तैत्तिरीयसंहिता(विस्वरः)/काण्डम् ४/प्रपाठकः २

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

4.2 प्रपाठक: 2

4.2.1 अनुवाक 1 आसन्द्याम् उख्याग्निस्थापनम्
1 विष्णोः क्रमो ऽस्य् अभिमातिहा गायत्रं छन्द आ रोह पृथिवीम् अनु वि क्रमस्व निर्भक्तः स यं द्विष्मो विष्णोः क्रमो ऽस्य् अभिशस्तिहा त्रैष्टुभं छन्द आ रोहान्तरिक्षम् अनु वि क्रमस्व निर्भक्तः स यं द्विष्मो विष्णोः क्रमो ऽस्य् अरातीयतो हन्ता जागतं छन्द आ रोह दिवम् अनु वि क्रमस्व निर्भक्तः स यं द्विष्मो विष्णोः
2 क्रमो ऽसि शत्रूयतो हन्ताऽऽनुष्टुभं छन्द आ रोह दिशो ऽनु वि क्रमस्व निर्भक्तः स यं द्विष्मः । अक्रन्दद् अग्निः स्तनयन्न् इव द्यौः क्षामा रेरिहद् वीरुधः समञ्जन् । सद्यो जज्ञानो वि हीम् इद्धो अख्यद् आ रोदसी भानुना भात्य् अन्तः ॥ अग्ने ऽभ्यावर्तिन्न् अभि न आ वर्तस्वाऽऽयुषा वर्चसा सन्या मेधया प्रजया धनेन ॥ अग्ने
3 अङ्गिरः शतं ते सन्त्व् आवृतः सहस्रं त उपावृतः । तासाम् पोषस्य पोषेण पुनर् नो नष्टम् आ कृधि पुनर् नो रयिम् आकृधि ॥ पुनर् ऊर्जा नि वर्तस्व पुनर् अग्न इषाऽऽयुषा । पुनर् नः पाहि विश्वतः ॥ सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया । विश्वप्स्निया विश्वतस् परि ॥ उद् उत्तमं वरुण पाशम् अस्मद् अवाधमम्
4 वि मध्यमꣳ श्रथाय । अथा वयम् आदित्य व्रते तवानागसो अदितये स्याम ॥ आ त्वाऽहार्षम् अन्तर् अभूर् ध्रुवस् तिष्ठाविचाचलिः । विशस् त्वा सर्वा वाञ्छन्त्व् अस्मिन् राष्ट्रम् अधि श्रय ॥ अग्रे बृहन्न् उषसामूर्ध्वो अस्थान् निर्जग्मिवान् तमसो ज्योतिषाऽऽगात् । अग्निर् भानुना रुशता स्वङ्ग आ जातो विश्वा सद्मान्य् अप्राः ॥ सीद त्वम् मातुर् अस्याः ॥
5 उपस्थे विश्वान्य् अग्ने वयुनानि विद्वान् । मैनाम् अर्चिषा मा तपसाभि शूशुचो ऽन्तर् अस्याꣳ शुक्रज्योतिर् वि भाहि ॥ अन्तर् अग्ने रुचा त्वम् उखायै सदने स्वे । तस्यास् त्वꣳ हरसा तपञ् जातवेदः शिवो भव ॥ शिवो भूत्वा मह्यम् अग्ने ऽथो सीद शिवस् त्वम् । शिवाः कृत्वा दिशः सर्वाः स्वां योनिम् इहासदः ॥ हꣳसः शुचिषद् वसुर् अन्तरिक्षसद् होता वेदिषद् अतिथिर् दुरोणसत् । नृषद् वरसद् व्योमसद् अब्जा गोजा ऋतजा अद्रिजा ऋतम् बृहत् ॥

4.2.2 अनुवाक 2 उख्याग्नेरुपस्थानम्
1 दिवस् परि प्रथमं जज्ञे अग्निर् अस्मद् द्वितीयम् परि जातवेदाः । तृतीयम् अप्सु नृमणा अजस्रम् इन्धान एनं जरते स्वाधीः ॥ विद्मा ते अग्ने त्रेधा त्रयाणि विद्मा ते सद्म विभृतम् पुरुत्रा । विद्मा ते नाम परमं गुहा यद् विद्मा तम् उत्सं यत आजगन्थ ॥ समुद्रे त्वा नृमणा अप्स्व् अन्तर् नृचक्षा ईधे दिवो अग्न ऊधन् । तृतीये त्वा
2 रजसि तस्थिवाꣳसम् ऋतस्य योनौ महिषा अहिन्वन् ॥ अक्रन्दद् अग्निः स्तनयन्न् इव द्यौः क्षामा रेरिहद् वीरुधः समञ्जन् । सद्यो जज्ञानो वि हीम् इद्धो अख्यद् आ रोदसी भानुना भात्य् अन्तः ॥ उशिक् पावको अरतिः सुमेधा मर्तेष्व् अग्निर् अमृतो निधायि । इयर्ति धूमम् अरुषम् भरिभ्रद् उच् छुक्रेण शोचिषा द्याम् इनक्षत् ॥ विश्वस्य केतुर् भुवनस्य गर्भ आ
3 रोदसी अपृणाज् जायमानः । वीडुं चिद् अद्रिम् अभिनत् परायञ् जना यद् अग्निम् अयजन्त पञ्च ॥ श्रीणाम् उदारो धरुणो रयीणाम् मनीषाणाम् प्रार्पणः सोमगोपाः । वसोः सूनुः सहसो अप्सु राजा वि भात्य् अग्र उषसाम् इधानः ॥ यस् ते अद्य कृणवद् भद्रशोचे ऽपूपं देव घृतवन्तम् अग्ने । प्र तं नय प्रतरां वस्यो अच्छाभि द्युम्नं देवभक्तं यविष्ठ ॥ आ
4 तम् भज सौश्रवसेष्व् अग्न उक्थउक्थ आ भज शस्यमाने । प्रियः सूर्ये प्रियो अग्ना भवात्य् उज् जातेन भिनदद् उज् जनित्वैः ॥ त्वाम् अग्ने यजमाना अनु द्यून् विश्वा वसूनि दधिरे वार्याणि । त्वया सह द्रविणम् इच्छमाना व्रजं गोमन्तम् उशिजो वि वव्रुः ॥ दृशानो रुक्म उर्व्या व्यद्यौद् दुर्मर्षम् आयुः श्रिये रुचानः । अग्निर् अमृतो अभवद् वयोभिर् यद् एनं द्यौर् अजनयत् सुरेताः ॥

4.2.3 अनुवाक 3 देवयजनपरिग्रहः
1 अन्नपते ऽन्नस्य नो देह्य् अनमीवस्य शुष्मिणः । प्र प्रदातारं तारिष ऊर्जं नो धेहि द्विपदे चतुष्पदे ॥ उद् उ त्वा विश्वे देवा अग्ने भरन्तु चित्तिभिः । स नो भव शिवतमः सुप्रतीको विभावसुः ॥ प्रेद् अग्ने ज्योतिष्मान् याहि शिवेभिर् अर्चिभिस् त्वम् । बृहद्भिर् भानुभिर् भासन् मा हिꣳसीस् तनुवा प्रजाः ॥ समिधाग्निं दुवस्यत घृतैर् बोधयतातिथिम् । आ ॥
2 अस्मिन् हव्या जुहोतन ॥ प्रप्रायम् अग्निर् भरतस्य शृण्वे वि यत् सूर्यो न रोचते बृहद् भाः । अभि यः पूरुम् पृतनासु तस्थौ दीदाय दैव्यो अतिथिः शिवो नः ॥ आपो देवीः प्रति गृह्णीत भस्मैतत् स्योने कृणुध्वꣳ सुरभाव् उ लोके । तस्मै नमन्तां जनयः सुपत्नीर् मातेव पुत्रम् बिभृता स्व् एनम् ॥ अप्स्व् अग्ने सधिष्टव
3 सौषधीर् अनु रुध्यसे । गर्भै सञ् जायसे पुनः ॥ गर्भो अस्य् ओषधीनां गर्भो वनस्पतीनां । गर्भो विश्वस्य भूतस्याग्ने गर्भो अपाम् असि ॥ प्रसद्य भस्मना योनिम् अपश् च पृथिवीम् अग्ने । सꣳसृज्य मातृभिस् त्वं ज्योतिष्मान् पुनर् आसदः ॥ पुनर् आसद्य सदनम् अपश् च पृथिवीम् अग्ने । शेषे मातुर् यथोपस्थे ऽन्तर् अस्याꣳ शिवतमः ॥ पुनर् ऊर्जा
4 नि वर्तस्व पुनर् अग्न इषायुषा । पुनर् नः पाहि विश्वतः ॥ सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया । विश्वप्स्निया विश्वतस् परि ॥ पुनस् त्वाऽऽदित्या रुद्रा वसवः सम् इन्धताम् पुनर् ब्रह्माणो वसुनीथ यज्ञैः । घृतेन त्वं तनुवो वर्धयस्व सत्याः सन्तु यजमानस्य कामाः ॥ बोधा नो अस्य वचसो यविष्ठ मꣳहिष्ठस्य प्रभृतस्य स्वधावः । पीयति त्वो अनु त्वो गृणाति वन्दारुस् ते तनुवं वन्दे अग्ने ॥ स बोधि सूरिर् मघवा वसुदावा वसुपतिः । युयोध्य् अस्मद् द्वेषाꣳसि ॥

4.2.4 अनुवाक 4 गार्हपत्यचयनम्
1 अपेत वीत वि च सर्पतातो ये ऽत्र स्थ पुराणा ये च नूतनाः । अदाद् इदं यमो ऽवसानम् पृथिव्या अक्रन्न् इमम् पितरो लोकम् अस्मै ॥ अग्नेर् भस्मास्य् अग्नेः पुरीषम् असि संज्ञानम् असि कामधरणम् मयि ते कामधरणम् भूयात् सं या वः प्रियास् तनुवः सम् प्रिया हृदयानि वः । आत्मा वो अस्तु
2 सम्प्रियः सम्प्रियास् तनुवो मम ॥ अयꣳ सो अग्निर् यस्मिन्त् सोमम् इन्द्रः सुतं दधे जठरे वावशानः । सहस्रियं वाजम् अत्यं न सप्तिꣳ ससवान्त् सन्त् स्तूयसे जातवेदः ॥ अग्ने दिवो अर्णम् अच्छा जिगास्य् अच्छा देवाꣳ ऊचिषे धिष्णिया ये । याः परस्ताद् रोचने सूर्यस्य याश् चावस्ताद् उपतिष्ठन्त आपः ॥ अग्ने यत् ते दिवि वर्चः पृथिव्यां यद् ओषधीषु
3 अप्सु वा यजत्र । येनान्तरिक्षम् उर्व् आततन्थ त्वेषः स भानुर् अर्णवो नृचक्षाः ॥
पुरीष्यासो अग्नयः प्रावणेभिः सजोषसः । जुषन्ताꣳ हव्यम् आहुतम् अनमीवा इषो महीः ॥
इडाम् अग्ने पुरुदꣳसꣳ सनिं गोः शश्वत्तमꣳ हवमानाय साध । स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ॥ अयं ते योनिर् ऋत्वियो यतो जातो अरोचथाः । तं जानन्
4 अग्न आ रोहाथा नो वर्धया रयिम् ॥ चिद् असि तया देवतयाङ्गिरवद् ध्रुवा सीद परिचिद् असि तया देवतयाङ्गिरस्वद् ध्रुवा सीद लोकम् पृण छिद्रम् पृणाथो सीद शिवा त्वम् । इन्द्राग्नी त्वा बृहस्पतिर् अस्मिन् योनाव् असीषदन् ॥ ता अस्य सूददोहसः सोमꣳ श्रीणन्ति पृश्नयः । जन्मन् देवानां विशस् त्रिष्व् आ रोचने दिवः

सायणभाष्यम्


 ( अथ चतुर्थाष्टके द्वितीय प्रपाठके चतुर्थोऽनुवाकः )।
तृतीयेऽनुवाके वह्नेरुख्यस्य चयनदेशं प्रतिनयनमुक्तम् । अथ चतुर्थे गार्हपत्यचयनमुच्यते ।
कल्प:--- " अपवृत्ते दीक्षापरिमाणेऽपेत वीतेति गार्हपत्यचितेरायतनं व्याममात्रं चतुरस्रं परिमण्डलं वोद्धत्य " इति । पाठस्तु...
अपेत वीतेति । यमस्य सर्वभूम्यधिपतित्वात्तद्भूत्याः पृथिव्यां सर्वत्र वर्तन्ते ।
हे यमभृत्या अब देवयजनस्थाने पुरातना ये यूयं स्थ नूतनाश्च ये यूयं स्थ वे सर्वेऽप्यपेतास्मात्स्थानादपगच्छत । वीतात्यन्तं विदूरं गच्छत । विसर्पत चातोऽस्मात्स्थानादपेत्य सांनिध्यं परित्यज्य विविधं गच्छत । पृथिव्या इदमवसानं स्थानमस्मभ्यं यमोऽदात् । पितरश्चास्मै यजमानायेमं लोकमक्रन्नेतच्चयनस्थानं कृतवन्तः । तमेतं मन्त्रं विनियुङ्क्ते--
“ यावती वै पृथिवी तस्यै यम आधिपत्यं परीयाय यो वै यमं देवयजनमस्या अनिर्याच्याग्निं चिनुते यमायैनꣳ स चिनुतेऽपेतेत्यध्यवसाययति यममेव देवयजनमस्यै निर्याच्याऽऽत्मनेऽग्निं चिनुत " ( सं० का० ५ प्र० २ अ० ३ ) इति ।
सर्वस्याः पृथिव्या आधिपत्ये यमेन प्राप्ते सति यो यजमानो यमं प्रत्यस्याः पृथिव्याः संबन्धि देवयजनमयाचित्वा तत्राग्निं चिनुते, तच्चयनं यमार्थमेव भवति न तु स्वयं तत्फलभाग्भवति । अतो यमं याचितुमपेतेति मन्त्रेणाध्यवसाययति देवयजनं निश्चिनुयात् । अतो याचितत्वात्स्वार्थमेव तच्चयनं भवति । तमिमं मन्त्रं प्रशंसति --
“ इष्वग्रेण वा अस्या अनामृतमिच्छन्तो नाविन्दन्ते देवा एतद्यजुरपश्यन्नपेतेति यदेतेनाध्यवसाययत्यनामृत एवाग्निं चिनुते " ( सं. का. ५ प्र. २ अ. ३ ) इति ।
मृतैः प्राणिभिराक्रान्तमामृत तथा न भवतीत्यनामृतं, तादृशमस्याः पृथिव्याः संबन्धि स्थानमिच्छन्तोऽपेक्षमाणा देवा बाणाग्रेण परिमितमीषदपि नाविदन्नालभन्त, सर्वमपि भूमिस्थानं प्रेतैराक्रान्तमेवेत्यर्थः । यद्यत्स्थानमन्विष्यते तत्र तत्र विचारणायां बहवः प्रेता अतीता भवन्ति । एतदेवाभिप्रेत्य महाभारते स्मरन्ति -
" अत्र भीष्मशतं दग्धं द्रोणानां च शतत्रयम " इति ।
एवं सति देवास्तत्परिहारोपायं विचार्यैतद्यजुर्यजुर्वेदस्थमपेत वीतेत्येवं मन्त्रमपश्यन् । तस्मादनेन मन्त्रेण प्रेतानां निःसारितत्वात्तैरनाक्रान्त एव स्थानेऽग्निं चिनुते । गार्हपत्यचितिस्थानस्योद्धननं विधत्ते --
" उद्धन्ति यदेवास्या अमेध्यं तदपहन्ति " । सं० का० ५ प्र. २ अ. ३] इति ।
अस्याः पृथिव्या उपरि निष्ठीवनादिना यत्स्थानममेध्यं जातं तदुद्धननेन विनिवार्यते । उद्धते प्रदेशे जलेनावोक्षणं विधत्ते --
" अपोऽवोक्षति शान्त्यै " ( सं. का. ५ प्र० १ अ. ३ ) इति ।
उद्धननेन निष्पन्ना भूमिर्जलेन शान्ता भवति ।
कल्प:- अग्नेर्भस्मासीति सिकता निवपति ॥ इति । पाठस्तु -
अग्नेर्भस्मेति । हे सिकतास्वरूप त्वमग्नेर्भस्म भासकमसि । सिकताधारो ह्यग्निरतितीक्ष्णो भवति । तथा त्वमग्नेरवस्थानाय पुरीषमसि पांसुरूपमसि ।
एतन्मन्त्रसाध्यं सिकतावापं विधत्ते --
"सिकता नि वपत्येतद्वा अग्नेर्वैश्वानरस्य रूपꣳ रूपेणैव वैश्वानरमवरुन्धे " (सं० का० ५ प्र० २ अ० ३ ) इति ।
आधानप्रकरणे “ वैश्वानरस्य रूपम् । पृथिव्यां परिस्रसा" इत्याम्नातत्वात्सिकताशरीरं वैश्वानरस्याग्नेः स्वरूपम् ।
कल्प:-" संज्ञानमित्यूषान् " इति । निवपतीत्यनुवर्तते । पाठस्तु --
संज्ञानमसीति । हे ऊषस्वरूप त्वं संज्ञानं पशुसंबन्धि सम्यग्ञावरनमसि । पशवो ह्याघ्राणेन सम्यग्ज्ञात्वा तमूषप्रदेशं लिहन्ति । तथा कामधरणमसि यज्ञियांशत्वेन ब्राह्मणे वक्ष्यमाणत्वाद्यज्ञद्वारा कामानां धारकमसि । अतस्ते यत्कामधरणसामर्थ्यं तन्मयि भूयात् । एतन्मन्त्रसाध्यमूषनिवपनं विधत्ते --
" ऊषान्नि वपति पुष्टिर्वा एषा प्रजननं यदूषाः पुष्ट्यामेव प्रजननेऽग्निं चिनुतेऽथो संज्ञान एव संज्ञानꣳ ह्येतत्पशूनां यदूषाः " [सं. का. ५ प्र २ अ. ३ | इति।
पुष्टिहेतुत्वं प्रजोत्पतिहेतुत्वं चोषाणां यज्ञद्वारा द्रष्टव्यम् । तस्मादूषनिवापे सति पुष्टिहेतौ प्रजननहेतौ च देशेऽग्निश्चितो भवति । किंच संज्ञानहेतावेव देशेऽ.
ग्निश्चितो भवति । ऊषाणां पशुज्ञानहेतुत्वं लोके प्रसिद्धम् । पशवो ह्यूषरप्रदेशं ज्ञात्वा तत्रत्यं लवणोदकमेव पातुं गच्छन्ति । पीत्वा च पुष्टिं प्राप्नुवन्ति । अतः संज्ञानत्वं पुष्टिहेतुत्वं च ।
यदुक्तं सूत्रकारेण--'तान्निवपन्यददश्चन्द्रमसि कृष्णं तदिहास्त्विति मनसा ध्यायति ' इति । तदेतद्विधत्ते -
" द्यावापृथिवी सहाऽस्तां ते वियती अब्रूतामस्त्वेव नौ सह यज्ञियमिति यदमुष्या यज्ञियमासीत्तदस्यामदधात्त ऊषा अभवन्यदस्या यज्ञियमासीत्तदमुष्याम दधात्तदश्चन्द्रमसि कृष्णमूषान्निवपन्नदो ध्यायेद्द्यावापृथिव्योरेव यज्ञियेऽग्निं चिनुते " [सं. का. ५ प्र० २ अ० ३ ] इति ।
पुरा सृष्टिकाले प्रजापतिना सृष्टे द्यावापृथिव्यौ जतुकाष्ठवत्संश्लिष्टे विष्ठतः । ते यदा प्रजापत्यनुज्ञया वियुज्येते तदानीं परस्परानुरागेणैवं भागं कृतवत्यौ नावावयोर्यद्यज्ञयोग्यं सारं तत्सहैवास्त्विति । ततोऽमुष्या दिवो यद्यज्ञयोग्यं सारमासीत्तदस्यां पृथिव्यां सा द्यौः स्थापितवती । तच्च सारं भूमाविदानीं दृश्यमानास्ते प्रसिद्धा ऊषा आसन् । यच्चास्याः पृथिव्या यज्ञयोग्यं सारमासीत्तत्सारममुष्यां दिवि सा पृथिवी स्थापितवती । तत्स्थापितं चन्द्रमसि दृश्यमानं कृष्णरूपमभूत्। अत उभयोः सारयोरेकीभावायोषान्निवपन्नदश्चन्द्रमसि कृष्णरूपं ध्यायेत् । तेन ध्यानेन द्यावापृथिव्योः संबन्धिनि यज्ञयोग्ये सारेऽग्निं चितवान्भवति।
कल्पः..“ सं या वः प्रियास्तनुव इत्यूषान्सिकताश्च सꣳसृज्य " इति।
पाठस्तु
सं या व इति । हे सिकतोषा वो युष्माकं याः प्रियास्तनुवः स्युस्ताः परस्परं संसृज्यन्ताम् । वो युष्माकं प्रिया प्रियाणि हृदयान्यपि संसृज्यन्ताम् । तथा वो युष्माकमात्माऽपि संप्रियोऽस्तु । अपि च ममापि तनुवः संप्रियाः सन्तु ।
कल्पः. " अयꣳ सो अग्निरिति चतस्रो मध्ये प्राचीरिष्टका गार्हपत्यचितावुपदधाति " इति ।
अयꣳ सो अग्निरित्येतस्मिन्सूक्ते प्रथमामाह --
अयꣳ सो अग्निरिति । यस्मिन्गार्हपत्यचितिरूपेऽऽग्नौ वावशानः कामयमान इन्द्रः सुतमभिषुतं सोमं जठरे दधे स्वोदरे धारयति स तादृशोऽयमग्निरिदानी मिष्टकाभिश्चीयत इति शेषः । हे जातवेदोऽत्यं सप्तिं न सत्वरगमनकुशलमश्वमिव सहस्रियं सहस्रसंख्याकेन धनेन संमितं वाजमन्नं ससवान्दत्तवान्सन्यजमानैः स्तूयसे। अथ द्वितीयामाह --
अग्ने दिवो अर्णमिति । हे इष्टकारूपाग्ने दिवः सकाशादर्णमुदकमच्छाऽऽभिमुख्येन जिगासि प्राप्नोषि । यागद्वारेण पुष्टिं संपादयसीत्यर्थः । ये देवा धिष्णिया धिष्णियाधारास्तदिवानच्छाऽऽभिमुख्येनोचिषे हविः स्वीकुरुतेति ब्रूषे । त्वय्यत्रोपहिते त्वया समाहूता इव देवा आगत्य हविः स्वीकरिष्यन्तीत्यर्थः । सूर्यस्य रोचने दीप्तिरूपे मण्डले सन्ति या आपः परस्तादूर्ध्वप्रदेश उपतिष्ठन्ते, याश्चावस्तादधोभागे वर्तन्ते ताः सर्वास्त्वय्युपहित इहाऽऽगमिष्यन्तीति शेषः।
अथ तृतीयामाह --
अग्न इति । हे यजत्र यागनिष्पादकाग्ने ते तव यद्वर्चो दिवि सूर्यरूपेण वर्तते, पृथिव्यां वह्निज्वालारूपेण वर्तते । तथा यत्तेज ओषधीषु तत्फलपरिपाककालाकारेण वर्तते, अप्सु वडवानलरूपेण वर्तते, येन त्वदीयेन वर्चसा विद्युद्रूपेणोरु विस्तीर्णमन्तरिक्षमाततन्थ सर्वतो विस्तारितवानसि । प्रकाशितवानित्यर्थः । त्वेषो दीप्तिमान्स त्वदीयवर्चं समूहा भानुभासकोऽर्णवः समुद्ररूपविस्तीर्णो नृचक्षा मनु ष्यान्प्रख्यापयिता । तथाविधतेजोरूपामिष्टकामुपदधामीति शेषः।
अथ चतुर्थीमाह-
पुरीष्यास इति । अग्नय इष्टकारूपा आहुतं हव्यं जुषन्ताम् । कीदृशा अग्नयः । पुरीषे पांसुरूपे भवाः पुरीष्यासः । प्रावणेभिः प्रकर्षेण संभजनशीलैर्मनोभिः सजोषसः परस्परं समानप्रीतयः । अनमीवा रोगरहिताः । इषोऽभीष्टप्राप्तिहेतवः । मही प्रौढा । तथाविधाग्निरूपामिष्टकामुपदधामीति शेषः ।
कल्प:-" इडामग्नेऽयं ते योनिर्ऋत्विय इति द्वे पुरस्तात्समीची " इति । उपदधातीत्यनुवर्तते तत्र प्रथमामाह --
इडामग्ने पुरुदꣳसमिति । हेऽग्ने हवमानाय होतुं प्रवृत्ताय यजमानाय गोः सनिं गवादिपशूनां दातारं साध संपादय । कीदृशं सनिम् । इडां सर्वैरीड्यं प्रशंसनीयम् । पुरुदंसं बहुधा दर्शनीयम् । शश्वत्तममत्यन्तमविच्छेदेन वर्तमानम् । किंच त्वत्प्रसादान्नोऽस्माकं सूनुः स्यात्पुत्रोऽस्तु । कीदृशः, तनयः, औरस इत्यर्थः। पुत्रसामान्यस्य सूनुशब्देनोक्तत्वाद्दत्तपुत्रादिन्यावृत्तये विशेषविवक्षया तनयशब्दः प्रयुज्यते । विजावा विविधानां जनयिता । हेऽग्ने ते तव सा सुमतिः तथाविधाऽनुग्रहबुद्धिरस्मे भूत्वस्मासु भवतु । अथ द्वितीयामाह --
अयं ते योनिरिति । हेऽग्नेऽयमिष्टकारूप: पदार्थस्ते तव योनिरुत्पत्तिहेतुः। ऋत्विय ऋतुकालीनस्त्रीपुरुषसंगमतुल्य इति । यतो योनेरिष्टकारूपाज्जात उत्पन्नस्त्वमरोचथा दीप्तिमानसि, तं तथाविधं योनिमिष्टकारूपं जानन्नवगच्छन्सन्नारोह पाप्नुहि । अथानन्तरं नोऽस्माकं रयिं धनं वर्धय ।
कल्प:-" एवं पश्चाच्चिदसि परिचिदसीति समीची तिरश्ची वा द्वे " इति । उपदधातीत्यनुवर्तते । प्रथममन्त्रपाठस्तु-
चिदसि तयेति । भोगांश्चिनोति संपादयतीति चित् । हे इष्टके त्वं चिदसि । यया देवतया त्वमभिमन्यसे तया देवतयाऽनुगृहीता त्वं ध्रुवा स्थिरा भूत्वा सीदावतिष्ठ । तत्र दृष्टान्तः - अङ्गिरस्वत् अङ्गिरोभिरुपहितेष्टका यथा ध्रुवा भवति तद्वत् । द्वितीयमन्त्रपाठस्तु --
परिचिदसि तयेति । परितो भोगांश्चिनोति संपादयतीति परिचित् । शेषं पूर्ववत् । तया देवतयेत्यादिवाक्यं पूर्वेष्वप्युपधानमन्त्रेषु प्रयोक्तव्यम् । तथा च सूत्रकारेणोक्तम् - " तया देवतयाऽन्ततो दधाति " इति ।
उक्तेषूपधानमन्त्रेष्वयꣳ सो अग्निरित्यारभ्याथा नो वर्धया रयिमित्येतदन्तं षडृचमेकं सूक्तं, तदिदं प्रशंसति --
" अयꣳ सो अग्निरिति विश्वामित्रस्य सूक्तं भवत्येतेन वै विश्वामित्रोऽग्नेः प्रियं धामावारुन्धाग्नेरेवैतेन प्रियं धामावरुन्धे " ( सं. का. ५ प्र. २ अ. ३) इति ।
तस्मिन्सूक्ते चतसृभिराद्याभिर्ऋग्भिः साध्यमिष्टकोपधानं विधत्ते--
" छन्दोभिर्वै देवाः सुवर्गं लोकमायन् चतस्रः प्राचीरुपदधाति चत्वारि छन्दाꣳसि छन्दोभिरेव तद्यजमानः सुवर्गं लोकमेति " ( सं० का० ५ प्र० २ अ० ३) इति।
छन्दोयुक्ताभिश्चतसृभिर्ऋग्भिरुपधायेत्यध्याहारः। देववद्यजमानोऽपि छन्दोयुक्ताभिर्ऋग्भिश्चतस्र इष्टकाः प्रागग्रा उपदध्यात् ।
अथ सूक्तगताभ्यां पञ्चमषष्ठमन्त्राभ्यामुपरितनयजुर्भ्यां च साध्यमिष्टकोपधानं विधत्ते
" तेषाꣳ सुवर्गं लोकं यतां दिशः समव्लीयन्त ते द्वे पुरस्तात्समीची उपादधत द्वे पश्चात्समीची ताभिर्वै ते दिशोऽदृꣳहन्यदद्वे पुरस्तात्समीची उपदधाति द्वे पश्चात्समीची दिशां विधृत्यै " ( सं. का. ५ प्र. २ अ. ३ ) इति ।
यदा चतस्र इष्टका उपधाय ते देवाः स्वर्गं लोकं गच्छन्ति तदा तेषां संबन्धिन्यो दिशः पालकाभावात्समव्लीयन्त सम्यग्विशीर्णा अभवन् , दिग्वार्तिन्यः प्रजा विह्वला अभवन्नित्यर्थः । तन्मा भूदिति देवाः पुरस्ताद्दिशि ऋग्भ्यां द्वे इष्टके पश्चाच्च यजुर्भ्यां द्वे इष्टके उपादधत । ताभिश्चतसृभिरिष्टकाभिस्ते देवा दिशोऽदृंहन्दृढीकृतवन्तः । तथा यजमानोऽप्युपदध्यात् ।
अथ पूर्वमुपहिताश्चतस्र इदानीमपहिताश्चतस्रश्च मिलित्वा पुनः प्रशंसति-
" अथो पशवो वै छन्दाꣳसि पशूनेवास्मै समीचो दधात्यष्टावुप दधात्यष्टाक्षरा गायत्री गायत्रोऽग्निर्यावानेवाग्निस्तं चिनुतेऽष्टावुप दधात्यष्टाक्षरा गायत्री गायत्री सुवर्गं लोकमञ्जसा वेद सुवर्गस्य लोकस्य प्रज्ञात्यै ” ( सं. का. ५ प्र. २ अ. ३ ) इति ।
दिशां विधारणायोपधानं पूर्वमुक्तम् । अपि च च्छन्दसां पशुप्राप्तिहेतुत्वेन पशुरूपत्वाच्छन्दोयुक्ताभिर्ऋग्भिरुपधानेन समीचः पशून्संपादयति । उपरितनाभ्यां द्वाभ्यां सहाष्टत्वेन गायत्रीसाम्यम् । मुखजत्वेन गायत्रीसंबद्धोऽग्निर्यावानस्ति । ससर्वं चिनुते । किंच गायत्र्याः स्वर्गलोकाभिज्ञत्वात्तत्साम्यं स्वर्गाभिज्ञानाय संपद्यते।
कल्प:-." अवशिष्टं त्रयोदशभिर्लोकंपृणाभिः प्रच्छादयति लोकं पृण ता अस्य सूददोहस इति द्वाभ्यां मन्त्राभ्यामेकैकां लोकपृणामुपदधाति " इति।। तत्र प्रथमामाह--
लोकं पृण छिद्रमिति । हे इष्टके लोकं गार्हपत्यचयनार्थे पदेशे पूर्वोक्ता भिरिष्टकाभिरनाक्रान्तमवशिष्टं स्थानं पृण पूरय । तथा छिद्रं पृण द्वयोरिष्टकयोर्मध्ये किंचिदपि च्छिद्रं तथा न दृश्यते तथा पूरय, अत्यन्तं श्लिष्टा भवेत्यर्थः । अथो अपि च त्वं शिवा शान्ता सती सीद तिष्ठ । इन्द्राग्नी बृहस्पतिश्चेत्येते देवा अस्मिन्योनौ स्थाने त्वामसीषदन्सादितवन्तः । अथ द्वितीयामाह --
ता अस्य सूदेति । दिवो रोचने स्वर्गे य प्रकाशकेऽस्य जन्मन्यजमानस्य जन्मनि निमित्तभूते सति देवानां संबन्धिन्यो विशः प्रजारूपाः पृश्नयो गोसदृशाः सूददोहसोऽन्नस्य दोहयित्र्यस्ता इष्टकाः सोमं श्रीणन्ति पक्वं कुर्वन्ति । कदा, त्रिष्वा समन्ताद्यानि प्रातःसवनादीनि तेषु, निरन्तरं सोमपाकहेतव एता इष्टका इत्यर्थः । एतन्मन्त्रद्वयसाध्यमुपधानं विधत्ते--
" त्रयोदश लोकंपृणा उप दधात्येकविꣳशतिः संपद्यन्ते प्रतिष्ठा वा एकविꣳश: प्रतिष्ठा गार्हपत्य एकविꣳशस्यैव प्रतिष्ठां गार्हपत्यमनु प्रतितिष्ठति " ( सं. का. ५ प्र. अ. ३) इति ।
लोकमिष्टकानाक्रान्तमवशिष्टं देशं पूरयन्तीति लोकंपृणाः, एतन्नामिका इष्टकास्त्रयोदशसंख्याका उपदध्यात् । एवं सति पूर्वोक्ताभिरष्टभिरिष्टकाभिः सदैकविंशतिः संपद्यन्ते । तथा सत्येकविꣳशः स्तोमो यथा स्तोमान्तराणां त्रिवृदादीनां प्रतिष्ठा तथा नित्यं धार्यो गार्हपत्योऽप्याहवनीयाद्यग्नीनां प्रतिष्ठा । तदुभयप्रतिष्ठामनु यजमानः प्रतितिष्ठतीति । वेदनं प्रशंसति
" प्रत्यग्निं चिक्यानस्तिष्ठति य एवं वेद " [सं० का० ५ प्र० २ अ. ३] इति । चिक्यानश्चयनं कृतवान्भूत्वा प्रतितिष्ठतीत्यर्थः ।
एवं निरूपिता येयमेका चितिः ईदृशीनां चितीनामुपर्यधोभावेन वर्तमानानपञ्चसंख्यां विधत्ते
" पञ्चचितीकं चिन्वीत प्रथमं चिन्वानः पाङ्क्तो यज्ञः पाङ्क्ताः पशवो यज्ञांमेव पशूनवरुन्धे " सं. का. ५ प्र. २ अ. ३ ] इति । •
प्रथमं चिन्वानः प्रथमवारमग्निचयनं कुर्वन्यजमानः पञ्चचितीकं पञ्चसंख्याकाश्चितयोऽनन्तरोक्ता यस्याग्नेस्तादृशं चिन्वीत । धानादिपयस्यान्तैः पञ्चभिर्हविर्भिर्युक्तत्वात्पाङ्क्तो यज्ञः । सपुच्छैश्चतुर्भिः पादैः पाङ्क्ताः पशवः । एवं चयनं कृत्वा यज्ञं पशूंश्च प्राप्नोति ।।
द्वितीयवारमग्निचयनं कुर्वतः संख्यां विधत्ते-
" त्रिचितीकं चिन्वीत द्वितीयं चिन्वानस्त्रय इमे लोका एष्वेव लोकेषु प्रतितिष्ठति " ( सं० का० ५ प्र० २ अ० ३) इति ।
तृतीयवारमग्निचयनं कुर्वतः संख्यां विधत्ते
" एकचितीकं चिन्वीत तृतीयं चिन्वान एकधा वै सुवर्गो लोक एकवृतैव सुवर्गं लोकमेति ॥ [ सं. का. ५ प्र. २ अ. ३ ] इति ।
एकधैकप्रकारः, सुखैकस्वाभाव्यात्स्वर्गप्राप्तस्य तद्धेतुकर्मसमाप्तेः पूर्वं पुनरावृ त्यभावाच्च । एकवृतैकगुणया चित्या त्रिगुणत्वपञ्चगुणत्ववर्जितया ।
पांसुप्रक्षेपं विधत्ते --
" पुरीषेणाभ्यूहति तस्मान्मांसेनास्थि छन्नम् " [सं. का० ५ प्र० २ अ० ३ ] इति ।
यस्मादस्थिसमाः कठिना इष्टका मांससमेन मृदुना पांसुनाऽभ्यूहत्याच्छादयति तस्माल्लोके पि मांसेनास्थि च्छन्नम् । वेदनं प्रशंसति .
"न दुश्चर्मा भवति य एवं वेद ॥ (सं० का० ५ प्र० २ अ. ३ इति ।
चितिगतां पुरीषगतां च संख्यां मिलित्वा प्रशंसति ..
" पञ्च चितयो भवन्ति पञ्चभिः पुरीषैरभ्यूहति दश संपद्यन्ते दशाक्षरा वि
राडन्नं विराड्विराज्येवान्नाद्ये प्रतितिष्ठति ॥ [सं० का० ५ प्र० २ अ. ३ ] इति ।
एकां चितिं कृत्वा पुरीषेणाऽऽच्छादयेत् । तस्या उपरि द्वितीयां चितिं कृत्वा तामप्याच्छादयेत् । एवं चितिपञ्चकेन पुरीषपञ्चकेन च दशसंख्यासंपत्तेर्विराट्छन्दोद्वारेणान्ने प्रतितिष्ठति । अत्र विनियोगसंग्रहः
अपोद्धन्ति चितिस्थानमग्नेस्तु सिकतां [ ता ]वपेत् ।
संज्ञानमूषान्निवपेत्संया ( याः ) संसृजते द्वयम् ॥
अयं चतसृभिः प्राचीरिष्टका आदधाति हि।
इडां द्वाभ्यां पुरस्ताद्द्वे चिद्द्वाभ्यां पश्चिमे द्वयम् ।
लोकं लोकंपृणा द्वाभ्यां मन्त्रा अत्र चतुर्दश ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे- दीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे द्वितीयप्रपाठके
चतुर्थोऽनुवाकः ॥४॥

4.2.5 अनुवाक 5 आहवनीयचयनार्थ भुवः कर्षणम्
1 सम् इतꣳ सं कल्पेथाꣳ सम्प्रियौ रोचिष्णू सुमनस्यमानौ । इषमूर्जम् अभि संवसानौ शं वाम् मनाꣳसि सं व्रता सम् उ चित्तान्य् आकरम् ॥ अग्ने पुरीष्याधिपा भवा त्वं नः । इषमूर्जं यजमानाय धेहि ॥ पुरीष्यस् त्वम् अग्ने रयिमान् पुष्टिमाꣳ असि । शिवाः कृत्वा दिशः सर्वाः स्वां योनिम् इहासदः ॥ भवतं नः समनसौ समोकसौ
2 अरेपसौ । मा यज्ञꣳ हिꣳसिष्टम् मा यज्ञपतिं जातवेदसौ शिवौ भवतम् अद्य नः ॥ मातेव पुत्रम् पृथिवी पुरीष्यम् अग्निꣳ स्वे योनाव् अभार् उखा । तां विश्वैर् देवैर् ऋतुभिः संविदानः प्रजापतिर् विश्वकर्मा वि मुञ्चतु ॥ यद् अस्य पारे रजसः शुक्रं ज्योतिर् अजायत । तन् नः पर्षद् अति द्विशो ऽग्ने वैश्वानर स्वाहा ॥ नमः सु ते निर्ऋते विश्वरूपे
3 अयस्मयं वि चृता बन्धम् एतम् । यमेन त्वं यम्या संविदानोत्तमं नाकम् अधि रोहयेमम् ॥
यत् ते देवी निर्ऋतिर् आबबन्ध दाम ग्रीवास्व् अविचर्त्यम् । इदं ते तद् वि ष्याम्य् आयुषो न मध्याद् अथा जीवः पितुम् अद्धि प्रमुक्तः ॥ यस्यास् ते अस्याः क्रूर आसञ् जुहोम्य् एषाम् बन्धानाम् अवसर्जनाय । भूमिर् इति त्वा जना विदुर् निर्ऋतिः
4 इति त्वाहम् परि वेद विश्वतः ॥ असुन्वन्तम् अयजमानम् इच्छ स्तेनस्येत्यां तस्करस्यान्व् एषि । अन्यम् अस्मद् इच्छ सा त इत्या नमो देवि निर्ऋते तुभ्यम् अस्तु ॥ देवीम् अहं निर्ऋतिं वन्दमानः पितेव पुत्रं दसये वचोभिः । विश्वस्य या जायमानस्य वेद शिरःशिरः प्रति सूरी वि चष्टे ॥ निवेशनः संगमनो वसूनां विश्वा रूपाऽभि चष्टे
5 शचीभिः । देव इव सविता सत्यधर्मेन्द्रो न तस्थौ समरे पथीनाम् ॥ सं वरत्रा दधातन निर् आहावान् कृणोतन । सिञ्चामहा अवटम् उद्रिणं वयं विश्वाऽहाऽदस्तम् अक्षितम् ॥ निष्कृताहावम् अवटꣳ सुवरत्रꣳ सुषेचनम् । उद्रिणꣳ सिञ्चे अक्षितम् ॥ सीरा युञ्जन्ति कवयो युगा वि तन्वते पृथक् । धीरा देवेषु सुम्नया युनक्त सीरा वि युगा तनोत कृते योनौ वपतेह
6 बीजम् । गिरा च श्रुष्टिः सभरा असन् नो नेदीय इत् सृण्या पक्वम् आऽयत् ॥ लाङ्गलम् पवीरवꣳ सुशेवꣳ सुमतित्सरु । उद् इत् कृषति गाम् अविम् प्रफर्व्यं च पीवरीम् । प्रस्थावद् रथवाहनम् ॥ शुनं नः फाला वि तुदन्तु भूमिꣳ शुनं कीनाशा अभि यन्तु वाहान् । शुनम् पर्जन्यो मधुना पयोभिः शुनासीरा शुनम् अस्मासु धत्तम् ॥ कामं कामदुघे धुक्ष्व मित्राय वरुणाय च । इन्द्रायाग्नये पूष्ण ओषधीभ्यः प्रजाभ्यः ॥ घृतेन सीता मधुना समक्ता विश्वैर् देवैर् अनुमता मरुद्भिः । ऊर्जस्वती पयसा पिन्वमानास्मान्त् सीते पयसाऽभ्याववृत्स्व ॥
 
4.2.6 अनुवाक 6 ओषधिवापः
1 या जाता ओषधयो देवेभ्यस् त्रियुगम् पुरा । मन्दामि बभ्रूणाम् अहꣳ शतं धामानि सप्त च ॥ शतं वो अम्ब धामानि सहस्रम् उत वो रुहः । अथा शतक्रत्वो यूयम् इमम् मे अगदं कृत ॥ पुष्पावतीः प्रसूवतीः फलिनीर् अफला उत । अश्वा इव सजित्वरीर् वीरुधः पारयिष्णवः ॥ ओषधीर् इति मातरस् तद् वो देवीर् उप ब्रुवे । रपाꣳसि विघ्नतीर् इत रपः
2 चातयमानाः ॥ अश्वत्थे वो निषदनम् पर्णे वो वसतिः कृता । गोभाज इत् किलासथ यत् सनवथ पूरुषम् ॥ यद् अहं वाजयन्न् इमा ओषधीर् हस्त आदधे । आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा ॥ यद् ओषधयः संगच्छन्ते राजानः समिताव् इव । विप्रः स उच्यते भिषग् रक्षोहाऽमीवचातनः ॥ निष्कृतिर् नाम वो माताऽथा यूयꣳ स्थ संकृतीः । सराः पतत्रिणीः
3 स्थन यद् आमयति निष् कृत ॥ अन्या वो अन्याम् अवत्व् अन्याऽन्यस्या उपावत । ताः सर्वा ओषधयः संविदाना इदम् मे प्रावता वचः ॥ उच् छुष्मा ओषधीनां गावो गोष्ठाद् इवेरते । धनꣳ सनिष्यन्तीनाम् आत्मानं तव पूरुष ॥ अति विश्वाः परिष्ठा स्तेन इव व्रजम् अक्रमुः । ओषधयः प्राचुच्यवुर् यत् किं च तनुवाꣳ रपः ॥ याः
4 त आतस्थुर् आत्मानं या आविविशुः परुःपरुः । तास् ते यक्ष्मं वि बाधन्ताम् उग्रो मध्यमशीर् इव ॥ साकं यक्ष्म प्र पत श्येनेन किकिदीविना । साकं वातस्य ध्राज्या साकं नश्य निहाकया ॥ अश्वावतीꣳ सोमवतीमूर्जयन्तीम् उदोजसम् । आ वित्सि सर्वा ओषधीर् अस्मा अरिष्टतातये ॥ याः फलिनीर् या अफला अपुष्पा याश् च पुष्पिणीः । बृहस्पतिप्रसूतास् ता नो मुञ्चन्त्व् अꣳहसः ॥ याः
5 ओषधयः सोमराज्ञीः प्रविष्टाः पृथिवीम् अनु । तासां त्वम् अस्य् उत्तमा प्र णो जीवातवे सुव ॥ अवपतन्तीर् अवदन् दिव ओषधयः परि । यं जीवम् अश्नवामहै न स रिष्याति पूरुषः ॥ याश् चेदम् उपशृण्वन्ति याश् च दूरम् परागताः । इह संगत्य ताः सर्वा अस्मै सं दत्त भेषजम् ॥ मा वो रिषत् खनिता यस्मै चाहं खनामि वः । द्विपच् चतुष्पद् अस्माकꣳ सर्वम् अस्त्व् अनातुरम् ॥ ओषधयः सं वदन्ते सोमेन सह राज्ञा । यस्मै करोति ब्राह्मणस् तꣳ राजन् पारयामसि ॥

4.2.7 अनुवाक 7 लोष्टक्षेपादिकम्
1 मा नो हिꣳसीज् जनिता यः पृथिव्या यो वा दिवꣳ सत्यधर्मा जजान । यश् चापश् चन्द्रा बृहतीर् जजान कस्मै देवाय हविषा विधेम ॥ अभ्यावर्तस्व पृथिवि यज्ञेन पयसा सह । वपां ते अग्निर् इषितो ऽव सर्पतु ॥ अग्ने यत् ते शुक्रं यच् चन्द्रं यत् पूतं यद् यज्ञियम् । तद् देवेभ्यो भरामसि ॥ इषमूर्जम् अहम् इत आ
2 दद ऋतस्य धाम्नो अमृतस्य योनेः । आ नो गोषु विशत्व् औषधीषु जहामि सेदिम् अनिराम् अमीवाम् ॥ अग्ने तव श्रवो वयो महि भ्राजन्त्य् अर्चयो विभावसो । बृहद्भानो शवसा वाजम् उक्थ्यं दधासि दाशुषे कवे ॥ इरज्यन्न् अग्ने प्रथयस्व जन्तुभिर् अस्मे रायो अमर्त्य । स दर्शतस्य वपुषो वि राजसि पृणक्षि सानसिꣳ रयिम् ॥ ऊर्जो नपाज् जातवेदः सुशस्तिभिर् मन्दस्व
3 धीतिभिर् हितः । त्वे इषः सं दधुर् भूरिरेतसश् चित्रोतयो वामजाताः ॥ पावकवर्चाः शुक्रवर्चा अनूनवर्चा उद् इयर्षि भानुना । पुत्रः पितरा विचरन्न् उपावस्य् उभे पृणक्षि रोदसी ॥ ऋतावानम् महिषं विश्वचर्षणिम् अग्निꣳ सुम्नाय दधिरे पुरो जनाः । श्रुत्कर्णꣳ सप्रथस्तमम् त्वा गिरा दैव्यम् मानुषा युगा ॥ निष्कर्तारम् अध्वरस्य प्रचेतसं क्षयन्तꣳ राधसे महे । रातिम् भृगूणाम् उशिजं कविक्रतुम् पृणक्षि सानसिम्
4 रयिम् ॥ चित स्थ परिचित ऊर्ध्वचितः श्रयध्वं तया देवतयाऽङ्गिरस्वद् ध्रुवाः सीदत ॥ आ प्यायस्व सम् एतु ते विश्वतः सोम वृष्णियम् । भवा वाजस्य संगथे ॥ सं ते पयाꣳसि सम् उ यन्तु वाजाः सं वृष्णियान्य् अभिमातिषाहः । आप्यायमानो अमृताय सोम दिवि श्रवाꣳसि उत्तमानि धिष्व ॥

4.2.8 अनुवाक 8 रुक्माद्युपधानम्
1 अभ्य् अस्थाद् विश्वाः पृतना अरातीस् तद् अग्निर् आह तद् उ सोम आह । बृहस्पतिः सविता तन् म आह पूषा माधात् सुकृतस्य लोके ॥ यद् अक्रन्दः प्रथमं जायमान उद्यन्त् समुद्राद् उत वा पुरीषात् । श्येनस्य पक्षा हरिणस्य बाहू उपस्तुतं जनिम तत् ते अर्वन् ॥ अपाम् पृष्ठम् असि योनिर् अग्नेः समुद्रम् अभितः पिन्वमानम् । वर्धमानम् महः
2 आ च पुष्करं दिवो मात्रया वरिणा प्रथस्व ॥ ब्रह्म जज्ञानम् प्रथमम् पुरस्ताद् वि सीमतः सुरुचो वेन आवः । स बुध्निया उपमा अस्य विष्ठाः सतश् च योनिम् असतश् च विवः ॥ हिरण्यगर्भः सम् अवर्तताग्रे भूतस्य जातः पतिर् एक आसीत् । स दाधार पृथिवीं द्याम् उतेमां कस्मै देवाय हविषा विधेम ॥ द्रप्सश् चस्कन्द पृथिवीम् अनु
3 द्याम् इमं च योनिम् अनु यश् च पूर्वः । तृतीयं योनिम् अनु संचरन्तं द्रप्सं जुहोम्य् अनु सप्त होत्राः ॥ नमो अस्तु सर्पेभ्यो ये के च पृथिवीम् अनु । ये अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः ॥ ये ऽदो रोचने दिवो ये वा सूर्यस्य रश्मिषु । येषाम् अप्सु सदः कृतं तेभ्यः सर्पेभ्यो नमः ॥ या इषवो यातुधानानां ये वा वनस्पतीꣳर् अनु । ये वाऽवटषु शेरते तेभ्यः सर्पेभ्यो नमः ॥

4.2.9 अनुवाक 9 स्वयमातृण्णादीष्टकोपधानम्
1 ध्रुवाऽसि धरुणाऽस्तृता विश्वकर्मणा सुकृता । मा त्वा समुद्र उद् वधीन् मा सुपर्णो ऽव्यथमाना पृथिवीं दृꣳह ॥ प्रजापतिस् त्वा सादयतु पृथिव्याः पृष्ठे व्यचस्वतीम् प्रथस्वतीम् प्रथो ऽसि पृथिव्यसि भूर् असि भूमिर् अस्य् अदितिर् असि विश्वधाया विश्वस्य भुवनस्य धर्त्री पृथिवीं यच्छ पृथिवीं दृꣳह पृथिवीम् मा हिꣳसीर् विश्वस्मै प्राणाय व्यानायोदानाय प्रतिष्ठायै
2 चरित्रायाग्निस् त्वाऽभि पातु मह्या स्वस्त्या छर्दिषा शंतमेन तया देवतयाऽङ्गिरस्वद् ध्रुवा सीद काण्डात्काण्डात् प्ररोहन्ती परुषःपरुषः परि । एवा नो दूर्वे प्र तनु सहस्रेण शतेन च ॥ या शतेन प्रतनोषि सहस्रेण विरोहसि तस्यास् ते देवीष्टके विधेम हविषा वयम् ॥ अषाढाऽसि सहमाना सहस्वारातीः सहस्वारातीयतः सहस्व पृतनाः सहस्व पृतन्यतः सहस्रवीर्या
3 असि सा मा जिन्व ॥ मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर् नः सन्त्व् ओषधीः ॥ मधु नक्तम् उतोषसि मधुमत् पार्थिवꣳ रजः । मधु द्यौर् अस्तु नः पिता ॥ मधुमान् नो वनस्पतिर् मधुमाꣳ अस्तु सूर्यः । माध्वीर् गावो भवन्तु नः ॥ मही द्यौः पृथिवी च न इमं यज्ञम् मिमिक्षताम् । पिपृतां नो भरीमभिः ॥ तद् विष्णोः परमम्
4 पदꣳ सदा पश्यन्ति सूरयः । दिवीव चक्षुर् आततम् ॥ ध्रुवाऽसि पृथिवि सहस्व पृतन्यतः । स्यूता देवेभिर् अमृतेऽनागाः ॥ यास् ते अग्ने सूर्ये रुच उद्यतो दिवम् आतन्वन्ति रश्मिभिः । ताभिः सर्वाभी रुचे जनाय नस् कृधि ॥ या वो देवाः सूर्ये रुचो गोष्व् अश्वेषु या रुचः । इन्द्राग्नी ताभिः सर्वाभी रुचं नो धत्त बृहस्पते विराट्
5 ज्योतिर् अधारयत् सम्राड् ज्योतिर् अधारयत् स्वराड् ज्योतिर् अधारयत् अग्ने युक्ष्वा हि ये तवाश्वासो देव साधवः । अरं वहन्त्य् आशवः ॥ युक्ष्वा हि देवहूतमाꣳ अश्वाꣳ अग्ने रथीर् इव । नि होता पूर्व्यः सदः ॥ द्रप्सश् चस्कन्द पृथिवीम् अनु द्याम् इमं च योनिम् अनु यश् च पूर्वः । तृतीयं योनिम् अनु संचरन्तं द्रप्सं जुहोम्य् अनु सप्त
6 होत्राः ॥ अभूद् इदं विश्वस्य भुवनस्य वाजिनम् अग्नेर् वैश्वानरस्य च । अग्निर् ज्योतिषा ज्योतिष्मान् रुक्मो वर्चसा वर्चस्वान् ॥ ऋचे त्वा रुचे त्वा सम् इत् स्रवन्ति सरितो न धेनाः । अन्तर् हृदा मनसा पूयमानाः । घृतस्य धारा अभि चाकशीमि । हिरण्ययो वेतसो मध्य आसाम् ॥ तस्मिन्त् सुपर्णो मधुकृत् कुलायी भजन्न् आस्ते मधु देवताभ्यः । तस्याऽऽसते हरयः सप्त तीरे स्वधां दुहाना अमृतस्य धाराम् ॥

4.2.10 अनुवाक 10 पशुशीर्षकोपधानम्
1 आदित्यं गर्भम् पयसा समञ्जन्त् सहस्रस्य प्रतिमां विश्वरूपम् । परि वृङ्ग्धि हरसा माऽभि मृक्षः शतायुषं कृणुहि चीयमानः ॥ इमम् मा हिꣳसीर् द्विपादम् पशूनाꣳ सहस्राक्ष मेध आ चीयमानः । मयुम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तनुवो नि षीद ॥ वातस्य ध्राजिं वरुणस्य नाभिम् अश्वं जज्ञानꣳ सरिरस्य मध्ये । शिशुं नदीनाꣳ हरिम् अद्रिबुद्धम् अग्ने मा हिꣳसीः
2 परमे व्योमन् ॥ इमम् मा हिꣳसीर् एकशफम् पशूनां कनिक्रदं वाजिनं वाजिनेषु । गौरम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तनुवो नि षीद ॥ अजस्रम् इन्दुम् अरुषम् भुरण्युम् अग्निम् ईडे पूर्वचित्तौ नमोभिः । स पर्वभिर् ऋतुशः कल्पमानो गाम् मा हिꣳसीर् अदितिं विराजम् ॥ इमꣳ समुद्रꣳ शतधारम् उत्सं व्यच्यमानम् भुवनस्य मध्ये । घृतं दुहानाम् अदितिं जनायाग्ने मा
3 हिꣳसीः परमे व्योमन् । गवयम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तनुवो नि षीद ॥
वरूत्रिं त्वष्टुर् वरुणस्य नाभिम् अविं जज्ञानाꣳ रजसः परस्मात् । महीꣳ सहस्रीम् असुरस्य मायाम् अग्ने मा हिꣳसीः परमे व्योमन् ॥ इमामूर्णायुं वरुणस्य मायां त्वचम् पशूनां द्विपदां चतुष्पदाम् । त्वष्टुः प्रजानाम् प्रथमं जनित्रम् अग्ने मा हिꣳसीः परमे व्योमन् । उष्ट्रम् आरण्यम् अनु
4 ते दिशामि तेन चिन्वानस् तनुवो नि षीद ॥ यो अग्निर् अग्नेस् तपसो ऽधि जातः शोचात् पृथिव्या उत वा दिवस् परि । येन प्रजा विश्वकर्मा व्यानट् तम् अग्ने हेडः परि ते वृणक्तु ॥ अजा ह्य् अग्नेर् अजनिष्ट गर्भात् सा वा अपश्यज् जनितारम् अग्रे । तया रोहम् आयन्न् उप मेध्यासः तया देवा देवताम् अग्र आयन् । शरभम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तनुवो नि षीद ॥

4.2.11 अनुवाक 11 चातुर्मास्येषु वरुणप्रघासे याज्यानुवाक्याः
1 इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः । तद् वां चेति प्र वीर्यम् ॥ श्नथद् वृत्रम् उत सनोति वाजम् इन्द्रा यो अग्नी सहुरी सपर्यात् । इरज्यन्ता वसव्यस्य भूरेः सहस्तमा सहसा वाजयन्ता ॥ प्र चर्षणिभ्यः पृतना हवेषु प्र पृथिव्या रिरिचाथे दिवश् च । प्र सिन्धुभ्यः प्र गिरिभ्यो महित्वा प्रेन्द्राग्नी विश्वा भुवनात्य् अन्या ॥ मरुतो यस्य हि
2 क्षये पाथा दिवो विमहसः । स सुगोपातमो जनः ॥ यज्ञैर् वा यज्ञवाहसो विप्रस्य वा मतीनाम् । मरुतः शृणुता हवम् ॥ श्रियसे कम् भानुभिः सम् मिमिक्षिरे ते रश्मिभिस् त ऋक्वभिः सुखादयः । ते वाशीमन्त इष्मिणो अभीरवो विद्रे प्रियस्य मारुतस्य धाम्नः ॥ अव ते हेड उद् उत्तमम् । कया नश् चित्र आ भुवद् ऊती सदावृधः सखा । कया शचिष्ठया वृता ॥
3 को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् । आसन्निषून् हृत्स्वसो मयोभून् य एषाम् भृत्याम् ऋणधत् स जीवात् ॥ अग्ने नय । आ देवानाम् । शं नो भवन्तु वाजेवाजे अप्स्व् अग्ने सधिष् टव सौषधीर् अनु रुध्यसे गर्भै सञ् जायसे पुनः ॥ वृषा सोम द्युमाꣳ असि वृषा देव वृषव्रतः । वृषा धर्माणि दधिषे ॥ इमम् मे वरुण तत् त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने ॥


4.2.1 अनुवाक 1
आसन्द्याम् उख्याग्निस्थापनम्

1
विष्णोः क्रमो ऽस्य् अभिमातिहा गायत्रं छन्द आ रोह पृथिवीम् अनु वि क्रमस्व निर्भक्तः स यं द्विष्मो विष्णोः क्रमो ऽस्य् अभिशस्तिहा त्रैष्टुभं छन्द आ रोहान्तरिक्षम् अनु वि क्रमस्व निर्भक्तः स यं द्विष्मो विष्णोः क्रमो ऽस्य् अरातीयतो हन्ता जागतं छन्द आ रोह दिवम् अनु वि क्रमस्व निर्भक्तः स यं द्विष्मो विष्णोः

2
क्रमो ऽसि शत्रूयतो हन्ताऽऽनुष्टुभं छन्द आ रोह दिशो ऽनु वि क्रमस्व निर्भक्तः स यं द्विष्मः ।
अक्रन्दद् अग्निः स्तनयन्न् इव द्यौः क्षामा रेरिहद् वीरुधः समञ्जन् । सद्यो जज्ञानो वि हीम् इद्धो अख्यद् आ रोदसी भानुना भात्य् अन्तः ॥
अग्ने ऽभ्यावर्तिन्न् अभि न आ वर्तस्वाऽऽयुषा वर्चसा सन्या मेधया प्रजया धनेन ॥
अग्ने

3
अङ्गिरः शतं ते सन्त्व् आवृतः सहस्रं त उपावृतः । तासाम् पोषस्य पोषेण पुनर् नो नष्टम् आ कृधि पुनर् नो रयिम् आकृधि ॥
पुनर् ऊर्जा नि वर्तस्व पुनर् अग्न इषाऽऽयुषा । पुनर् नः पाहि विश्वतः ॥
सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया । विश्वप्स्निया विश्वतस् परि ॥
उद् उत्तमं वरुण पाशम् अस्मद् अवाधमम्

4
वि मध्यमꣳ श्रथाय । अथा वयम् आदित्य व्रते तवानागसो अदितये स्याम ॥
आ त्वाऽहार्षम् अन्तर् अभूर् ध्रुवस् तिष्ठाविचाचलिः । विशस् त्वा सर्वा वाञ्छन्त्व् अस्मिन् राष्ट्रम् अधि श्रय ॥
अग्रे बृहन्न् उषसामूर्ध्वो अस्थान् निर्जग्मिवान् तमसो ज्योतिषाऽऽगात् । अग्निर् भानुना रुशता स्वङ्ग आ जातो विश्वा सद्मान्य् अप्राः ॥
सीद त्वम् मातुर् अस्याः ॥

5
उपस्थे विश्वान्य् अग्ने वयुनानि विद्वान् । मैनाम् अर्चिषा मा तपसाभि शूशुचो ऽन्तर् अस्याꣳ शुक्रज्योतिर् वि भाहि ॥
अन्तर् अग्ने रुचा त्वम् उखायै सदने स्वे । तस्यास् त्वꣳ हरसा तपञ् जातवेदः शिवो भव ॥
शिवो भूत्वा मह्यम् अग्ने ऽथो सीद शिवस् त्वम् । शिवाः कृत्वा दिशः सर्वाः स्वां योनिम् इहासदः ॥
हꣳसः शुचिषद् वसुर् अन्तरिक्षसद् होता वेदिषद् अतिथिर् दुरोणसत् । नृषद् वरसद् व्योमसद् अब्जा गोजा ऋतजा अद्रिजा ऋतम् बृहत् ॥

4.2.2 अनुवाक 2
उख्याग्नेरुपस्थानम्

1
दिवस् परि प्रथमं जज्ञे अग्निर् अस्मद् द्वितीयम् परि जातवेदाः । तृतीयम् अप्सु नृमणा अजस्रम् इन्धान एनं जरते स्वाधीः ॥
विद्मा ते अग्ने त्रेधा त्रयाणि विद्मा ते सद्म विभृतम् पुरुत्रा । विद्मा ते नाम परमं गुहा यद् विद्मा तम् उत्सं यत आजगन्थ ॥
समुद्रे त्वा नृमणा अप्स्व् अन्तर् नृचक्षा ईधे दिवो अग्न ऊधन् । तृतीये त्वा

2
रजसि तस्थिवाꣳसम् ऋतस्य योनौ महिषा अहिन्वन् ॥
अक्रन्दद् अग्निः स्तनयन्न् इव द्यौः क्षामा रेरिहद् वीरुधः समञ्जन् । सद्यो जज्ञानो वि हीम् इद्धो अख्यद् आ रोदसी भानुना भात्य् अन्तः ॥
उशिक् पावको अरतिः सुमेधा मर्तेष्व् अग्निर् अमृतो निधायि । इयर्ति धूमम् अरुषम् भरिभ्रद् उच् छुक्रेण शोचिषा द्याम् इनक्षत् ॥
विश्वस्य केतुर् भुवनस्य गर्भ आ

3
रोदसी अपृणाज् जायमानः । वीडुं चिद् अद्रिम् अभिनत् परायञ् जना यद् अग्निम् अयजन्त पञ्च ॥
श्रीणाम् उदारो धरुणो रयीणाम् मनीषाणाम् प्रार्पणः सोमगोपाः । वसोः सूनुः सहसो अप्सु राजा वि भात्य् अग्र उषसाम् इधानः ॥
यस् ते अद्य कृणवद् भद्रशोचे ऽपूपं देव घृतवन्तम् अग्ने । प्र तं नय प्रतरां वस्यो अच्छाभि द्युम्नं देवभक्तं यविष्ठ ॥


4
तम् भज सौश्रवसेष्व् अग्न उक्थउक्थ आ भज शस्यमाने । प्रियः सूर्ये प्रियो अग्ना भवात्य् उज् जातेन भिनदद् उज् जनित्वैः ॥
त्वाम् अग्ने यजमाना अनु द्यून् विश्वा वसूनि दधिरे वार्याणि । त्वया सह द्रविणम् इच्छमाना व्रजं गोमन्तम् उशिजो वि वव्रुः ॥
दृशानो रुक्म उर्व्या व्यद्यौद् दुर्मर्षम् आयुः श्रिये रुचानः । अग्निर् अमृतो अभवद् वयोभिर् यद् एनं द्यौर् अजनयत् सुरेताः ॥

4.2.3 अनुवाक 3
देवयजनपरिग्रहः

1
अन्नपते ऽन्नस्य नो देह्य् अनमीवस्य शुष्मिणः । प्र प्रदातारं तारिष ऊर्जं नो धेहि द्विपदे चतुष्पदे ॥
उद् उ त्वा विश्वे देवा अग्ने भरन्तु चित्तिभिः । स नो भव शिवतमः सुप्रतीको विभावसुः ॥
प्रेद् अग्ने ज्योतिष्मान् याहि शिवेभिर् अर्चिभिस् त्वम् । बृहद्भिर् भानुभिर् भासन् मा हिꣳसीस् तनुवा प्रजाः ॥
समिधाग्निं दुवस्यत घृतैर् बोधयतातिथिम् । आ ॥

2
अस्मिन् हव्या जुहोतन ॥
प्रप्रायम् अग्निर् भरतस्य शृण्वे वि यत् सूर्यो न रोचते बृहद् भाः । अभि यः पूरुम् पृतनासु तस्थौ दीदाय दैव्यो अतिथिः शिवो नः ॥
आपो देवीः प्रति गृह्णीत भस्मैतत् स्योने कृणुध्वꣳ सुरभाव् उ लोके । तस्मै नमन्तां जनयः सुपत्नीर् मातेव पुत्रम् बिभृता स्व् एनम् ॥
अप्स्व् अग्ने सधिष्टव

3
सौषधीर् अनु रुध्यसे । गर्भै सञ् जायसे पुनः ॥
गर्भो अस्य् ओषधीनां गर्भो वनस्पतीनां । गर्भो विश्वस्य भूतस्याग्ने गर्भो अपाम् असि ॥
प्रसद्य भस्मना योनिम् अपश् च पृथिवीम् अग्ने । सꣳसृज्य मातृभिस् त्वं ज्योतिष्मान् पुनर् आसदः ॥
पुनर् आसद्य सदनम् अपश् च पृथिवीम् अग्ने । शेषे मातुर् यथोपस्थे ऽन्तर् अस्याꣳ शिवतमः ॥
पुनर् ऊर्जा

4
नि वर्तस्व पुनर् अग्न इषायुषा । पुनर् नः पाहि विश्वतः ॥
सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया । विश्वप्स्निया विश्वतस् परि ॥
पुनस् त्वाऽऽदित्या रुद्रा वसवः सम् इन्धताम् पुनर् ब्रह्माणो वसुनीथ यज्ञैः । घृतेन त्वं तनुवो वर्धयस्व सत्याः सन्तु यजमानस्य कामाः ॥
बोधा नो अस्य वचसो यविष्ठ मꣳहिष्ठस्य प्रभृतस्य स्वधावः । पीयति त्वो अनु त्वो गृणाति वन्दारुस् ते तनुवं वन्दे अग्ने ॥
स बोधि सूरिर् मघवा वसुदावा वसुपतिः । युयोध्य् अस्मद् द्वेषाꣳसि ॥

4.2.4 अनुवाक 4
गार्हपत्यचयनम्

1
अपेत वीत वि च सर्पतातो ये ऽत्र स्थ पुराणा ये च नूतनाः । अदाद् इदं यमो ऽवसानम् पृथिव्या अक्रन्न् इमम् पितरो लोकम् अस्मै ॥
अग्नेर् भस्मास्य् अग्नेः पुरीषम् असि
संज्ञानम् असि कामधरणम् मयि ते कामधरणम् भूयात्
सं या वः प्रियास् तनुवः सम् प्रिया हृदयानि वः । आत्मा वो अस्तु

2
सम्प्रियः सम्प्रियास् तनुवो मम ॥
अयꣳ सो अग्निर् यस्मिन्त् सोमम् इन्द्रः सुतं दधे जठरे वावशानः । सहस्रियं वाजम् अत्यं न सप्तिꣳ ससवान्त् सन्त् स्तूयसे जातवेदः ॥
अग्ने दिवो अर्णम् अच्छा जिगास्य् अच्छा देवाꣳ ऊचिषे धिष्णिया ये । याः परस्ताद् रोचने सूर्यस्य याश् चावस्ताद् उपतिष्ठन्त आपः ॥
अग्ने यत् ते दिवि वर्चः पृथिव्यां यद् ओषधीषु

3
अप्सु वा यजत्र । येनान्तरिक्षम् उर्व् आततन्थ त्वेषः स भानुर् अर्णवो नृचक्षाः ॥
पुरीष्यासो अग्नयः प्रावणेभिः सजोषसः । जुषन्ताꣳ हव्यम् आहुतम् अनमीवा इषो महीः ॥
इडाम् अग्ने पुरुदꣳसꣳ सनिं गोः शश्वत्तमꣳ हवमानाय साध । स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ॥
अयं ते योनिर् ऋत्वियो यतो जातो अरोचथाः । तं जानन्

4
अग्न आ रोहाथा नो वर्धया रयिम् ॥
चिद् असि तया देवतयाङ्गिरवद् ध्रुवा सीद
परिचिद् असि तया देवतयाङ्गिरस्वद् ध्रुवा सीद
लोकम् पृण छिद्रम् पृणाथो सीद शिवा त्वम् । इन्द्राग्नी त्वा बृहस्पतिर् अस्मिन् योनाव् असीषदन् ॥
ता अस्य सूददोहसः सोमꣳ श्रीणन्ति पृश्नयः । जन्मन् देवानां विशस् त्रिष्व् आ रोचने दिवः

4.2.5 अनुवाक 5
आहवनीयचयनार्थ भुवः कर्षणम्

1
सम् इतꣳ सं कल्पेथाꣳ सम्प्रियौ रोचिष्णू सुमनस्यमानौ । इषमूर्जम् अभि संवसानौ शं वाम् मनाꣳसि सं व्रता सम् उ चित्तान्य् आकरम् ॥
अग्ने पुरीष्याधिपा भवा त्वं नः । इषमूर्जं यजमानाय धेहि ॥
पुरीष्यस् त्वम् अग्ने रयिमान् पुष्टिमाꣳ असि । शिवाः कृत्वा दिशः सर्वाः स्वां योनिम् इहासदः ॥
भवतं नः समनसौ समोकसौ

2
अरेपसौ । मा यज्ञꣳ हिꣳसिष्टम् मा यज्ञपतिं जातवेदसौ शिवौ भवतम् अद्य नः ॥
मातेव पुत्रम् पृथिवी पुरीष्यम् अग्निꣳ स्वे योनाव् अभार् उखा । तां विश्वैर् देवैर् ऋतुभिः संविदानः प्रजापतिर् विश्वकर्मा वि मुञ्चतु ॥
यद् अस्य पारे रजसः शुक्रं ज्योतिर् अजायत । तन् नः पर्षद् अति द्विशो ऽग्ने वैश्वानर स्वाहा ॥
नमः सु ते निर्ऋते विश्वरूपे

3
अयस्मयं वि चृता बन्धम् एतम् । यमेन त्वं यम्या संविदानोत्तमं नाकम् अधि रोहयेमम् ॥
यत् ते देवी निर्ऋतिर् आबबन्ध दाम ग्रीवास्व् अविचर्त्यम् । इदं ते तद् वि ष्याम्य् आयुषो न मध्याद् अथा जीवः पितुम् अद्धि प्रमुक्तः ॥
यस्यास् ते अस्याः क्रूर आसञ् जुहोम्य् एषाम् बन्धानाम् अवसर्जनाय । भूमिर् इति त्वा जना विदुर् निर्ऋतिः

4
इति त्वाहम् परि वेद विश्वतः ॥
असुन्वन्तम् अयजमानम् इच्छ स्तेनस्येत्यां तस्करस्यान्व् एषि । अन्यम् अस्मद् इच्छ सा त इत्या नमो देवि निर्ऋते तुभ्यम् अस्तु ॥
देवीम् अहं निर्ऋतिं वन्दमानः पितेव पुत्रं दसये वचोभिः । विश्वस्य या जायमानस्य वेद शिरःशिरः प्रति सूरी वि चष्टे ॥
निवेशनः संगमनो वसूनां विश्वा रूपाऽभि चष्टे

5
शचीभिः । देव इव सविता सत्यधर्मेन्द्रो न तस्थौ समरे पथीनाम् ॥
सं वरत्रा दधातन निर् आहावान् कृणोतन । सिञ्चामहा अवटम् उद्रिणं वयं विश्वाऽहाऽदस्तम् अक्षितम् ॥
निष्कृताहावम् अवटꣳ सुवरत्रꣳ सुषेचनम् । उद्रिणꣳ सिञ्चे अक्षितम् ॥
सीरा युञ्जन्ति कवयो युगा वि तन्वते पृथक् । धीरा देवेषु सुम्नया
युनक्त सीरा वि युगा तनोत कृते योनौ वपतेह

6
बीजम् । गिरा च श्रुष्टिः सभरा असन् नो नेदीय इत् सृण्या पक्वम् आऽयत् ॥
लाङ्गलम् पवीरवꣳ सुशेवꣳ सुमतित्सरु । उद् इत् कृषति गाम् अविम् प्रफर्व्यं च पीवरीम् । प्रस्थावद् रथवाहनम् ॥
शुनं नः फाला वि तुदन्तु भूमिꣳ शुनं कीनाशा अभि यन्तु वाहान् । शुनम् पर्जन्यो मधुना पयोभिः शुनासीरा शुनम् अस्मासु धत्तम् ॥
कामं कामदुघे धुक्ष्व मित्राय वरुणाय च । इन्द्रायाग्नये पूष्ण ओषधीभ्यः प्रजाभ्यः ॥
घृतेन सीता मधुना समक्ता विश्वैर् देवैर् अनुमता मरुद्भिः । ऊर्जस्वती पयसा पिन्वमानास्मान्त् सीते पयसाऽभ्याववृत्स्व ॥

4.2.6 अनुवाक 6
ओषधिवापः

1
या जाता ओषधयो देवेभ्यस् त्रियुगम् पुरा । मन्दामि बभ्रूणाम् अहꣳ शतं धामानि सप्त च ॥
शतं वो अम्ब धामानि सहस्रम् उत वो रुहः । अथा शतक्रत्वो यूयम् इमम् मे अगदं कृत ॥
पुष्पावतीः प्रसूवतीः फलिनीर् अफला उत । अश्वा इव सजित्वरीर् वीरुधः पारयिष्णवः ॥
ओषधीर् इति मातरस् तद् वो देवीर् उप ब्रुवे । रपाꣳसि विघ्नतीर् इत रपः

2
चातयमानाः ॥
अश्वत्थे वो निषदनम् पर्णे वो वसतिः कृता । गोभाज इत् किलासथ यत् सनवथ पूरुषम् ॥
यद् अहं वाजयन्न् इमा ओषधीर् हस्त आदधे । आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा ॥
यद् ओषधयः संगच्छन्ते राजानः समिताव् इव । विप्रः स उच्यते भिषग् रक्षोहाऽमीवचातनः ॥
निष्कृतिर् नाम वो माताऽथा यूयꣳ स्थ संकृतीः । सराः पतत्रिणीः

3
स्थन यद् आमयति निष् कृत ॥
अन्या वो अन्याम् अवत्व् अन्याऽन्यस्या उपावत । ताः सर्वा ओषधयः संविदाना इदम् मे प्रावता वचः ॥
उच् छुष्मा ओषधीनां गावो गोष्ठाद् इवेरते । धनꣳ सनिष्यन्तीनाम् आत्मानं तव पूरुष ॥
अति विश्वाः परिष्ठा स्तेन इव व्रजम् अक्रमुः । ओषधयः प्राचुच्यवुर् यत् किं च तनुवाꣳ रपः ॥
याः

4
त आतस्थुर् आत्मानं या आविविशुः परुःपरुः । तास् ते यक्ष्मं वि बाधन्ताम् उग्रो मध्यमशीर् इव ॥
साकं यक्ष्म प्र पत श्येनेन किकिदीविना । साकं वातस्य ध्राज्या साकं नश्य निहाकया ॥
अश्वावतीꣳ सोमवतीमूर्जयन्तीम् उदोजसम् । आ वित्सि सर्वा ओषधीर् अस्मा अरिष्टतातये ॥
याः फलिनीर् या अफला अपुष्पा याश् च पुष्पिणीः । बृहस्पतिप्रसूतास् ता नो मुञ्चन्त्व् अꣳहसः ॥
याः

5
ओषधयः सोमराज्ञीः प्रविष्टाः पृथिवीम् अनु । तासां त्वम् अस्य् उत्तमा प्र णो जीवातवे सुव ॥
अवपतन्तीर् अवदन् दिव ओषधयः परि । यं जीवम् अश्नवामहै न स रिष्याति पूरुषः ॥
याश् चेदम् उपशृण्वन्ति याश् च दूरम् परागताः । इह संगत्य ताः सर्वा अस्मै सं दत्त भेषजम् ॥
मा वो रिषत् खनिता यस्मै चाहं खनामि वः । द्विपच् चतुष्पद् अस्माकꣳ सर्वम् अस्त्व् अनातुरम् ॥
ओषधयः सं वदन्ते सोमेन सह राज्ञा । यस्मै करोति ब्राह्मणस् तꣳ राजन् पारयामसि ॥

4.2.7 अनुवाक 7
लोष्टक्षेपादिकम्

1
मा नो हिꣳसीज् जनिता यः पृथिव्या यो वा दिवꣳ सत्यधर्मा जजान । यश् चापश् चन्द्रा बृहतीर् जजान कस्मै देवाय हविषा विधेम ॥
अभ्यावर्तस्व पृथिवि यज्ञेन पयसा सह । वपां ते अग्निर् इषितो ऽव सर्पतु ॥
अग्ने यत् ते शुक्रं यच् चन्द्रं यत् पूतं यद् यज्ञियम् । तद् देवेभ्यो भरामसि ॥
इषमूर्जम् अहम् इत आ

2
दद ऋतस्य धाम्नो अमृतस्य योनेः । आ नो गोषु विशत्व् औषधीषु जहामि सेदिम् अनिराम् अमीवाम् ॥
अग्ने तव श्रवो वयो महि भ्राजन्त्य् अर्चयो विभावसो । बृहद्भानो शवसा वाजम् उक्थ्यं दधासि दाशुषे कवे ॥
इरज्यन्न् अग्ने प्रथयस्व जन्तुभिर् अस्मे रायो अमर्त्य । स दर्शतस्य वपुषो वि राजसि पृणक्षि सानसिꣳ रयिम् ॥
ऊर्जो नपाज् जातवेदः सुशस्तिभिर् मन्दस्व

3
धीतिभिर् हितः । त्वे इषः सं दधुर् भूरिरेतसश् चित्रोतयो वामजाताः ॥
पावकवर्चाः शुक्रवर्चा अनूनवर्चा उद् इयर्षि भानुना । पुत्रः पितरा विचरन्न् उपावस्य् उभे पृणक्षि रोदसी ॥
ऋतावानम् महिषं विश्वचर्षणिम् अग्निꣳ सुम्नाय दधिरे पुरो जनाः । श्रुत्कर्णꣳ सप्रथस्तमम् त्वा गिरा दैव्यम् मानुषा युगा ॥
निष्कर्तारम् अध्वरस्य प्रचेतसं क्षयन्तꣳ राधसे महे । रातिम् भृगूणाम् उशिजं कविक्रतुम् पृणक्षि सानसिम्

4
रयिम् ॥
चित स्थ परिचित ऊर्ध्वचितः श्रयध्वं तया देवतयाऽङ्गिरस्वद् ध्रुवाः सीदत ॥
आ प्यायस्व सम् एतु ते विश्वतः सोम वृष्णियम् । भवा वाजस्य संगथे ॥
सं ते पयाꣳसि सम् उ यन्तु वाजाः सं वृष्णियान्य् अभिमातिषाहः । आप्यायमानो अमृताय सोम दिवि श्रवाꣳसि उत्तमानि धिष्व ॥

4.2.8 अनुवाक 8
रुक्माद्युपधानम्

1
अभ्य् अस्थाद् विश्वाः पृतना अरातीस् तद् अग्निर् आह तद् उ सोम आह । बृहस्पतिः सविता तन् म आह पूषा माधात् सुकृतस्य लोके ॥
यद् अक्रन्दः प्रथमं जायमान उद्यन्त् समुद्राद् उत वा पुरीषात् । श्येनस्य पक्षा हरिणस्य बाहू उपस्तुतं जनिम तत् ते अर्वन् ॥
अपाम् पृष्ठम् असि योनिर् अग्नेः समुद्रम् अभितः पिन्वमानम् । वर्धमानम् महः

2
आ च पुष्करं दिवो मात्रया वरिणा प्रथस्व ॥
ब्रह्म जज्ञानम् प्रथमम् पुरस्ताद् वि सीमतः सुरुचो वेन आवः । स बुध्निया उपमा अस्य विष्ठाः सतश् च योनिम् असतश् च विवः ॥
हिरण्यगर्भः सम् अवर्तताग्रे भूतस्य जातः पतिर् एक आसीत् । स दाधार पृथिवीं द्याम् उतेमां कस्मै देवाय हविषा विधेम ॥
द्रप्सश् चस्कन्द पृथिवीम् अनु

3
द्याम् इमं च योनिम् अनु यश् च पूर्वः । तृतीयं योनिम् अनु संचरन्तं द्रप्सं जुहोम्य् अनु सप्त होत्राः ॥
नमो अस्तु सर्पेभ्यो ये के च पृथिवीम् अनु । ये अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः ॥
ये ऽदो रोचने दिवो ये वा सूर्यस्य रश्मिषु । येषाम् अप्सु सदः कृतं तेभ्यः सर्पेभ्यो नमः ॥
या इषवो यातुधानानां ये वा वनस्पतीꣳर् अनु । ये वाऽवटषु शेरते तेभ्यः सर्पेभ्यो नमः ॥

4.2.9 अनुवाक 9
स्वयमातृण्णादीष्टकोपधानम्

1
ध्रुवाऽसि धरुणाऽस्तृता विश्वकर्मणा सुकृता । मा त्वा समुद्र उद् वधीन् मा सुपर्णो ऽव्यथमाना पृथिवीं दृꣳह ॥
प्रजापतिस् त्वा सादयतु पृथिव्याः पृष्ठे व्यचस्वतीम् प्रथस्वतीम् प्रथो ऽसि पृथिव्यसि भूर् असि भूमिर् अस्य् अदितिर् असि विश्वधाया विश्वस्य भुवनस्य धर्त्री पृथिवीं यच्छ पृथिवीं दृꣳह पृथिवीम् मा हिꣳसीर् विश्वस्मै प्राणाय व्यानायोदानाय प्रतिष्ठायै

2
चरित्रायाग्निस् त्वाऽभि पातु मह्या स्वस्त्या छर्दिषा शंतमेन तया देवतयाऽङ्गिरस्वद् ध्रुवा सीद
काण्डात्काण्डात् प्ररोहन्ती परुषःपरुषः परि । एवा नो दूर्वे प्र तनु सहस्रेण शतेन च ॥
या शतेन प्रतनोषि सहस्रेण विरोहसि तस्यास् ते देवीष्टके विधेम हविषा वयम् ॥
अषाढाऽसि सहमाना सहस्वारातीः सहस्वारातीयतः
सहस्व पृतनाः सहस्व पृतन्यतः सहस्रवीर्या

3
असि सा मा जिन्व ॥
मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर् नः सन्त्व् ओषधीः ॥
मधु नक्तम् उतोषसि मधुमत् पार्थिवꣳ रजः । मधु द्यौर् अस्तु नः पिता ॥
मधुमान् नो वनस्पतिर् मधुमाꣳ अस्तु सूर्यः । माध्वीर् गावो भवन्तु नः ॥
मही द्यौः पृथिवी च न इमं यज्ञम् मिमिक्षताम् । पिपृतां नो भरीमभिः ॥
तद् विष्णोः परमम्

4
पदꣳ सदा पश्यन्ति सूरयः । दिवीव चक्षुर् आततम् ॥
ध्रुवाऽसि पृथिवि सहस्व पृतन्यतः । स्यूता देवेभिर् अमृतेऽनागाः ॥
यास् ते अग्ने सूर्ये रुच उद्यतो दिवम् आतन्वन्ति रश्मिभिः । ताभिः सर्वाभी रुचे जनाय नस् कृधि ॥
या वो देवाः सूर्ये रुचो गोष्व् अश्वेषु या रुचः । इन्द्राग्नी ताभिः सर्वाभी रुचं नो धत्त बृहस्पते
विराट्

5
ज्योतिर् अधारयत् सम्राड् ज्योतिर् अधारयत् स्वराड् ज्योतिर् अधारयत्
अग्ने युक्ष्वा हि ये तवाश्वासो देव साधवः । अरं वहन्त्य् आशवः ॥
युक्ष्वा हि देवहूतमाꣳ अश्वाꣳ अग्ने रथीर् इव । नि होता पूर्व्यः सदः ॥
द्रप्सश् चस्कन्द पृथिवीम् अनु द्याम् इमं च योनिम् अनु यश् च पूर्वः । तृतीयं योनिम् अनु संचरन्तं द्रप्सं जुहोम्य् अनु सप्त

6
होत्राः ॥
अभूद् इदं विश्वस्य भुवनस्य वाजिनम् अग्नेर् वैश्वानरस्य च । अग्निर् ज्योतिषा ज्योतिष्मान् रुक्मो वर्चसा वर्चस्वान् ॥
ऋचे त्वा रुचे त्वा
सम् इत् स्रवन्ति सरितो न धेनाः । अन्तर् हृदा मनसा पूयमानाः । घृतस्य धारा अभि चाकशीमि । हिरण्ययो वेतसो मध्य आसाम् ॥
तस्मिन्त् सुपर्णो मधुकृत् कुलायी भजन्न् आस्ते मधु देवताभ्यः । तस्याऽऽसते हरयः सप्त तीरे स्वधां दुहाना अमृतस्य धाराम् ॥

4.2.10 अनुवाक 10
पशुशीर्षकोपधानम्

1
आदित्यं गर्भम् पयसा समञ्जन्त् सहस्रस्य प्रतिमां विश्वरूपम् । परि वृङ्ग्धि हरसा माऽभि मृक्षः शतायुषं कृणुहि चीयमानः ॥
इमम् मा हिꣳसीर् द्विपादम् पशूनाꣳ सहस्राक्ष मेध आ चीयमानः । मयुम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तनुवो नि षीद ॥
वातस्य ध्राजिं वरुणस्य नाभिम् अश्वं जज्ञानꣳ सरिरस्य मध्ये । शिशुं नदीनाꣳ हरिम् अद्रिबुद्धम् अग्ने मा हिꣳसीः

2
परमे व्योमन् ॥
इमम् मा हिꣳसीर् एकशफम् पशूनां कनिक्रदं वाजिनं वाजिनेषु । गौरम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तनुवो नि षीद ॥
अजस्रम् इन्दुम् अरुषम् भुरण्युम् अग्निम् ईडे पूर्वचित्तौ नमोभिः । स पर्वभिर् ऋतुशः कल्पमानो गाम् मा हिꣳसीर् अदितिं विराजम् ॥
इमꣳ समुद्रꣳ शतधारम् उत्सं व्यच्यमानम् भुवनस्य मध्ये । घृतं दुहानाम् अदितिं जनायाग्ने मा

3
हिꣳसीः परमे व्योमन् । गवयम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तनुवो नि षीद ॥
वरूत्रिं त्वष्टुर् वरुणस्य नाभिम् अविं जज्ञानाꣳ रजसः परस्मात् । महीꣳ सहस्रीम् असुरस्य मायाम् अग्ने मा हिꣳसीः परमे व्योमन् ॥
इमामूर्णायुं वरुणस्य मायां त्वचम् पशूनां द्विपदां चतुष्पदाम् । त्वष्टुः प्रजानाम् प्रथमं जनित्रम् अग्ने मा हिꣳसीः परमे व्योमन् । उष्ट्रम् आरण्यम् अनु

4
ते दिशामि तेन चिन्वानस् तनुवो नि षीद ॥
यो अग्निर् अग्नेस् तपसो ऽधि जातः शोचात् पृथिव्या उत वा दिवस् परि । येन प्रजा विश्वकर्मा व्यानट् तम् अग्ने हेडः परि ते वृणक्तु ॥
अजा ह्य् अग्नेर् अजनिष्ट गर्भात् सा वा अपश्यज् जनितारम् अग्रे । तया रोहम् आयन्न् उप मेध्यासः तया देवा देवताम् अग्र आयन् । शरभम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तनुवो नि षीद ॥

4.2.11 अनुवाक 11
चातुर्मास्येषु वरुणप्रघासे याज्यानुवाक्याः

1
इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः । तद् वां चेति प्र वीर्यम् ॥
श्नथद् वृत्रम् उत सनोति वाजम् इन्द्रा यो अग्नी सहुरी सपर्यात् । इरज्यन्ता वसव्यस्य भूरेः सहस्तमा सहसा वाजयन्ता ॥
प्र चर्षणिभ्यः पृतना हवेषु प्र पृथिव्या रिरिचाथे दिवश् च । प्र सिन्धुभ्यः प्र गिरिभ्यो महित्वा प्रेन्द्राग्नी विश्वा भुवनात्य् अन्या ॥
मरुतो यस्य हि

2
क्षये पाथा दिवो विमहसः । स सुगोपातमो जनः ॥
यज्ञैर् वा यज्ञवाहसो विप्रस्य वा मतीनाम् । मरुतः शृणुता हवम् ॥
श्रियसे कम् भानुभिः सम् मिमिक्षिरे ते रश्मिभिस् त ऋक्वभिः सुखादयः । ते वाशीमन्त इष्मिणो अभीरवो विद्रे प्रियस्य मारुतस्य धाम्नः ॥
अव ते हेड
उद् उत्तमम् ।
कया नश् चित्र आ भुवद् ऊती सदावृधः सखा । कया शचिष्ठया वृता ॥

3
को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् । आसन्निषून् हृत्स्वसो मयोभून् य एषाम् भृत्याम् ऋणधत् स जीवात् ॥
अग्ने नय ।
आ देवानाम् ।
शं नो भवन्तु
वाजेवाजे
अप्स्व् अग्ने सधिष् टव सौषधीर् अनु रुध्यसे गर्भै सञ् जायसे पुनः ॥
वृषा सोम द्युमाꣳ असि वृषा देव वृषव्रतः । वृषा धर्माणि दधिषे ॥
इमम् मे वरुण
तत् त्वा यामि
त्वं नो अग्ने
स त्वं नो अग्ने ॥