शतपथब्राह्मणम्/काण्डम् १२/अध्यायः ९/ब्राह्मण १
१२.९.१ अथ सौत्रामणीयज्ञात्पुरुषोत्पत्तिः
एतस्मात् वै यज्ञात् पुरुषो जायते। स यद्ध वाऽअस्मिंल्लोके पुरुषोऽन्नमत्ति तदेनममुष्मिंल्लोके प्रत्यत्ति। स वा एष परिस्रुतो यज्ञस्तायते। अन्नाद्या वै ब्राह्मणेन परिस्रुत्। स एतस्मादन्नाद्यात् जायते। तं हामुष्मिंल्लोकेऽन्नं न प्रत्यत्ति। तस्मादेष ब्राह्मणयज्ञ एव। यत्सौत्रामणी॥१२.९.१.१॥
[१]तस्य लोमान्येव शष्पाणि। त्वक् तोक्मानि। मांसं लाजाः। अस्थि कारोतरः। मज्जा मासरम्। रसः परिस्रुत्। नग्नहुर्लोहितम्। रेतः पयः। मूत्रं सुरा। ऊवध्यं वल्कसम्॥१२.९.१.२॥
हृदयमेवास्यैन्द्रः पुरोडाशः। यकृत् सावित्रः। क्लोमा वारुणः। मतस्ने एवास्याश्वत्थं च पात्रमौदुम्बरं च। पित्तं नैयग्रोधम्। आंत्राणि स्थाल्यः। गुदा उपशयानि। श्येनपत्रे प्लीहा। आसन्दी नाभिः। कुंभो वनिष्ठुः। प्लाशिः शतातृण्णा। तद्यत् सा बहुधा वितृण्णा भवति। तस्मात् प्लाशिर्बहुधा विकृता उ। मुखं सतम्। जिह्वा पवित्रम्। चप्पं पायुः। बस्तिर्वालः॥१२.९.१.३॥
अंगान्येवास्याश्विनः पशुः। आत्मा सारस्वतः। रूपमैन्द्र ऋषभः। तस्मादाहुर्गावः पुरुषस्य रूपमिति। आयुर्हिरण्यम्। तत् शतमानं भवति। तस्मात् शतायुः पुरुषः॥१२.९.१.४॥
चक्षुषी एवास्याश्विनौ ग्रहौ। पक्ष्माणि गोधूमसक्तवश्च कुवलसक्तवश्च। नासिके एवास्य सारस्वतौ ग्रहौ। अथ यानि नासिकयोर्लोमानि तान्युपवाकसक्तवश्च बदरसक्तवश्च। श्रोत्रे एवास्यैन्द्रौ ग्रहौ। अथ यानि कर्णयोर्लोमानि। यानि च भ्रुवोः। तानि यवसक्तवश्च कर्कन्धुसक्तवश्च॥१२.९.१.५॥
अथ यान्युपस्थे लोमानि. यानि चाधस्तात्। तानि वृकलोमानि। अथ यान्युरसि लोमानि। यानि च निकक्षयोः। तानि व्याघ्रलोमानि। केशाश्च श्मश्रूणि च सिंहलोमानि॥१२.९.१.६॥
त्रयः पशवो भवन्ति। त्रेधाविहितो वा अयं पुरुषस्यात्मा। आत्मानमेवास्य तैः स्पृणोति। यदवाङ् नाभेः। तदाश्विनेन। यदूर्ध्वं नाभेः। अवाचीनं शीर्ष्णः। तत्सारस्वतेन। शिर ऐन्द्रण। यथारूपमेव यथादेवतमात्मानं मृत्योः स्पृत्वा, अमृतं कुरुते॥१२.९.१.७॥
त्रयः पुरोडाशा भवन्ति। त्रेधाविहितं वा इदं पुरुषस्य वयः। वय एवास्य तैः स्पृणोति। पूर्ववयसमैन्द्रेण। मध्यमवयसं सावित्रेण। उत्तमवयसं वारुणेन। यथारूपमेव यथादेवतं वयो मृत्योः स्पृत्वा अमृतं कुरुते॥१२.९.१.८॥
षड् ग्रहा भवंति। षड् वा इमे शीर्षन् प्राणाः। प्राणानेवास्य तैः स्पृणोति। चक्षुषी एवाश्विनाभ्याम्। नासिके सारस्वताभ्याम्। श्रोत्रे ऐन्द्राभ्याम्। यथारूपमेव यथादेवतं प्राणान् मृत्योः स्पृत्वा अमृतान् कुरुते॥१२.९.१.९॥
संतता याज्यापुरोऽनुवाक्या भवंति। समानदेवत्याः। प्राणानां संतत्या अव्यवच्छेदाय। सर्वाः पुरोऽनुवाक्या भवंति। सर्वा याज्याः। तस्मात् प्राणाः सर्वे परांचः सर्वे प्रत्यंचः। सर्वाः प्रथमा भवंति। सर्वा मध्यमाः। सर्वा उत्तमाः। तस्मात् प्राणाः सर्वे प्रथमाः। सर्वे मध्यमाः। सर्व उत्तमाः। सर्वेषां ग्रहाणां द्वे याज्यापुरोऽनुवाक्ये भवतः।प्राणोदानयोस्तद्रूपम्। प्राणोदानावेवावरुंधे। तस्मात् सर्वे प्राणाः प्राणोदानयोरेव प्रतिष्ठिताः॥१२.९.१.१०॥
स वा एष आत्मैव। यत्सौत्रामणी। मन एव प्रत्यक्षात्। वाक् यजमानः। तस्यात्मैव वेदिः। प्रजोत्तरवेदिः। पशवो बर्हिः। अंगानि ऋत्विजः। अस्थीनिध्मः। आज्यं मज्जा। मुखमग्निः। अन्नमाहुतिः। वयः संस्था। तस्मात् सौत्रामण्येजानो वय उपगच्छति॥१२.९.१.११॥
तद्यौ ह वा इमौ पुरुषाविवाक्ष्योः। एतावेवाश्विनौ। अथ यत् कृष्णम्। तत्सारस्वतम्। यच्छुक्लम्। तदैन्द्रम्। तद्यदाश्विने पशौ सति, अथैता देवताः सह यजति। एतान्येवैतत् सार्द्धं कृत्वाऽऽत्मन् धत्ते॥१२.९.१.१२॥
मन एवेन्द्रः। वाक् सरस्वती। श्रोत्रे अश्विनौ। यद् वै मनसा ध्यायति। तद्वाचा वदति। यद्वाचा वदति। तत् कर्णाभ्यां शृणोति। तद् यत् सारस्वते पशौ सति, अथैता देवताः सह यजति। एतान्येवैतत् सार्धं कृत्वाऽऽत्मन् धत्ते॥१२.९.१.१३॥
प्राण एवेन्द्रः। जिह्वा सरस्वती। नासिके अश्विनौ। यद्वै प्राणेनान्नमात्मन् प्रणयते। तत् प्राणस्य प्राणत्वम्। जिह्वया वा अन्नस्य रसं विजानाति। नासिके उ वै प्राणस्य पंथाः। तद्यदैन्द्रे पशौ सति, अथैता देवताः सह यजति। एतान्येवैतत्सार्द्धं कृत्वाऽऽत्मन् धत्ते॥१२.९.१.१४॥
हृदयमेवेन्द्रः। यकृत् सविता। क्लोमा वरुणः। तद्यदैन्द्रे पुरोडाशे सति, अथैता देवताः सह यजति। एतान्येवैतत्सार्द्धं कृत्वाऽऽत्मन् धत्ते॥१२.९.१.१५॥
प्राण एव सविता। व्यानो वरुणः। शिश्नमिन्द्रः। यत् वै प्राणेनान्नमत्ति। तत् व्यानेन व्यनिति। शिश्नेन वा अन्नस्य रसं रेतः सिंचति। तद्यत् सावित्रे पुरोडाशे सति, अथैता देवताः सह यजति। एतान्येवैतत् सार्द्धं कृत्वाऽऽत्मन् धत्ते॥१२.९.१.१६॥
योनिरेव वरुणः। रेत इन्द्रः। सवितैव रेतसः प्रजनयिता। तद्यत् वारुणे पुरोडाशे सति, अथैता देवताः सह यजति। एतान्येवैतत् सार्द्धं कृत्वाऽऽत्मन् धत्ते। स य एवमेतत् वेद। एता एव देवता अनुसंभवति। एता देवता अनुप्रजायते। आ प्रजया पशुभिः प्यायते। प्रत्यस्मिन् लोके तिष्ठति। अभि स्वर्गं लोकं जयति। य एवं विद्वान् सौत्रामण्या यजते। यो वैतदेवं वेद॥१२.९.१.१७॥
इति चतुर्थप्रपाठके तृतीयं ब्राह्मणम्॥
टिप्पणी
१२.९.१.३ यकृत् सावित्रः। क्लोमा वारुणः
इन्द्रः सुत्रामा हृदयेण सत्यं पुरोडाशेन सविता जजान । यकृत् क्लोमानं वरुणो भिषज्यन् मतस्ने वायव्यैर् न मिनाति पित्तम् ॥ - वा.सं. १९.८५
चेतो हृदयं यकृन् मेधा व्रतं पुरीतत् - शौअ ९.१२.११
विष्णुधर्मोत्तर १.२३९.७(विराट् पुरुष के यकृत-क्लोम में सुवर्ण दानों की स्थिति का उल्लेख ),
१२.९.१.३ प्लाशिः शतातृण्णा--
तु. तैत्तिरीयब्राह्मणम् २.६.४.४। शतपथब्राह्मणे १२.९.१.३ सायणाचार्यः प्लाशेः भाष्यम् प्राधारके उपस्थादिकम् इति करोति। तैत्तिरीयब्राह्मणे नासाछिद्रम्। द्वयौ अपि भाष्यौ महत्त्वपूर्णौ स्तः। देहे वृक्कौ शतातृण्णाौ स्तः।