बौधायनश्रौतसूत्रम्/प्रश्नः १७

विकिस्रोतः तः
Jump to navigation Jump to search

17.1
अतिरात्रं करिष्यन्नुपकल्पयते चतुरोऽतिरात्रपशूनरुणपिशङ्गमश्वमौदुम्बरँ षोडशिपात्रं चतुस्रक्ति ज्यायसोऽम्भृणाञ्ज्यायस एकधनान्
दीक्षते
रोहिण्या पिङ्गलयैकहायन्या सोमं क्रीणाति
द्वादशोपसदः
प्रसिद्धेन कर्मणोपवसथादेत्यथ वसतीवरीः परिहृत्य पयाँ सि विशिष्योपवसन्त्यथातो महारात्र एव बुध्यन्ते
प्रातराज्यानि गृहीत्वा राजानमुपावहृत्य प्रातरनुवाकमुपाकरोति
परिहिते प्रातरनुवाकेऽपोऽच्छैत्यद्धिरुदैत्यतिरात्रं क्रतुमुपैति
प्रसिद्धोऽभिषवः
प्रसिद्धं ग्रहा गृह्यन्ते
समानं कर्माग्रयणाद्ग्रहादाग्रयणं गृहीत्वा षोडशिनं गृह्णात्यातिष्ठ वृत्रहन्रथमित्यनुद्रुत्योपयामगृहीतोऽसीन्द्रा य त्वा षोडशिने जुष्टं गृह्णामीति
परिमृज्य सादयत्येष ते योनिरिन्द्रा य त्वा षोडशिन इत्यथोक्थ्यं गृह्णाति
समानं कर्माश्विनाद्ग्रहादाश्विनं ग्रहं गृहीत्वा चतस्रो रशना आदाय यूपमभ्यैति
स्वर्वन्तं यूपमुत्सृज्य चतुरोऽतिरात्रपशूनुपाक्रोत्याग्नेयमैन्द्रा ग्नमैन्द्र ँ! सारस्वतीं मेषीमिति

तेषां प्रसिद्धं वपाभिश्चरित्वा प्रसर्पन्ति प्रातःसवनाय
तदृजुधा संतिष्ठते
प्रसर्पन्ति माध्यंदिनाय सवनाय
प्रसिद्धोऽभिषवः
प्रसिद्धं ग्रहा गृह्यन्ते
समानं कर्माग्रयणाद्ग्रहादाग्रयणं गृहीत्वा षोडशिनमभिगृह्णातीन्द्र मिद्धरी वहत इत्यनुद्रुत्योपयामगृहीतोऽसीन्द्रा य त्वा षोडशिने जुष्टं गृह्णामीति
परिमृज्य सादयत्येष ते योनिरिन्द्रा य त्वा षोडशिन इत्यथोक्थ्यं गृह्णात्यृजुधा माध्यंदिनँ सवनँ संतिष्ठते
प्रसर्पन्ति तृतीयसवनाय
प्रसिद्धमादित्यग्रहेण चरित्वाग्रयणं गृह्णात्यथ षोडशिनमभिगृह्णात्यसावि सोम इन्द्र त इत्यनुद्रुत्योपयामगृहीतोऽसीन्द्रा य त्वा षोडशिने जुष्टं गृह्णामीति
परिमृज्य सादयत्येष ते योनिरिन्द्रा य त्वा षोडशिन इत्यथोक्थ्यं गृह्णाति १
17.2
समानं कर्मा पवमानात्
पवमानेन चरित्वा स्वे धामन्पशुभिश्चरति
तेषां नाना मनोता नाना देवता नाना प्रत्यभिमर्शना नाना वसाहोमाः समानो वनस्पतिः समानः स्विष्टकृत्प्रैषवान्समानीडा समान्यो दिशो नाना दिश इत्येके
समानं कर्मा ध्रुववद्भ्यश्चमसेभ्यो ध्रुववद्भिश्चमसैश्चरित्वा त्रिभिरुक्थ्यपर्यायैश्चरतीन्द्रा वरुणाभ्यामिन्द्रा बृहस्पतिभ्यामिन्द्रा विष्णुभ्यामित्य्
अथ षोडशिना चरिष्यन्प्राङायन्नाह होतुश्चमसमनून्नयध्वमुन्नेतः सोमं प्रभावयेति
होतृचमसमेव प्रथममुन्नयन्ति
यथोपपादमितरान्
समुन्नीयोत्तरवेद्याँ सँ सादयन्ति
तदेतँ षोडशिनँ सह सँ सादयन्त्यथैनमुपतिष्ठते २
17.3
यस्मान्न जातः परो अन्यो अस्ति य आविवेश भुवनानि विश्वा । प्रजापतिः प्रजया संविदानस्त्रीणि ज्योतीँ षि सचते स षोडशी ॥ एष ब्रह्मा य ऋत्वियः । इन्द्रो नाम श्रुतो गणे ॥ प्र ते महे विदथे शँ सिषँ हरी । य ऋत्वियः प्र ते वन्वे । वनुषो हर्यतं मदम्॥ इन्द्रो नाम घृतं न यः । हरिभिश्चारु सेचते । श्रुतो गण आ त्वा विशन्तु । हरिवर्पसं गिर इत्यथाप उपस्पृश्य बर्हिषी आदाय वाचंयमः प्रत्यङ्द्रुत्वा समयाविषिते सूर्ये हिरण्येन षोडशिन स्तोत्रमुपाकरोति
पुरस्तात्प्रत्यञ्चमरुणपिशङ्गमश्वं धारयन्ति श्यामं वा
हिरण्यँ संप्रदाय स्तुवते ३
17.4
होत्र एषोत्तमेति प्राहुर्होतुः कालात्पराङावर्ततेऽध्वर्युरभ्येनमाह्वयते होता
प्रत्याह्वयतेऽध्वर्युः
शँ सति
प्रतिगृणात्यथ यत्र होतुरभिजानात्या त्वा वहन्तु हरय इति तदुभ्यतोमोदं प्रतिगृणात्योथा मोद इव मदे मदा मोद इवोमथेत्य्
अथ यत्र होतुरभिजानाति प्रप्र वस्त्रिष्टुभमिति तत्प्रसिद्धमुक्थं प्रतिगीर्य प्राङेत्योद्यच्छत एतँ षोडशिनं ग्रहम्
अनूद्यच्छन्ते चमसान्
अथाश्रावयत्यो श्रावयास्तु श्रौषडुक्थशा यज सोमानामिति
वषट्कृते षोडशिनं जुहोतीन्द्रा धिपतेऽधिपतिस्त्वं देवानामस्यधिपतिं मामायुष्मन्तं वर्चस्वन्तं मनुष्येषु कुर्विति
वषट्कृतानुवषट्कृते द्विर्जुहोति
तथैव द्विर्द्विः सवाँ र्! श्चमसाञ्जुह्वत्यथ भक्षैः प्रत्यञ्च आद्र वन्त्यनुसवनभक्ष इन्द्रे ण षोडशिना पीतस्येति
तस्य व्युदितो भक्षो यजमानवशो हि यजमानस्य होतृवशो होतुस्
तावु चेदध्वर्यवे प्रब्रूयातां वषट्कर्तुर्भक्ष इत्येव ब्रूयात्
तथात्मानं भक्षान्नान्तरेति
तस्य भक्षः ४
17.5
इन्द्र श्च सम्राड्वरुणश्च राजा तौ ते भक्षं चक्रतुरग्र एतम्। तयोरनु भक्षं भक्षयामि वाग्जुषाणा सोमस्य तृप्यतु तस्य त इन्द्रे ण षोडशिना पीतस्य मधुमत उपहूतस्योपहूतो भक्षयामीति
निर्णिज्य पात्रं प्रयच्छत्यत्रैतमरुणपिशङ्गमश्वं ददाति श्यामं वा

होतृचमसमेवैते त्रयः समुपहूय भक्षयन्ति
यथाचमसं चमसान्
हिन्व म इत्यात्मानं प्रत्यभिमृशन्ते
नाप्याययन्ति चमसान्
सर्वभक्षा मार्जयन्तेऽथ संप्रैषमाह प्रतिप्रस्थातराग्रयणतृतीयं गुदतृतीयानि जाघनीः पृषदाज्यं गोपायाग्नीदाश्विनं ते द्विकपालँ शृतमप्यपररात्रेऽस्त्विति
यथासंप्रैषं तौ कुरुतोऽथ विनिःसृप्य रात्रये प्रसर्पन्ति
संप्रसृप्तान्विदित्वाध्वर्युः प्राङायन्नाह ५
17.6
होतुश्चमसमनून्नयध्वमुन्नेतः सोमं प्रभावयेति
होतृचमसमेव प्रथममुन्नयन्ति यथोपपादमितरान्
समुन्नीयोत्तरवेद्याँ सँ सादयन्त्यथाप उपस्पृश्य बर्हिषी आदाय वाचंयमः प्रत्यङ्द्रुत्वा स्तोत्रमुपाकरोति
स्तुवते
होत्र एषोत्तमेति प्राहुर्होतुः कालात्पराङावर्ततेऽध्वर्युरभ्येनमाह्वयते होता
प्रत्याह्वयतेऽध्वर्युः
शँ सति
प्रतिगृणाति
प्रसिद्धमुक्थं प्रतिगीर्य प्राङेत्योद्यच्छत एतँ होतृचमसम्
अनूद्यच्छन्ते चमसान्
अथाश्रावयत्यो श्रावयास्तु श्रौषडुक्थशा यज सोमानामिति
वषट्कृतानुवषट्कृते द्विर्जुहोति
तथैव द्विर्द्विः सवाँ र्! श्चमसाञ्जुह्वत्यथ भक्षैः प्रत्यञ्च आद्र वन्त्यनुसवनभक्ष इन्द्रे ण पीतस्येति
होतृचसममेवैते त्रयः समुपहूय भक्षयन्ति
यथाचमसं चमसान्
हिन्व म इत्यात्मानं प्रत्यभिमृशन्ते

नाप्याययन्ति चमसान्
सर्वभक्षा मार्जयन्तेऽथ प्राङायन्नाह ६
17.7
मैत्रावरुणस्य चमसमनून्नयध्वमुन्नेतः सोमं प्रभावयेति
मैत्रावरुणचमसमेव प्रथममुन्नयन्ति
यथोपपादमितरान्
समुन्नीयोत्तरवेद्याँ सँ सादयन्त्यथाप उपस्पृश्य बर्हिषी आदाय वाचंयमः प्रत्यङ्द्रुत्वा स्तोत्रमुपाकरोति
स्तुवते
मैत्रावरुणायैषोत्तमेति प्राहुर्मैत्रावरुणस्य कालात्पराङावर्ततेऽध्वर्युरभ्येनमाह्वयते मैत्रावरुणः
प्रत्याह्वयतेऽध्वर्युः
शँ सति
प्रतिगृणाति
प्रसिद्धमुक्थं प्रतिगीर्य प्राङेत्योद्यच्छत एतं मैत्रावरुणचमसम्
अनूद्यच्छन्ते चमसान्
अथाश्रावयत्यो श्रावयास्तु श्रौषडुक्थशा यज सोमानामिति
वषट्कृतानुवषट्कृते द्विर्जुहोति
तथैव द्विर्द्विः सवाँ र्! श्चमसाञ्जुह्वत्यथ भक्षैः प्रत्यञ्च आद्र वन्त्यनुसवनभक्ष इन्द्रे ण पीतस्येति
मैत्रावरुणचमसमेवैते त्रयः समुपहूय भक्षयन्ति
यथाचमसं चमसान्
हिन्व म इत्यात्मानं प्रत्यभिमृशन्ते
नाप्याययन्ति चमसान्
सर्वभक्षा मार्जयन्तेऽथाह प्रतिप्रस्थातश्चमसगणौ ते प्रचरेति
तच्छ्रुत्वा प्रतिप्रस्थाता प्राङायन्नाह ७
17.8
ब्राह्मणाच्छँ सिनश्चमसमनून्नयध्वमुन्नेतः सोमं प्रभावयेति
ब्राह्मणाच्छँ सिचमसमेव प्रथममुन्नयन्ति
यथोपपादमितरान्
समुन्नीयोत्तरवेद्याँ सँ सादयन्त्यथाप उपस्पृश्य बर्हिषी आदाय वाचंयमः प्रत्यङ्द्रुत्वा स्तोत्रमुपाकरोति
स्तुवते
ब्राह्मणाच्छँ सिन एषोत्तमेति प्राहुर्ब्राह्मणाच्छँ सिनः कालात्पराङावर्तते प्रतिप्रस्थाताभ्येनमाह्वयते ब्राह्मणाच्छँ सी
प्रत्याह्वयते प्रतिप्रस्थाता
शँ सति
प्रतिगृणाति
प्रसिद्धमुक्थं प्रतिगीर्य प्राङेत्योद्यच्छत एतं ब्राह्मणाच्छँ सिचमसम्
अनूद्यच्छन्ते चमसान्
अथाश्रावयत्यो श्रावयास्तु श्रौषडुक्थशा यज सोमानामिति
वषट्कृतानुवषट्कृते द्विर्जुहोति
तथैव द्विर्द्विः सवाँ र्! श्चमसाञ्जुह्वत्यथ भक्षैः प्रत्यञ्च आद्र वन्त्यनुसवनभक्ष इन्द्रे ण पीतस्येति
ब्राह्मणाच्छँ सिचमसमेवैते त्रयः समुपहूय भक्षयन्ति
यथाचमसं चमसान्
हिन्व म इत्यात्मानं प्रत्यभिमृशन्ते
नाप्याययन्ति चमसान्
सर्वभक्षा मार्जयन्तेऽथ प्राङायन्नाह ८
17.9
आवाकस्य चमसमनून्नयध्वमुन्नेतः सोमं प्रभावयेत्यच्छावाकचमसमेव प्रथममुन्नयन्ति
यथोपपादमितरान्
समुन्नीयोत्तरवेद्याँ सँ सादयन्त्यथाप उपस्पृश्य बर्हिषी आदाय वाचंयमः प्रत्यङ्द्रुत्वा स्तोत्रमुपाकरोति
स्तुवतेऽच्छावाकायैषोत्तमेति प्राहुरच्छावाकस्य कालात्पराङावर्तते प्रतिप्रस्थाताभ्येनमाह्वयतेऽच्छावाकः
प्रत्याह्वयते प्रतिप्रस्थाता
शँ सति
प्रतिगृणाति
प्रसिद्धमुक्थं प्रतिगीर्य प्राङेत्योद्यच्छत एतमच्छावाकचमसम्
अनूद्यच्छन्ते चमसान्
अथाश्रावयत्यो श्रावयास्तु श्रौषडुक्थशा यज सोमानामिति
वषट्कृतानुवषट्कृते द्विर्जुहोति
तथैव द्विर्द्विः सवाँ र्! श्चमसाञ्जुह्वत्यथ भक्षैः प्रत्यञ्च आद्र वन्त्यनुसवनभक्ष इन्द्रे ण पीतस्येत्यच्छावाकचमसमेवैते त्रयः समुपहूय भक्षयन्ति
यथाचमसं चमसान्
हिन्व म इत्यात्मानं प्रत्यभिमृशन्ते

नाप्याययन्ति चमसान्
सर्वभक्षा मार्जयन्ते
होत्रे प्रथमँ स्तुवतेऽथ मैत्रावरुणायाथ ब्राह्मणाच्छँ सिनेऽथाच्छावाकायाध्वर्युः पूर्वाभ्यां चमसगणाभ्यां प्रचरति प्रतिप्रस्थातोत्तराभ्यां सर्व ऐन्द्रा ग्रहाश्चमसगणा भवन्तीति न्वा अयं प्रथमश्चतुःपर्यायः संतिष्ठत एवमेव द्वितीयः संतिष्ठत एवं तृतीयो मध्यमेन पर्यायेण शिल्पवन्त इव चरन्त्यथ विनिःसृप्य राथंतराय संधये प्रसर्पन्ति ९
17.10
संप्रसृप्तान्विदित्वाध्वर्युः प्राङायन्नाह होतुश्चमसमनून्नयध्वमुन्नेतः सर्वश एव राजानमुन्नय मातिरीरिच इति
होतृचमसमेव प्रथममुन्नयन्ति
यथोपपादमितरान्
सर्वश एव राजानँ समुन्नीयोत्तरवेद्याँ सँ सादयन्ति
तदेतमाश्विनमुपस्तीर्णाभिघारितँ सह सँ सादयन्त्यथाप उपस्पृश्य बर्हिषी आदाय वाचंयमः प्रत्यङ्द्रुत्वा स्तोत्रमुपाकरोति
स्तुवते
होत्र एषोत्तमेति प्राहुर्होतुः कालात्पराङावर्ततेऽध्वर्युरभ्येनमाह्वयते होता
प्रत्याह्वयतेऽध्वर्युः
शँ सति
प्रतिगृणात्या महाहनाच्छस्यते

परःसहस्रमाश्विनं भवतीति ब्राह्मणम्प्रसिद्धमुक्थं प्रतिगीर्य प्राङायन्नाहाश्विभ्यां तिरोअह्नियानाँ सोमानामनुब्रूहीति
प्राङेत्योद्यच्छत एतँ होतृचमसम्
अनूद्यच्छन्त आश्विनम्
उपोद्यच्छन्ते चमसान्
अथाश्रावयत्यो श्रावयास्तु श्रौषडश्विभ्यां तिरोअह्नियान्सोमान्प्रस्थितान्प्रेष्येति
वषट्कृते जुहोति
तदेतमाश्विनमुपस्तीर्णाभिघारितँ सह जुह्वति
वषट्कृतानुवषट्कृते द्विर्जुहोति
तथैव द्विर्द्विः सवाँ र्! श्चमसाञ्जुह्वत्यथ भक्षैः प्रत्यञ्च आद्र वन्त्यनुसवनभक्षोऽश्विभ्यां पीतस्येति
तस्य भक्षः सर्वगणस्य ते सर्वगणाश्विभ्यां पीतस्य तिरोअह्नियस्य सोमस्य सुषुतस्य मधुमत उपहूतस्योपहूतो भक्षयामीति
होतृचमसमेवैते त्रयः समुपहूय भक्षयन्ति
यथाचमसं चमसान्
हिन्व म इत्यात्मानं प्रत्यभिमृशन्ते
नाप्याययन्ति चमसान्
सर्वभक्षा मार्जयन्तेऽथ संप्रैषमाहाग्नीदौपयजानङ्गारानाहरोपयष्टरुपसीद ब्रह्मन्प्रस्थास्यामः समिधमाधायाग्नीदग्नीन्सकृत्सकृत्संमृड्ढीत्याहरन्त्येतानाग्नीध्रादौपयजानङ्गारांस्तानग्रेण होतारं निवपत्युपसीदत्युपयष्टा गुदतृतीयैरत्रैतानि गुदतृतीयान्येकादशधा कृत्वोपयष्टापयजति
समानमत ऊर्ध्वं संतिष्ठतेऽतिरात्रः १०
17.11
एकादशिनीं करिष्यन्यूपाहुतिँ हुत्वाथ तां दिशमेति यत्र त्रयोदश युपान्वेत्स्यन्मन्यते
तानुपशयद्वादशान्पात्नीवतत्रयोदशाञ्छित्त्वावाहयत्या वा हारयत्योह्य निस्तिष्ठत्यवतक्षणानामेव स्वरून्कुरुतेऽथास्यैषा पूर्वेद्युरेव रथाक्षेणैकादशधा वेदिर्विमिता भवति
स यत्राग्निष्ठस्य यूपावटं परिलिखति तदेतँ रथाक्षं याचति
तेन दक्षिणतो मिमीत उपरसंमितं यूपावटं परिलिखत्यथोदङ्मिमीत उपरसंमितमेव यूपावटं परिलिखति
स एवमेव दक्षिणमुत्तरमित्यष्टौ यूपावटान्परिलिखति
तद्धैतदेक उपवसथीय एवाहन्येतान्यूपानुच्छ्रयन्ति यजमानो वा अग्निष्ठोऽङ्गानामितरे रूपमिति वदन्तः
स यदेनं तत्रानुच्छ्रयन्तं ब्रूयाद्व्यङ्गो न्वा अयं यजमानो भविष्यतीति तथा हैव स्यात्

तदु वा आहुर्यदिमे यूपा अपशवः शूलीभूतास्तिष्ठेयुर्यज्ञवास्तुरूपमिव स्याद्यज्ञवेशसमिव
श्वो भूत एवाहन्येतान्यूपानुच्छ्रयेदिति
ताञ्छ्वो भूत एवोच्छ्रयन्त्यग्निष्ठ एकादशिनीरशनाः परिवीय वासयन्ति ११
17.12
समानं कर्माश्विनाद्ग्रहादाश्विनं ग्रहं गृहीत्वैकादश रशना आदाय यूपमभ्यैति
तदेते यूपाः प्रक्षालिताः प्रपन्नाः संपन्नचषालाः प्रागवटेभ्य उपशेरते
स्वर्वन्तमग्निष्ठमुत्सृज्य तस्माद्दक्षिणमेव पूर्वमुपस्थावानमुच्छ्रयत्यथोत्तरं स एवमेव दक्षिणमुत्तरमित्यष्टौ यूपानुच्छ्रयत्यथ वै भवत्युपरसंमितां मिनुयात्पितृलोककामस्येति समा उपरेषु भवन्ति
रशनसंमितां मनुष्यलोककामस्येति समा रशनासु भवन्ति
चषालसंमितामिन्द्रि यकामस्येति समाश्चषालेषु भवन्ति
सर्वान्समान्प्रतिष्ठाकामस्येति सर्वान्समान्प्रतिष्ठाकामस्य करोति
ये त्रयो मध्यमास्तान्समान्पशुकामस्येति तान्समान्पशुकामस्य करोति

व्यतिषजेदितरानिति व्यतिषजति
स एवमेव दक्षिणमुत्तरमित्यष्टौ यूपान्व्यतिषजति १२
17.13
अथ वै भवति
यं कामयेत प्रमायुकः स्यादिति गर्तमितं तस्य मिनुयादुत्तरार्ध्यं वर्षिष्ठमथ ह्रसीयाँ समित्युत्तरार्ध्यमत्र वर्षिष्ठं मिनोति दक्षिणाध्यँ र्! ह्रसीयाँ सम्
एषा वै गर्तमिद्यस्यैवं मिनोति ताजक्प्रमीयत इति ब्राह्मणं दक्षिणार्ध्यं वर्षिष्ठं मिनुयात्सुवर्गकामस्याथ ह्रसीयाँ समिति
दक्षिणार्ध्यमत्र वर्षिष्ठं मिनोत्युत्तराध्यँ र्! ह्रसीयाँ सम्
आक्रमणमेव तत्सेतुं यजमानः कुरुते सुवर्गस्य लोकस्य समष्ट्या इति ब्राह्मणम्
अथ वै भवति
यदेकस्मिन्यूपे द्वे रशने परिव्ययति तस्मादेको द्वे जाये विन्दते
यन्नैकाँ रशनां द्वयोर्यूपयोः परिव्ययति तस्मान्नैका द्वौ पती विन्दत इति ब्राह्मणम्
अथ वै भवति
यं कामयेत स्त्र्! यस्य जायेतेत्युपान्ते तस्य व्यतिषजेदित्युपान्ते तस्य व्यतिषजति
स्त्र्! येवास्य जायत इति ब्राह्मणम्
अथ वै भवति
यं कामयेत पुमानस्य जायेतेत्यान्तं तस्य प्रवेष्टयेदित्यान्तं तस्य प्रवेष्टयति
पुमानेवास्य जायत इति ब्राह्मणम्
अत्रैतमुपशयं दक्षिणतो व्यस्यति तूष्णीं स्वर्वन्तान्यूपानुत्सृज्याग्नेयमेवाग्निष्ठ उपाकरोति १३
17.14
सारस्वतीमुत्तरे सौम्यं दक्षिणे पौष्णमुत्तरे बार्हस्पत्यं दक्षिणे वैश्वदेवमुत्तर ऐन्द्रं दक्षिणे मारुतमुत्तर ऐन्द्रा ग्नं दक्षिणे सावित्रमुत्तरे वारुणं दक्षिणेऽथ वै भवति
यदि कामयेत योऽवगतः सोऽपरुध्यतां योऽपरुद्धः सोऽवगच्छत्वित्यैन्द्र स्य लोके वारुणमालभेत वारुणस्य लोक ऐन्द्रं

य एवावगतः सोऽपरुध्यते योऽपरुद्धः सोऽवगच्छतीति ब्राह्मणम्
अथ वै भवति
यदि कामयेत प्रजा मुह्येयुरिति पशून्व्यतिषजेदिति
पशूनेवात्र व्यतिषजति
प्रजा एव मोहयतीति ब्राह्मणम्
अथ वै भवति
यदभिवाहतोऽपां वारुणमालभेत प्रजा वरुणो गृह्णीयाद्दक्षिणत उदञ्चमालभतेऽपवाहतोऽपां प्रजानामवरुणग्रहायेति ब्राह्मणम्
अथैतस्मिन्नुपशये मनसैव यं द्वेष्टि तमुपाकरोति
यद्यु वै न द्वेष्ट्याखुस्ते पशुरित्यनुदिशति
समानं कर्मा पर्यग्निकरणात्
पर्यग्निकृतानामेतेषां पशूनां पञ्च दक्षिणार्ध्यान्पशूनुपक्रम्यैव स्थापयित्वा द्वावुपातिनीयाथेतरैर्व्यतिषजत्यथ पर्यग्निकृतैः पशुभिरुदञ्चः प्रतिपद्यन्ते
तेषां वारुण उत्तरार्ध्यो भवत्याग्नेय उपचारत आग्नेयमेवाध्वर्युर्वपाश्रपणीभ्यामन्वारभते पृथगितरान्परिकर्मिण उदञ्चो नयन्त्यनुपूर्वमव्यतिषजन्तस्
तेषां प्रसिद्धं वपाभिश्चरित्वा प्रसर्पन्ति प्रातःसवनाय
तदृजुधा संतिष्ठते १४
17.15
अथ वै भवतीष्टं वपया भवत्यनिष्टं वशयाथ पात्नीवतेन प्रचरतीति
स यत्रैकादशिन्या अनुबन्ध्यस्येष्टं वपया भवत्यनिष्टं वशया तज्जघनेन गार्हपत्यमौपसदायां वेद्याँ स्तम्बयजुर्हरत्य्
इदमेव प्रसिद्धं पौरोडाशिकं त्रिर्यजुषा तूष्णीं चतुर्थम्पूर्वं परिग्राहं परिगृह्णाति
करणं जपत्युद्धन्त्युद्धतादाग्नीध्रस्त्रिर्हरति
यदाग्नीध्रस्त्रिर्हरत्यथाग्रेण गार्हपत्यं पात्नीवतस्य यूपावटं परिलिखति
समानं कर्मा स्रुचाँ सादनात्
सादयित्वा स्रुचोऽग्रेण गार्हपत्यं पात्नीवतमुच्छ्रित्य तस्मिँ स्त्वाष्ट्रँ साण्डमजं पशुमुपाकरोति
तं पर्यग्निकृतमुत्सृज्याज्येन सँ स्थां करोत्यथ चतुर आज्यस्य गृह्णान आह त्वष्ट्र इत्युपाँ श्वनुब्रूहीत्युच्चैरत्याक्रम्याश्राव्याह त्वष्टारमित्युपाँ शु यजेत्युच्चैर्वषट्कृते जुहोतीति नु वपायाः प्रतिचरति
चतुर एवाज्यस्य गृह्णान आह त्वष्ट्र इत्युपाँ श्वनुब्रूहीत्युच्चैः १५
17.16
अत्याक्रम्याश्राव्याह त्वष्टारमित्युपाँ शु यजेत्युच्चैर्वषट्कृते जुहोतीति नु पशुपुरोडाशस्य प्रतिचरति
चतुर एवाज्यस्य गृह्णान आहाग्नय इत्युपाँ श्वनुब्रूहीत्युच्चैरत्याक्रम्याश्राव्याहाग्निमित्युपाँ शु यजेत्युच्चैर्वषट्कृत उत्तरार्धपूर्वार्धेऽतिहाय पूवा आहुतीर्जुहोतीति नु पशुपुरोडाशस्य स्विष्टकृतः प्रतिचरति
चतुर एवाज्यस्य गृह्णान आह त्वष्ट्र इत्युपाँ श्वनुब्रूहीत्युच्चैरत्याक्रम्याश्राव्याह त्वष्टारमित्युपाँ शु यजेत्युच्चैर्वषट्कृते जुहोतीति नु हविषः प्रतिचरत्याज्येन दिशो जुहोति
पृषदाज्येन वनस्पतिम्
आज्यस्य स्विष्टकृतम्
आज्यस्येडामवद्यति
पृषदाज्येनानूयाजान्यजति

सोऽत्रैव पत्नीः संयाज्यात्रैव समिष्टयजूँ षि जुहोति
संतिष्ठते पात्नीवतः १६
17.17
अथ वै भवति
योऽग्न्याधेयेन नर्ध्नोति स पुनराधेयमाधत्ते योऽग्निं चित्वा नर्ध्नोति स पुनश्चितिं चिनुत इत्यग्निं चित्वा ज्यानानो द्वादशेष्टका उपकल्पयतेऽष्टौ याजुषीश्चतस्रो लोकंपृणाः
स यत्र होत्तरवेदिर्व्याघारितोपन्युप्तसंभारा भवति तद्द्वाभ्यामात्मन्यग्निं गृह्णीते मयि गृह्णाम्यग्रे अग्निं यो नो अग्निरिति
स्वयंचितिं जपति यास्ते अग्ने समिधो यानि धामेति
श्वेतमश्वमभिमृश्याष्टौ याजुषीरुपदधाति येनर्षयस्तपसा सत्त्रमासतेति
चतस्रो लोकंपृणा लोकं पृण छिद्रं पृणेत्यथ चितिकॢप्त्याभिमृशति चित्तिमचित्तिं चिनवद्वि विद्वानित्याग्नेय्या गायत्रियैतां चितिमभिमृश्य द्वाभ्यामवद्र वति वाङ्म आसन्प्राणदा इति
तायते पशुबन्धो वाग्निष्टोमो वा
स प्रज्ञातः संतिष्ठते १७
17.18
जर्वरो गृहपतिर्धृतराष्ट्र ऐरावतो ब्रह्मा दत्तस्तापसो होता पृथुश्रवा दूरेश्रवा उद्गाता ग्लावश्चाजगावश्च प्रस्तोतृप्रतिहर्तारौ शितिपृष्ठो मैत्रावरुणस्तक्षको वैशालेयो ब्राह्मणाच्छँ स्युपरीतिस्तर्क्ष्यः सदस्यः शिखातिशिखौ नेष्टापोतारावरुणोऽह्योऽच्छावाकश्चक्रपिशङ्गावाग्नीध्रावजिरो माहेयः सुब्रह्मण्योऽर्बुदो ग्रावस्तुत्साण्ड उन्नेता पशुक्रो ध्रुवगोपः कौतुस्तावध्वर्यू अरिमेजयश्च जनमेजयश्चैते वै सर्पाणाँ राजानश्च राजपुत्राश्च खाण्डवे प्रस्थे सत्त्रमासत पुरुषरूपेण विषकामास्
तेषां दशस्तोमान्यन्यान्यहान्यासन्द्वादशस्तोमान्यन्यान्याक्षीयन्ति च
स यद्दशदशेति तस्मात्सर्पा दँ शुका दँ शवीर्यास्
तदेतल्लौक्यं पौत्रीयं पशव्यँ सत्त्रं
य एतदुपयन्ति नैतान्सर्पा हिँ सन्ति १८
17.19
तपो गृहपतिरिरा पत्नी ब्रह्मैव ब्रह्मा सत्यँ होतामृतमुद्गाता भूतं भविष्यच्च प्रस्तोतृप्रतिहर्तारावृतं मैत्रावरुण ऋतवः सदस्या आर्तवा उपगातारस्तेजो ब्राह्मणाच्छँ सी यशोऽच्छावाकस्त्विषिश्चापचितिश्च नेष्टापोतारावग्निरेवाग्नीध्रो वाक्सुब्रह्मण्यो भगो ग्रावस्तुदूर्गुन्नेता बलं ध्रुवगोपो मनोऽध्वर्युश्चक्षुः प्रतिप्रस्थाता सेदिश्चाशनया चेध्मवाहौ दिष्टिर्विशास्ता मृत्युः शमितैते वै विश्वसृजः प्रथमाः सत्त्रमासां चिक्रिरे
तेषाँ शतँ समा दीक्षा आसञ्छतमुपसदः सहस्रं प्रसुतास्
तदेषाभिवदति विश्वसृजः प्रथमाः सत्त्रमासत सहस्रसमं प्रसुतेन यन्तः । ततो मिषदमिषत्संबभूव ततो ह जज्ञे भुवनस्य गोपा इत्यग्निष्टोमैर्वाव ते तदीयुस्
तदेतदृद्धमयनं प्रजननं यदग्निष्टोमाः १९
17.20
कुण्डपायिनामयनेनैष्यन्तो दीक्षन्ते
पञ्च सर्वतो धुरास्
तेषामियमेव प्रज्ञाता संवत्सरदीक्षा
समानं कर्मारम्भणीयादारम्भणीयेनेष्ट्वैन्द्रं पयो दोहयति संनाय्यस्य वावृता तूष्णीं वाथ वसतीवरीः परिहृत्याविशिष्य पयाँ स्युपवसन्त्यथ श्वो भूत आमावास्येन हविषा यजन्ते
तेन यन्त्यष्टाविँ शतिरहानि

प्रायणीयारम्भणीयौ
स मासः
पौर्णमासहविर्भिर्यन्ति मासम्वैश्वदेवहविर्भिर्यन्ति मासम्वरुणप्रघासहविर्भिर्यन्ति मासं साकमेधहविर्भिर्यन्ति मासं शुनासीरीयहविर्भिर्यन्ति षड्विँ शतिरहान्यभिजित्त्रयः परसामानः
स मासो वैषुवतं त्रयोऽर्वाक्सामानोऽथ विश्वजित्
त्रयस्त्रिँ शेन यन्ति मासं त्रिणवेन यन्ति मासम्
एकविँ शेन यन्ति मासं सप्तदशेन यन्ति मासम्पञ्चदशेन यन्ति मासं त्रिवृता यन्ति द्वादशाहानि
गोआयुषी
तानि चतुर्दश
चत्वार्यूर्ध्वं वैषुवतात्
तान्यष्टादश
दशरात्रो महाव्रतं चातिरात्रश्च
स मासः २०
17.21
अथैषां कुण्डानि
ते यत्सर्व एव त्रिवेदसो भवन्ति तदेषां कुण्डम्
अथ यदन्योऽन्यमनुपरिसर्पं याजयन्ति तदेषां कुण्डम्
अथ यदत्सरुकैश्चमसैर्भक्षयन्ति तदेषां कुण्डं तेषां य एव ब्रह्मा स एव ब्राह्मणाच्छँ सी स पोताथ यो होता स एव मैत्रावरुणः सोऽच्छावाकोऽथ य उद्गाता स एव प्रस्तोता स प्रतिहर्ताथ योऽध्वर्युः स एव प्रतिप्रस्थाता स नेष्टाथ य आग्नीध्रः स एव ग्रावस्तुत्स सुब्रह्मण्यः स उन्नेताथोपनिषदोऽग्निश्चतुर्होता वायुः पञ्चहोता चन्द्र माः षड्ढोता प्रजापतिः सप्तहोतासावादित्यो नवहोतैता वै देवता एतेनायनेनायंस्ततो वै ता आर्ध्नुवन्
सुवर्गं लोकमायन्
य एवं विद्वाँ स एतेनायनेन यन्त्यृध्नुवन्त्येव सुवर्गं लोकं यन्ति २१
17.22
उत्सर्गिणामयनेनैष्यन्तो दीक्षन्ते
तेषामियमेव प्रज्ञाता संवत्सरदीक्षा
समानं कर्मा पृष्ठ्यात्षडहात्
पृष्ठ्येन षडहेनेष्ट्वैन्द्रं पयो दोहयति सांनाय्यस्य वावृता तूष्णीं वाथ वसतीवरीः परिहृत्याविशिष्य पयाँ स्युपवसन्त्यथ प्रातरहरुत्सृज्य ज्योतिष आयतने प्राजापत्यं पशुमालभन्ते
तस्य पशुपुरोडाशमनुवर्ततेऽग्नये वसुमते पुरोडाशोऽष्टाकपालो माध्यंदिन इन्द्रा य मरुत्वते पुरोडाशमेकादशकपालं निर्वपन्त्यैन्द्र ँ! सांनाय्यं सा द्विहविरिष्टिः संतिष्ठतेऽत्रैतदैन्द्र ँ! सांनाय्यँ समुपहूय भक्षयन्त्यथापराह्णे वैश्वदेवं द्वादशकपालं निर्वपन्ति वैश्वदेवं चरुं ताभ्यां चरन्ति देवताप्रभृतीभ्यामिडान्ताभ्याम्

अथ पशुना चरति मनोताप्रभृतिनेडान्तेनाथानूयाजैश्चरित्वा प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य पत्नीः संयाज्य प्राङेत्य ध्रुवामाप्याय्य वसतीवरीः परिहृत्य पयाँ सि विशिष्योपवसन्त्यथ श्वो भूते गवा प्रतिपद्यन्ते
त एवमेवैतेन यन्तो मासिमास्युत्सृजन्तः पञ्च ज्योतीँ ष्युत्सृजन्त्यथामुत आवृत्ताँ श्चतुरश्च त्रयस्त्रिँ शस्तोमानुत्सृजन्त्येकं च ज्योतिरथ श्वो भूत आयुषैव प्रतिपद्यन्ते २२
17.23
तपश्चितामयनेनैष्यन्तो दीक्षन्ते
तेषामियमेव प्रज्ञाताग्निदीक्षा
समानं कर्मा संनिवापात्
प्रसिद्धः संनिवापोऽथ प्रायणीयेन चरति
प्रायणीयेन चरित्वा पदेन चरति
पदेन चरित्वा राजानं क्रीत्वोह्यातिथ्यं निर्वपत्यातिथ्येन प्रचर्याथैतां पञ्चहविषमिष्टिं निर्वपत्याग्नेयमष्टाकपालमैन्द्र मेकादशकपालं वैश्वदेवं द्वादशकपालं बार्हस्पत्यं चरुं वैष्णवं त्रिकपालमिति
तया सकृदेवेष्ट्वा नाद्रि येरन्नित्येक आहुरेतयैवाहरहः संवत्सरं यजेरन्नित्येके
प्रथमेऽहन्सर्वैरन्वहमेकैकया षष्ठेऽहन्सर्वैरन्वहमेकैकया
प्रथमे द्वादशाहेऽग्निं चिन्वीतेत्येक आहुस्
तदु वा आहू रुद्रो वा एष यदग्निः

स एतर्हि जातो यर्हि सर्वश्चितः
स यथा वत्सो जात स्तनं प्रेप्सत्येवं वा एष एतर्हि भागधेयं प्रेप्सति
संवत्सर एवेवास्यातो भागधेयं नैतस्याशां चनेयादित्युत्तमे द्वादशाहेऽग्निं चिन्वीतेत्येतदपरम् २३
17.24
अथातोऽहरहश्चयनस्यैव मीमाँ सा
सद्यश्चितिं निस्तिष्ठन्त्यथ लोकंपृणा इष्टका उपदधन्मासमेति
मासि तयादेवतं कुरुते
द्वितीये मासे पुरीषचितिः
सद्यश्चितिं निस्तिष्ठन्त्यथ मुष्ठिनोऽनुप्रकारं मासमेति
मासि तयादेवतं कुरुते
तृतीये मासे वण्डचितिश्चतुर्थे मासे पुरीडचितिः
पञ्चमे मासे मध्यमा चितिः
षष्ठे मासे पुरीषचितिः
सप्तमे मासे वण्डचितिरष्टमे मासे पुरीषचितिर्नवमे मासे सप्त स्कन्ध्या उपदधात्या नक्षत्रेष्टकाभ्यो दशमे मासे पुरीषचितिरेकादशे मासे संयच्च प्रचेताश्चेत्येता उपदधात्या विकर्णेर्द्वादशस्य मासस्याष्टाविँ शतिरहानि पुरीषम्

एकान्नत्रिँ शे शतरुद्री यं श्वो भूते वसोर्धारा २४
17.25
अथोपरिष्टान्मासमित्याचक्षते
मासस्य प्रथमेऽहन्सद्यश्चितिं निस्तिष्ठन्ति सतयादेवतँ ससूददोहसम्मासं प्रवर्ग्योपसद्भ्यां यन्ति
द्वितीयस्य मासस्य प्रथमेऽहन्पुरीषचितिः
सद्यश्चितिं निस्तिष्ठन्ति सतयादेवतँ ससूददोहसं द्वितीयं मासं प्रवर्ग्योपसद्भ्यां यन्ति
तृतीयस्य मासस्य प्रथमेऽहन्वण्डचितिश्चतुर्थस्य मासस्य प्रथमेऽहन्पुरीषचितिः
पञ्चमस्य मासस्य प्रथमेऽहन्मध्यमा चितिः
षष्ठस्य मासस्य प्रथमेऽहन्पुरीषचितिः
सप्तमस्य मासस्य प्रथमेऽहन्वण्डचितिरष्टमस्य मासस्य प्रथमेऽहन्पुरीषचितिर्नवमस्य मासस्य प्रथमेऽहन्सप्त स्कन्ध्या उपदधात्या नक्षत्रेष्टकाभ्यो दशमस्य मासस्य प्रथमेऽहन्पुरीषचितिरेकादशस्य मासस्य प्रथमेऽहन्संयच्च प्रचेताश्चेत्येता उपदधात्या विकर्णेर्द्वादशस्य मासस्य प्रथमेऽहन्पुरीषचितिरेकान्नत्रिँ शे शतरुद्री यं श्वो भूते वसोर्धारा २५
17.26
अथ पुरस्तान्मासमित्याचक्षते
मासं प्रवर्ग्योपसद्भ्यां यन्ति

मासस्योत्तमेऽहन्सद्यश्चितिं निस्तिष्ठन्ति सतयादेवतँ ससूददोहसं द्वितीयं मासं प्रवर्ग्योपसद्भ्यां यन्ति
द्वितीयस्य मासस्योत्तमेऽहन्पुरीषचितिः
सद्यश्चितिं निस्तिष्ठन्ति सतयादेवतँ ससूदओहसं तृतीयस्य मासस्योत्तमेऽहन्वण्डचितिश्चतुर्थस्य मासस्योत्तमेऽहन्पुरीषचितिः
पञ्चमस्य मासस्योत्तमेऽहन्मध्यमा चितिः
षष्ठस्य मासस्योत्तमेऽहन्पुरीषचितिः
सप्तमस्य मासस्योत्तमेऽहन्वण्डचितिरष्टमस्य मासस्योत्तमेऽहन्पुरीषचितिर्नवमस्य मासस्योत्तमेऽहन्सप्त स्कन्ध्या उपदधात्या नक्षत्रेष्टकाभो दशमस्य मासस्योत्तमेऽहन्पुरीषचितिरेकादशस्य मासस्योत्तमेऽहन्संयच्च प्रचेताश्चेत्येता उपदधात्या विकर्णेर्द्वादशस्य मासस्याष्टाविँ शेऽहन्पुरीषम्
एकान्नत्रिँ शे शतरुद्री यं श्वो भूते वसोर्धारा २६
17.27
अथात उत्थानानामेव मीमाँ साहिजितेष्ट्वोत्तिष्ठेयुरित्येतद्ब्राह्मणसंपन्नम्
अपि वाभिजितेष्ट्वाथैताँ सवनेष्टिं निर्वपन्त्याग्नेयमष्टाकपालमैन्द्र मेकादशकपालं वैश्वदेवं द्वादशकपालमिति

तया समस्तया वा विहृतया वा प्रतिपद्यन्ते
वसतीवरीषु मृत्पिण्डमन्ववधायाहरहर्वसतीवरीः परिहरमाणा यन्त्यथ संवत्सरसंपन्नं ब्रह्मणोऽयनमित्याचक्षते
चतुरो मासो दीक्षाभिर्यन्ति चतुर उपसद्भिश्चतुरो मासः प्रसुतास्
तदाहुः क एतावत्तपस्तप्त्वान्यसाधारणं कुर्वीतान्तेवासिषु वोपहवमिच्छेत दक्षिणावता वैनं याजयेयुरिति
सोऽन्तेवासिषु वैवोपहवमिच्छते दक्षिणावता वैनं याजयन्ति २७
17.28
अथ वै भवति
छन्दश्चितं चिन्वीत पशुकाम इति
स छन्दश्चिद्यत्र क्व चाहुतिरागच्छति जुहोत्येव तत्राथ यदन्यदाहुतिभ्यः शरीरवद्यजुरेव तत्र जपति यजुरेव रशनयोर्यजुरश्वगर्दभयोर्यजुरुखायै प्रवृञ्जने
यजते वायव्येन पशुना
दीक्षते
विमायाग्निं परिखायापस्यायतने यजुरेव तत्र जपति यजुः सर्वासामिष्टकानामुपधाने
जुहोति शतरुद्री यं कुरुते वसोर्धारां श्येनचितं चिन्वीत सुवर्गकाम इत्ययमेवैष श्येनचित्

कङ्कचितं चिन्वीत यः कामयेत शीर्षण्वानमुष्मिन्लोके स्यामित्येतस्यैव सतोऽरत्निमात्रेण प्राक्शिर इव निरूहति
स तथा विमितो भवति यथा न बहिर्वेदि यूपः स्यादलजचितं चिन्वीत चतुःसीतं प्रतिष्ठाकाम इत्येतस्यैव सतोऽरत्निमात्रेण पक्षाग्रावणीयाँ सौ भवतस्
तावन्मात्रेणापिपक्षौ वरीयाँ सौ
तौ मनागपनतौ परोऽणीयाँ सौ भवत एकैकामृचा सीतां कृषति
प्रौगचितं चिन्वीत भ्रातृव्यवानित्येतस्यैव सतः समुद्गृह्याँ सौ प्रागायातयति
स तथा विमितो भवति यथा न बहिर्वेदि यूपः स्यादुभयतःप्रौगं चिन्वीत यः कामयेत प्रजातान्भ्रातृव्यान्नुदेय प्रतिजनिष्यमाणानित्येतस्यैव सतः समुद्गृह्यैव श्रोणी प्रत्यगायातयति
स तथा विमितो भवति यथा न बहिर्वेदि यूपः स्यात् २८
17.29
रथचक्रचितं चिन्वीत भ्रातृव्यवानिति विज्ञायत आकृतिविकारः शब्दसंयोगाद्यावानग्निः सारत्निप्रादेशस्तावतीं भूमिं परिमण्डलां कृत्वानुशर्करमन्तःशर्करमिष्टकाः परिचिनोत्यथान्ततोऽथान्तरत एवमेवा स्वयमातृण्णाययथाभितः स्वयमातृण्णां
मध्ये नाभिमिव करोति
तस्या अनुदिशमवान्तरदिशमरानिव नेमिमिवेष्टका आयातयति
स एष रथचक्रचिद्भ्रातृव्यवतः परिकृष्यो द्रो णचितं चिन्वीतान्नकाम इत्येतस्यैव सतोऽरत्निमात्रेण प्रागोष्ठमिव निरूहत्यथ मध्ये निम्नमिव करोति
स एष द्रो णचिदन्नकामस्य परिकृष्यः
समूह्यं चिन्वीत पशुकाम इति विज्ञायते
पुष्करपणँ र्! रुक्मँ हिरण्मयं पुरुषँ स्रुचावित्येतल्लक्षण्यमित्याचक्षते
कुरुत एव तदथो पुरीषस्यैवेष्टका आयातयति
स एष समूह्यः पशुकामस्य परिकृष्यः
परिचाय्यं चिन्वीत ग्रामकाम इत्यनुशर्करमन्तःशर्करमिष्टकाः परिचिनोत्यथान्ततोऽथान्तरत एवमेवा स्वयमातृण्णाययथाभितः स्वयमातृण्णामिष्टकाः परिचिनोति
स एष परिचाय्यो ग्रामकामस्य परिकृष्यः २९
17.30
श्मशानचितं चिन्वीत यः कामयेत पितृलोक ऋध्नुयामिति
षट्प्राञ्चः पुरुषास्त्रयः पुरस्तात्तिर्यञ्चौ द्वौ पश्चात्तिर्यञ्चौ स आत्मा
तस्य मात्रा यदि ग्रीवदघ्नं पुरस्तान्नाभिदघ्नं पश्चाद्यदि नाभिदघ्नम्पुरस्ताज्जानुदघ्नं पश्चाद्यदि जानुदघ्नं पुरस्ताद्गुल्फदघ्नं पश्चाद्यदि गुल्फदघ्नं पुरस्तात्समं भूमेः पश्चात्
स एष श्मशानचित्पितृलोककामस्याथ हैष कूर्मचिदब्राह्मणो मध्य उत्पृष्ठः परिकृष्य एतस्यैव सतोऽरत्निमात्रेण प्राक्शिर इव निरूहति
तस्यावान्तरदिशं पादानिवेष्टका आयातयति
स एष कूर्मचिदब्राह्मणो मध्य उत्पृष्ठः परिकृष्यः ३०
17.31
सौत्रामण्या यक्ष्यमाणो भवति
स उपकल्पयते रोहितं चर्मानडुहँ सीसं च क्लीबं च शष्पाणि च तोक्माणि च व्रीहीन्नग्नहुं चूर्णकृतं त्रीणि नानावृक्ष्याणि पात्राणि त्रयान्सक्तूँ स्त्रयाणि लोमानि यूपं च श्येनपत्त्रं च गर्भिणीं वडबामासन्दीमिण्ड्वं कुम्भं कारोतरं विशाख्यौ दीर्घवँ शँ शिक्यँ शतातृण्णाँ शतमानँ हिरण्यँ सतं च वालं च ब्राह्मणमाहुत्या उच्छेषणस्य पातारं यदि ब्राह्मणं न विन्दति वल्मीकवपाम्

अथामावास्येन वा हविषेष्ट्वा नक्षत्रे वाग्रेण शालाँ रोहिते चर्मणि सुरासोमः सँ सन्नः शेते
तं दक्षिणतः क्लीब उपास्ते
सीसेन क्लीबाच्छष्पाणि क्रीणातीदं तवेदं ममेति
क्रीतः सुरासोम इत्यथैनमादाय पूर्वया द्वारा शालां प्रपाद्य जघनेन गार्हपत्यमुपसादयत्यथैतेषां व्रीहीणामर्धानवघ्नन्त्यथेतरान्गार्हपत्य एककपालमधिश्रित्य भर्जन्ति
तेषां ये फलन्ति लाजास्ते भवन्त्यथ य उ न फलन्ति तास्तर्यो गार्हपत्ये नवां कुम्भीमधिश्रित्य प्रोदकमिवौदनँ श्रपयन्त्यथैनं विस्राव्य कठिने वा पाजके वा विषजन्त्यथैनान्भृग्णानवघ्नन्ति
तेषां यानि च क्षुद्रा णि याश्च तर्यस्ता उत्सेके संप्रकिरन्ति
तं मासर इत्याचक्षतेऽथ मानमादाय विमिमीत एकँ शष्पाणां द्वे तोक्माणां त्रीणि लाजानां चत्वारि नग्नहोर्
अथैतमोदनं चूर्णैरनुप्रकिरन्मासरेणावोक्षन्संपादयति ३१
17.32
स्वाद्वीं त्वा स्वादुना तीव्रां तीव्रेणामृताममृतेन सृजामि सँ सोमेनेत्यथैतामासन्दीमग्रेणाहवनीयं पर्याहृत्य दक्षिणतो निदधात्यासन्द्यामिण्ड्वमिण्ड्वे कुम्भं कुम्भे कारोतरमवदधात्यथैतमोदनमभितः कारोतरं परिचिनोत्यथैनमपिधायाभिमृशति सोमोऽस्यश्विभ्यां पच्यस्व सरस्वत्यै पच्यस्वेन्द्रा य सुत्राम्णे पच्यस्वेति
तिस्रः सँ सृष्टा वसति
तिस्रो रात्रीः क्रीतः सोमो वसतीति ब्राह्मणम्
अथ तिसृषु व्युष्टासु तायते त्रिपशुर्वा चतुष्पशुर्वा पशुबन्धोऽथास्यैषा पूर्वेद्युरेव सौत्रामणिकी वेदिर्विमिता भवति
तां परिस्तीर्य स्तम्बयजुर्हरति ३२
17.33
इदमेव प्रसिद्धं पौरोडाशिकं त्रिर्यजुषा तूष्णीं चतुर्थम्पूर्वं परिग्राहं परिगृह्णाति
करणं जपत्युद्धन्त्युद्धतादाग्नीध्रस्त्रिर्हरति
यदाग्नीध्रस्त्रिर्हरत्यथ चात्वालस्यावृता चात्वालं परिलिखत्युत्तरवेदेरावृतोत्तरवेदिं निवपत्युत्तरनाभिमुत्साद्य यूपावटं खात्वाग्नेरावृता द्वावग्नी प्रणयत आहवनीयादेवाध्वर्युरन्वाहार्यपचनात्प्रतिप्रस्थाताग्निवत्युत्तरं परिग्राहं परिगृह्य योयुपित्वा तिर्यञ्चँ स्फ्यँ स्तब्ध्वा संप्रैषमाह प्रोक्षणीरासादयेध्माबर्हिरुपसादय स्रुवँ स्वधितिँ स्रुचश्च संमृड्ढि तूष्णीं पृषदाज्यग्रहणीम्पत्नीँ संनह्याज्येन च दध्ना चोदेहि प्रतिप्रस्थातः सुरासोमस्य विद्धीत्य्
अध्वर्युरेव प्रसिद्धं पाशुबन्धिकं कर्म चेष्टत्यथ प्रतिप्रस्थाता सुराँ संपवय्य सशस्त्रामादाय पूर्वया द्वारोपनिर्हृत्यान्तर्वेद्यासादयति ३३
17.34
यावदेवात्राध्वर्युश्चेष्टति तावदेष प्रतिप्रस्थाता सत उदीचीनदशेन वालेन सुरां पुनाति पुनातु ते परिस्रुतं सोमँ सूर्यस्य दुहिता । वारेण शश्वता तनेति
वायुः पूतः पवित्रेणेति यदि सोमातिपवितो भवत्यथादत्ते पर्णमयं पात्रं तेन गृह्णाति कुविदङ्ग यवमन्त इत्यनुद्रुत्योपयामगृहीतोऽस्यश्विभ्यां त्वा जुष्टं गृह्णामीति
बर्हिषी अन्तर्धाय क्वलसक्तुभिश्च सिँ हलोमभिश्च श्रीणात्यपोद्धृत्य बर्हिषी श्येनपत्त्रेण परिमृज्य सादयत्येष ते योनिरश्विभ्यां त्वेत्यथादत्ते नैयग्रोधं पात्रं तेन गृह्णाति कुविदङ्ग यवमन्त इत्यनुद्रुत्योपयामगृहीतोऽसि सरस्वत्यै त्वा जुष्टं गृह्णामीति
बर्हिषी अन्तर्धाय बदरसक्तुभिश्च व्याघ्रलोमभिश्च श्रीणात्यपोद्धृत्य बर्हिषी श्येनपत्त्रेण परिमृज्य सादयत्येष ते योनिः सरस्वत्यै त्वेत्यथादत्त आश्वत्थं पात्रं तेन गृह्णाति कुविदङ्ग यवमन्त इत्यनुद्रुत्योपयामगृहीतोऽसीन्द्रा य त्वा सुत्राम्णे जुष्टं गृह्णामीति

बर्हिषी अन्तर्धाय कर्कन्धुसक्तुभिश्च वृकलोमभिश्च श्रीणात्यपोद्धृत्य बर्हिषी श्येनपत्त्रेण परिमृज्य सादयत्येष ते योनिरिन्द्रा य त्वा सुत्राम्ण इति ३४
17.35
ताञ्जघनेन स्रुग्दण्डान्प्राचो वोदीचो वायातयत्यथैताँ सुराँ सप्ररेकामादाय दक्षिणमग्निमुपसँ सर्पति
तमभितो गर्तौ खानयति
तदुपसादयति विशाख्यौ दीर्घवँ शँ शिक्यँ शतातृण्णाँ शतमानँ हिरण्यँ सतं च वालं चाथ दक्षिणमग्निमग्रेण पुराणभस्मनः खरं करोति
तदुपसादयति ब्राह्मणमाहुत्या उच्छेषणस्य पातारं यदि ब्राह्मणं न विन्दति वल्मीकवपाम्
अथाप उपस्पृश्य यूपस्यावृता यूपमुच्छ्रयति
स्वर्वन्तं यूपमुत्सृज्याथैतान्पशूनुपाक्रोत्याश्विनं धूम्रँ सारस्वतं मेषमैन्द्र मृषभम्बार्हस्पत्यं पशुं चतुर्थं यदि सोमातिपवितो भवति
तेषां प्रसिद्धं वपाभिश्चरित्वाश्विनसारस्वतावध्वर्युरादत्तेऽइन्द्रं प्रतिप्रस्थाता
ग्रहावादायोपोत्तिष्ठन्नाहाश्विभ्याँ सरस्वत्या इन्द्रा य सुत्राम्णे सुराम्णाँ सोमानामनुब्रूहीति
युवँ सुराममश्विनेत्येतामन्वाहात्याक्रम्याश्राव्याहाश्विभ्याँ सरस्वत्या इन्द्रा य सुत्राम्णे सुराम्णः सोमान्प्रस्थितान्प्रेष्येति

मैत्रावरुणो होता यक्षदश्विना सरस्वतीमिन्द्र ँ! सुत्रामाणमिति
पुत्रमिव पितरावश्विनोभेति यजत्यहाव्यग्ने हविरास्ये त इति वषट्कृते जुहोति ३५
17.36
यस्मिन्नश्वास ऋषभास उक्षण इत्यनुवषट्कृते हुत्वाश्विनस्य सँ स्रावँ सारस्वतेऽवनयति
सारस्वतस्य सँ स्रावमैन्द्रे
तं ब्राह्मणो भक्ष्यति नाना हि वां देवहितं यदत्रेति द्वाभ्यां यदि ब्राह्मणं न विन्दति वल्मीकवपायामवनयत्येतेनैव मन्त्रेणाथैतानि पात्राणि बल्कशस्य पूरयित्वा पर्णमये श्येनपत्त्रमवगूहति
तद्विशाख्यावुच्छ्रित्य दक्षिणाग्रं वँ शं प्रोहति वँ शे शिक्यँ सजति शिक्ये शतातृण्णाँ शतातृण्णायां वालं वाले शतमानँ हिरण्यम्
अथैताँ सुराँ सप्ररेकामादाय शतातृण्णायाँ समवनयति सोमप्रतीकाः पितरस्तृप्णुतेति
क्षरति शतातृण्णेत्युपतिष्ठन्ते पवमानः सुवर्जन इत्येतेनाष्टर्चेनाथ यदि सोमातिपवितो भवति पितृणां याज्यानुवाक्याभिरुपतिष्ठन्त उदीरतामवर उत्परास आहं पितॄन्त्सुविदत्राँ वित्सीदं पितृभ्यो नमो अस्त्वद्येत्यध्वर्युर्होता ब्रह्मा त उपतिष्ठन्ते

यत्रैव शतातृण्णां धारयति तन्निदधाति प्रतिष्ठित्या इति ब्राह्मणं तदेवैनां निधाय दक्षिणतो निदधात्यथैतानि पात्राणि पुराणभस्मनः खरे सादयति ३६
17.37
पितृभ्यः स्वधाविभ्यः स्वधा नमः पितामहेभ्यः स्वधाविभ्यः स्वधा नमः प्रपितामहेभ्यः स्वधाविभ्यः स्वधा नम इत्यत्र गर्भिणीं वडबां ददात्यथाप उपस्पृश्य बार्हस्पत्यस्य पशुपुरोडाशं याचति
तेन प्रचरति देवताप्रभृतिनेडान्तेनाथ पशुभिश्चरति मनोताप्रभृतिभिरिडान्तैरथैतान्पुरोडाशान्याचत्यैन्द्र मेकादशकपालँ सावित्रं द्वादशकपालं वारुणं दशकपालमिति
तैश्चरति देवताप्रभृतिभिरिडान्तैरनूयाजैश्चरित्वा प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य पत्नीः संयाज्य प्राङेत्य ध्रुवामाप्याय्य त्रीणि पाशुबन्धिकानि समिष्टयजूँ षि जुहोति यज्ञ यज्ञं गच्छैष ते यज्ञो यज्ञपते देवा गातुविद इत्यत्रैतमवभृथँ सँ सादयन्ति यत्किँ चित्सुरालिप्तं भवति तत्सह हृदयशूलानि भवन्त्येतत्समादायान्तरेण चात्वालोत्करावुदङ्ङुपनिष्क्रामन्ति ३७
17.38
द्वे स्रुती अशृणवं पितृणामहं देवानामुत मर्त्यानाम्। ताभ्यामिदं विश्वं भुवनँ समेत्यन्तरा पूर्वमपरं च केतुमिति

प्रसिद्धँ हृदयशूलैश्चरित्वाथैतानि पात्राण्युदकान्ते पराञ्चि सादयति यस्ते देव वरुण गायत्रच्छन्दाः पाशो ब्रह्मन्प्रतिष्ठितः । तं त एतेनावयज इति पर्णमयं यस्ते देव वरुण त्रिष्टुप्छन्दाः पाशः क्षत्रे प्रतिष्ठितः । तं त एतेनावयज इति नैयग्रोधं यस्ते देव वरुण जगतीछन्दाः पाशो विक्षु प्रतिष्ठितः । तं त एतेनावयज इत्याश्वत्थं यस्ते देव वरुणानुष्टुप्छन्दाः पाशः पशुषु प्रतिष्ठितः । तं त एतेनावयज इति शतातृण्णां तूष्णीँ सतं वालं च
प्रसिद्धोऽवभृथः
साम चैव नाह देवीराप एष वो गर्भ इति चाथाप्रतीक्षमायन्ति वरुणस्यान्तर्हित्यै
प्रपथे समिधः कुर्वत एधोऽस्येधिषीमहीत्येत्याहवनीयेऽभ्यादधाति समिदसि तेजोऽसि तेजो मयि धेहीत्यथाहवनीयमुपतिष्ठन्तेऽपो अन्वचारिषँ रसेन समसृक्ष्महि । पयस्वाँ अग्न आगमं तं मा सँ सृज वर्चसेत्यथ कुसीदेन सक्तुहोमेन चरत्यथ देवता उपस्थाय यूपमुपतिष्ठते । संतिष्ठते सौत्राअणी ३८
17.39
वेदमधीत्य स्नास्यन्नुपकल्पयत एरकां चोपबर्हणं च नापितं च क्षुरं च दारूणि चोपस्तरणं च वृकलाँ श्च दन्तधावनमुष्णाश्चापः शीताश्च सर्वसुरभिपिष्टं चाञ्जनं च स्रजं चादर्शं चाहतं च वासः प्रावरणं च वसनान्तरं बादरं मणिँ सुवर्णोपधानँ सूत्रं च प्रवर्तौ च दण्डं चोपानहौ च छत्त्रमानडुहं चर्म सर्वरोहितमित्य्
एतेऽस्य संभारा उपकॢप्ता भवन्ति
स्नानस्य मीमाँ सा
रोहिण्याँ स्नायादित्येकम्प्राजापत्यं वा एतन्नक्षत्रं तदस्य प्राजापत्य एव नक्षत्रे स्नातं भवत्यथो सर्वान्रोहान्रोहाणीति
तिष्ये स्नायादित्येकम्बार्हस्पत्यं वा एतन्नक्षत्रं तदस्य बार्हस्पत्य एव नक्षत्रे स्नातं भवत्यथो बृहस्पतिप्रसूतोऽसानीत्युत्तरयोः फल्गुन्योः स्नायादित्येकम्भाग्यं वा एतन्नक्षत्रं तदस्य भाग्य एव नक्षत्रे स्नातं भवत्य्
अथो भाग्योऽसानीति
हस्ते स्नायादित्येकं सावित्रं वा एतन्नक्षत्रं तदस्य सावित्र एव नक्षत्रे स्नातं भवत्यथो सवितृप्रसूतोऽसानीति
चित्रायाँ स्नायादित्येकम्
ऐन्द्रं वा एतन्नक्षत्रं तदस्यैन्द्र एव नक्षत्रे स्नातं भवत्यथो चित्रोऽसानीति
विशाखयोः स्नायादित्येकम्
ऐन्द्रा ग्नं वा एतन्नक्षत्रं तदस्यैन्द्रा ग्न एव नक्षत्रे स्नातं भवत्यथो विशाखोऽसानि प्रजया पशुभिरित्येतेषामेकस्मिन्नापूर्यमाणपक्षे पुरादित्यस्योदयाद्व्रजमभि प्रपद्यते
नैनमेतदहरादित्योऽभितपेत्तदह स्नातानामु ह वा एष एतत्तेजसा यशसा तपत्यन्तर्लोम्ना चर्मणा व्रजमभिविघ्नन्ति
पूर्वार्धमध्ये व्रजस्याग्निमुपसमाधाय संपरिस्तीर्याहरन्त्येतान्संभारान्सकृदेव सर्वान्
यत्सह सर्वाणि मानुषाणीत्येतस्माद्ब्राह्मणाद्दक्षिणतो ब्राह्मण उपविशत्युत्तरत उदपात्रं पालाशीं च समिधं निदधात्यपरेणाग्निमुदीचीनप्रतिषेवणामेरकाँ साधीवासामास्तीर्य तस्यां प्राङ्मुख उपविशत्य्
उत्तरतो नापित उत्तरत उपबर्हणम्
आमध्यंदिनं भिक्षां दद्यादपीह गां पचेद्वशा चेदस्य स्यादत्रैतां पालाशीं समिधमाज्येनाक्त्वा मध्यंदिनेऽभ्यादधाति ३९
17.40
इमँ स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया । भद्रा हि नः प्रमतिरस्य सँ सद्यग्ने सख्ये मा रिषामा वयं तव स्वाहेत्यथैरकायामुदीचीनशिरा निपद्यते त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषमगस्त्यस्य त्र्यायुषमृषीणां त्र्यायुषं यद्देवानां त्र्यायुषं तन्मे अस्तु त्र्यायुषमित्युद्यमानमनुमन्त्रयते शिवा मे भवथ सँ स्पृश इति
क्षुरमभिमन्त्रयते क्षुरो नामासि स्वधितिस्ते पिता नमस्ते अस्तु मा मा हिँ सीरित्युप्यमानमनुमन्त्रयते यत्क्षुरेण वर्चयसि वप्त्रा वपसि केशश्मश्रु वर्चय मे मुखं मा म आयुः प्रमोषीरिति
श्मश्रूण्येवाग्रे वपतेऽथोपपक्षावथ केशान्यथोपपादमितराण्यङ्गान्येतस्माद्ध्येषा जरसा पूर्व आयुषि प्रयान्ति पूर्व आयुष्यन्नादा भवन्ति य एवं विद्वाँ सो लोमानि वापयन्ते

स यदि लोमानि वापयिष्यमाणः स्यात्केशश्मश्रु वापयित्वा लोमानि सँ हृत्य नखानि निकृन्तयीताथैतानि समुच्चित्य ब्रह्मचारिणे प्रयच्छन्नाहेमानि हृत्वा दर्भस्तम्बे वोदुम्बरमूले वा निधत्तादिति
तानि स तत्र निदधात्यपरेणाग्निं प्राङ्मुख उपविश्य मेखलां विस्रँ सयत इमां विष्यामि वरुणपाशमिति
योऽस्य तत्र रातेः पुत्रो वान्तेवासी वा भवति तस्मै प्रयच्छन्नाहेमाँ हृत्वा न्यग्रोधे वोदुम्बरमूले वा निधत्तादिति
तामु स तत्र निदधातीदमहममुष्यामुष्यायणस्य शुचा पाप्मानमवगूहाम्युत्तरस्य द्विषद्भ्य इति
वृकलैः प्रधाव्य दन्तान्विधावयतेऽन्नाद्याय व्यपोहध्वम्भगो राजायमागमत्। स मे मुखं प्रसर्पतु वर्चसे च भगाय चेत्युभयीरपः संनिषिञ्चत्युष्णासु शीता आनयति दैवमानुषस्य व्यावृत्त्या इति
तासामञ्जलिनोपहत्याभिषिञ्चत्यापो हि ष्ठा मयोभुव इति तिसृभिर्हिरण्यवर्णाः शुचयः पावका इति तिसृभिः
षोढाविहितो वै पुरुष इत्येतस्माद्ब्राह्मणादथैतस्य सर्वसुरभिपिष्टँ समुदायुत्य त्रिः प्रसिञ्चति ४०
17.41
नमः शाकजञ्जभाभ्यां नमस्ताभ्यो देवताभ्यो या अभिग्राहिणीरित्यनुलिम्पतेऽप्सरासु च यो गन्धो गन्धर्वेषु च यद्यशः । दिव्यो यो मानुषो गन्धः स मामाविशत्विहेत्यथाहतं परिधत्ते स्वा मा तनूराविश शिवा मा तनूराविशेत्येवमेवोत्तरासङ्ग्यम्
एवमेवात ऊर्ध्वम्
अथैतं बादरं मणिँ सुवर्णोपधानँ सूत्रे प्रोत्य दर्व्यामाधाय दर्विदण्डे सूत्रेण पर्यस्य जुहोतीयमोषधे त्रायमाणा सहमाना सहसवती । सा मा करोतु सोमवर्चसँ सूर्यवर्चसं ब्रह्मवर्चस्विनमन्नादं करोतु स्वाहेत्यथैनमुदपात्रेऽनुपरिप्लावयति विश्वा उत त्वया वयं धारा उदन्या इव । अतिगाहेमहि द्विष इत्यपाशोऽसीत्युक्त्वाक्ष्णया परिहरति वध्यँ हि प्रत्यञ्चं प्रतिमुञ्चन्ति व्यावृत्त्या इत्येतस्माद्ब्राह्मणादथैतौ प्रवर्तौ सूत्रे प्रोत्य दर्व्यामाधाय दर्विदण्डे सूत्रेण पर्यस्य जुहोत्यायुष्यं वर्चस्यँ सुवीर्य ँ! रायस्पोषमौद्भिद्यम् । इदँ हिरण्यं वर्चसे जैत्र्यायाविशतादिमँ रयिँ स्वाहेति

द्वितीयां जुहोति शुनिमिवाहँ हिरण्यस्य पितुरिव नामाग्रभैषम्। तन्मा करोतु सोमवर्चसँ सूर्यवर्चसं ब्रह्मवर्चस्विनमन्नादं करोतु स्वाहेति
तृतीयां जुहोत्युच्चैर्वाजि पृतनासहँ सभासहं धनंजयम्। सर्वाः समृद्धीरृधयो हिरण्ये याः समाहिताः स्वाहेति
चतुर्थीं जुहोति विराजं च स्वराजं चाभिष्टिर्या च नो गृहे । लक्ष्मी राष्ट्रस्य या मुखे तया मा सँ सृजामसि स्वाहेति
पञ्चमीं जुहोति यशो मा कुरु ब्राह्मणेषु यशो राजसु मा कुरु । यशो विश्येषु शूद्रे ष्वहमस्मि यशस्तव स्वाहेत्यथैनावुदपात्रेऽनुपरिप्लावयति विश्वा उत त्वया वयमित्येतया
तयोरन्यतरमादाय दक्षिणे कर्ण आबध्नीत आयुष्यं वर्चस्यमित्येताभिः पञ्चभिर्
अथैनमनुपरिवर्तयत ऋतुभिस्त्वार्तवैः संवत्सरस्य धायसा तैस्त्वा सहानुकरोमीत्येवमेवोत्तरं प्रवर्तमाबध्नीतेऽथ स्रजं प्रतिमुञ्चते ४१
17.42
शुभिके शिर आरोह शोभयन्ती मुखं मम । मुखँ हि मम शोभय भूयाँ सं च भगं कुरु ॥ यां त्वा जहार जमदग्निः श्रद्धायै कामायान्यै । तां त्वेमां प्रतिमुञ्चेऽहं वर्चसे च भगाय चेति
त्रैककुदेनाञ्जनेनाङ्क्ते यदाञ्जनं त्रैककुदं जातँ हिमवत उपरि । तेन वामाञ्जे मयि पर्वतवर्चसमस्त्वित्यादर्शे परिपश्यते यन्मे मनः परागतमाअर्शे परिपश्यतः । इदं तन्मयि पश्याम्यायुष्यं वर्चस्यं मे अस्त्वित्यथोपानहावुपमुञ्चते द्यौरसीति दक्षिणे पादे पृथिव्यसीत्युत्तरेऽथ दण्डमादत्ते सखा मा गोपायेति
छत्त्रमादत्ते दिव्योऽसि सुपर्णोऽन्तरिक्षान्मा पाहीति
सोऽत्रैवास्त आ नक्षत्राणामुदयादथोदितेषु नक्षत्रेषूपनिष्क्रम्य दिश उपतिष्ठते देवीः षडुर्वीरुरु नः कृणोत विश्वे देवास इह वीरयध्वमिति
मा हास्महि प्रजया मा तनूभिरिति नक्षत्राणि
मा रधाम द्विषते सोम राजन्निति चन्द्र मसं
समुपस्थाय यत्रयत्र कामयते तदेतीत्येतत्समावर्तनम् ४२
17.43
अथेतरत्
तूष्णीमेव तीर्थे स्नात्वोदेत्यथ यदि रथं लभते रथंतरमसीति दक्षिणं चक्रमभिमृशति बृहदसीत्युत्तरं वामदेव्यमसीति मध्यम्
अथ रथं प्रवर्तमानमनुमन्त्रयतेऽयं वामश्विना रथो मा दुःखे मा सुखे रिषदित्यथ यदि शमरथं करिष्यन्भवत्यप उपस्पृश्येमामभिमृशतीह धृतिरिह विधृतिरिह रन्तिरिह रमतिरिह रमतामित्यथास्मा आचार्यः कूर्चमाहारयति
तं प्रदक्षिणं पर्यस्योदगावृत्त उपविशति पुरस्ताद्वैनं प्रत्यञ्चमुपोहते राष्ट्रभृदस्याचार्यासन्दी मा त्वद्योषमित्यथास्मा उदकमाहारयति
तेनास्य पादौ प्रक्षालयत्यवनेक्तुः पाणी संमृशति मयि महो मयि भगो मयि भर्गो मयि यश इत्यप उपस्पृश्य मयीन्द्रि यं वीर्यमित्युरः प्रत्यात्मानं प्रत्यभिमृशतेऽथास्मा अन्यदाहारयति
तत्प्रतिगृह्णात्या म अगाद्वर्चसा यशसा सँ सृज पयसा तेजसा च तं मा प्रियं प्रजानां कुर्वधिपतिं पशूनामिति ब्राह्मणः
प्रियं पशूनां कुर्वधिपतिं प्रजानामिति राजन्यस्
तदुपस्पृश्य प्राक्सेक्तवा इत्याह

मधुपर्कं प्रोक्तमभिमन्त्रयते स मावतु स मा पातु स मा जुषतामित्युभाभ्याँ हस्ताभ्यां प्रतिगृह्णाति ४३
17.44
आ म अगाद्वर्चसा यशसा सँ सृज पयसा तेजसा च तं मा प्रियं प्रजानां कुर्वधिपतिं पशूनामिति ब्राह्मणः
प्रियं पशूनां कुर्वधिपतिं प्रजानामिति राजन्यस्
तस्मिँ श्चेत्किंचिदापतितँ स्यात्तदङ्गुष्ठेन च महानाम्न्या चोपसंगृह्येमां दिशं निरस्यति नेष्टाविद्धं कृन्तामि या ते घोरा तनूस्तया तमाविश योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्यथाप उपस्पृश्य समुदायुत्य त्रिः प्राश्नाति प्राण इदं ते बलिँ हरामि श्रेष्ठं माधिपतिं कुर्विति
सोमोऽसि सोमपं मा कुर्विति द्वितीयम्
अन्नमस्यन्नादं मा कुर्विति तृतीयं त्रिः पीत्वोच्छिष्टं ददाति
यमात्मनः श्रेयाँ समिच्छेत्तस्मै शेषं दद्यादुपनीतां गामनुमन्त्रयते जहि मे पाप्मानमुपनेतुश्चेति
तां कुर्वन्ति वोत्सृजन्ति वा
स यदि करिष्यन्भवति कुरुतेत्याहाथ यद्युत्स्रक्ष्यन्भवति तामनुमन्त्रयते गौर्धेनुभव्या माता रुद्रा णां दुहिता वसूनाँ स्वसादित्यानाममृतस्य नाभिः । प्र णु वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट ॥ पिबतूदकं तृणान्यत्त्वोमुत्सृजतेत्य्
अथास्मा ओदनमाहारयति
तमश्नाति ब्रह्म त्वाश्नातु ब्रह्म त्वाश्नात्विति
तच्चतुष्टयोऽर्घ्यो दधि मधु घृतमाप इति
पञ्चतय इत्येके दधि पयो मधु घृतमाप इति ४४
17.45
ब्राह्मणो ह सोमार्थः शुक्लेन पिङ्गाक्षेण मूर्धभिन्नेन विस्रवता पथि समाजगाम
तँ होवाच कथा विद्यां भगवन्तमिति
सोमो राजास्मीति हैनं प्रत्युवाच
तं मा कदध्वर्युरनैष्ट्ययनविदभ्यसौषीद्यत्रो मा कदध्वर्युरनैष्ट्ययनविदभिषुणोतीत्थमहं तत्र विस्रावाण्यसावसौ ब्राह्मणो नैष्ट्ययनानि वेद
तं गमिष्यामि
स म इमान्वर्णान्सँ रोपयिष्यतीति
ते यत्रावभृथमवयन्ति तदौदुम्बर्या शाखया पलाशशाखया वा स्रुवेण वानाज्यलिप्तेन दध्ना पयसा वा मधुमिश्रेण नैष्ट्ययनैरृजीषमभिजुह्वति
यत्ते ग्राव्णा चिच्छिदुः सोम राजन्नित्येतेनानुवाकेनाभिर्गीर्भिर्यदतो न ऊनमित्येतया च चतुर्दशभिरृजीषमभिजुह्वति

ते यत्रावभृथँ सँ सिध्येयुस्तान्ब्रूयाद्ये नु राज्ञस्त्वचं भित्त्वा क्रूरं कृत्वेह ग्रावभिः ४५
17.46
अशमयित्वा नैष्ट्ययनैर्यन्त्येवैवं कृतागसः ॥
ये सोममसँ स्थाप्यापः सँ साद्यसोमिनः । सँ स्थितो न इत्यायन्त्यमुत्रैनान्हिनस्ति सः ॥
असिशूलैरुत्तुदन्ति यमस्य प्रतिषादने । योऽशमयित्वा नैष्ट्ययनैरथ नाकमधिरोहति ॥
वायुर्भूत्वा पवते त्रिदिवं नाकमुत्तमम्। यः शमयित्वा नैष्ट्ययनैरथ नाकमधिरोहति ॥
अध्वर्योर्यजमानस्य प्रतिप्रस्थातुरग्नीधः । ब्रह्मणो होतुरुद्गातू राजैषां लोकमादत्ते न चाहौषुश्चतुर्दश ॥
ये चतुर्दश जुह्वति दध्न एताः स्रुवाहुतीः । नैषां राजा लोकमादत्ते न प्रजां नोत वाजिनम्॥
आप्याययन्तो राजानं ग्रावभिः क्रूरमृत्विजः । पयसा शमयन्तोऽस्य जुहुतैव चतुर्दशेति ४६
17.47
अथ वै भवति
ब्रह्मवादिनो वदन्ति स त्वै दर्शपूर्णमासौ यजेत य एनौ सेन्द्रौ यजेतेति
वैमृधः पूर्णमासेऽनुनिर्वाप्यो भवति

तेन पूर्णमासः सेन्द्रो ऽइन्द्रं दध्यमावास्यायां
तेनामावास्या सेन्द्रे ति
केनो स्विदनीजानस्य सेन्द्रौ भवत इत्यैन्द्रा ग्नेन पुरोडाशेनेत्येव ब्रूयादित्यथ वै भवति
देवा वै यद्यज्ञेऽकुर्वत तदसुरा अकुर्वत
ते देवा एतामिष्टिमपश्यन्नाग्नावैष्णवमेकादशकपालँ सरस्वत्यै चरुँ सरस्वते चरुं
तां पौर्णमासँ सँ स्थाप्यानुनिरवपन्
ततो देवा अभवन्परासुरा यो भ्रातृव्यवान्त्स्यात्स पौर्णमासँ सँ स्थाप्यैतामिष्टिमनुनिर्वपेत्
पौर्णमासेनैव वज्रं भ्रातृव्याय प्रहृत्याग्नावैष्णवेन देवताश्च यज्ञं च भ्रातृव्यस्य वृङ्क्त इति ब्राह्मणं स एष भ्रातृव्यवतो यथाकामप्रयोगो मिथुनान्पशून्त्सारस्वताभ्यां
यावदेवास्यास्ति तत्सर्वं वृङ्क्त इति ब्राह्मणम्
अथ वै भवति ४७
17.48
पौर्णमासीमेव यजेत भ्रातृव्यवान्नामावास्यामिति
स पौर्णमासीम्पौर्णमासीमेव यजेत भ्रातृव्यवान्नामावास्यां हत्वा भ्रातृव्यं नाप्याययतीति ब्राह्मणं तदेतत्स्तरणावगधं वापरोध्यावगधं वेत्यथ वै भवति
साकंप्रस्थायीयेन यजेत पशुकाम इत्येतयेष्ट्या यक्ष्यमाण उपकल्पयत औदुम्बरं महत्पात्रं प्रभूतमाज्यमित्यथ देवस्य त्वा सवितुः प्रसव इति प्रतिपदं कृत्वाग्नेयमष्टाकपालं निर्वपत्यैन्द्र मेकादशकपालमैन्द्र ँ! सांनाय्यं
प्रसिद्धमाग्नेयेन चरित्वाथेतरयोर्हविषोरौदुम्बरे महति पात्रे समवद्यन्नाहेन्द्रा यानुब्रूहीति महेन्द्रा येति वा यदि महेन्द्र याजी भवति
महता पूणँ र्! होतव्यमित्यत्याक्रम्याश्राव्याहेन्द्रं यजेति महेन्द्र मिति वा यदि महेन्द्र याजी भवति
वषट्कृते सहैव पात्रेण जुहोति
तृप्त एवैनमिन्द्र ः! प्रजया पशुभिस्तर्पयतीति ब्राह्मणम्
अथ वै भवति
दारुपात्रेण जुहोति
न हि मृन्मयमाहुतिमानशेऽउदुम्बरं भवत्यूर्ग्वा उदुम्बर ऊर्क्पशव ऊर्जैवास्मा ऊर्जं पशूनवरुन्द्ध इति ब्राह्मणं तदेतल्लभ्यावगधं वा निर्वेदावगधं वेत्यथ वै भवति ४८
17.49
नागतश्रीर्महेन्द्रं यजेत
त्रयो वै गतश्रियः शुश्रुवान्ग्रामणी राजन्यस्तेषां महेन्द्रो देवतेति
स योऽन्य एतेभ्यो महेन्द्र मियक्ष्येत स संवत्सरमिन्द्र मिष्ट्वाग्नये व्रतपतये पुरोडाशमष्टाकपालं निर्वपति
सा प्रसिद्धेष्टिः संतिष्ठतेऽथ यामावास्यागच्छति तस्यां महेन्द्रं यजते
सोऽत ऊर्ध्वं महेन्द्र याज्येव भवत्यथ वै भवति
संवत्सरमिन्द्रं यजेत
संवत्सरँ हि व्रतं नाति
स्वैवैनं देवतेज्यमाना भूत्या इन्द्धे वसीयान्भवतीति ब्राह्मणम्
अथ वै भवति
संवत्सरस्य परस्तादग्नये व्रतपतये पुरोडाशमष्टाकपालं निर्वपेत्

संवत्सरमेवैनं वृत्रं जघ्निवाँ समग्निर्व्रतपतिर्व्रतमा लम्भयति
ततोऽधि कामं यजेतेति ब्राह्मणम्
अथ वै भवति ४९
17.50
नासोमायाजी संनयेदनागतं वा एतस्य पयो योऽसोमयाजी
यदसोमयाजी संनयेत्परिमोष एव सोऽनृतं करोत्यथो परैव सिच्यते
सोमयाज्येव संनयेत्
पयो वै सोमः पयः सांनाय्यं
पयसैव पय आत्मन्धत्त इति ब्राह्मणम्
अथ वै भवति
वि वा एतं प्रजया पशुभिरर्धयति वर्धयत्यस्य भ्रातृव्यं यस्य हविर्निरुप्तं पुरस्ताच्चन्द्र मा अभ्युदेति
त्रेधा तण्डुलान्विभजेद्ये मध्यमाः स्युस्तानग्नये दात्रे पुरोडाशमष्टाकपालं कुर्याद्ये स्थविष्ठास्तानिन्द्रा य प्रदात्रे दधँ श्चरुं
येऽनिष्ठास्तान्विष्णवे शिपिविष्टाय शृते चरुमिति
तस्या एता भवन्त्यग्ने दा दाशुषे रयिं दा नो अग्ने प्रदातारँ हवामहे प्रदाता वज्री प्र तत्ते अद्य किमित्ते विष्णो परिचक्ष्यं भूदितीन्न्वीजानस्य व्यापन्नयैव पूर्वया यजतेऽव्यापन्नयोत्तरया
न द्वे यजेत
यत्पूर्वया संप्रति यजेतोत्तरया छम्बट्कुर्याद्यदुत्तरया संप्रति यजेत पूर्वया छम्बट्कुर्याद्नेष्टिर्भवति न यज्ञस्
तदनु ह्रीत मुख्यपगल्भो जायत एकामेव यजेत प्रगल्भोऽस्य जायतेऽनादृत्य तद्द्वे एव यजेत
यज्ञमुखमेव पूर्वयालभते
यजत उत्तरया
देवता एव पूर्वयावरुन्द्ध इन्द्रि यमुत्तरया
देवलोकमेव पूर्वयाभिजयति मनुष्यलोकमुत्तरया
भूयसो यज्ञक्रतूनुपैतीति ब्राह्मणम्
अथ वै भवत्येषा वै सुमना नामेष्टिर्यमद्येजानं पश्चाच्चन्द्र मा अभ्युदेत्यस्मिन्नेवास्मै लोकेऽर्धुकं भवतीति ब्राह्मणम्
अथ वै भवति ५०
17.51
दाक्षायणयज्ञेन सुवर्गकामो यजेत
पूर्णमासे संनयेन्मैत्रावरुण्यामिक्षयामावास्यायां यजेतेत्येतयेष्ट्या यक्ष्यमाण उपकल्पयतेऽहतं वासोऽथ पौर्णमास्या उपवसथेऽग्नये व्रतपतये पुरोडाशमष्टाकपालं निर्वपति
सा प्रसिद्धेष्टिः संतिष्ठतेऽथास्यैतदहरिन्द्रा य वत्सा अपाकृता भवन्त्यैन्द्रं पयो दोहयित्वोपवसति सांनाय्यस्य वावृता तूष्णीं वाथ प्रातराग्नेयमष्टाकपालं निर्वप्त्यैन्द्र ँ! सांनाय्यं सा द्विहविरिष्टिः संतिष्ठतेऽत्रैतदैन्द्र ँ! सांनाय्यँ समुपहूय भक्षयन्त्यथाहतं वासः परिधायापरपक्षं व्रतं चरति
तस्यैतद्व्रतं नानृतं वदति न माँ समश्नाति न स्त्रियमुपैति नास्य पल्पूलनेन वासः पल्पूलयन्त्यथ यामावास्यागच्छति तस्या उपवसथेऽग्नये व्रतपतये पुरोडाशमष्टाकपालं निर्वपति
सा प्रसिद्धेष्टिः संतिष्ठतेऽथास्यैतदहर्मित्रावरुणाभ्यां वत्सा अपाकृता भवन्ति
मैत्रावरुणं पयो दोहयित्वोपवसति सांनाय्यस्य वावृता तूष्णीं वाथ प्रातराग्नेयमष्टाकपालं निर्वपति मैत्रावरुणीमामिक्षां
सा द्विहविरिष्टिः संतिष्ठते
वाजिनस्य काले वाजिनेन चरति
निधत्ते वासो विसृजते व्रतम्विसृष्टव्रत एतं पूर्वपक्षं भवत्यथ पौर्णमास्यागच्छत्युत्सीदति व्रतपतिर्यदेवोर्ध्वं व्रतपतेस्तेन प्रतिपद्यते
तदेतत्संवत्सरावगधँ सोमसँ स्थम् ५१
17.52
अथेडादध इत्याचक्षते
समानं वाससश्च व्रतपतेश्च
तथैन्द्रं पयो दोहयित्वोपवसति सांनाय्यस्य वावृता तूष्णीं वाथ प्रातराग्नेयमष्टाकपालं निर्वपत्यग्नीषोमीयमेकादशकपालमैन्द्र ँ! सांनाय्यं सा त्रिहविरिष्टिः संतिष्ठतेऽत्रैतदैन्द्र ँ! सांनाय्यँ समुपहूय भक्षयन्ति
तथाहतं वासः परिधायापरपक्षं व्रतं चरत्यागच्छत्यमावास्या
तस्या उपवसथे यजते
तथा मैत्रावरुणं पयो दोहयित्वोपवसति सांनाय्यस्य वावृता तूष्णीं वाथ प्रातराग्नेयमष्टाकपालं निर्वपत्यैन्द्र मेकादशकपालं मैत्रावरुणीमामिक्षां सा त्रिहविरिष्टिः संतिष्ठते
वाजिनस्य काले वाजिनेन चरति
निधत्ते वासो विसृजते व्रतम्विसृष्टव्रत एतं पूर्वपक्षं भवत्यथ पौर्णमास्यागच्छत्युत्सीदति व्रतपतिर्
यदेवोर्ध्वं व्रतपतेस्तेन प्रतिपद्यते
तदेतत्संवत्सरावगधँ सोमसँ स्थम् ५२
17.53
अथ चतुश्चक्रो भ्रातृव्यवतो यज्ञः
समानं वाससश्चैव व्रतपतेश्च
तथैवैन्द्रं पयो दोहयित्वोपवसति सांनाय्यस्य वावृता तूष्णीं वाथ प्रातराग्नेयमष्टाकपालं निर्वपति सरस्वत उपाँ शुयाजमग्नीषोमीयमेकादशकपालमैन्द्र ँ! सांनाय्यं सा चतुर्हविरिष्टिः संतिष्ठतेऽत्रैतदैन्द्र ँ! सांनाय्यँ समुपहूय भक्षयन्ति
तथैवाहतं वासः परिधायापरपक्षं व्रतं चरत्यागच्छत्यमावास्या
नैवोपवसथे यजते
तथैव मैत्रावरुणं पयो दोहयित्वोपवसति सांनाय्यस्य वावृता तूष्णीं वाथ प्रातराग्नेयमष्टाकपालं निर्वपति सरस्वत्या उपाँ शुयाजमैन्द्र मेकादशकपालं मैत्रावरुणीमामिक्षां सा चतुर्हविरिष्टिः संतिष्ठते
वाजिनस्य काले वाजिनेन चरति
निधत्ते वासो विसृजते व्रतम्विसृष्टव्रत एतं पूर्वपक्षं भवत्यथ पौर्णमास्यागच्छत्युस्तीदति व्रतपतिर्यदेवोर्ध्वं व्रतपतेस्तेन प्रतिपद्यते
तदेतत्संवत्सरावगधँ सोमसँ स्थम् ५३
17.54
स एष चतुश्चक्रो भ्रातृव्यवतो यज्ञः
स यथा ह वा इदमनश्चतुश्चक्रं व्यवघ्नानमेत्येवँ ह वा एष एतेन यज्ञक्रतुनेष्ट्वा पाप्मानं भ्रातृव्यं व्यवघ्नान एति

स एष वसिष्ठयज्ञः केशियज्ञः सार्वसेनियज्ञो वसिष्ठो ह यत्र सौदासानभिचचारैवँ हैनानभिचचार
केशी ह यत्र खाण्डिकमभिचचारैवँ हैनमभिचचार
सार्वसेनिर्ह यत्र भ्रातृव्यानभिचचारैवँ हैनानभिचचार ५४
17.55
चातुर्मास्यैः सोमैर्यक्ष्यमाणो भवति
स द्वयान्संभारानुपकल्पयत आग्निष्टोमिकाँ श्च वैश्वदेवसंभाराँ श्च
स पुरस्तात्फाल्गुन्यै वा चैत्र्! यै वा पौर्णमास्या आमावास्येन हविषेष्ट्वा दीक्षते
तस्यापरिमिता दीक्षास्तिस्र उपसदः
स तथा राजानं क्रीणाति यथा मन्यते पौर्णमास्यै मे यज्ञियेऽहन्सुत्या संपत्स्यत इति
तस्य तथा संपद्यते
प्रसिद्धेन कर्मणोपवसथादेत्यथास्यैतदहर्विश्वेभ्यो देवेभ्यो वत्सा अपाकृता भवन्ति
वैश्वदेवं पयो दोहयति सांनाय्यस्य वावृता तूष्णीं वाथ वसतीवरीः परिहृत्य पयाँ सि विशिष्योपवसन्त्यथ प्रातस्त्रिवृद्बर्हिस्
तदेकवदेव स्तृणात्यथाग्नेयं पशुमुपाकरोति
तस्य वैश्वदेव उपालम्भ्यो भवति
तस्य प्रातःसवनीयाननुवर्तन्ते वैश्वदेवहवीँ षि
प्रैषवन्तः सवनीया अनुब्रूहि यजेतीतरेषाँ हविषाम्

ऋजुधा त्रिवृदग्निष्टोमः संतिष्ठते
पुरस्ताद्धानासोमानां वाजिनेन चरति
समानं कर्मावभृथात्
प्रसिद्धोऽवभृथ उदयनीययेष्ट्येष्ट्वा मैत्रावरुणीं वशामुपाकरोति
तस्यै द्यावापृथिव्योपालम्भ्या भवति
तयोः प्रसिद्धं वपाभ्यां चरित्वा पशुपुरोडाशौ निर्वपति
संतिष्ठते यथा द्विपशुः पशुबन्धस्तथाथ पौर्णमासवैमृधाभ्यामिष्ट्वेत्युक्तमेतद्
अथातश्चतुर्षु मासेषु ५५
17.56
वरुणप्रघासाभ्याँ सोमाभ्यां यक्ष्यमानो भवति
दीक्षते
तस्यापरिमिता दीक्षा द्वादशोपसदः
स तथा राजानं क्रीणाति यथा मन्यते पौर्णमास्यै मे यज्ञियेऽहन्द्वितीयमहः संपत्स्यत इति
तस्य तथा संपद्यते
प्रसिद्धेन कर्मणोपवसथादेत्यथास्यैतदहर्मरुद्भ्यो वत्सा अपाकृता भवन्ति
मारुतं पयो दोहयति सांनाय्यस्य वावृता तूष्णीं वाथ वसतीवरीः परिहृत्य पयाँ सि विशिष्योपवसन्त्यथ प्रातराग्नेयं पशुमुपाकरोति
तस्य मारुत उपालम्भ्यो भवति
तस्य प्रातःसवनीयाननुवर्तन्ते सप्त वरुणप्रघासहवीँ षि
स यत्र प्रातःसवने धिष्णियान्विहरति तदजस्रं मार्जालीयं करोति
समासन्नेषु हविःषु गार्हपत्ये करम्भपात्राण्यभिपर्यग्निकृत्वा तैर्मार्जालीये प्रचरति
प्रैषवन्तः सवनीया अनुब्रूहि यजेतीतरेषाँ हविषाम्
ऋजुधा पञ्चदश उक्थ्यः संतिष्ठतेऽहीनसंततिं करोत्य्
अथास्यैतदहर्वरुणाय वत्सा अपाकृता भवन्ति
वारुणं पयो दोहयति सांनाय्यस्य वावृता तूष्णीं वाथ वसतीवरीः परिहृत्य पयाँ सि विशिष्योपवसन्त्यथ प्रातराग्नेयं पशुमुपाकरोति
तस्य वारुण उपालम्भ्यो भवति
तस्य प्रातःसवनीयाननुवर्तेते वारुणी च कायश्च
प्रैषवन्तः सवनीया अनुब्रूहि यजेतीतरयोर्हविषोरृजुधा सप्तदश उक्थ्यः संतिष्ठते
पुरस्ताद्धानासोमानां वाजिनाभ्यां चरति
समानं कर्मावभृतादथैतस्मिन्नवभृथ उपाददते वारुण्यै निष्कासं तुषानिति
वारुणस्य वारुण्यामिक्षाध्यवदानीया भवत्यृजीषेण सह तुषान्संप्रकिरन्ति
प्रसिद्धोऽवभृथ उदयनीययेष्ट्येष्ट्वा मैत्रावरुणीं वशामुपाकरोति
तस्यै कायोपालम्भ्या भवति
तयोः प्रसिद्धं वपाभ्यां चरित्वा पशुपुरोडाशौ निर्वपति
 संतिष्ठते यथा द्विपशुः पशुबन्धस्तथाथ पौर्णमासवैमृधाभ्यामिष्ट्वेत्युक्तमेतद्
अथातश्चतुर्षु मासेषु ५६
17.57
साकमेधैः सोमैर्यक्ष्यमाणो भवति
दीक्षते
तस्यापरिमिता दीक्षा द्वादशोपसदः
स तथा राजानं क्रीणाति यथा मन्यते पौर्णमास्यै मे यज्ञियेऽहन्तृतीयमहः संपत्स्यत इति
तस्य तथा संपद्यते
प्रसिद्धेन कर्मणोपवसथादेत्यथ वसतीवरीः परिहृत्य पयाँ सि विशिष्योपवसन्त्यथ प्रातराग्नेयं पशुमुपाकरोति

तस्यानीकवत उपालम्भ्यो भवति
तस्य प्रातःसवनीयाननुवर्तत आनीकवतः
प्रैषवन्तः सवनीया अनुब्रूहि यजेत्यानीकवतस्य
माध्यंदिनीयाननुवर्तते सांतपनः
प्रैषवन्तः सवनीया अनुब्रूहि यजेति सांतपनस्यर्जुधैकविँ श उक्थ्यः संतिष्ठतेऽहीनसंसतिं करोत्यथ वसतीवरीः परिहृत्य पयाँ सि विशिष्योपवसन्त्यथ सायं गृहमेधीयेन चरत्यथापररात्रे पूर्णदर्व्येना चरत्यथ प्रातराग्नेयं पशुमुपाकरोति
तस्य क्रैडिन उपालम्भ्यो भवति
तस्य प्रातःसवनीयाननुवर्तते क्रैडिनः
प्रैषवन्तः सवनीया अनुब्रूहि यजेति क्रैडिनस्यर्जुधा त्रिणव उक्थ्यः संतिष्ठतेऽहीनसंततिं करोत्यथ वसतीवरीः परिहृत्य पयाँ सि विशिष्योपवसन्त्यथ प्रातराग्नेयं पशुमुपाकरोति
तस्य प्राजापत्यस्तूपर उपालम्भ्यो भवति
तस्य प्रातःसवनीयाननुवर्तन्ते महाहवीँ षि
प्रैषवन्तः सवनीया अनुब्रूहि यजेतीतरेषाँ हविषां तृतीयसवनीयाननुवर्तन्ते महापितृयज्ञहवीँ षि
स यत्र तृतीयसवने धिष्णियान्विहरति तदजस्रं मार्जालीयं करोति
समासन्नेषु हविःषु गार्हपत्ये महापितृयज्ञहवीँ षि श्रपयित्वा तैर्मार्जालीये प्रचरति
प्रैषवन्तः सवनीया अनुब्रूहि यजेतीतरेषाँ हविषाम्
ऋजुधा त्रयस्त्रिँ श उक्थ्यः संतिष्ठते
पुरस्ताद्धानासोमानां त्रैयम्भकैश्चरति
समानं कर्मावभृथात्
प्रसिद्धोऽवभृथ उदयनीययेष्ट्येष्ट्वा मैत्रावरुणीं वशामुपाकरोति

तस्यै वैश्वकर्मण्युपालम्भ्या भवति
तयोः प्रसिद्धं वपाभ्यां चरित्वा पशुपुरोडाशौ निर्वपति
तावनुवर्तत आदित्यः
प्रैषवन्तौ पशुपुरोडाशवनुब्रूहि यजेत्यादित्यस्य
संतिष्ठते यथा द्विपशुः पशुबन्धस्तथाथ पौर्णमासवैमृधाभ्यामिष्ट्वेत्युक्तमेतद्
अथातश्चतुर्षु मासेषु ५७
17.58
शुनासीरीयेण सोमेन यक्ष्यमाणो भवति
दीक्षते
तस्यापरिमिता दीक्षास्तिस्र उपसदः
स तथा राजानं क्रीणाति यथा मन्यते पौर्णमास्ये मे यज्ञियेऽहन्सुत्या संपत्स्यत इति
तस्य तथा संपद्यते
प्रसिद्धेन कर्मणोपवसथादेत्यथ वसतीवरीः परिहृत्य पयाँ सि विशिष्योपवसन्त्यथास्यैताँ रात्रिं वायवे वत्सा अपाकृता भवन्ति
प्रातर्वायव्यं पयो दोहयति सांनाय्यस्य वावृता तूष्णीं वाथाग्नेयं पशुमुपाकरोति
तस्यैन्द्र ऋषभ उपालम्भ्यो भवति
तस्य प्रातःसवनीयाननुवर्तन्ते शुनासीरीयहवीँ षि
प्रैषवन्तः सवनीया अनुब्रूहि यजेतीतरेषां हविषाम्
ऋजुधा ज्योतिरग्निष्टोमः संतिष्ठते
समानं कर्मावभृथात्
प्रसिद्धोऽवभृथ उदयनीययेष्ट्येष्ट्वा मैत्रावरुणीं वशामुपाकरोति
तस्यै सौर्युपालम्भ्या भवति
तयोः प्रसिद्धं वपाभ्यां चरित्वा पशुपुरोडाशौ निर्वप्ति

संतिष्ठते यथा द्विपशुः पशुबन्धस्तथाथ पौर्णमासवैमृधाभ्यामिष्ट्वेत्युक्तमेतत् ५८
17.59
अथातो ज्योतिरयनमित्याचक्षते
वैश्वदेवेन सोमेन यक्ष्यमाणो भवतीति समानी प्रतिपदेतावदेव नाना
त्रिवृदमुत्राग्निष्टोमो ज्योतिरिहाथातश्चतुर्षु मासेषु वरुणप्रघासेन सोमेन यक्ष्यमाणो भवति
दीक्षते
तस्यापरिमिता दीक्षाः षडुपसदः
स तथा राजानं क्रीणाति यथा मन्यते पौर्णमास्यै मे यज्ञियेऽहन्सुत्या संपत्स्यत इति
तस्य तथा संपद्यते
प्रसिद्धेन कर्मणोपवसथादेत्यथास्यैतदहर्द्वया वत्सा अपाकृता भवन्ति मरुद्भ्यो वरुणायेति
द्वयं पयो दोहयति सांनाय्यस्य वावृता तूष्णीं वाथ वसतीवरीः परिहृत्य पयाँ सि विशिष्योपवसन्त्यथ प्रातराग्नेयं पशुमुपाकरोति
तस्य मारुतो वारुण इत्युपालम्भ्यौ भवतस्
तस्य प्रातःसवनीयाननुवर्तन्ते सप्त वरुणप्रघासहवीँ षि
स यत्र प्रातःसवने धिष्णियान्विहरति तदजस्रं मार्जालीयं करोति
समासन्नेषु हविःषु गार्हपत्ये करम्भपात्राण्यभिपर्यग्निकृत्वा तैर्मार्जालीये प्रचरति
प्रैषवन्तः सवनीया अनुब्रूहि यजेतीतरेषाँ हविषाम्माध्यंदिनीयाननुवर्तेते वारुणी च कायश्च
प्रैषवन्तः सवनीया अनुब्रूहि यजेतीतरयोर्हविषोरृजुधा ज्योतिरुक्थ्यः संतिष्ठते
समानमुत्तरं कर्म यथा द्विरात्रे तथाथातश्चतुर्षु मासेषु ५९
17.60
साकमेधेन सोमेन यक्ष्यमाणो भवति
दीक्षते
तस्यापरिमिता दीक्षाः षडुपसदः
स तथा राजानं क्रीणाति यथा मन्यते पौर्णमास्यै मे यज्ञियेऽहन्सुत्या संपत्स्यत इति
तस्य तथा संपद्यते
प्रसिद्धेन कर्मणोपवसथादेत्यथ वसतीवरीः परिहृत्य पयाँ सि विशिष्योपवसन्त्यथ प्रातराग्नेयं पशुमुपाकरोति
तस्यानीकवतः क्रैडिनः प्राजापत्यस्तूपर इत्युपालम्भ्या भवन्ति
तस्य प्रातःसवनीयाननुवर्तत आनीकवतः
प्रैषवन्तः सवनीया अनुब्रूहि यजेत्यानीकवतस्य
माध्यंदिनीयाननुवर्तते सांतपनः
प्रैषवन्तः सवनीया अनुब्रूहि यजेति सांतपनस्य
तृतीयसवनीयाननुवर्तन्ते गृहमेधीयप्रभृतीनि महाहवीँ षि
स यत्र तृतीयसवने धिष्णियान्विहरति तदजस्रं मार्जालीयं करोति
महाहविर्भिश्चरित्वा गार्हपत्ये महापितृयज्ञहवीँ षि श्रपयित्वा तैर्मार्जलीये प्रचरति
प्रैषवन्तः सवनीया अनुब्रूहि यजेतीतरेषाँ हविषाम्
ऋजुधा ज्योतिरुक्थ्यः संतिष्ठते
समानमुत्तरं कर्म यथा त्रिरात्रे तथा
स उवेव शुनासीरीयः ६०
17.61
अथातो महायज्ञ इत्याचक्षते
ज्योतिरतिरात्र इत्येक आहुर्दीक्षते
तस्यापरिमिता दीक्षा द्वादशोपसदः
स तथा राजानं क्रीणाति यथा मन्यते पौर्णमास्यै मे यज्ञियेऽहन्सुत्या संपत्स्यत इति

तस्य तथा संपद्यते
प्रसिद्धेन क्रमणोपवसथादेत्यथास्यैतदहस्त्रया वत्सा अपाकृता भवन्ति विश्वेभ्यो देवेभ्यो मरुद्भ्यो वरुणायेति
त्रयं पयो दोहयति सांनाय्यस्य वावृता तूष्णीं वाथ वसतीवरीः परिहृत्य पयाँ सि विशिष्योपवसन्त्यथ प्रातस्त्रिवृद्बर्हिस्
तदेकवदेव स्तृणात्यथाग्नेयं पशुमुपाकरोति
तस्य वैश्वदेवो मारुतो वारुण आनीकवतः क्रैडिनः प्राजापत्यस्तूपर ऐन्द्र ऋषभ इत्युपालम्भ्या भवन्ति
तस्य प्रातःसवनीयाननुवर्तन्ते वैश्वदेवहवीँ षि
प्रैषवन्तः सवनीया अनुब्रूहि यजेतीतरेषाँ हविषाम्माध्यंदिनीयाननुवर्तन्ते सर्वाणि वरुणप्रघासहवीँ षि ६१
17.62
स यत्र माध्यंदिनीये सवने धिष्णियान्विहरति तदजस्रं मार्जालीयं करोति
समासन्नेषु हविःषु गार्हपत्ये करम्भपात्राण्यभिपर्यग्निकृत्वा तैर्मार्जालीये प्रचरति
प्रैषवन्तः सवनीया अनुब्रूहि यजेतीतरेषाँ हविषां तृतीयसवनीयाननुवर्तन्त आनीकवतप्रभृतीनि महाहवीँ षि
स यत्र तृतीयसवने धिष्णियान्विहरति तदजस्रं मार्जालीयं करोति

महाहविर्भिश्चरित्वा गार्हपत्ये महापितृयज्ञहवीँ षि श्रपयित्वा तैर्मार्जालीये प्रचरति
प्रैषवन्तः सवनीया अनुब्रूहि यजेतीतरेषाँ हविषाम्
ऋजुधा ज्योतिरतिरात्रः संतिष्ठते
पुरस्ताद्धानासोमानां वाजिनैश्चरित्वा त्रैयम्बकैश्चरति
समानं कर्मावभृथादथैतस्मिन्नवभृथ उपाददते वारुण्यै निष्कासं तुषानिति
वारुणस्य वारुण्यामिक्षाध्यवदानीया भवत्यृजीषेण सह तुषान्संप्रकिरन्ति
प्रसिद्धोऽवभृथ उदयनीययेष्ट्येष्ट्वा मैत्रावरुणीं वशामुपाकरोति
तस्यै द्यावापृथिव्या काया वैश्वकर्मणी सौरीत्युपालम्भ्या भवन्ति
तासां प्रसिद्धं वपाभिश्चरित्वा पशुपुरोडाशान्निर्वपति
ताननुवर्तन्त आदित्यप्रभृतीनि शुनासीरीयहवीँ षि
प्रैषवन्तः पशुपुरोडाशा अनुब्रूहि यजेतीतरेषाँ हविषां संतिष्ठते यथा पञ्चपशुः पशुबन्धस्तथाथ पौर्णमासवैमृधाभ्यामिष्ट्वा यजमानायतन उपविश्य त्रेण्या शलल्या लोहितायसस्य च क्षुरेण शीर्षन्नि च वर्तयते परि च वपते पुरस्तादेवाग्रेऽथ दक्षिणतोऽथ पश्चादथोत्तरतोऽथोपरिष्टात्
संतिष्ठन्ते चातुर्मास्याः सोमाः संतिष्ठन्ते चातुर्मास्याः सोमाः ६२