जैमिनीयं ब्राह्मणम्/काण्डम् २/०६१-०७०

विकिस्रोतः तः
Jump to navigation Jump to search

- तानि वा एतानि रौहिणकानि नाम। एतैर् वै देवा स्वर्गं लोकम् आरोहन्। यद् अरोहंस् तस्माद् रोहिणकानि। तस्माद् वयम् अन्वहम् एवाग्निष्टोमसामानि कुर्मः।

अथ वर्तन्यौ बहद्रथन्तरे। एताभ्यां ह वा एष एतद् वर्तते। तस्माद् वयम् अतिरात्र उभे बृहद्रथन्तरे कुर्मः - कृत्स्नं नस् साम युक्तं यज्ञं वहत्, कृत्स्नेन साम्नोदृचम् अश्नवामहा इति। अथ गतिः। यश् चैवासाव् आदित्ये पुरुषो यश् चायम् अध्य् आत्मन् तद् एतत् प्रजापत्ययनम् इत्य् एवोपासितव्यम्। एतेन वा अयनेन प्रजापतिर् इमाम् ऋद्धिम् आर्ध्नोद् इमां व्यष्टिं व्याश्नुत। तद् याम् एव प्रजापतिर् ऋद्धिम् आर्ध्नोद् या व्यष्टिं व्याश्नुत, ताम् एवर्द्धिम् ऋध्नोति तां व्यष्टिं व्यश्नुते य एवं वेद॥2.61॥


एष वाव दीक्षितो य एष तपति। स एष इन्द्रियं श्रैष्ठ्यम् अभि दीक्षितः। तस्य ये ऽर्वाञ्चो रश्मयस् तानि श्मश्रूणि, य ऊर्ध्वास् ते केशाः। अहोरात्रे एव कृष्णाजिनस्य रूपम्। अहर् एव शुक्लस्य रूपं, रात्रिः कृष्णस्य। अथ यद् एतन् मण्डलं ता आपस् तद् अन्नं तद् अमृतम्। तस्मिन्न् एतस्मिन् मण्डले तेजोमयश् छन्दोमयः पुरुषः। स प्राणस्, स इन्द्रस्, स प्रजापतिस्, स दीक्षितः। तद् एतद् दीक्षयैव संगृहीतम्। तत आभ्यः प्रजाभ्यो ऽन्नाद्यं विसृजते। तस्येमा एव दिशः पत्नय आसन्। तं हेमास् तिस्रो दिशो ऽतिचेरुः. इयं हैवास्यानुव्रततमास येयं दक्षिणा दिक्। तस्माद् एष एताम् एवाभ्युपावर्तते। यद्य् अप्य् उत्तरत उदेत्य् अथैताम् एवाभ्युपावर्तते। तस्माद् यास्य प्रिया जाया स्यात् तां दक्षिणार्ध्यां कुर्यात्॥2.62॥


प्रथमां संनह्यति, प्रथमां वाचयति, प्रथमां पूर्णपात्र आगच्छत्य्, अनन्तरिताः पत्नय स्थ। उदग् उ यज्ञीयं कर्म संतिष्ठते। इति न्व् अधिदेवतम्।

अथाध्यात्मम्। अयम् एव दीक्षितो यो ऽयं चक्षुषि पुरुषः। तस्य यान्य् अर्वाञ्चि पक्षाणि तानि श्मश्रूणि, यान्य् ऊर्ध्वानि ते केशाः। यद् एव शुक्लं च कृष्णं च तत् कृष्णाजिनस्य रूपम्। शुक्लम् एव शुक्लस्य रूपं, कृष्णं कृष्णस्य। अथ यद् एतन् मण्डलं ता आपस् तद् अन्नं तद् अमृतम्। तस्मिन्न् एतस्मिन् मण्डले तेजोमयश् छन्दोमयः पुरुषः। स प्राणस्, स इन्द्रस्, स प्रजापतिस्, स दीक्षितः। स हैवंविद् दीक्षमाणो, यथैवैष एतद् इन्द्रियं ज्यैष्ठ्यं श्रैष्ठ्यम् अभि दीक्षित, एवम् एवेन्द्रियं ज्यैष्ठ्यं श्रैष्ठ्यम् अभि दीक्षितो भवति। तस्माद् उ हैवंविदि दीक्षित ईश्वरो राष्ट्राणि समुत्कम्पितोः क्षामरन्ध्र इव हि समाभवति। एवं ह्य् एतद् इन्द्रियं ज्यैष्ठ्यं श्रैष्ठ्यम् अभि दीक्षितो भवति। तस्माद् उ सर्वम् एवाभिवद्त्य् - आचार्यं पितरं क्षत्रियम्। एवं ह्य् एतद् इन्द्रियं ज्यैष्ठ्यं श्रैष्ठ्यम् अभि दीक्षितो भवति॥2.63॥


विचक्षणवतीं वाचं वदति। अन्नं वै विचक्षणम्। अन्नवतीम् एव तद् वाचं वदति। विचक्षणवतीं वाचं वदति। सोमो वै विचक्षणः। अन्नम् उ वै सोमः. अन्नवतीम् एव तद् वाचं वदति। विचक्षणवतीं वाचं वदति। प्राणो वै विचक्षणः। तस्य वाग् एव मिथुनम्। मिथुनवतीम् एव तद् वाचं वदति। विचक्षणवतीं वाचं वदति। अन्नं वै विचक्षणम्। अन्नेन हीमाः प्रजा विपश्यन्ति। तत आभ्यः प्रजाभ्यो ऽन्नाद्यं प्रयच्छति। स यदास्मै व्रतं प्रयच्छेत्, सर्वम् एव व्रतयेत् -- सर्वस्यान्नाद्यस्यावरुद्ध्यै। यद्य् उ परिशिंष्याद्, व्रतप्रदं ब्रूयाद् - अशान वा पिब वेति। यद्य् उ व्रतप्रदो ऽनुच्छिष्टाशी वा स्यात् परि वा शिंष्यात्, तद् अद्भिर् अभ्युक्ष्य छायायां निषेक्तवै ब्रूयात्। तद् ओषधीभिर् अभिसंछादयितवै ब्रूयात्। तद् ओषधीनां मूलान्य् उपसिञ्चति। वर्षुकः पर्जन्यो भवति यत्रैवं विद्वान् दीक्षते। दीक्षिता उदशुश्रूषन्न् इतीहाहुः। स यदा दीक्षणीयेष्टिस् संतिष्ठेत, यदैनम् अध्वर्युर् अभ्यञ्जयेद् यदा संपवयेद् अथैतम् आदित्यम् उपतिष्ठेत त्वं देवता दीक्षितासि। सा दीक्षमाणस्येन्द्रियं ज्यैष्ठ्यं श्रैष्ठ्यं यश आदत्से। मा म इन्द्रियं ज्यैष्ठ्यं श्रैष्ठ्यं यश आदिथाः। तव दीक्षाम् अनु दीक्ष इति। तस्यैषा देवता दीक्षमाणस्येन्द्रियं ज्यैष्ठ्यै श्रैष्ठ्यं यशो नादत्ते॥2.64॥


तम् अध्वर्युर् अभ्यज्य प्रपाद्यौद्ग्रहणानि जुहोति। यद् औद्ग्रह्णानि जुहोति यद् अस्मा औदुम्बरदण्डं प्रयच्छत्य् अथैतम् आहवनीयम् उपतिष्ठेत वाचा मे वाग् दीक्षताम् अग्नये समष्टवा उ, प्राणेन मे प्राणो दीक्षतां वायवे समष्टवा उ, चक्षुषा मे चक्षुर् दीक्षतां सूर्याय समष्टवा उ, मनसा मे मनो दीक्षतां प्रजापतये समष्टवा व् इति। तद् एताभिर् अनार्ताभिर् देवताभिर् इमा स्वा देवता दीक्षयति। अथाह अग्निर् दीक्षितः, पृथिवी दीक्षा, सा मा दीक्षा दीक्षेत, तया दीक्षया दीक्षे। वायुर् दीक्षितो, ऽन्तरिक्षं दीक्षा, सा मा दीक्षा दीक्षेत, तया दीक्षया दीक्षे। आदित्यो दीक्षितो, द्यौर् दीक्षा, सा मा दीक्षा दीक्षेत, तया दीक्षया दीक्षे। प्रजापतिर् दीक्षितो, मनो दीक्षा, सा मा दीक्षा दीक्षेत, तया दीक्षया दीक्षे। वाचं म ऋचो ऽनु दीक्षन्तां, मनो यजूंषि, प्राणं सामानि। श्रद्धां मे सोमो राजानु दीक्षताम्। ऋचा दीक्षे, यजुषा दीक्षे, साम्ना दीक्षे, पृथिव्या दीक्षे, ऽन्तरिक्षेण दीक्षे, दिवा दीक्ष इत्य् अत्र कृत्स्नो दीक्षितः। अथ यस्यादीक्षिता इमे लोका अदीक्षितानि छन्दांस्य् अदीक्षितस् सोमो राजा --॥2.65॥


-- तं सकामम् अब्यश्नुवीत। अथ हैवंविद् दीक्षमाण एव सर्वान् कामान् उपाप्नोति। तस्माद् दीक्षासु न राजानं परिवेविष्यात्। यद्व्रतो ह्य् एवैष भवति तद्व्रता इमे लोकास् तद्व्रतानि छन्दांसि तद्व्रतस् सोमो राजा। अथाह भूर् भुव स्वस् सुपोषः पोषैस् सुवीरो वीरैस् सुप्रजः प्रजयासम् इति। तद् एताम् अपरिमिताम् आशिषम् अन्त आशास्ते तपो मे प्रतिष्ठेति। तत् तपः प्रतिष्ठां कुरुते। श्रद्धा मे ऽक्षितिर् इति तच् छ्रद्धाम् अक्षितिं कुरुते। सत्यं मे गृहपतिर् इत्य् एष वै सत्यम्। सत्यं य एष तपति। सैषानार्ता देवता। तद् एताम् अनार्तां देवतां गृहपतिं कुरुते। स वा एष सुव्रतः। यद् ध्य् एषा खला स्यात् सर्वम् इदं प्रदहेत्। तस्माद् गृहपतिस् सुव्रत स्यात्। स यद् व् अदीक्षितव्रतं चरेद् अपापवद्यं वा पापं वदेन् मिथुनं वा चरेद् अन्यद् वा मिथ्याकुर्याद् एतम् एवादित्यम् एतैस् सर्वैर् जपैर् उपतिष्ठेत। ततो हैव दीक्षितः। स वा एष एतर्ह्य् अदीक्षितः। यद् व् एवास्मिन् दीक्षते यश आसीत् तद् व् एवास्मिन्न् अप्य् एतर्हि यशः। तद् आहुस् - स वाद्य दीक्षेत स वान्यं दीक्षयेद्, य एतस्य दीक्षितयशसस्य व्यवच्छित्तिं विद्याद् इति। कृष्णाजिनं वाव दीक्षितयशसम्। एतद् धि सर्वेषां वेदानां रूपम्। यानि शुक्लानि तानि साम्नां रूपं, यानि कृष्णाणि तान्य् ऋचाम्। यदि वेतरथा यान्य् एव बभ्रूणीव हरीणि तानि यजुषाम्। तस्माद् यद्य् अप्य् एनद्द्रुक्तो वस्ते दिदृक्षन्त एवैनम्। एतद् ध्य् अस्मिन् दीक्षितयशसं भवति॥2.66॥


ते ये सकृष्णाजिना अपो ऽभ्यवयन्ति, य एतस्माद् दीक्षितयशसाद् अवच्छिद्यन्ते, ते सर्वम् आत्मानं प्रप्लाव्य पाप्मना सहोदायन्ति। स यदावभृथेष्टिस् संतिष्ठेताथोन्मुच्य कृष्णाजिनम् अद्भिर् अभ्युक्षेद् इन्द्रियाज् ज्यैष्ठ्याच् छ्रैष्ठ्यान् मा योषम् इति। अथ यम् अरातिं मन्यते, तस्मै प्रयच्छति। अथाप आचामति भक्षस्यावभृथो ऽसि, भक्षणस्यावभृथो ऽसि, भक्षितस्यावभृथो ऽसीति। स यद् एवात्रर्जीषे किं चित् सक्तं भवति, तस्यैष भक्षः। अथापः प्रविशति। न्यञ्चनं वा एतत् प्रपदनं यद् आपः। न्यञ्चनम् एवैतत् प्रपदनं प्रपद्यते पाप्मनो ऽनन्ववायाय। यद्य् आप स्यन्देरन्, प्रतिस्रोतं गाहेत पाप्मानं मे निर्वहान् इति। सर्वा उ ह त्वा आप स्यन्दन्ते। या उ ह स्थावरा अवाचीस् ता स्यन्दन्ते, ऽवाञ्चम् एवास्य ताः पाप्मानं निर्वहन्ति।
अन्यो ऽन्यस्य जायापती पृष्ठं प्रधावतः। वज्रो वा आपः। वज्रेणैव तत् सर्वं पाप्मानम् अपहनाते। अथो द्वन्द्वम् एव तन् मिथुनं प्रजननं कुर्वाते, प्रजात्यै। स्नात्वा क्षिप्र उदेयात्, क्षिप्रे पाप्मनो व्यावृत्त्या इति॥2.67॥


उन्नेतर् उन् मा नयेत्य् आह। विष्णुर् वा उन्नेता। यज्ञो वै विष्णुः। यज्ञ एवैनं तत् सर्वस्मात् पाप्मनो विमुच्योन्नयति।
उद् वयं तमसस् परि सुवः पश्यन्तो ज्योतिर् उत्तरम्।
देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम्॥
इत्य् एतां जपन्न् उदैति। एतद् वै ज्योतिर् उत्तमं य एष तपति। सैषानार्ता देवता। तद् एताम् अनार्तां देवताम् आरभ्योदैति। औदुम्बरीर् आर्द्रास् सपलाशास् समिधः कुर्वत एधो ऽस्य् एधिषीमहीति। गत्वाहवनीये समिधम् अभ्यादधाति समिद् असि, तेजो ऽसि, तेजो मयि धेहि, स्वाहेति। अभ्याधायोपतिष्ठते
अपो ऽन्व् अचार्यं रसेन समसृक्ष्महि।
पयस्वं अग्न आगमं तं मा संसृज वर्चसा॥
इति। एवम् एव पत्नी गार्हपत्ये ऽभ्याधायोपतिष्ठते। आज्यस्थालीं सस्रुवाम् आदायोत्तरेणाग्नीध्रं च सदश् च परीत्यापरेण गार्हपत्यम् उपविश्योपस्थे कृष्णाजिनम् आधाय चतुर्गृहीतम् आज्यं गृहीत्वा जुहोति मयीन्द्रियं ज्यैष्ठ्यं श्रैष्ठ्यम् अग्निर् दधातु स्वाहेति। स यद् एवास्मिन् दीक्षिते यशो भवति, तद् अस्मिन्न् उत्थिते यशो भवति। तत् कृष्णाजिनं नातिपादयेत्, स्रुगवधानं वैनत् कुर्वीत, हविषो वाधिपेषणं, पुनर्दीक्षायै वैनन् निदधीत। एषा वै कैशिनी दीक्षा। एतां ह केशी दार्भ्यो दीक्षाम् उपनिषसाद॥2.68॥


मृ्त्युप्रजापती यद् अयजेतां, तौ यज्ञाभ्याम् एवास्पर्धेताम्। अथ ह तर्हि यज्ञायुधान्य् आसुर् यथेमान्य् एतर्हीष्टीष्व् आयुधानि। तद् यद् यज्ञे स्तूयते यच् छस्यते यत् प्रचर्यते, सा प्रजापतेस् सेनास। अथ यद् वीणायां गीयते यन् नृत्यते यद् वृथाचर्यते, सा मृत्योस् सेनास। तयोर् ह समावत्याच् एव सेने आसतुर् -- यावत्य् एवेतरस्य तावतीतरस्य। तौ ह ज्योग् एवाविजयमानौ चेरतुर् बहून्य् एव वर्षाणि। स प्रजापतिर् अकामयत् - जयेयं मृत्युम् इति। स एतां यज्ञे संपदम् अपश्यद् एतत् संख्यानम्। तेन मृत्युम् अजयत्। तस्य पराजितस्य राजाशुच्यत्। स प्रत्यङ् पतित्वा पत्नीशालां प्रापद्यत। तस्मात् पत्नीभ्य हय च यस् संपदासुत इत्य् असुत इति हैतन्, न हि सो ऽसूयत। तस्य यानि स्तुतशस्त्राण्य् आसन् यद् एवैतद् वीणायां गीयते यन् नृत्यते यद् वृथाचर्यते, तान्य् एव तानि --॥2.69॥


--अथ यो यूप आसीद्, य एवैष वीणायै दण्डस्, स एव सः। अथ या रशना आसन्, यान्य् एवैतानि वीणाया उपवाणानि, ता एव ताः। अथ यो द्रोणकलश आसीद्, यैवैषा वीणायै सूना, स एव सः। अथ यद् अधिषवणं चर्मासीद्, यद् एवैतद् वीणायै चर्म, तद् एव तत्। अथ य उपरवा आसन्, य एवैते वीणाया आकाशास्, त एव ते। अथ ये ग्रावाण आसन्, यान्य् एवैतानि वीणायै वादनानि, त एव ते। अथ यानि सप्त चतुरुत्तराणि छन्दांस्य् आसन्, या एवैतास् सप्त वीणायै तन्त्र्यस्, तान्य् एव तानि। अथ ये दशरात्रे स्तोमा आसन्, या एवैता दशांगुलयस् त एव ते। तद् आहुर् - नेतर्हि संसवो ऽस्ति। यो हि द्वितीयो यज्ञ आसीद्, अशुच्यत् सः। एक एव यज्ञः। प्रजापतिर् यज्ञ एवेति॥2.70॥