सामग्री पर जाएँ

शतपथब्राह्मणम्/काण्डम् १२/अध्यायः ९/ब्राह्मण २

विकिस्रोतः तः


१२.९.२ अथ सौत्रामण्यामवभृथः

अवभृथमिष्टवा यन्ति। अवभृथं वै सोमेनेष्ट्वा यन्ति। सोम एषः। यत्सौत्रामणी॥१२.९.२.१॥

यद्देवा देवहेडनम् इति। देवकृतादेवैनमेनसो मुंचति। यदि दिवा यदि नक्तम् इति। यदेवाहोरात्राभ्यामेनः करोति। तस्मादेवैनं मुंचति। यदि जाग्रत् यदि स्वप्ने इति। मनुष्या वै जागरितम्। पितरः सुप्तम्। मनुष्यकिल्बिषाच्चैवैनं पितृकिल्बिषाच्च मुंचति॰॥१२.९.२.२॥

यद्ग्रामे यदरण्ये इति। ग्रामे वा ह्यरण्ये वैनः क्रियते। तस्मादेवैनं मुंचति। यत् सभायाम् इति। सभ्यादेवैनमेनसो मुंचति। यदिन्द्रिये इति। दैवादेवैनमेनसो मुंचति। यत् शूद्रे यदर्ये यदेनश्चकृमा वयं यदेकस्याधि धर्मणि तस्यावयजनमसि इति। सर्वस्मादेवैनमेतस्मादेनसो मुंचति॥१२.९.२.३॥

यदापो अघ्न्या इति वरुणेति शपामहे ततो वरुण नो मुंच इति। वरुण्यादेवैनमेनसो मुंचति। अवभृथनिचुंपुण निचेरुरसि निचुंपुणः इति। यो ह वा अयमपामावर्तः। स हावभृथः। स हैष वरुणस्य पुत्रो वा भ्राता वा। तमेवैतत् स्तौति। अवदेवैर्देवकृतमेनोऽयक्षि इति। देवकृतमेवैनोऽवयजते। अव मर्त्यैर्मर्त्यकृतम् इति। मर्त्यकृतमेवैनोऽवयजते। पुरुराव्णो देव रिषस्पाहि इति। सर्वाभ्यो माऽऽर्तिभ्यो गोपायेत्येवैतदाह॥१२.९.२.४॥

समुद्रे ते हृदयमप्स्वंतः इति। आपो वै समुद्रः। रसो वा आपः। तदेनमेतेन रसेन संसृजति। सं त्वा विशंत्वोषधीरुतापः इति तदेनमेतेन उभयेन रसेन संसृजति। यश्च ओषधिषु यश्चाप्सु। द्वौ विक्रमा उदङुत्क्रामति। एतावती वै मनुष्ये जूतिः। यावान् विक्रमः। तत् यावत्येवास्मिन् जूतिः। तयैव पाप्मानं विजहाति॥१२.९.२.५॥

सुमित्रिया न आप ओषधयः सन्तु इति अंजलिना अप उपाचति। वज्रो वा आपः। वज्रेणैवैतन्मित्रधेयं कुरुते। दुर्मित्रियास्तस्मै सन्तु योऽस्मान् द्वेष्टि यं च वयं द्विष्मः इति यामस्य दिशं द्वेष्यः स्यात्, तां दिशं परासिंचेत्। तेनैव तं पराभावयति॥१२.९.२.६॥

द्रुपदादिव मुमुचानः स्विन्नः स्नातो मलादिव। पूतं पवित्रेणेवाज्यमापः शुन्धन्तु मैनसः इति वासोऽपप्लावयति। यथेषीकां मुंजात् विवृहेत्। एवमेनं सर्वस्मात् पाप्मनो विवृहति। स्नाति। तम एवापहते॥१२.९.२.७॥

उद्वयं तमसस्परि इति। पाप्मा वै तमः। पाप्मानमेव तमोऽपहते। स्वः पश्यन्त उत्तरम् इति। अयं वै लोकोऽद्भ्य उत्तरः। अस्मिन्नेव लोके प्रतितिष्ठति। देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् इति। स्वर्गो वै लोकः सूर्यो ज्योतिरुत्तमम्। स्वर्ग एव लोकेऽन्ततः प्रतितिष्ठति। अनपेक्षमेत्य आहवनीयमुपतिष्ठते॥१२.९.२.८॥

अपो अद्यान्वचारिषम् इति। अपामेव रसमवरुन्द्धे। रसेन समसृक्ष्महि इति। अपामेव रसमात्मन् धत्ते। पयस्वानग्न आगमं तं मा संसृज वर्चसा प्रजया च धनेन च इति। आशिषमेवैतदाशास्ते॥१२.९.२.९॥

एधोऽस्येधिषीमहि इति समिधमादत्ते। एधो ह वा अग्नेः समित्। समिदसि तेजोऽसि तेजो मयि धेहि इति। आहवनीये समिधमभ्यादधाति। अग्निमेवैतया समिन्धे। स एनं समिद्धस्तेजसा समिन्द्धे॥१२.९.२.१०॥

आदित्यं चरुं यक्ष्यमाणो निर्वपति। आदित्यमीजानः। इयं वा अदितिः। अस्यामेव यज्ञं तनुते। अस्यामिष्ट्वा प्रतितिष्ठति। धेनुर्दक्षिणा। इयं वै धेनुः। इमामेव सर्वान् कामान् दुहे। वत्सं पूर्वस्यां दधाति। मातरमुत्तरस्याम्। यदा वै वत्सो मातरं धयति। अथ सा प्रत्ता दुहे। प्रत्तामेवैमां सर्वान् कामान् दुहे॥१२.९.२.११॥

तदाहुः। प्रेव वा एषोऽस्मात् लोकात् च्यवते। योऽपोऽवभृथमभ्यवैतीति। अवभृथादुदेत्य मैत्रावरुण्या पयस्यया यजते। अयं वै लोको मित्रः। असौ वरुणः। यदेवेदमन्तरेण। तत्पयस्या। तत् यत् मैत्रावरुण्या पयस्यया यजते। एष्वेवैतल्लोकेषु प्रतितिष्ठति। प्राणो वै मित्रः। अपानो वरुणः। अन्नमेव पयस्या। तद्यत् मैत्रावरुण्या पयस्यया यजते। प्राण एवान्नाद्येऽन्ततः प्रतितिष्ठति॥१२.९.२.१२॥

इति चतुर्थप्रपाठके चतुर्थं ब्राह्मणम्॥