शतपथब्राह्मणम्/काण्डम् १२/अध्यायः ९
ब्राह्मण १ सौत्रामणीयज्ञात्पुरुषोत्पत्तिः
१ सौत्रामणीयज्ञात्पुरुषोत्पत्तिः-तत्र प्रकृतादेतस्मात्सौत्रामणीयज्ञात् पुरुषो जायते इति पुरुषोत्पत्तेरुपक्रमस्य निरू.पणं, तत्र प्रसङ्गादयं सौत्रामणीयज्ञो ब्राह्मणाधिकारिक इति प्रतिपादनं, ततः " तस्य लोमान्येव शष्पाणि " इत्यारभ्य " सर्वेषां ग्रहाणां द्वे याज्यापुरोनुवाक्ये भवतः प्राणोदानयोस्तद्रूपम्" इत्यन्तं शष्पादियाज्यापुरोऽनुवाक्यान्तस्य सौत्रामण्युपकरणभूतस्य पदार्थजातस्य लोमत्वगादिप्राणोदानान्ततत्तदवयवात्मना पुरुषावयवजातसम्पत्तेः सार्थवादमुपपादनं, निरुक्तायाः पुरुषावयवसम्पत्तेः सार्थवादं प्रकारान्तरेणोपपादनम् , तत्र पशुदेवतानां संसृष्टानां संसृष्टान्येवाध्यात्मिकानि त्रीणि रूपाणि भवन्तीति निरूपणं, पुरोडाशदेवतानां संसृष्टानां संसृष्टान्येवाध्यात्मिकानि त्रीणि रूपाणि भवन्तीति निरूपणं चेत्यादि
ब्राह्मण २ सौत्रामण्यामवभृथः
२-सौत्रामण्यामवभृथः -- तत्र प्रथमं सौत्रामण्यङ्गावभृथस्योपक्रमकथनं, ततो मासरकुम्भस्य जले प्लावनमज्जनसाधनानां मन्त्राणामभिधानं साभिप्रायं तेषां तात्पर्यार्थव्याख्यानं च, समन्त्रकमपोऽञ्जलिनाऽऽदाय ता अपः समन्त्रकमेव द्वौ विक्रमौ उदङ्गत्वा यस्यां दिशि द्वेष्यः स्यात्तस्यां दिशि द्वेष्यं प्रति परासिञ्चेदिति सार्थवादं विधानं, स्नानपूर्वकवासोऽपप्लावनस्य समन्त्रकं सार्थवादं विधानं, समन्त्रकं जलादुत्क्रमणं विधाय विनियुक्तमन्त्रस्य व्याख्यानम्, अनपेक्षमेत्याहवनीयमुपतिष्ठेतेति विधानं, विहित उपस्थाने मन्त्रं विनियुज्य तस्याभिप्रायशो व्याख्यानं, समन्त्रकं समिधमादानं समन्त्रकमाहवनीये समिधोऽन्वाधानं च विधाय विनियुक्तमन्त्रयोरभिप्रायकथनं, अस्याः सौत्रामण्या आदावन्ते चादित्यश्चरुः कर्तव्य इति सार्थवादं विधानम्, अस्यादित्यचरोर्दक्षिणा धेनुर्भवति तत्रापि पूर्वे आदित्यचरौ वत्सो दक्षिणात्वेन देय उत्तरे चरौ च माता दक्षिणात्वेन देयेति सार्थवादं दक्षिणादानविधानम्, अवभृथस्य प्रशंसनम्, अवभृथादुदेत्यार्थाषिपशुदेशाद्देशान्तरे गत्वा मैत्रावरुण्या पयस्यया यजेतेति सार्थवादं विधानं चेत्यादि.
ब्राह्मण ३ सौत्रामण्याङ्गतानि दर्शनानि
३-सौत्रामण्यङ्गगतानि दर्शनानि –तत्र प्रथमं राज्यादपरुद्धस्य क्षत्रस्य सौत्रामण्यधिकारप्रदर्शनार्थमितिहासकथनं, तस्मिंश्चेतिहासे सृञ्जयै राजभिः स्वराष्ट्राद्बहिर्निष्कासितेन रेवोत्तरसा दशपुरुषमारभ्य राज्याद्भ्रष्टो दुष्टरीतुः सौत्रामण्या याजितस्तेन हेतुना स स्वं राज्यं पुनर्लेभे इति कथनं, यस्मादाहवनीये सुरा न होतव्येति याज्ञिका आहुस्तस्मात्त्वं यद्याहवनीये सुरां होष्यसि तर्हि दुष्टरीतुं पापभागिनं यज्ञं च जामियुक्तं करिष्यसीति बाह्लिकोक्त्या दोषद्वयकथनम् , उक्तदोषद्वयपरिहारायाहवनीयादुपाहृतयोराहवनीयाद्भिन्नयोराहवनीयसदृशयोरुत्तरदक्षिणाग्न्योर्मध्ये उत्तरेऽग्नौ पयोग्रहा दक्षिणेऽग्नौ च सुराग्रहा होतव्या इत्यस्या व्यवस्थायाः सोपपत्तिकं निरूपणम्, मध्ये च प्रसङ्गात्प्रणीतानां प्रणीतत्वस्य सकारणमुपपादनम्, पर्यग्निकरणस्य च सकारणमुपपादनं, उत्तरेऽग्नौ पयोग्रहा होतव्याः पशवश्च श्रपयितव्या इत्येतत्सार्थवादमभिधानं, दक्षिणेऽग्नौ सुराग्रहा होतव्यास्त्रिषंयुक्ताभिः पवित्राभिश्च पावयितव्यमित्येतत्सार्थवादमभिधानं, बह्लिकस्य स्वगृहमागत्य रेवोत्तरसाऽनुष्ठितवृत्तान्तस्य कथनम् , उत्तरेऽग्नौ पशुपुरोडाशपयोग्रहै: प्रचरणस्य फलनिरूपणं, दक्षिणेऽग्नौ च सुराग्रहहवनस्य त्रिषंयुक्ताभिः पवित्राभिः पावनस्य च फलनिरूपणं, सौत्रामण्या आत्मत्वमैन्द्रवायोधसयोः पश्वोर्बाहुद्वयरूपत्वं च सकारणमुपपाद्य सौत्रामण्या आदावन्ते च यथाक्रमं तयोरेन्द्रवायोधसयोः पश्वोरनुष्ठानस्य सार्थवादं विधानम्, एवमेव सौत्रामण्यां मध्येऽस्य त्रिपशोरेक एव आत्मसदृशो यूपो भवति तदभित इमौ बाहुसदृशौ ऐन्द्रवायोधसौ पशू भवत इति प्रतिपादनं चेत्यादि.
विशेषसूचनम् ।
१ द्वादशे काण्डे तृतीयेऽध्याये चतुर्थब्राह्मणे एकादश्यां कण्डिकायां ( द्विचत्वारिंशत्तमे पृष्ठे ) ऋजुपा प्रथमपर्यायादग्रेतनो द्वितीयः पर्यायः “सर्वान् देवान् आत्मन्नधिषि सर्वेषु देवेषु आत्मानमधाम् ।"इत्याकारक पाठः परिच्युतः । स चात्र मुद्रितः। स तत्र मूलानुसारेणानुसन्धेय इति सप्रश्रयं सूच्यते ॥
२ द्वादशे एव काण्डेऽष्टमेऽध्याये प्रथमब्राह्मणे द्वाविंश्यां कण्डिकायां (द्वादशोत्तरशततमे पृष्ठे )ऋजुपाठेऽन्ते "धत्त । इति" इत्यस्मादनन्तरं " हिरण्येन मार्जयन्ते" इत्यस्मात्प्राक् च " तत् ये एवैनमेते याजयन्ति, तानेतदाह-एतन्मयि सर्वं धत्तेति ।" इत्याकारकोंऽशः परिच्युतः । स चात्र मुद्रितः। स तत्र मूलानुसरेणानुसन्धेय इति सप्रश्रयं सूच्यते ॥