वपामीत्येतामेव प्रतिपदं कृत्वा सोमस्यातिथ्यमसि विष्णवे त्वा जुष्टं निर्वपामीत्येतामेव प्रतिपदं कृत्वातिथेरातिथ्यमसि विष्णवे त्वा जुष्टं निर्वपामीत्येतामेव प्रतिपदं कृत्वाग्नये त्वा रायस्पोषदाव्ने विष्णवे त्वा जुष्टं निर्वपामीत्येतामेव प्रतिपदं कृत्वा श्येनाय त्वा सोमभृते विष्णवे त्वा जुष्टं निर्वपामीति

पञ्चकृत्वो यजुषा
हविष्कृता वाचं विसृज्यैतयैवावृतोत्तरमनड्वाहं विमुञ्चत्यथैते ब्राह्मणाश्चत्वार आसन्दीमाददतेऽथ यजमानो नीडाद्रा जानमादत्ते या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूरस्तु यज्ञमिति
पूर्व एवासन्द्या प्रतिपद्यन्तेऽन्वग्राज्ञा यजमानोऽन्वक्छूद्र उदपात्रेण
पूर्वया द्वारा शालां प्रपादयति गयस्फानः प्रतरणः सुवीरोऽवीरः प्रचरा सोम दूर्यानित्यथैतामासन्दीमग्रेणाहवनीयं पर्याहृत्य दक्षिणतो निदधति
तस्यां कृष्णाजिनमास्तृणात्यदित्याः सदोऽसीत्यदित्याः सद आसीदेति कृष्णाजिने राजानम्
अथैनमुपतिष्ठते वरुणोऽसि धृतव्रतो वारुणमसीति
समुच्चित्य कृष्णाजिनस्यान्तान्स्पन्द्यया विग्रथ्य वꣳशे प्रग्रथ्नाति शंयोर्देवानाꣳसख्यादित्यथापरावासन्दीपादावन्तरेण ब्राह्मणोऽभिषिञ्चति शूद्र ः! प्रक्षालयति मा देवानामपसश्छित्स्महीत्यथैनं वारुण्यर्चा परिचरति तत्त्वा यामि ब्रह्मणा वन्दमान इत्यथैनꣳसꣳशास्ति मा राजानं चाहवनीयं चान्तरेण कश्चन संचारीद्मैनꣳसायुधो मा सदण्डो मा सच्छत्त्रो मा सोष्णीषो मा साधस्पाद्योऽनुप्रपादीदित्यथास्मै मधुपर्कं च गां च प्राहुस्
तामध्वर्युर्विशास्ति १७

6.18
श्रपयन्त्येतमातिथ्यं वैष्णवं नवकपालं तेन सह मदन्तीरधिश्रयति
शिल्पवदेतदिध्माबर्हिरातिथ्यस्य भवति
कार्ष्मर्यमयैः परिधिभिराश्ववालेन प्रस्तरेणैक्षवीभ्यां विधृतीभ्यां तेन शिल्पवत्

त्वचं पुरोडाशस्य ग्राहयित्वा श्रपयित्वाभिवास्य प्राङेत्याप्येभ्यो निनीय स्तम्बयजुर्हरतीदमेव प्रसिद्धं पौरोडाशिकं त्रिर्यजुषा तूष्णीं चतुर्थम्पूर्वं परिग्राहं परिगृह्णाति
करणं जपत्युद्धन्त्युद्धतादाग्नीध्रस्त्रिर्हरति
यदाग्नीध्रस्त्रिर्हरत्यथोत्तरं परिग्राहं परिग्राह्य योयुपित्वा तिर्यञ्चꣳस्फ्यꣳस्तब्ध्वा संप्रैषमाह प्रोक्षणीरासादयेध्माबर्हिरुपसादय स्रुवं च स्रुचश्च संमृड्ढ्याज्येनोदेहीत्याहृतासु प्रोक्षाणीषूदस्य स्फ्यं मार्जयित्वेध्माबर्हिरुपसाद्य प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य स्रुवं च स्रुचश्च संमार्ष्ट्याज्येनोदेत्याज्यं च प्रोक्षणीश्चोत्पूय प्रसिद्धं चतुर्गृहीतानि वा पञ्चगृहीतानि वाज्यानि गृहीत्वा प्रोक्षणीभिरुपोत्तिष्ठतीध्मं प्रोक्षति
वेदिं प्रोक्षति
बर्हिः प्रोक्षति
बर्हिरासन्नं प्रोक्ष्योपनिनीय पुरस्तादाश्ववालं प्रस्तरं गृह्णाति
पञ्चविधं बर्हि स्तीर्त्वा प्रस्तर पाणिः प्राङभिसृप्य कार्ष्मर्यमयान्परिधीन्परिदधात्यूर्ध्वे समिधावादधात्यैक्षवी विधृती तिरश्ची सादयति
विधृत्योराश्ववालं प्रस्तरम्प्रस्तरे जुहूम्बर्हिषीतरे
एता असदन्निति समभिमृश्य प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्याथैतं पुरोडाशमुपस्तीर्णाभिघारितमुद्वास्य चतुर्होत्रातिथ्यमासादयत्यत्र संभारान्व्याचष्टेऽथ निर्मन्थ्यस्यावृता निर्मन्थ्येन चरति
प्रहृत्याभिहुत्याथेध्मात्समिधमाददान आहाग्नये समिध्यमानायानुब्रूहीत्यभ्यादधातीध्मं न समिधं पैशिनष्टि
वेदेनोपवाज्ययत्यनूक्तासु सामिधेनीषु स्रुवेणाघारमाघारयति

संमृष्टे स्रुग्भ्यामुत्तरम्
अथासꣳस्पर्शयन्स्रुचावुदङ्ङत्याक्रम्य जुह्वा ध्रुवाꣳसमज्य सादयित्वा स्रुचौ प्रवरं प्रवृनीते
प्रसिद्धꣳहोतारं वृणीते
सीदति होता
प्रसवमाकाङ्क्षति
प्रसूतः स्रुचावादायात्याक्रम्याश्राव्याह समिधो यजेति
वषट्कृते जुहोति यज यजेति
चतुर्थं यक्ष्यन्नत्रैतदौपभृतमाज्यꣳसर्वश एव जुह्वाꣳसमानयते
पञ्च प्रयाजानिष्ट्वोदङ्ङत्याक्रम्य सꣳस्रावेण ध्रुवामभिघार्य पुरोडाशमभिघारयति नोपभृतम्
अथाग्नये सोमायेत्याज्यभागाभ्यां चरत्युपाꣳशु हविषा चरति विष्णवेऽनुब्रूहि विष्णुं यजेत्यथ स्विष्टकृता चरतीडान्त आतिथ्यः संतिष्ठतेऽत्रैतत्पूर्णपात्रमन्तर्वेदि निनयत्यत्रैतद्ध्रुवाज्यमाप्याय्य कꣳसं वा चमसं वा याचति
तमन्तर्वेदि निधाय तस्मिन्नेतत्तानूनप्त्रं निगृह्णाति १८

6.19
आपतये त्वा गृह्णामि परिपतये त्वा गृह्णामि तनूनप्त्रे त्वा गृह्णामि शाक्वराय त्वा गृह्णामि शक्मन्नोजिष्ठाय त्वा गृह्णामीति
स यावन्त ऋत्विजस्त एनत्समवमृशन्त्यनाधृष्टमस्यनाधृष्यं देवानामोजोऽभिशस्तिपा अनभिशस्तेन्यमिति
यजमानमतिवाचयत्यनु मे दीक्षां दीक्षापतिर्मन्यतामनु तपस्तपस्पतिरञ्जसा सत्यमुपगेषं सुविते मा धा इति
स यावन्त ऋत्विजस्तेषूपहवमिष्ट्वा यजमान एव त्रिरवजिघ्रति प्रजापतौ त्वा मनसि जुहोमीत्यथैनदद्भिरभ्युन्नीयोत्तरतः सिञ्चत्यथाहाग्नीन्मदन्त्यापा३ इति
मदन्ति देवीरमृता ऋतावृध इति
ताभिराद्र वेत्यथ मदन्तीरुपस्पृश्योपोत्थाय विस्रस्य हिरण्यमवधाय राजानमाप्याययन्त्यꣳशुरꣳशुस्ते देव सोमाप्यायतामिन्द्रा यैकधनविद आ तुभ्यमिन्द्र ः! प्यायतामा त्वमिन्द्रा य प्यायस्वेति

यजमानमतिवाचयत्याप्यायय सखीन्त्सन्या मेधया स्वस्ति ते देव सोम सुत्यामशीयेत्यथाप उपस्पृश्य यथायतनमुपविशन्त्यथाध्वर्युर्वाजवतीभ्याꣳस्रुचौ व्यूहति
विधृतीभ्यां प्रस्तरꣳसमुल्लुप्याप्रतिशृणꣳस्त्रेधानक्ति
न प्रस्तरायाश्रावयति
न बर्हिरनुप्रहरति
तं दक्षिणार्धे वेद्यै निधाय तस्मिन्दक्षिणोत्तरिणो निह्नुवत एष्टा रायः प्रेषे भगायर्तमृतवादिभ्यो नमो दिवे नमः पृथिव्या इति
परिधिषु शकलानुपसंगृह्णाति प्रस्तरे बर्हिर्यावन्मात्रꣳस्पन्द्यया विग्रथ्याहवनीयेऽतिवाल्याद्भिरभ्युक्ष्योत्तरतः सादयत्यथ यजमानमवान्तरदीक्षामुपनयत्यग्ने व्रतपते त्वं व्रतानां व्रतपतिरसि या मम तनूरेषा सा त्वयि या तव तनूरियꣳसा मयि सह नौ व्रतपते व्रतिनोर्व्रतानीत्यथैनꣳसꣳशास्ति संतरं मेखलाꣳसमायच्छस्व संतरां मुष्टी कुरुष्व तप्तव्रत एधि मदन्तीभिर्मार्जयस्वोत्पूर्वं व्रतनꣳसृज या ते अग्ने रुद्रि या तनूस्तया नः पाहि तस्यास्ते स्वाहेत्येतेनातोऽधि व्रतयेति
स एवमेवैतत्सर्वं करोति १९

6.20
अथ प्रवर्ग्यस्यावृता प्रवर्ग्येण चरत्यथ स्फ्यमाददान आहाग्नीन्मदन्तीरधिश्रय हविरधिश्रयेह्युपसीदेत्येतास्वेव मदन्तीषु भूयसीरप आनयत्याज्यमधिश्रयति
तद्धविरथैतस्यैव बर्हिष स्तीर्णस्य पर्यवलोपꣳस्तम्बयजुर्हरत्य्
इदमेव प्रसिद्धं पौरोडाशिकं त्रिर्यजुषा तूष्णीं चतुर्थम्पूर्वं परिग्राहं परिगृह्णाति
करणं जपत्युद्धन्त्युद्धतादाग्नीध्रस्त्रिर्हरति
यदाग्नीध्रस्त्रिर्हरत्यथोत्तरं परिग्राहं परिगृह्य योयुपित्वा तिर्यञ्चꣳस्फ्यꣳस्तब्ध्वा संप्रैषमाह मदन्तीरासादयेध्माबर्हिरुपसादय स्रुवं च स्रुचौ च संमृड्ढि हविषोदेहीत्याहृतासु मदन्तीषूदस्य स्फ्यं मार्जयित्वेध्माबर्हिरुपसाद्य प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य स्रुवं च स्रुचौ च संमार्ष्टि
हविषोदेति
हविश्च मदन्तीश्चोत्पूयाष्टौ कृत्वो जुह्वां गृह्णीते
चतुरुपभृत्याज्यस्थाल्यां तृतीयामुत्प्रदाय मदन्तीभिरुपोत्तिष्ठतीध्मं प्रोक्षति
वेदिं प्रोक्षति
बर्हिः प्रोक्षति
बर्हिरासन्नं प्रोक्ष्योपनिनीय पुरस्तादाश्ववालं प्रस्तरं गृह्णात्येकविधं बर्हि स्तीर्त्वा प्रस्तरपाणिः प्राङभिसृप्य कार्ष्मर्यमयान्परिधीन्परिदधात्यूर्ध्वे समिधावादधात्यैक्षवी विधृती तिरश्ची सादयति
विधृत्योराश्ववालं प्रस्तरम्प्रस्तरे जुहूम्बर्हिषीतरे
एते असदतामिति समभिमृश्य प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य जघनेन गार्हपत्यमुपविश्य देवपत्नीर्व्याचष्टेऽथैतेनैव यथेतमेत्याथेध्मात्समिधमाददान आहाग्नये समिध्यमानायानुब्रूहीत्यभ्यादधातीध्मꣳसकृद्वा त्रिर्वा
न समिधं परिशिनष्टि
वेदेनोपवाजयत्यनूक्तासु सामिधेनीषु स्रुवेणाघारमाघारयति
संमृष्टे न स्रुग्भ्यामुत्तरम्
अथ प्रवरं प्रवृणीतेऽथाश्रावयत्यो श्रावयास्तु श्रौषट्सीद होतरित्येतावान्प्रवरः
सीदति होता
प्रसवमाकाङ्क्षति
प्रसूतः स्रुचावाददान आह २०

6.21
अग्नय इत्युपाꣳश्वनुब्रूहीत्युच्चैरत्याक्रम्याश्राव्याहाग्निमित्युपाꣳशु यजेत्युच्चैर्वषट्कृते पूर्वार्धेऽर्धवेलां जुहोत्यथात्रैव तिष्ठन्नाह सोमायेत्युपाꣳश्वनुब्रूहीत्युच्चैराश्राव्याह सोममित्युपाꣳशु यजेत्युच्चैर्वषट्कृते मध्ये जुहोत्यथ समानयमान आह विष्णव इत्युपाꣳश्वनुब्रूहीत्युच्चैराश्राव्याह विष्णुमित्युपाꣳशु यजेत्युच्चैर्वषट्कृते पश्चात्सर्वं जुहोत्यथोदङ्ङत्याक्रम्य यथायतनꣳस्रुचौ सादयित्वाथाहाग्नीन्मदन्त्यापा३ इति
मदन्ति देवीरमृता ऋतावृध इति
ताभिराद्र वेत्यथ मदन्तीरुपस्पृश्योपोत्थाय विस्रस्य हिरण्यमवधाय राजानमाप्याययन्त्यꣳशुरꣳशुस्ते देव सोमाप्यायतामिन्द्रा यैकधनविद आ तुभ्यमिन्द्र ः! प्यायतामा त्वमिन्द्रा य प्यायस्वेति
यजमानमतिवाचयत्याप्यायय सखीन्त्सन्या मेधया स्वस्ति ते देव सोम सुत्यामशीयेत्यथाप उपस्पृश्य यथायतनमुपविशन्त्यथाध्वर्युर्वाजवतीभ्याꣳस्रुचौ व्यूहति
विधृतीभ्यां प्रस्तरꣳसमुल्लुप्याप्रतिशृणꣳस्त्रेधानक्ति
न प्रस्तरायाश्रावयति
न बर्हिरनुप्रहरति
तं दक्षिणार्धे वेद्यै निधाय तस्मिन्दक्षिणोत्तरिणो निह्नुवत एष्टा रायः प्रेषे भगायर्तमृतवादिभ्यो नमो दिवे नमः पृथिव्या इति
सव्ये पाणौ प्रस्तरꣳसमावृत्याज्यस्थाल्याः स्रुवेणोपहत्य प्रथमामुपसदं जुहोति या ते अग्नेऽयाशया तनूर्वर्षिष्ठा गह्वरेष्ठोग्रं वचो अपावधीम्त्वेषं वचो अपावधीꣳस्वाहेति
परिधिषु शकलानुपसंगृह्णाति प्रस्तरे बर्हिर्यावन्मात्रꣳस्पन्द्यया विग्रथ्याहवनीयेऽतिवाल्याद्भिरभ्युक्ष्योत्तरतः सादयत्य्
अथोपनिष्क्रम्य संप्रैषमाह सुब्रह्मण्य सुब्रह्मण्यामाह्वय त्रिस्तनव्रतं प्रयच्छतेत्याह्वयति सुब्रह्मण्यः सुब्रह्मण्यां त्रिस्तनव्रतं प्रयच्छत्यथापराह्ण आपराह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचरति
तयोः समानी चर्यैतावदेव नाना
सव्योत्तरिणो निह्नुवतेऽथोपनिष्क्रम्य संप्रैषमाह सुब्रह्मण्य सुब्रह्मण्यामाह्वय त्रिस्तनव्रतं दोहयतेत्याह्वयति सुब्रह्मण्यः सुब्रह्मण्यां त्रिस्तनव्रतं दोहयति
तदर्धरात्रे प्रयच्छति २१

6.22
अथाध्वर्युरपररात्र आद्रुत्य सꣳशास्ति द्विस्तनव्रतं दोहयतेति
प्रातरुदित आदित्ये विसृष्टायां वाचि मध्यमाभ्यां प्रवर्ग्योपसद्भ्यां प्रचरति
रजाशयामत्र जुहोत्यथोपनिष्क्रम्य संप्रैषमाह सुब्रह्मण्य सुब्रह्मण्यामाह्वय द्विस्तनव्रतं प्रयच्छतेत्याह्वयति सुब्रह्मण्यः सुब्रह्मण्यां द्विस्तनव्रतं प्रयच्छति
स आहवनीयादेवाग्रे षट्प्राचः प्रक्रमान्प्रक्रामति
तच्छङ्कुं निहन्ति
स शालामुखीयः शङ्कुः
शालामुखीयाच्छङ्कोः षट्त्रिꣳशत्प्राचः प्रक्रमान्प्रक्रामति
तच्छङ्कुं निहन्ति
स यूपावटीयः शङ्कुः
शालामुखीयाच्छङ्कोः पञ्चदश दक्षिणा प्रक्रमान्प्रक्रामति पञ्चदशोदीचस्
तच्छङ्कू निहन्ति
ते श्रोणी
यूपावटीयाच्छङ्कोर्द्वादश दक्षिणा प्रक्रमान्प्रक्रामति द्वादशोदीचस्
तच्छङ्कू निहन्ति

तावꣳसवथैनामक्ष्णया मानेन प्रमाय समन्तꣳस्पन्द्यया परितनोति
पृष्ठ्यामातनोति
यूपावटीयाच्छङ्कोरनुस्पन्द्यं द्वादश प्रत्यञ्चि क्षुद्र पदानि प्रक्रामति
स मध्यम औत्तरवेदिकः शङ्कुर्मध्यमादौत्तरवेदिकाच्छङ्कोः पञ्च दक्षिणा क्षुद्र पदानि प्रक्रामति पञ्चोदञ्चि
तच्छङ्कू निहन्ति
ते श्रोणी
यूपावटीयाच्छङ्कोश्चत्वारि दक्षिणा क्षुद्र पदानि प्रक्रामति चत्वार्युदञ्चि
तच्छङ्कू निहन्ति
तावꣳसवथैनामक्ष्णया मानेन प्रमाय समन्तꣳस्पन्द्यया परितनोति
पृष्ठ्यामातनोति
मध्यमादौत्तरवेदिकाच्छङ्कोरनुस्पन्द्यꣳषट्प्रतीचः प्रक्रमान्प्रक्रामति दक्षिणा सप्तमं तत्स्फ्यं निदधाति
स उपरवाणां कालोऽथ महावेद्या उत्तरादꣳसीयाच्छङ्कोर्वेद्यन्तेन द्वादश प्रतीचः प्रक्रमान्प्रक्रामत्युदञ्चं त्रयोदशं तदाग्नीध्र उपसीदति
स उत्करस्य कालोऽथोपरवाणां कालात्स्तम्बयजुर्हरति २२

6.23
इदमेव प्रसिद्धं पौरोडाशिकं त्रिर्यजुषा तूष्णीं चतुर्थम्पूर्वं परिग्राहं परिगृह्णाति
करणं जपतीमां नराः कृणुत वेदिमेत्य वसुमतीꣳरुद्रवतीमादित्यवतीं विश्वदेव्यावतीम्वर्ष्मन्दिवो नाभा पृथिव्या यथायं यजमानो न रिष्येदित्युद्धन्त्युद्धतादाग्नीध्रस्त्रिर्हरति
यदाग्नीध्रस्त्रिर्हरत्यथाग्रेण शालां तिष्ठन्संप्रैषमाह वेदिकारा वेदिं कल्पयत प्र स्थलानि भिन्दत प्रति निम्नान्पूरयत किꣳशारूणि निरस्यत प्राचीमुदीचीं प्रणवां निस्तिष्ठतेति
यथासंप्रैषं ते कुर्वन्त्यथ महावेद्या उत्तरादꣳसीयाच्छङ्कोर्वेद्यन्तेन त्रीन्प्रतीचः प्रक्रमान्प्रक्रामत्युदञ्चं चतुर्थं
तच्चात्वालस्यावृता चात्वालं परिलिखत्युत्तरवेदेरावृतोत्तरवेदिं निवपत्युत्तरनाभिमुत्साद्याथैनां प्रतिच्छाद्यापराह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचरत्यथोपनिष्क्रम्य संप्रैषमाह सुब्रह्मण्य सुब्रह्मण्यामाह्वय द्विस्तनव्रतं दोहयतेत्याह्वयति सुब्रह्मण्यः सुब्रह्मण्यां द्विस्तनव्रतं दोहयति
तदर्धरात्रे प्रयच्छति २३

6.24
अथाध्वर्युरपररात्र आद्रुत्य सꣳशास्त्येकस्तनव्रतं दोहयतेति
प्रातरुदित आदित्ये विसृष्टायां वाच्युत्तमाभ्यां प्रवर्ग्योपसद्भ्यां प्रचरति
हराशयामत्र जुहोत्यथोपनिष्क्रम्य संप्रैषमाह सुब्रह्मण्य सुब्रह्मण्यामाह्वयार्धस्तनव्रतं प्रयच्छतेत्याह्वयति सुब्रह्मण्यः सुब्रह्मण्याम्
अर्धस्तनव्रतं प्रयच्छत्यथ तदानीमेवापराह्णिकी प्रवर्ग्योपसदौ समस्योपनिष्क्रम्य संप्रैषमाह सुब्रह्मण्य सुब्रह्मण्यामाह्वय प्रतिप्रस्थातः प्रवर्ग्यस्यावृता प्रवग्यꣳर्! सꣳसादयोद्वासनायेति
त्रेधैतत्पदं कुर्वन्ति
गार्हपत्ये तृतीयमुपयमनीषु तृतीयं नि तृतीयं दधत्यथ प्रवर्ग्यस्यावृता प्रवर्ग्यमुद्वासयत्यग्नेरावृताग्निं प्रणयत्यग्निवत्युत्तरं परिग्राहं परिगृह्य योयुपित्वा तिर्यञ्चꣳस्फ्यꣳस्तब्ध्वा संप्रैषमाह प्रोक्षणीरासादयेध्माबर्हिरुपसादयेत्येतावान्संप्रैषोऽत्रैवैतद्बर्हिरनुस्पन्द्यꣳस्तृणाति सकृदेवैतदेवेध्माबर्हिरग्नीषोमीयाय पशवे परिशयीतेत्येक आहुरथास्यैते अनसी प्रक्षालिते प्रपन्ने योग्यकृते अभितः शालां तिष्ठतस्

तयोर्दक्षिणं वर्षीय उत्तरꣳह्रसीय उद्धृतफलकं दक्षिणमनुद्धृतफलकमुत्तरं तयोर्यदक्षे बद्धं तदवस्यत्यथैने अन्तर्वेद्यभ्यावर्तयन्त्यथाग्रेण शालामरत्निमात्रमभित स्पन्द्याꣳस्थापयित्वाथैने प्रोक्षति वैष्णवी विष्णवे शुन्धेथामित्यथाहैहि यजमानेति
पूर्वया द्वारा शालां प्रपाद्य गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा शालामुखीये सावित्रं जुहोत्यन्वारब्धे यजमाने युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः । वि होत्रा दधे वयुनाविदेक इद्मही देवस्य सवितुः परिष्टुतिः स्वाहेत्यपरं चतुर्गृहीतं गृहीत्वाथ याचत्याज्यस्थालीꣳसस्रुवाꣳस्फ्यमुदपात्रं बर्हिर्हिरण्यमित्येतत्समादायाहैहि यजमानेत्यन्वग्यजमानोऽनूची पत्नी पदतृतीयमादाय पूर्वया द्वारोपनिष्क्रम्य दक्षिणस्य हविर्धानस्य पश्चादक्षमुपसृप्य दक्षिणस्यां वर्तन्याꣳस्फ्येनोद्धत्यावोक्ष्य हिरण्यं निधाय संपरिस्तीर्याभिजुहोतीदं विष्णुर्विचक्रमे त्रेधा निदधे पदम्। समूढमस्य पाꣳसुरे स्वाहेत्यथैतेषां पदपाꣳसूनामर्धान्पत्न्यञ्जलावावपत्यथैनान्संस्रावेणाभिघारयति
सा प्राचोत्तानेन पाणिना दक्षिणमक्षधुरमुपानक्त्या नो वीरो जायतां कर्मण्यो यꣳसर्वेऽनुजीवाम यो बहूनामसद्वशीत्यपरं चतुर्गृहीतं गृहीत्वोत्तरस्य हविर्धानस्य पश्चादक्षमुपसृप्योत्तरस्यां वर्तन्याꣳस्फ्येनोद्धत्यावोक्ष्य हिरण्यं निधाय संपरिस्तीर्याभिजुहोति [१]इरावती धेनुमती हि भूतꣳसूयवसिनी मनवे यशस्ये । व्यस्कभ्नाद्रोदसी विष्णुरेते दाधार पृथिवीमभितो मयूखैः स्वाहेत्य्
अत्रैतान्पदपाꣳसून्सर्वश एव पत्न्यञ्जलावावपत्यथैनान्सꣳस्रावेणाभिघारयति
सा प्राचोत्तानेनैव पाणिनोत्तरमक्षधुरमुपानक्ति
समान उपाञ्जनोऽथैतानि शस्त्राणि प्रतिप्रस्थात्र उत्प्रयच्छति
नयन्ति पत्नीꣳह्वयन्ति होतारम्
अथैने संपरिगृह्य संप्रैषमाह २४

6.25
हविर्धानाभ्यां प्रवर्त्यमानाभ्यामनुब्रूहीति
त्रिरुक्तायां प्रवर्तयन्ति प्राची प्रेतमध्वरं कल्पयन्ती ऊर्ध्वं यज्ञं नयतं मा जीह्वरतमित्यथ यद्यक्ष उत्सर्जति सुवाग्देव दुयाआꣳ! र्! वदेत्येव तत्र जपत्यथैतावञ्जसोपसंक्रामतोऽध्वर्युश्च प्रतिप्रस्थाता चोत्तरेण हविर्धाने परीत्य पूर्वाव्युपातीत्य मध्यमादौत्तरवेदिकाच्छङ्कोरनुस्पन्द्यं त्रीन्प्रतीचः प्रक्रमान्प्रक्रामतस्
तदेनयोर्नभ्यस्थयोश्चुबुके रमयतोऽत्र रमेथां वर्ष्मन्पृथिव्या इत्यथ दिवो वा विष्णवुत वा पृथिव्या इत्याशीर्पदयर्चाध्वर्युर्दक्षिणस्य हविर्धानस्य दक्षिणतो मेथीं निहन्त्यथैनाꣳस्पन्द्यया सूपनिबद्धामुपनिबध्नाति विष्णोर्नुकं वीर्याणि प्रवोचमित्येवमेव प्रतिप्रस्थातोत्तरस्य हविर्धानस्योत्तरतो मेथीं निहन्त्य्
अथैनाꣳस्पन्द्यया सूपनिबद्धामुपनिबध्नात्येतेनैव मन्त्रेणाथाध्वर्युर्दक्षिणस्य हविर्धानस्य चुबुकात्प्राञ्चमरत्निं मीत्वा लोके न्यस्य गर्तं खानयत्यथ दक्षिणाद्युगान्तात्प्राञ्चं बाहुं मीत्वा लोके न्यस्य गर्तं खानयति
तावुभावुत्तरेणान्यं गर्तं खानयत्येवमेव प्रतिप्रस्थातोत्तरतस्त्रीन्गर्तान्खानयत्येवमपरतस्
तेषु प्राचीनकर्णा स्थूणा उच्छ्रयन्ति
तासूदञ्चौ वꣳशौ प्रोहन्त्यध्यस्यन्ति पुरस्ताद्र राटीं विष्णो रराटमसीति
विष्णोः पृष्ठमसीति मध्यमं छदिरधिनिदधाति
विष्णो श्न्यप्त्रे स्थ इति ये अभितो भवतो दक्षिणतश्चोत्तरतश्च परिश्रयन्ति
प्राचीं च प्रतीचीं च द्वारौ कुर्वन्त्यथ दक्षिणे द्वार्बाहौ कुशहस्तमुपनिगृह्य दर्भणं प्रवयति दर्भणे स्पन्द्याम्विष्णोः स्यूरसीति
विष्णोर्ध्रुवमसीति ग्रन्थिं करोति
तं तदानीमेव विस्रस्याहाकुर्वन्तो ग्रन्थीन्हस्तकौशलैर्निस्तिष्ठतेत्येवमेवोत्तरं द्वार्बाहुम्
एवमपरे द्वार्बाहू निस्तिष्ठत्यथैनदभिमृशति वैष्णवमसि विष्णवे त्वेत्यथाध्वर्युः प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य शालामुखीयाच्छङ्कोरनुस्पन्द्यꣳषट्प्राचः प्रक्रमान्प्रक्रामति दक्षिणा सप्तमं
तदभ्रिं निदधाति
स औदुम्बर्यै कालेऽउदुम्बर्यै कालादभ्रिमादत्ते २५

6.26
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामादद इत्यादायाभिमन्त्रयतेऽभ्रिरसि नारिरसीति
तयौदुम्बर्या अवटं परिलिखति परिलिखितꣳरक्षः परिलिखिता अरातय इदमहꣳरक्षसो ग्रीवा अपिकृन्तामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इदमस्य ग्रीवा अपिकृन्तामीत्यथोद्गातारमाहोद्गातरेहीममौदुम्बर्या अवटं खन प्राक्पुरीषमुद्वपतादिति
तꣳस खनति वा खानयति वा
सोऽत एव सदो विमिमीते
यथा त्रीणि छदीꣳषि तिर्यञ्च्येवं प्राक्शो यथा त्रीणि छदीꣳष्यन्वञ्च्येवमुदक्शोऽपि वा यथा द्वौ भागावुदक्स्पन्द्यायै स्यातामेको दक्षिणत इति
तस्य त्रिश्रेणिगर्तान्खानयति
सोऽत एव प्राङ्द्रुत्वा दक्षिणस्य हविर्धानस्य पुरोऽक्षमुपरवान्विमिमीते प्रादेशमुखान्प्रादेशान्तस्पादान्
अथोन्नेतारमाहोन्नेतरे हीमानुपरवान्खन प्रादेशमुखान्प्रादेशान्तस्पादान्बाहुमात्रानवाचोऽसंभिन्दन्नुपरिष्टादधस्तात्संतृण्णानिति

तान्स खनति वा खानयति वाथैषां पुरीषं दक्षिणस्य हविर्धानस्याग्रेणोपस्तम्भनं निवपति
तं चतुरश्रं खरं करोत्यथैनꣳसिकताभिराभ्राशिनं करोत्यथोपरवाणां कालादभ्रिमादत्ते देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामादद इत्यादायाभिमन्त्रयतेऽभ्रिरसि नारिरसीति
तया यूपावटं परिलिखति यथान्तर्वेद्यर्धꣳस्याद्बहिर्वेद्यर्धम्परिलिखितꣳरक्षः परिलिखिता अरातय इदमहꣳरक्षसो ग्रीवा अपिकृन्तामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इदमस्य ग्रीवा अपिकृन्तामीत्यथाग्नीध्रमाहाग्नीदेहीमं यूपावटं खनोपरसंमितं प्राक्पुरीषमुद्वपताद्चतुरङ्गुलेनोपरमतिखनतादिति
तꣳस खनति वा खानयति वा
यावदेवात्राध्वर्युश्चेष्टति तावदेष प्रतिप्रस्थातौदुम्बरीꣳस्थूणां यजमानेन संमायाधस्तात्परिवासयत्यच्छिन्नो रायः सुवीर इत्यथाध्वर्युः प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य याचति यवमतीः प्रोक्षणीर्बर्हिर्हस्तमाज्यस्थालीꣳसस्रुवां मैत्रावरुणदण्डꣳहिरण्यमुदपात्रमित्येतत्समादायाहैहि यजमानेत्यौदुम्बर्येषा स्थूणा प्रक्षालिता प्रपन्ना प्रागवटादुपशेते
तां परस्तादर्वाचीं प्रोक्षति २६

6.27
दिवे त्वान्तरिक्षाय त्वा पृथिव्यै त्वेत्यवटेऽपोऽवनयति शुन्धतां लोकः पितृषदन इति
यवान्प्रस्कन्दयति यवोऽसि यवयास्मद्द्वेषो यवयारातीरिति
बर्हिर्हस्तं व्यतिषज्यावस्तृणाति पितृणाꣳसदनमसीत्य्
अथैनद्धिरण्यमन्तर्धाय स्रुवाहुत्याभिजुहोति पितृभ्यः स्वाहेत्यथैनामुच्छ्रयत्युद्दिवꣳस्तभानान्तरिक्षं पृण पृथिवीं दृꣳहेत्यथैनां प्राचीनकर्णां मिनोति द्युतानस्त्वा मारुतो मिनोतु मित्रावरुणयोर्ध्रुवेण धर्मणेत्यथैना प्रदक्षिणं पुरीषेण पर्यूहति ब्रह्मवनिं त्वा क्षत्रवनिꣳसुप्रजावनिꣳरायस्पोषवनिं पर्यूहामीति
मैत्रावरुणदण्डेन सꣳहन्ति ब्रह्म दृꣳह क्षत्रꣳदृꣳह प्रजां दृꣳह आयस्पोषं दृꣳहेत्यन्यूनमनतिरिक्तं परिन्यस्योदपात्रमुपनिनीयाथास्यै विशाखे हिरण्यं निधाय स्रुवाहुत्याभिजुहोति घृतेन द्यावापृथिवी आपृणेथाꣳस्वाहेत्यान्तमन्ववस्रावयत्यान्तमेव यजमानं तेजसानक्तीति ब्राह्मणम्
अथैनामुद्गातृभ्यः प्राहुस्
तस्यां तच्चेष्टन्ति यत्ते विदुरेतस्या उच्छ्रयणमनु प्राचीनकर्णा स्तूणा उच्छ्रयन्ति
तासूदीचो वꣳशान्प्रोहन्त्यध्यस्यन्ति मध्यमं छदिरिन्द्रस्य सदोऽसीति
विश्वजनस्य छायेति ये अभितो भवतो नवच्छदि तेजस्कामस्य मिनुयादिति
त्रीणित्रीण्येव सर्वाणि भवन्ति
दक्षिणान्युत्तराणि करोति
स दक्षिणानिदक्षिणान्येवोत्तराणि करोत्यन्तर्वर्तान्करोति व्यावृत्त्या इति
सन्धिषु तृणवर्तान्प्रत्यस्यति
तेऽन्तर्वर्ता अथैनत्परिश्रयन्ति परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतो वृद्धायुमनु वृद्धयो जुष्टा भवन्तु जुष्टय इति

दक्षिणतश्चोत्तरतश्च परिश्रयन्ति
प्राचीं च प्रतीचीं च द्वारौ कुर्वन्त्यथ दक्षिणे द्वार्बाहौ कुशहस्तमुपनिगृह्य दर्भणं प्रवयति दर्भणे स्पन्द्यामिन्द्र स्य स्यूरसीतीन्द्रस्य ध्रुवमसीति ग्रन्थिं करोति
तं तदानीमेव विस्रस्याहाकुर्वन्तो ग्रन्थीन्हस्तकौशलैर्निस्तिष्ठतेत्येवमेवोत्तरं द्वार्बाहुम्
एवमपरे द्वार्बाहू निस्तिष्ठत्यथैनदभिमृशत्यैन्द्रमसीन्द्राय त्वेत्यथ महावेद्या उत्तरादꣳसीयाच्छङ्कोर्वेद्यन्ते नाष्टादश प्रतीचः प्रक्रमान्प्रक्रामति
तदाग्नीध्रागारं विमिमीते यथान्तर्वेद्यर्धꣳस्याद्बहिर्वेद्यर्धम्
अथैनत्समुच्चित्य परिश्रयन्ति
तस्य दक्षिणां द्वारं कुर्वन्त्याग्नीध्रागारस्य पार्श्वमानी पञ्चारत्निरेतेन मार्जालीयो व्याख्यातस्
तस्योदीचीं द्वारं कुर्वन्ति २७

6.28
अथात्रैव तिष्ठन्याचत्यभ्रिं यवमतीः प्रोक्षणीर्बर्हिर्हस्तमाज्यस्थालीꣳसस्रुवामधिषवणं चर्माधिषवणे फलके षट्छङ्कून्ग्रावाणꣳहिरण्यमुदपात्रमित्येतत्समादायाहैहि यजमानेति
पूर्वया द्वारा हविर्धानं प्रपाद्य दक्षिणस्य हविर्धानस्य नीड एतच्चर्मोत्सादयति
पुरोऽक्षमितराणि सꣳसादयन्त्यथोपरवाणां कालादभ्रिमादत्ते देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामादद इ इत्यादायाभिमन्त्रयतेऽभ्रिरसि नारिरसीति
तयोपरवान्परिलिखति पूर्वयोर्दक्षिणमेवाग्रे परिलिखितꣳरक्षः परिलिखिता अरातय इदमहꣳरक्षसो ग्रीवा अपिकृन्तामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इदमस्य ग्रीवा अपिकृन्तामीति सर्वानेवानुपूर्वं
खनति रक्षोहणो वलगहनो वैष्णवान्खनामीति सर्वानेवानुपूर्वम्
अथैभ्यः पाꣳसूनुद्वपतीदमहं तं वलगमुद्वपामि यं नः समानो यमसमानो निचखानेदमेनमधरं करोमि यो नः समानो योऽसमानोऽरातीयति गायत्रेण छन्दसेत्यवबाढो वलग इति यजमानस्याधस्पदं पाꣳसूनुद्वपति पूर्वयोर्दक्षिणात्
त्रैष्टुभेन छन्दसेत्यपरयोर्दक्षिणाद्जागतेन छन्दसेत्यपरयोरुत्तरादानुष्टुभेन छन्दसेति पूर्वयोरुत्तरादत्रैतान्पदपाꣳसूनसञ्चरे परावपत्यत्र यं यजमानो द्वेष्टि तं मनसा ध्यायत्यथाप उपस्पृश्याथैनानवमृशतोऽध्वर्युश्च यजमानश्च पूर्वयोर्दक्षिणमेवाध्वर्युरवमृशत्युत्तरं यजमानोऽथ यजमानः पृच्छति अध्वर्यो किमत्रेति
भद्र मिति
तन्नौ सहेत्यथाध्वर्युः पृच्छति यजमान किमत्रेति
भद्र मिति
तन्नौ सहेति
यमेवाध्वर्युः प्रजहाति तं यजमानोऽवमृशति
दक्षिणयोरपरमेवाध्वर्युरवमृशति पूर्वं यजमानोऽध्वर्युरत्र पृच्छत्यथ यजमानोऽपरयोरुत्तरमेवाध्वर्युरवमृशति दक्षिणं यजमानो यजमानोऽत्र पृच्छत्यथाध्वर्युरुत्तरयोः पूर्वमेवाध्वर्युरवमृशत्यपरं यजमानोऽध्वर्युरत्र पृच्छत्यथ यजमानो यजमानः प्रथमः पृच्छति यजमान उत्तमोऽथैनानभिमृशति विराडसि सपत्नहा सम्राडसि भ्रातृव्यहा स्वराडस्यभिमातिहा विश्वाराडसि विश्वासां नाष्ट्राणाꣳहन्तेति सर्वानेवानुपूर्वम्

अथैनानद्भिः प्रोक्षति रक्षोहणो वलगहनः प्रोक्षामि वैष्णवानिति सर्वानेवानुपूर्वम्
अथैष्वपोऽवनयति रक्षोहणो वलगहनेऽवनयामि वैष्णवानिति सर्वेष्वेवानुपूर्वम्
अथैषु यवान्प्रस्कन्दयति यवोऽसि यवयास्मद्द्वेषो यवयारातीरिति सर्वेष्वेवानुपूर्वम्
अथैनान्बर्हिषावस्तृणाति रक्षोहणो वलगहनोऽवस्तृणामि वैष्णवानिति सर्वानेवानुपूर्वम्
अथैनान्हिरण्यमन्तर्धाय स्रुवाहुत्याभिजुहोति रक्षोहणो वलगहनोऽभिजुहोमि वैष्णवान्स्वाहेति सर्वानेवानुपूर्वम्
अथास्यैते फलके दीर्घसोमे संतृण्णे भवतोऽसंतृण्णे एकाहे
ते सꣳस्पृष्टे उपदधाति रक्षोहणौ वलगहनावुपदधामि वैष्णवी इत्यथैने शङ्कुभिः परिणिहन्ति द्वाभ्यां पुरस्ताद्द्वाभ्यां पश्चाद्द्वाभ्यामभितोऽनवसर्पणायाथैने प्रदक्षिणं पुरीषेण पर्यूहति रक्षोहणौ वलगहनौ पर्यूहामि वैष्णवी इत्यथैने बर्हिषा परिस्तृणाति रक्षोहणौ वलगहनौ परिष्तृणामि वैष्णवी इत्यथैने अभिमृशति रक्षोहणौ वलगहनौ वैष्णवी इत्यथैतच्चर्म फलकयोः प्राचीनग्रीवमुत्तरलोमोपस्तृणाति यज्ञ प्रतितिष्ठेति वा तूष्णीं वा
तिरश्चर्मन्फलके ग्राव्णोद्वादयति २८

6.29
बृहन्नसि बृहद्ग्रावा बृहतीमिन्द्रा य वाचं वदेति
नीड एतच्चर्मोत्सादयति

ग्रावसु ग्रावाणमप्यर्जत्यथ दक्षिणस्य हविर्धानस्याग्रेणोपस्तम्भनं बर्हिर्मुष्टिमुपनिबध्नाति स्तोत्रेभ्योऽथ याचति स्फ्यमुदपात्रं चात्वालात्पुरीषꣳसिकता इत्येतत्समादायाहैहि यजमानेत्याग्नीध्रं द्रुत्वा स्फ्येनोद्धत्यावोक्ष्य चात्वालात्पुरीषꣳसिकता इति निवपति विभूरसि प्रवाहणो रौद्रे णानीकेन पाहि माग्ने पिपृहि मा मा मा हिꣳसीरिति
तं परिमण्डलं धिष्णियं करोत्यथैनꣳसिकताभिराभ्राशिनं करोत्यथान्तःसदसं धिष्णियान्निवपति होतुः प्रथमम्वह्निरसि हव्यवाहन इति
श्वात्रोऽसि प्रचेता इति दक्षिणतो मैत्रावरुणस्य
तुथोऽसि विश्ववेदा इत्युत्तरतो ब्राह्मणाच्छꣳसिन उशिगसि कविरित्युत्तरतः पोतुरङ्घारिरसि बम्भारिरित्युत्तरतो नेष्टुरवस्युरसि दुवस्वानित्युत्तरतोऽच्छावाकस्याथ दक्षिणे वेद्यन्ते मार्जालीयं धिष्णियं निवपति शुन्ध्यूरसि मार्जालीय इति
सर्वेष्वेव रौद्र मनुवर्तयत्याग्नीध्रेऽन्ततो निवपत्युदक्सꣳस्थताया इत्यष्टौ न्यवाप्सीदित्यथाष्टावनुदिशति
सम्राडसि कृशानुरित्याहवनीयमुपतिष्ठते
परिषद्योऽसि पवमान इत्यास्तावम्प्रतक्वासि नभस्वानिति चात्वालम्
असंमृष्टोऽसि हव्यसूद इति पशुश्रपणम्
अथ सदसो द्वारि तिष्ठन्नौदुम्बरीमुपतिष्ठत ऋतधामासि सुवर्ज्योतिरिति

ब्रह्मज्योतिरसि सुवर्धामेति ब्रह्मसदनम्
अथात्रैव तिष्ठन्गार्हपत्यमुपतिष्ठतेऽजोऽस्येकपादित्यहिरसि बुध्निय इति यं प्रहास्यन्तो भवन्ति २९

6.30
अथात्रैव तिष्ठन्संप्रैषमाह स्तृणीत बर्हिः प्र व्रतं यच्छत समपिव्रतान्ह्वयध्वमास्तावं बहुलꣳस्तृणीत सदोहविर्धाने बहुले स्तृणीतोन्नेतर्ग्राव्णो वायव्यानि द्रो णकलशे दशपवित्रे समवधाय पत्नीशाले सꣳसादयाग्नीदाज्यमधिश्रय प्रतिप्रस्थातः स्रुचः संमृड्ढ्याज्येनोदेहि पृषदाज्याय दध्याहरेति
यथासंप्रैषं ते कुर्वन्त्यथ दक्षिणे वेद्यन्ते बर्हिर्मुष्टिꣳस्तृणाति देवबर्हिरूर्णाम्रदसं त्वा स्तृणामि स्वासस्थं देवेभ्य इति
तां बहुलां पुरस्तात्प्रत्यञ्च स्तृणन्तो यन्त्यथान्तःशालं पृषदाज्यवन्त्याज्यानि गृहीत्वा परिकर्मिभ्य उत्प्रदाय ब्रह्मणे राजानमुत्प्रयच्छति
तं ब्रह्मादायोत्तरतस्तिष्ठत्युत्तरतस्तिष्ठन्नग्निमन्वानयत्युदग्ने तिष्ठानु मानुदेहि विश्वैर्देवैर्यज्ञियैः संविदानः । सुवर्गे लोके यजमानꣳहि धेहि मास्यै हास्था आहुत्यै यामुपेम इत्यथाभ्यादधातीध्मं प्रणयनीयम्
उपोपयमनीः कल्पयन्ति चात्वालात्
समन्वारब्धेष्वपिव्रतेषु संप्रच्छन्नेषु गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा शालामुखीये वैसर्जनानि जुहोति त्वꣳसोम तनूकृद्भ्यो द्वेषोभ्योऽन्यकृतेभ्य उरु यन्तासि वरूथꣳस्वाहेति

स्रुवेणाप्तुं प्रस्कन्दयति जुषाणो अप्तुराज्यस्य वेतु स्वाहेत्यपरं चतुर्गृहीतं गृहीत्वा संप्रैषमाहाग्नीषोमाभ्यां प्रणीयमानाभ्यामनुब्रूहीति
त्रिरुक्तायामुद्यच्छन्ते
होतुर्वशं यन्त्यथ वै भवति
प्राञ्चमग्निं प्रहरन्त्युत्पत्नीमानयन्त्यन्वनाꣳसि प्रवर्तयन्तीति
यदस्यात्र शस्त्रं भवति पूर्वं तेनाग्निमन्ववस्यन्त्यथाग्निप्रथमाः प्रतिपद्यन्तेऽन्वग्राज्ञा चाज्यैश्चान्वग्ग्राव्णो वायव्यानि
पूर्वया द्वारोपनिष्क्रामन्त्ययं नो अग्निर्वरिवः कृणोत्वयं मृधः पुर एतु प्रभिन्दन्। अयं शत्रूञ्जयतु जर्हृषाणोऽयं वाजं जयतु वाजसातवित्युत्तरेण सदः परीत्याग्नीधागारेऽग्निं निधाय नयवत्यर्चाग्नीध्रे जुहोत्यग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान्। युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमौक्तिं विधेम स्वाहेत्यत्रैवैतद्ग्रावोवायव्यꣳसमुपसाद्योपातियन्ति राज्ञा चाज्यैश्चाहवनीये स्रुवाहुतिं जुहोत्युरु विष्णो विक्रमस्वोरु क्षयाय नः कृधि । घृतं घृतयोने पिब प्रप्र यज्ञपतिं तिर स्वाहेति ३०

6.31
अथ प्रोक्षणीभिरुपोत्तिष्ठतीध्मं प्रोक्षति
वेदिं प्रोक्षति
बर्हिः प्रोक्षति
बर्हिरासन्नं प्रोक्ष्योपनिनीय पुरस्तादाश्ववालं प्रस्तरं गृह्णाति
पञ्चविधं बर्हि स्तीर्त्वा प्रस्तरपाणिः प्राङभिसृप्य कार्ष्मर्यमयान्परिधीन्परिदधात्यूर्ध्वे समिधावादधात्यैक्षवी विधृती तिरश्ची सादयति
विधृत्योराश्ववालं प्रस्तरम्प्रस्तरे जुहूम्बर्हिषीतरा एता असदन्निति समभिमृश्याथाप उपस्पृश्य ब्रह्मणो राजानमादाय पूर्वया द्वारा हविर्धानं प्रपादयति सोमो जिगाति गातुविद्देवानामेति निष्कृतमृतस्य योनिमासदमित्यथ दक्षिणस्य हविर्धानस्य नीडे कृष्णाजिनमास्तृणात्यदित्याः सदोऽसीत्यदित्याः सद आसीदेति कृष्णाजिने राजानम्
अथैनं देवताभ्यः संप्रयच्छत्येष वो देव सवतितः सोमस्तꣳरक्षध्वं मा वो दभदिति
संप्रदायोपतिष्ठत एतत्त्वꣳसोम देवो देवानुपागा इदमहं मनुष्यो मनुष्यान्सह प्रजया सह रायस्पोषेणेति
नमो देवेभ्य इति प्राञ्चमञ्जलिं करोति
स्वधा पितृभ्य इति दक्षिणा न्यचत्यथोपनिष्क्रामतीदमहं निर्वरुणस्य पाशादित्यथाहवनीयमुपतिष्ठते सुवरभिविख्येषं वैश्वानरं ज्योतिरित्यथ यजमानमवान्तरदीक्षां विसर्जयत्यग्ने व्रतपते त्वं व्रतानां व्रतपतिरसि या मम तनूस्त्वय्यभूदियꣳसा मयि या तव तनूर्मय्यभूदेषा सा त्व्ययि यथायथं नौ व्रतपते व्रतिनोर्व्रतानीत्यथैनꣳसꣳशास्ति स्रस्नीष्व मेखलां प्र मुष्टी सारय मैत्रावरुणाय दण्डं प्रयच्छ यजमान इति त्वाचक्षतां नामग्राहं ते पितृभिः पितामहैः प्रपितामहैः पुत्रैः पौत्रैः सुब्रह्मण्यः सुब्रह्मण्यामाह्वयत्विति

स एवमेवैतत्सर्वं करोत्यथ यूपाहुतिꣳहुत्वा यूपं यजुषा करोति
यूपावटं यजुषा करोति
तदेतद्यूपावटान्तम् ३१

6.32
अथ यूपस्यावृता यूपमुच्छ्रयति
स्वर्वन्तं यूपमुत्सृज्याग्नीषोमीयं पशुमुपाकरोति
तस्य प्रसिद्धं वपया चरित्वा वपाश्रपणी अनुप्रहृत्य समुत्क्रम्य चात्वाले मार्जयन्तेऽथ यो वीडितः कुम्भस्तं याचति
तमादायान्तरेण चात्वालोत्करावुदङ्ङुपनिष्क्रम्य यत्रापस्तद्यन्ति
नान्तमा वहन्तीरत्येति
न स्थावराणां गृह्णाति
प्रतीपं तिष्ठन्गृह्णाति
छायायै चातपतश्च संधौ गृह्णाति हविष्मतीरिमा आपो हविष्मान्देवो अध्वरो हविष्माआꣳ! विवासति हविष्माꣳस्तु सूर्य इत्यथैना आदाय प्रदक्षिणमावृत्य सव्येऽꣳ! से निधायैतेनैव यथेतमेत्योत्तरेणाग्नीध्रीयं परीत्योत्तरेण सदः परीत्य पूर्वया द्वारा शालां प्रपाद्य जघनेन गार्हपत्यमौपसदायां वेद्याꣳसꣳस्पृष्टाः सादयत्यग्नेर्वोऽपन्नगृहस्य सदसि सादयामि सुम्नाय सुम्निनीः सुम्ने मा धत्तेत्यथ पशुपुरोडाशं निर्वपतीडान्तः पशुपुरोडाशः संतिष्ठते
पत्नीसंयाजान्तः पशुर्हृदयशूलान्त इत्येके ३२

6.33
अथ वसतीवरीः परिहरिष्यन्नाह व्यपक्रामत मा वोऽभिपरिहारिषमिति
यजमानायतने यजमान उपविशति
जघनेन गार्हपत्यं पत्न्यथैना आदाय दक्षिणया द्वारोपनिर्हृत्य सव्येऽꣳ! से निधाय दक्षिणेन सदः परीत्य दक्षिणेन मार्जालीयं धिष्णियं पर्याहृत्य दक्षिणतो यूपेन सꣳस्पृष्टाः सादयतीन्द्रा ग्नियोर्भागधेयी स्थेत्यथैना आदायोदङ्ङावृत्य दक्षिणेऽꣳ! से निधायैतेनैव यथेतमेत्य जघनेन गार्हपत्यमौपसदायां वेद्याꣳसꣳस्पृष्टाः सादयति मित्रावरुणयोर्भागधेयी स्थेत्यथैना आदाय पूर्वया द्वारोपनिर्हृत्य दक्षिण एवाꣳसे निधायोत्तरेण सदः परीत्योत्तरेणाग्नीध्रीयं धिष्णियं पर्याहृत्योत्तरतो यूपेन सꣳस्पृष्टाः सादयति विश्वेषां देवानां भागधेयी स्थेत्यथैना आदाय प्रदक्षिणमावृत्य सव्येऽꣳ! से निधायैतेनैव यथेतमेत्य जघनेनाग्नीध्रीयं धिष्णियꣳसꣳस्पृष्टाः सादयति यज्ञे जागृतेति ३३


आधवनीय-पूतभृत

6.34
अथ पयाꣳसि विशास्ति या सम्राड्धुक्तस्यै दधिघर्माय दधि कुरुत या यजमानस्य तस्या आमिक्षायै या पत्न्यै तस्या आशिरे पयश्च सक्तूꣳश्च कुरुत शृतातङ्क्यमादित्यग्रहाय दधि कुरुत पुरोडाशीयानि पिष्टानि कुरुत धाना हारियोजनीः कुरुत चतुरोऽम्भृणाꣳस्त्रीनुदचनानयुज एकधनाꣳस्त्र्यवमानेकादशपरमाꣳश्चतस्रो रशनाश्चतस्रो वपाश्रपणीर्द्वयमिध्माबर्हिरौदुम्बरान्महापरिधीन्कुरुत सुब्रह्मण्यः सुब्रह्मण्यामाह्वयत्विति

यथासंप्रैषं ते कुर्वन्त्यथैतानम्भृणानायातयत्युत्तरस्य हविर्धानस्य नीड आधवनीयं प्रउगे पूतभृतं तयोः समान उदचन आग्नीध्र एकꣳसोदचनम्मार्जालीय एकꣳसोदचनम्
आग्नीध्र एताꣳरात्रिं यजमानः संविशति
हविर्धाने राजानं गोपायन्ति ३४

  1. ऋ. ७.९९.३