ऐतरेय ब्राह्मणम्/पञ्चिका ६ (षष्ठम् पञ्चिका)

विकिस्रोतः तः
Jump to navigation Jump to search



देवा ह वै सर्वचरौ सत्रं निषेदुस्ते ह पाप्मानं नापजघ्निरे तान्होवाचार्बुदः काद्रवेयः सर्प ऋषिर्मन्त्रकृदेका वै वो होत्राऽकृता तां वोऽहं करवाण्यथ पाप्मानमपहनिष्यध्व इति ते ह तथेत्यूचुस्तेषां ह स्म स मध्यंदिने मध्यंदिन एवोपोदासर्पद्ग्राव्णोऽभिष्टौति। तस्मान्मध्यंदिने मध्यंदिन एव ग्राव्णोऽभिष्टुवन्ति तदनुकृति। स ह स्म येनोपोदासर्पत्तद्धाप्येतर्ह्यर्बुदोदासर्पणी नाम प्रपदस्ति। तान्ह राजा मदयांचकार ते होचुराशीविषो वै नो राजानमवेक्षते हन्तास्योष्णीषेणाक्ष्यावपिनह्यामेति तथेति तस्य होष्णीषेणाक्ष्यावपिनह्युस्तस्मादुष्णीषमेव पर्यस्य ग्राव्णोऽभिष्टुवन्ति तदनुकृति। तान्ह राजा मदयामेव चकार ते होचुः स्वेन वै नो मन्त्रेण ग्राव्णोऽभिष्टौति हन्तास्यान्याभिर्ऋग्भिर्मन्त्रमापृणचामेति तथेति तस्य हान्याभिर्ऋग्भिर्मन्त्रमापपृचुस्ततो हैनान्न मदयांचकार तद्यदस्यान्याभिर्ऋग्भिर्मन्त्रमापृञ्चन्ति शान्त्या एव। ते ह पाप्मानपजघ्निरे तेषामन्वपहतिं सर्पाः पाप्मानमपजघ्निरे त एतेऽपहतपाप्मानो हित्वा पूर्वां जीर्णां त्वचं नवयैव प्रयन्ति। अप पाप्मानं हते य एवं वेद॥6.1॥ (26.1) (188)


तदाहुः कियतीभिरभिष्टुयादिति शतेनेत्याहुः शतायुर्वै पुरुषः शतवीर्यः शतेन्द्रिय आयुष्येवैनं तद्वीर्य इन्द्रियं दधाति। त्रयस्त्रिंशत्या वेत्याहुस्त्रयस्त्रिंशतो वै स देवानां पाप्मनोऽपाहंस्त्रयस्त्रिंशद्वै तस्य देवा इति। अपरिमिताभिरभिष्टुयादपरिमितो वै प्रजापतिः प्रजापतेर्वा एषा होत्रा यद्ग्रावस्तोत्रीया तस्यां सर्वे कामा अवरुध्यन्ते स यदपरिमिताभिरभिष्टौति सर्वेषां कामानामवरुद्ध्यै। सर्वान्कामानवरुन्धे य एवं वेद। तस्मादपरिमिताभिरेवाभिष्टुयात्। तदाहुः कथमभिष्टुयादित्यक्षरशा३ः , चतुरक्षरशा३ः, पच्छा३ः, अर्धर्चशा३ः, ऋक्शा३ः, इति तद्यदृक्शो न तदवकल्पतेऽथ यत्पच्छो नो एव तदवकल्पतेऽथ यदक्षरशश्चतुरक्षरशो वि तथा छन्दांसि लुप्येरन्बहूनि तथाऽक्षराणि हीयेरन्नर्धर्चश एवाभिष्टुयात्प्रतिष्ठाया एव। द्विप्रतिष्ठो वै पुरुषश्चतुष्पादाः पशवो यजमानमेव तद्द्विप्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयति तस्मादर्धर्चश एवाभिष्टुयात्। तदाहुर्यन्मध्यंदिने मध्यंदिन एव ग्राव्णोऽभिष्टौति कथमस्येतरयोः सवनयोरभिष्टुतं भवतीति यदेव गायत्रीभिरभिष्टौति गायत्रं वै प्रातःसवनं तेन प्रातःसवनेऽथ यज्जगतीभिरभिष्टौति जागतं वै तृतीयसवनं तेन तृतीयसवने। एवमु हास्य मध्यंदिने मध्यंदिन एव ग्राव्णोऽभिष्टुवतः सर्वेषु सवनेष्वभिष्टुतं भवति य एवं वेद। तदाहुर्यदध्वर्युरेवान्यानृत्विजः संप्रेष्यत्थकस्मादेष एतामसंप्रेषितः प्रतिपद्यत इति मनो वै ग्रावस्तोत्रीयाऽसंप्रेषितं वा इदं मनस्तस्मादेष एतामसंप्रेषितः प्रतिपद्यते॥6.2॥ (26.2) (189)


वाग्वै सुब्रह्मण्या तस्यै सोमो राजा वत्सः सोमे राजनि क्रीते सुब्रह्मण्यामाह्वयन्ति यथा धेनुमुपह्वयेत्तेन वत्सेन यजमानाय सर्वान्कामान्दुहे। सर्वान्हास्मै कामान्वाग्दुहे य एवं वेद। तदाहुः किं सुब्रह्मण्यायै सुब्रह्मण्यात्वमिति वागेवेति ब्रूयाद्वाग्वै ब्रह्म च सुब्रह्म चेति। तदाहुरथ कस्मादेनं पुमांसं सन्तं स्त्रीमिवाऽऽचक्षत इति वाग्घि सुब्रह्मण्येति ब्रूयात्तेनेति। तदाहुर्यदन्तर्वेदीतर ऋत्विज आर्त्विज्यं कुर्वन्ति बहिर्वेदि सुब्रह्मण्या कथमस्यान्तर्वेद्यार्त्विज्यं कृतं भवतीति वेदेर्वा उत्करमुत्किरन्ति यदेवोत्करे तिष्ठन्नाह्वयतीति ब्रूयात्तेनेति। तदाहुरथ कस्मादुत्करे तिष्ठन्सुब्रह्मण्यामाह्वयतीत्यृषयो वै सत्रमासत तेषां यो वर्षिष्ठ आसीत्तमब्रुवन्सुब्रह्मण्यामाह्वय त्वं नो नेदिष्ठाद्देवान्ह्वयिष्यसीति वर्षिष्ठमेवैनं तत्कुर्वन्त्यथो वेदिमेव तत्सर्वां प्रीणाति। तदाहुः कस्मादस्मा ऋषभं दक्षिणामभ्याजन्तीति वृषा वा ऋषभो योषा सुब्रह्मण्या तन्मिथुनं तस्य मिथुनस्य प्रजात्या इति। उपांशु पात्नीवतस्याऽऽग्नीध्रो यजति रेतो वै पात्नीवत उपांश्विव वै रेतसः सिक्तिः। नानुवषट्करोति संस्था वा एषा यदनुवषट्कारो नेद्रेतः संस्थापयानीत्यसंस्थितं वै रेतसः समृद्धं तस्मान्नानुवषट्करोति। नेष्टुरुपस्थ आसीनो भक्षयति पत्नीभाजनं वै नेष्टाऽग्निः पत्नीषु रेतो दधाति प्रजात्या अग्निनैवं तत्पत्नीषु रेतो दधाति प्रजात्यै। प्रजायते प्रजया पशुभिर्य एवं वेद। दक्षिणा अनु सुब्रह्मण्या संतिष्ठते वाग्वै सुब्रह्मण्याऽन्नं दक्षिणाऽन्नाद्य एव तद्वाचि यज्ञमन्ततः प्रतिष्ठापयन्ति प्रतिष्ठापयन्ति॥6.3॥ (26.3) (190)


1031 देवा वै यज्ञमतन्वत तांस्तन्वानानसुरा अभ्यायन्यज्ञवेशसमेषां करिष्याम इति तान्दक्षिणत उपायन्यत एषां यज्ञस्य तनिष्ठममन्यन्त ते देवाः प्रतिबुध्य मित्रावरुणौ दक्षिणतः पर्यौहंस्ते मित्रावरुणाभ्यामेव दक्षिणतः प्रातःसव-नेऽसुररक्षांस्यपाघ्नत तथैवैतद्यजमाना मित्रावरुणाभ्यामेव दक्षिणतः प्रातः-सवनेऽसुररक्षंस्यपघ्नते तस्मान्मैत्रावरुणम्मैत्रावरुणः प्रातःसवने शंसति मित्रा-वरुणाभ्यां हि देवा दक्षिणतः प्रातःसवनेऽसुररक्षांस्यपाघ्नत ते वै दक्षिण-तोऽपहता असुरा मध्यतो यज्ञम्प्राविशंस्ते देवाः प्रतिबुध्येन्द्र म्मध्यतोऽदधुस्त इन्द्रे णैव मध्यतः प्रातःसवनेऽसुररक्षांस्यपाघ्नत तथैवैतद्यजमाना इन्द्रे णैव मध्य-तः प्रातःसवनेऽसुररक्षांस्यपघ्नते तस्मादैन्द्र म्ब्राह्मणाच्छंसी प्रातःसवने शं-सतीन्द्रे ण हि देवा मध्यतः प्रातःसवनेऽसुररक्षांस्यपाघ्नत ते वै मध्यतोऽपहता असुरा उत्तरतो यज्ञम्प्राविशंस्ते देवाः प्रतिबुध्येन्द्राग्नी उत्तरतः पर्यौहंस्त इन्द्राग्निभ्यां एवोत्तरतः प्रातःसवनेऽसुरराक्षांस्यपाघ्नत तथैवैतद्यजमाना इन्द्रा-ग्निभ्यामेवोत्तरतः प्रातःसवनेऽसुररक्षांस्यपघ्नते तस्मादैन्द्राग्नमच्छावाकः प्रातः-सवने शंसतीन्द्राग्निभ्यां हि देवा उत्तरतः प्रातःसवनेऽसुररक्षांस्यपाघ्नत ते वा उत्तरतोऽपहता असुराः पुरस्तात्पर्यद्र वन्समनीकतस्ते देवाः प्रतिबुध्याग्नि-म्पुरस्तात्प्रातःसवने पर्यौहंस्तेऽग्निनैव पुरस्तात्प्रातःसवनेऽसुररक्षांस्यपाघ्नत तथैवैतद्यजमाना अग्निनैव पुरस्तात्प्रातःसवनेऽसुररक्षांस्यपघ्नते तस्मादाग्नेय-म्प्रातःसवनमप पाप्मानं हते य एवं वेद ते वै पुरस्तादपहता असुराः पश्चात्परीत्य प्राविशंस्ते देवाः प्रतिबुध्य विश्वान्देवानात्मानं पश्चात्तृतीयसवने पर्यौहंस्ते विश्वैरेव देवैरात्मभिः पश्चात्तृतीयसवनेऽसुररक्षांस्यपाघ्नत तथैवैतद्यजमाना विश्वैरेव देवैरात्मभिः पश्चात्तृतीयसवनेऽसुररक्षांस्यपघ्नते तस्माद्वैश्वदेवं तृतीय-सवनमप पाप्मानं हते य एवं वेद ते वै देवा असुरानेवमपाघ्नत सर्वस्मादेव यज्ञात्ततो वै देवा अभवन्परासुरा भवत्यात्मना परास्य द्विषन्पाप्मा भ्रातृव्यो भवति य एवं वेद ते देवा एवं क्लृप्तेन यज्ञेनापासुरान्पाप्मानमघ्नताजयन्स्वर्गं लोकमप ह वै द्विषन्तम्पाप्मानम्भ्रातृव्यं हते जयति स्वर्गं लोकं य एवं वेद यश्चैवं विद्वान् सवनानि कल्पयति॥6.4॥ (27.1) (191)


स्तोत्रियं स्तोत्रियस्यानुरूपं कुर्वन्ति प्रातःसवनेऽहरेव तदह्नोऽनुरूपं कुर्वन्त्यवरेणैव तदह्ना परमहरभ्यारभन्ते। अथ तथा न मध्यंदिने श्रीर्वै पृष्ठानि तानि तस्मै न तत्स्थानानि यत्स्तोत्रियं स्तोत्रियस्यानुरूपं कुर्युः। तयैव विभक्त्या तृतीसवने न स्तोत्रियं स्तोत्रियस्यानुरूपं कुर्वन्ति॥6.5॥ (27.2) (192) 1041


अथात आरम्भणीया एव ऋजुनीती नो वरुण इति मैत्रावरुणस्य मित्रो नयतु विद्वानिति प्रणेता वा एष होत्रकाणां यन्मैत्रावरुणस्तस्मादेषा प्रणेतृमती भवतीन्द्रं वो विश्वतस्परीति ब्राह्मणाच्छंसिनो हवामहे जनेभ्य इतीन्द्र मेवैतयाहरहार्निह्वयन्ते न हैषां विहवेऽन्य इन्द्रं वृङ्क्ते यत्रैवं विद्वान्ब्राह्मणा-च्छंस्येतामहरहः शंसति यत्सोम आ सुते नर इत्यच्छावाकस्येन्द्राग्नी अजो-हवुरितीन्द्राग्नी एवैतयाहरहर्निह्वयन्ते न हैषां विहवेऽन्य इन्द्राग्नी वृङ्क्ते यत्रैवं विद्वानच्छावाक एतामहरहः शंसति ता वा एताः स्वर्गस्य लोकस्य नावः संपारिण्यः स्वर्गमेवैताभिर्लोकमभि संतरन्ति॥6.6॥ (27.3) (193)


1046 अथातः परिधानीया एव ते स्याम देव वरुणेति मैत्रावरुणस्येषं स्वश्च धीमहीत्ययं वै लोक इषमित्यसौ लोकः स्वरित्युभावेवैतया लोकावारभन्ते व्यन्तरिक्षमतिरदिति ब्राह्मनाच्छंसिनो विवत्तृचं स्वर्गमेवैभ्य एताय लोकं विवृणोति मदे सोमस्य रोचना इन्द्रो यदभिनद्वलमिति सिषासवो वा एते यद्दीक्षितास्तस्मादेषा वलवती भवत्युद्गा आजदङ्गिरोभ्य आविस्ः कृण्वन्गुहा सतीः अर्वाञ्चं नुनुदे वलमिति सनिमेवैभ्य एतयावरुन्द्ध इन्द्रे ण रोचना दिव इति स्वर्गो वै लोक इन्द्रे ण रोचना दिवो दृळ्हानि दृंहितानि च स्थिराणि न पराणुद इति स्वर्ग एवैतया लोकेऽहरहः प्रतितिष्ठन्तो यन्त्याहं सरस्वती-वतोरित्यच्छावाकस्य वाग्वै सरस्वती वाग्वतोरिति हैतदाहेन्द्राग्न्योरवो वृण इत्येतद्ध वा इन्द्राग्न्योः प्रियं धाम यद्वागिति प्रियेणैवैनौ तद्धाम्ना समर्धयति प्रियेण धाम्ना समृध्यते य एवं वेद॥6.7॥ (27.4) (194)


उभय्यः परिधानीया भवन्ति होत्रकाणां प्रातःसवने च माध्यंदिने चाहीनाश्चैकाहिकाश्च। तत ऐकाहिकाभिरेव मैत्रावरुणः परिदधाति तेनास्माल्लोकान्न प्रच्यवते। अहीनाभिरच्छावाकः स्वर्गस्य लोकस्याऽऽप्त्यै। उभयीभिर्ब्राह्मणाच्छंसी तेनो स उभौ व्यन्वारभमाण एतीमं चामुं च लोकमथो मैत्रावरुणं चाच्छावाकं चाथो अहीनं चैकाहं चाथो संवत्सरं चाग्निष्टोमं चैवमु स उभौ व्यन्वारभमाण एति। अथ तत ऐकाहिका एव तृतीयसवने होत्रकाणां परिधानीया भवन्ति प्रतिष्ठा वा एकाहः प्रतिष्ठायामेव तद्यज्ञमन्ततः प्रतिष्ठापयन्ति। अनवानं प्रातःसवने यजेत्। एकां द्वे न स्तोममतिशंसेत्तद्यथाऽभिहेषते पिपासते क्षिप्रं प्रयच्छेत्तादृक्तदथो क्षिप्रं देवेभ्योऽन्नाद्यं सोमपीथं प्रयच्छानीति क्षिप्रं हास्मिँल्लोके प्रतितिष्ठति। अपरिमिताभिरुत्तरयोः सवनयोरपरिमितो वै स्वर्गो लोकः स्वर्गस्य लोकस्याऽऽप्त्यै। कामं तद्धोता शंसेद्यद्धोत्रकाः पूर्वेद्युः शंसेयुर्यद्वा होता तद्धोत्रकाः प्राणो वै होताऽङ्गानि होत्रकाः समानो वा अयं प्राणोऽङ्गान्यनुसंचरति तस्मात्तत्कामं होता शंसेद्यद्धोत्रकाः पूर्वेद्युः शंसेयुर्यद्वा होता तद्धोत्रकाः। सूक्तान्तैर्होता परिदधदेत्यथ समान्य एव तृतीयसवने होत्रकाणां परिधानीया भवन्त्यात्मा वै होताऽङ्गानि होत्रकाः समाना वा इमेऽङ्गानामन्तास्तस्मात्समान्य एव तृतीयसवने होत्रकाणां परिधानीया भवन्ति भवन्ति॥6.8॥ (27.5) (195)


1058 आ त्वा वहन्तु हरय इति प्रातःसवन उन्नीयमानेभ्योऽन्वाह वृषण्वतीः पीतवतीः सुतवतीर्मद्वती रूपसमृद्धा ऐन्द्रीरन्वाहैन्द्रो वै यज्ञो गायत्रीरन्वाह गायत्रं वै प्रातःसवनं नव न्यूनाः प्रातःसवनेऽन्वाह न्यूने वै रेतः सिच्यते दश मध्यंदिनेऽन्वाह न्यूने वै रेतः सिक्तम्मध्यं स्त्रियै प्राप्य स्थविष्ठम्भवति नव न्यूनास्तृतीयसवनेऽन्वाह न्यूनाद्वै प्रजाः प्रजायन्ते तद्यदेतानि केवलसूक्तान्यन्वाह यजमानमेव तद्गर्भम्भूतम्प्रजनयति यज्ञाद्देवयोन्यै ते हैके सप्तसप्तान्वाहुः सप्त प्रातःसवने सप्त माध्यंदिने सप्त तृतीयसवने यावत्यो वै पुरोनुवाक्यास्तावत्यो याज्याः सप्त वै प्राञ्चो यजन्ति सप्त वषट्कुर्वन्ति तासा-मेताः पुरोन्न्वाक्या इति वदन्तस्तत्तथा न कुर्याद्यजमानस्य ह ते रेतो विलुम्पन्त्यथो यजमानमेव यजमानो हि सूक्तं नवभिर्वा एतम्मैत्रावरुणोऽस्माल्लोकादन्तरिक्षलोकमभि प्रवहति दशभिरन्तरिक्षलोकादमुं लोकमभ्यन्तरिक्षलोको हि ज्येष्ठोऽनवभिरमुष्माल्लोकात्स्वर्गं लोकमभि न ह वै ते यजमानां स्वर्गं लोकमभि वोळ्हुमर्हन्ति ये सप्तसप्तान्वाहुस्तस्मात्केवलश एव सूक्तान्यनुब्रूयात्॥6.9॥ (28.1) (196)


1063 अथाह यदैन्द्रो वै यज्ञोऽथ कस्माद्द्वादेव प्रातःसवने प्रस्थितानाम्प्रत्य-क्षादैन्द्रीभ्यां यजतो होता चैव ब्राह्मणाच्छंसि चेदं ते सोम्यम्मध्विति होता यजतीन्द्र त्वा वृषभं वयं इति ब्राह्मणाच्छंसी नानादे अत्याभिरितरे कथं तेषामैन्द्र् यो भवन्तीति मित्रं वयं हवामह इति मैत्रावरुणो यजति वरुणं सोमपीतय इति यद्वै किंच पीतवत्पदं तदैन्द्रं रूपं तेनेन्द्र म्प्रीणाति मरुतो यस्य हि क्षय इति पोता यजति स सुगोपातमो जन इतीन्द्रो वै गोपास्तदैन्द्रं रूपंतेनेन्द्र म्प्रीणात्यग्ने पत्नीरिहा वहेति नेष्टा यजति त्वष्टारं सोमपीतय इतीन्द्रो वै त्वष्टा तदैन्द्रं रूपं तेनेन्द्र म्प्रीणात्युक्षान्नाय वशान्नायेत्याग्नीध्रो याजति सोमपृष्ठाय वेधस इतीन्द्रो वै वेधस्तदैन्द्रं रूपं तेनेन्द्र म्प्रीणति प्रातर्यावभिरा गतं देवेभिर्जेन्यावसू इन्द्राग्नी सोमपीतय इति स्वयंसमृद्धाच्छावाकास्यैवमु हैता ऐन्द्र् यो भवन्ति यन्नानादेवत्यास्तेनान्या देवताः प्रीणाति यदु गाय त्र्?यस्तेनाग्नेय्यः॥ एतदु हैताभिस्त्रयमुपाप्नोति॥6.10॥ (28.2) (197)


1068 असावि देवं गोऋजीकमन्ध इति मध्यंदिन उन्नीयमानेभ्योऽन्वाह वृषण्वतीः पीतवतीः सुतवतीर्मद्वती रूपसमृद्धा ऐन्द्रीरन्वाहैन्द्रो वै यज्ञस्त्रिष्टुभोऽन्वाह त्रैष्टुभम्वै माध्यंदिनं सवनं तदाहुर्यत्तृतीयसवनस्यैव रूपम्मद्वदथ कस्मा-न्मध्यंदिने मद्वतीरनु चाह यजन्ति चाभिरिति माद्यन्तीव वै मध्यंदिने देवताः समेव तृतीयसवने मादयन्ते तस्मान्मध्यंदिने मद्वतीरनु चाह यजन्ति चाभिस्ते वै खलु सर्व एव माध्यंदिने प्रस्थितानाम्प्रत्यक्षादैन्द्रीभिर्यजन्त्यभितृण्णवतीभिरेके पिबा सोममभि यमुग्र तर्द इति होता यजति स ईम्पाहि य ऋजीषी तरुत्र इति मैत्रावरुणो यजत्येवा पाहि प्रत्नथा मन्दतु त्वेति ब्राह्मणाच्छंसी यजत्यर्वाङेहि सोमकामं त्वाहुरिति पोता यजति तवायं सोमस्त्वमेह्यर्वाङिति नेष्टा यजतीन्द्र य सोमाः प्रदिवो विदाना इत्यच्छावाको यजत्यापूर्णो अस्य कलशः स्वाहेत्याग्नीध्रो यजति तासामेता अभितृण्णवत्यो भवन्तीन्द्रो वै प्रातःसवने न व्यजयत स एताभिरेव माध्यंदिनं सवनमभ्यतृणद्यदभ्यतृणत्, तस्मादेता अभितृण्णवत्यो भवन्ति॥6.11॥ (28.3) (198)


1073 ”इहोप यात शवसो नपात इति तृतीयसवन उन्नीयमानेभ्योऽन्वाह वृषण्वतीः पीतवतीः सुतवतीर्मद्वती रूपसमृद्धास्ता ऐन्द्रार्भव्यो भवन्ति तदाहुर्यन्नार्भवीषु स्तुवतेऽथ कस्मादार्भवः पवमान इत्याचक्षत इति प्रजापतिर्वै पित ऋभू-न्मर्त्यान्सतोऽमर्त्यान्कृत्वा तृतीयसवन आभजत्तस्मान्नार्भवीषु स्तुवतेऽथार्भवः पवमान इत्याचक्षतेऽथाह यद्यथाछन्दसम्पूर्वयोः सवनयोरन्वाह गायत्रीः प्रातःसवने त्रिष्टुभो माध्यंदिनेऽथ कस्माज्जागते सति तृतीयसवने त्रिष्टुभो-ऽन्वाहेति धीतरसं वै तृतीयसवनमथैतदधीतरसं शुक्रियं छन्दो यत्त्रिष्टुप्स-वनस्य सरसताया इति ब्रूयादथो इन्द्रं एवैतत्सवनेऽन्वाभजतीत्यथाह यदैन्द्रार्भवं वै तृतीयसवनमथ कस्मादेष एव तृतीयसवने प्रस्थिताना-म्प्रत्यक्षादैन्द्रार्भव्या यजतीन्द्र ऋभुभिर्वाजवद्भिः समुक्षितमिति होतैव नाना-देवत्याभिरितरे कथं तेषामैन्द्रार्भव्यो भवन्तीतीन्द्रावरुणा सुतपाविमं सुतमिति मैत्रावरुणो यजति युवो रथो अध्वरं देववीतय इति बहूनि वह तदृभूणाम्रूपमिन्द्र श्च सोमम्पिबतम्बृहस्पत इति ब्राह्मणाच्छंसी यजत्या वां विशन्त्विन्दवः स्वाभुव इति बहूनि वाह तदृभूणां रूपमा वो वहन्तु सप्तयो रघुष्यद इति पोता यजति रघुपत्वानः प्र जिगात बाहुभिरिति बहूनि वह तदृभूणां रूपममेव नः सुहवा आ हि गन्तनेति नेष्टा यजति गन्तनेति बहूनि वाह तदृभूणां रूपमिन्द्राविष्णू पिबतम्मध्वो अस्येत्यच्छावाको यजत्या वामन्धांसि मदि-राण्यग्मन्निति बहूनि वाह तदृभूणां रूपमिमं स्तोममर्हते जातवेदस इत्याग्नीध्रो यजति रथमिव सम्महेमा मनीषयेति बहूनि वाह तदृभूणां रूपमेवमु हैता ऐन्द्रार्भव्यो भवन्ति यन्नानादेवत्यास्तेनान्या देवताः प्रीणाति यदु जगत्प्रासाहा जागतं वै तृतीयसवनं तृतीयसवनस्यैव समृद्ध्यै॥6.12॥ (28.4) (199)


अथाऽऽह यदुक्थिन्योऽन्या होत्रा अनुक्था अन्याः कथमस्यैता उक्थिन्यः सर्वाः समाः समृद्धा भवन्तीति. यदेवैनाः संप्रगीर्य होत्रा इत्याचक्षते तेन समाः। यदुक्थिन्योऽन्या होत्रा अनुक्था अन्यास्तेनो विषमाः। एवमु हास्यैता उक्थिन्यः सर्वाः समाः समृद्धा भवन्ति। अथाऽऽह शंसन्ति प्रातःसवने शंसन्ति माध्यंदिने होत्रकाः कथमेषां तृतीयसवने शस्तं भवतीति। यदेव माध्यंदिने द्वे द्वे सूक्ते शंसन्तीति ब्रूयात्तेनेति। अथाऽऽह यद्द्व्युक्थो होता कथं होत्रका द्व्युक्था भवन्तीति। यदेव द्विदेवत्याभिर्यजन्तीति ब्रूयात्तेनेति॥6.13॥ (28.5) (100)


1083 अथाऽऽह यदेतास्तिस्र उक्थिन्यो होत्राः कथमितरा उक्थिन्यो भवन्तीत्याज्य-मेवाग्नीध्रीयाया उक्थम्मरुत्वतीयम्पोत्रीयायै वैश्वदेवं नेष्ट्रीयायै ता वा एता होत्रा एवंन्यङ्गा एव भवन्त्यथाह यदेकप्रैषा अन्ये होत्रका अथ कस्माद्द्विप्रैषः पोता द्विप्रैषो नेष्टेति यत्रादो गायत्री सुपर्णो भूत्वा सोममाहरत्तदेतासां होत्राणामिन्द्र उक्थानि परिलुप्य होत्रे प्रददौ यूयम्माभ्यह्वयध्वं यूयमस्यावेदिष्टेति ते होचुर्देवा वाचेमे होत्रे प्रभावयामेति तस्मात्ते द्विप्रैषे भवत ऋचाग्नीध्रीयाम्प्रभावयां चक्रुस्तस्मात्तस्यैकयर्चा भूयस्यो याज्या भवन्त्यथाह यद्धोता यक्षद्धोता यक्षदिति मैत्रावरुनो होत्रे प्रेष्यत्यथ कस्मादहोतृभ्यः सद्भ्यो होत्रशंसिभ्यो होता यक्षद्धोता यक्षदिति प्रेष्यतीति प्राणो वै होता प्राणः सर्व ऋत्विजः प्राणो यक्षत्प्रानो यक्षदित्येव तदाहाथाहास्त्युद्गातॄणाम्प्रैषाः नाँ इति अस्तीटि ब्रूयाद्य-देवैतत्प्रशास्ता जपं जपित्वा स्तुध्वमित्याह स एषाम्प्रैषोऽथाहास्त्यच्छावाकस्य प्रवराः नाँ इति अस्तीति ब्रूयाद्यदेवैनमध्वर्युराहाच्छावाक वदस्व यत्ते वाद्यमित्येषोऽस्य प्रवरोऽथाह यदैन्द्रावरुणम्मैत्रावरुणस्तृतीयसवने शंसत्यथ कस्मादस्याग्नेयौ स्तोत्रियानुरूपन्भवत इत्यग्निना वै मुखेन देवा असुरानुक्थेभ्यो निर्जघ्नुस्तस्मादस्याग्नेयौ स्तोत्रियानुरूपन्भवतोऽथाह यदैन्द्राबार्हस्पत्यम्ब्राह्म-णाच्छांसी तृतीयसवने शंसत्यैन्द्रावैष्णवमच्छावाकः कथमेनयोरैन्द्राः स्तोत्रि-यानुरूपा भवन्तीतीन्द्रो ह स्म वा असुरानुक्थेभ्यः प्रजिगाय सोऽब्रवीत्कश्चाहं चेत्यहं चाहं चेति ह स्म देवता अन्ववयन्ति स यदिन्द्रः पूर्वः प्रजिगाय तस्मादेनयोरैन्द्राः स्तोत्रियानुरूपा भवन्ति यद्वहं चाहं चेति ह स्म देवता अन्ववयुस्तस्मान्नानादेवत्यानि शंसतः॥6.14॥ (28.6) (101)


1088 अथाह यद्वैश्वदेवं वै तृतीयसवनमथ कस्मादेतान्यैन्द्राणि जागतानि सूक्तनि तृतीयसवन आरम्भणीयानि शस्यन्त इतीन्द्र मेवैतैरारभ्य यन्तीति ब्रूयादथो यज्जागतं वै तृतीयसवनं तज्जगत्काम्यैव तद्यत्किंचात ऊर्ध्वं छन्दः शस्यते तद्ध सर्वं जागतम्भवत्येतानि चेदैन्द्राणि जागतानि सूक्तानि तृतीयसवन आरम्भ-णीयानि शस्यन्तेऽथ त्रैष्टुभमच्छावाकोऽन्ततः शंसति सं वां कर्मणेति यदेव पनाय्यं कर्म तदेतदभिवदति समिषेत्यन्नं वा इषोऽन्नाद्यस्यावरुद्ध्या अरिष्टैर्नः पथिभिः पारयन्तेति स्वस्तिताया एवैतदहरहः शंसत्यथाह यज्जागतं वै तृतीयसवनमथ कस्मादेषां त्रिष्टुभः परिधानीया भवन्तीति वीर्यं वै त्रिष्टुब्वीर्य एव तदन्ततः प्रतितिष्ठन्तो यन्तीयमिन्द्रं वरुणमष्ट मे गीरिति मैत्रवरुणस्य बृहस्पतिर्नः परि पातु पश्चादिति ब्राह्मणाच्छांसिन उभा जिग्यथुरित्यछा-वाकस्यो भौ हि तौ जिग्यतुर्न परा जयेथे न परा जिग्य इति न हि तयोः कतरश्चन पराजिग्य इन्द्र श्च विष्णो यदपस्पृधेथां त्रेधा सहस्रं वि तदैरयेथामितीन्द्र श्च ह वै विष्णुश्चासुरैर्युयुधाते तान्ह स्म जित्वोचतुः कल्पामहा इति ते ह तथेत्यसुरा उचुः सोऽब्रवीदिन्द्रो यावदेवायं विष्णुस्त्रिर्विक्रमते तावदस्माकमथ युष्माक-मितरदिति स इमाँ ल्लोकान्विचक्रमेऽथो वेदानथो वाचं तदाहुः किं तत्सहस्र-मितीमे लोका इमे वेदा अथो वागिति ब्रूयादैरयेथाम्-ऐरयेथामित्यच्छावाक उक्थ्येऽभ्यस्यति स हि तत्रान्त्यो भवत्यग्निष्टोमे होतातिरात्रे च स हि तत्रान्त्यो भवत्यभ्यस्येत्षोळशिनीम् नाभ्यस्येदिति अभ्यस्येदित्याहुः कथमन्येष्वहःस्वभ्यस्यति, कथमत्र नाभ्यस्येदिति, तस्मादभ्यस्येत्॥6.15॥ (28.7) (102)


1093 अथाह यन्नाराशंसं वै तृटीयसवनमथ कस्मादच्छावाकोऽन्ततः शिल्पेष्वना-राशंसीः शंसतीति विकृतिर्वै नाराशंसं किमिव च वै किमिव च रेतो विक्रियते तत्तद विकृतम्प्रजातम्भवत्यथैतन्मृद्विव छन्दः शिथिरन्यन्नाराशंसमथैषोऽन्त्यो यदच्छावाकस्तद्दृळ्हतायै दृळ्हे प्रतिष्ठास्याम इति तस्मादच्छावाकोऽन्ततः शिल्पेष्वनाराशंसिः शंसति दृळ्हतायै दृळ्हे प्रतिष्ठास्याम दृळ्हे प्रतिष्ठास्याम॥6.16॥ (28.8) (103)


1100 यः श्वःस्तोत्रियस्तमनुरूपं कुर्वन्ति प्रातःसवनेऽहीनसंतत्यै यथा वा एकाहः सुत एवमहीनस्तद्यथैकाहस्य सुतस्य सवनानि संतिष्ठमानानि यन्त्येवमेवा-हीनस्याहानि संतिष्ठमानानि यन्ति तद्यच्छ्वःस्तोत्रियमनुरूपं कुर्वन्ति प्रातः-सवनेऽहीनसंतत्या अहीनमेव तत्संतन्वन्ति ते वै देवाश्च ऋषयश्चाद्रि यन्त समानेन यज्ञं संतनवामेति त एतत्समानं यज्ञस्यापश्यौ समानान्प्रगा-थान्समानीः प्रतिपदः समानानि सूक्तान्योकःसारी वा इन्द्रो यत्र वा इन्द्रः पूर्वं गच्छत्यैव तत्रापरं गच्छति, यज्ञस्यैव सेन्द्रतायै॥6.17॥ (29.1) (104)


1105 तान्वा एतान्सम्पातान्विश्वामित्रः प्रथममपश्यत्तान्विश्वामित्रेण दृष्टान्वामदेवो-ऽसृजतै वा त्वामिन्द्र वज्रिन्नत्र यन्न इन्द्रो जुजुषे यच्च वष्टि कथा महामवृधत्कस्य होतुरिति तान्क्षिप्रं समपतद्यत्क्षिप्रं समपतत्तत्सम्पातानां सम्पातत्वं स हेक्षां चक्रे विश्वामित्रो यान्वा अहं सम्पातानपश्यं तान्वामदेवोऽसृष्ट कानि न्वहं सूक्तानि सम्पातांस्तत्प्रतिमान्सृजेयेति स एतानि सूक्तानि सम्पातांस्तत्प्र-तिमानसृजत सद्यो ह जातो वृषभः कनीन इन्द्रः पूर्भिदातिरद्दासमर्कैरिमामू षु प्रभृतिं सातये धा इच्छन्ति त्वा सोम्यासः सखायः शासद्वह्निर्दुहितुर्नप्त्यं गादभि तष्टेव दीधया मनीषामिति य एक इद्धव्यश्चर्षणीनामिति भरद्वाजो यस्तिग्मशृङ्गो वृषभो न भीम उदु ब्रह्माण्यैरत श्रवस्येति वसिष्ठोऽस्मा इदु प्र तवसे तुरायेति नोधास्त एते प्रातःसवने षळहस्तोत्रियाञ्छस्त्वा माध्यंदिनेऽहीनसूक्तानि शंसन्ति तान्येतान्यहीनसूक्तान्या सत्यो यातु मघवाँ ऋइजीषीति सत्य-वन्मैत्रावरुनो ऽस्मा इदु प्र तवसे तुरायेन्द्राय ब्रह्माणि राततमा इन्द्र ब्रह्माणि गोतमासो अक्रन्निति ब्रह्मण्वद्ब्राह्मणाच्छंसी शासद्वह्निर्जनयन्त वह्निमिति वह्निवदच्छावाकस्तदाहुः कस्मादच्छावाको वह्निवदेतत्सूक्तमुभयत्र शंसति पराञ्चिषु चैवाहस्स्वभ्यावर्तिषु चेति वीर्यवान्वा एष बह्वृचो वह्निवदेतत्सूक्तं वहति ह वै वह्निर्धुरो यासु युज्यते तस्मादच्छावाको वह्निवदेतत्सूक्तमुभयत्र शंसति पराञ्चिषु चैवाहस्स्वभ्यावर्तिषु च तानि पञ्चस्वहस्सु भवन्ति चतु-र्विंशेऽभिजिति विषुवति विश्वजिति महाव्रतेऽहीनानि ह वा एतान्यहानि न ह्येषु किं चन हीयते पराञ्चीनि ह वा एतान्यहान्यनभ्यावर्तीनि तस्मादेना-न्येतेष्वहस्सु शंसन्ति यदेनानि शंसन्त्यहीनान्स्वर्गाँ ल्लोकान्सर्वरूपान्सर्वस-मृद्धानवाप्नवामेति यदेवैनानि शंसन्तीन्द्र मेवैतैर्निह्वयन्ते यथ ऋषभं वाशितायै यद्वेवैनानि शंसन्त्यहीनस्य संतत्या, अहीनमेव तत् संतन्वन्ति॥6.18॥ (29.2) (105)


1110 ततो वा एतांस्त्रीन्सम्पातान्मैत्रावरुणो विपर्यासमेकैकमहरहः शंसत्येवा त्वा-मिन्द्र वज्रिन्नत्रेति प्रथमेऽहनि यन्न इन्द्रो जुजुषे यच्च वष्टीति द्वितीये कथा महामवृधत्कस्य होतुरिति तृतीये त्रीनेव सम्पातान्ब्राह्मणाच्छंसी विप-र्यासमेकैकमहरहः शंसतीन्द्रः पूर्भिदातिरद्दासमर्कैरिति प्रथमेऽहनि य एक इद्धव्यश्चर्षणीनामिति द्वितीये यस्तिग्मशृङ्गो वृषभो न भीम इति तृतीये त्रीनेव सम्पातानच्छावाको विपर्यासमेकैकमहरहः शंसतीमामू षु प्रभृतिं सातये धा इति प्रथमेऽहनीच्छन्ति त्वा सोम्यासः सखाय इति द्वितीये शासद्वह्निर्दुहितुर्नप्त्यं गादिति तृतीये तानि वा एतानि नव त्रीणि चाहरहःशस्यानि तानि द्वादश सम्पद्यन्ते द्वादश वै मासाः संवत्सरः संवत्सरः प्रजापतिः प्रजापति-र्यज्ञस्तत्संवत्सरम्प्रजापतिं यज्ञमाप्नुवन्ति तत्संवत्सरे प्रजापतौ यज्ञेऽहरहः प्रतितिष्ठन्तो यन्ति तान्यन्तरेणावापमावपेरन्नन्यूङ्ख्या विराजो वैमदीश्चतुर्थेऽहनि पङ्क्तीः पञ्चमे पारुच्छेपीः षष्ठेऽथ यान्यहानि महास्तोमानि स्युः को अद्य नर्यो देवकाम इति मैत्रावरुण आवपेत वने न वा यो न्यधायि चाकन्निति ब्राह्म-णाच्छंस्या याह्यर्वाङुप वन्धुरेष्ठा इत्यच्छावाक एतानि वा आवपनान्येतैर्वा आवपनैर्देवाः स्वर्गम्लोकमजयन्नेतैरृषयस्तथैवैतद्यजमाना एतैरावपनैः स्वर्गं लोकं जयन्ति॥6.19॥ (29.3) (106)


1115 सद्यो ह जातो वृषभः कनीन इति मैत्रावरुणः पुरस्तात्सूक्तानामहरहः शंसति तदेतत्सूक्तां स्वर्ग्यमेतेन वै सूक्तेन देवाः स्वर्गं लोकमजयन्नेतेन ऋषयस्तथैवैतद्यजमाना एतेन सूक्तेन स्वर्गं लोकं जयन्ति तदु वैश्वामित्रं विश्वस्य ह वै मित्रं विश्वामित्र आस विश्वं हास्मै मित्रम्भवति य एवं वेद येषां चैवं विद्वानेतन्मैत्रावरुणः पुरस्तात्सूक्तानामहरहः शंसति तदृषभवत्पशुमद्भवति पशूनामवरुद्ध्यै तत्पञ्चर्चम्भवति पञ्चपदा पङ्क्तिः पङ्क्तिर्वा अन्नमन्नाद्यस्यावरुद्ध्या उदु ब्रह्माण्यैरत श्रवस्येति ब्राह्मणाच्छंसी ब्रह्मण्वत्समृद्धं सूक्तमहरहः शंसति तदेतत्सूक्तं स्वर्ग्यमेतेन वै सूक्तेन देवाः स्वर्गं लोकमजयन्नेतेन ऋषयस्तथैवैतद्यजमाना एतेन सूक्तेन स्वर्गं लोकं जयन्ति तदु वासिष्ठमेतेन वै वसिष्ठ इन्द्रस्य प्रियं धामोपागछत्स परमं लोकमजयदुपेन्द्रस्य प्रियं लोकं गच्छति जयति परमं लोकं य एवं वेद तद्वै षळृचं षड्वा ऋतव ऋतूनामाप्त्यै तदुपरिष्टात्सम्पातानां शंसत्याप्त्वैव तत्स्वर्गं लोकं यजमाना अस्मिँल्लोके प्रतितिष्ठन्त्यभि तष्टेव दीधया मनीषामित्यच्छावाकोऽहरहः शंसत्यभिवत्तत्यै रूपमभि प्रियाणि मर्मृशत्पराणीति यान्येव पराण्यहानि तानि प्रियाणि तान्येव तदभिमर्मृशतो यन्त्यभ्यारभमाणाः परो वा अस्माल्लोकात्स्वर्गो लोकस्तमेव तदभिवदति कवीँरिच्छामि संदृशे सुमेधा इति ये वै ते न ऋषयः पूर्वे प्रेतास्ते वै कवयस्तानेव तदभ्यतिवदति तदु वैश्वमित्रं विश्वस्य ह वै मित्रं विश्वामित्र आस विश्वं हास्मै मित्रम्भवति य एवं वेद तदनिरुक्तम्प्राजापात्यं शंसत्यनिरुक्तो वै प्रजापतिः प्रजापतेराप्त्यै सकृदिन्द्रं निराह तेनैन्द्राद्रू पान्न प्रच्यवते तद्वै दशर्चं दशाक्षरा विराळ् अन्नं विराळ् अन्नाद्यस्यावरुद्ध्यै यदेव दशर्चां दश वै प्राणाः प्राणानेव तदाप्नुवन्ति प्राणानात्मन्दधते तदुपरिष्टात्सम्पातानां शंसत्याप्त्वैव तत्स्वर्गं लोकं यजमाना अस्मिँल्लोके प्रतितिष्ठन्ति॥6.20॥ (29.4) (107)


कस्तमिन्द्र त्वावसुं कन्नव्यो अतसीनां कदू न्वस्याकृतमिति कद्वन्तः प्रगाथा आरम्भणीया अहरहः शस्यन्ते। को वै प्रजापतिः प्रजापतेराप्त्यै। यदेव कद्वन्ता३ः । अन्नं वै कमन्नाद्यस्यावरुद्ध्यै। यद्वेव कद्वन्ता३ः । अहरहर्वा एते शान्तान्यहीनसूक्तान्युपयुञ्जाना यन्ति तानि कद्वद्भिः प्रगाथैः शमयन्ति तान्येभ्यः शान्तानि कं भवन्ति तान्येनाञ्छान्तानि स्वर्गं लोकमभिहन्ति। त्रिष्टुभः सूक्तप्रतिपदः शंसेयुः। ता हैके पुरस्तात्प्रगाथानां शंसन्ति। धाय्या इति वदन्तः। तत्तथा न कुर्यात्। क्षत्त्रं वै होता विशो होत्राशंसिनः क्षत्त्रायैव तद्विशं प्रत्युद्यामिनीं कुर्युः पापवस्यसम्। त्रिष्टुभो म इमाः सूक्तप्रतिपद इत्येव विद्यात्। तद्यथा समुद्रं प्रप्लवेरन्नेवं हैव ते प्रप्लवन्ते ये संवत्सरं वा द्वादशाहं वाऽऽसते तद्यथा सैरावतीं नावं पारकामाः समारोहेयुरेवमेवैतास्त्रिष्टुभः समारोहन्ति। न ह वा एतच्छन्दोगमयित्वा स्वर्गं लोकमुपावर्तते वीर्यवत्तमं हि। ताभ्यो न व्याह्वयीत समानं हि च्छन्दोऽथो नेद्धाय्याः करवाणीति। यदेनाः शंसन्ति प्रज्ञाताभिः सूक्तं प्रतिपद्भिः सूक्तानि समारोहामेति । यदेवैनाः शंसन्तीन्द्रमेवैताभिर्निह्वयन्ते यथ ऋषभं वाशितायै यद्वेवैनाः शंसन्त्यहीनस्य संतत्या अहीनमेव तत्संतन्वन्ति॥6.21॥ (29.5) (108) 1125


अप प्राच इन्द्र विश्वाँ अमित्रानिति मैत्रावरुणः पुरस्तात्सूक्तानामहरहः शंसत्यपापाचो अभिभूते नुदस्व अपोदीचो अप शूराधराच उरौ यथा तव शर्मन्मदेमेत्यभयस्य रूपमभयमिव हि यन्निछति ब्रह्मणा ते ब्रह्मयुजा युनज्मीति ब्राह्मणाच्छंस्यहरहः शंसति युनज्मीति युक्तवती युक्त इव ह्यहीनोऽहीनस्य रूपमुरुं नो लोकमनु नेषि विद्वानित्यच्छावाकोऽहरहः शंसत्यनु नेषित्येतीव ह्यहीनोऽहीनस्य रूपं नेषीति सत्रायणरूपं ता वा एता अहरहः शस्यन्ते समानीभिः परिदध्युरोकःसारी हैषामिन्द्रो यज्ञम्भवतीं यथ ऋषभो वाशितां यथा वा गौः प्रज्ञातं गोष्ठमेवं हैषामिन्द्रो यज्ञमैव गछति न शुनंहुवीययाहीनस्य परिदध्यात्क्षत्त्रियो ह राष्ट्राच्च्यवते यो हैव परो भवति तमभिह्वयति॥6.22॥ (29.6) (109)


अथातोऽहीनस्य युक्तिश्च विमुक्तिश्च। व्यन्तरिक्षमतिरदित्यहीनं युङ्क्त एवेदिन्द्रमिति विमुञ्चति। आऽहं सरस्वतीवतोर्नूनं सा त इत्यहीनं युङ्क्ते। ते स्याम देव वरुण नू ष्टुत इति विमु्ञ्चति। एष ह वा अहीनं तन्तुमर्हति य एनं योक्तुं च विमोक्तुं च वेद। तद्यच्चतुर्विंशेऽहन्युज्यन्ते सा युक्तिरथ यत्पुरस्तादुदयनीयस्यातिरात्रस्य विमुच्यन्ते सा विमुक्तिः। तद्यच्चतुर्विंशेऽहन्नैकाहिकाभिः परिदध्युरत्राहैव यज्ञं संस्थापयेयुर्नाहीनकर्म कुर्युरथ यदहीनपरिधानीयाभिः परिदध्युर्यथा श्रान्तोऽविमु्च्यमान उत्कृत्येतैवं यजमाना उत्कृत्येरन्नुभयीभिः परिदध्युः। तद्यथा दीर्घाध्व उपविमोकं यायात्तादृक्तत्। संततो हैषां यज्ञो भवतीँ३ व्यू मुञ्चन्ते। एकां द्वे न द्वयोः सवनयोः स्तोमममतिशंसेत्। दीर्घारण्यानि ह वै भवन्ति यत्र बह्वीभिः स्तोमोऽतिशस्यते। अपरिमिताभिस्तृतीयसवनेऽपरिमितो वै स्वर्गो लोकः स्वर्गस्य लोकस्याऽऽप्त्यै। संततो हास्याभ्यारब्धोऽविस्रस्तोऽहीनो भवति य एवं विद्वानहीनं तनुते॥6.23॥ (29.7) (110)


1135 देवा वै वले गाः पर्यपश्यंस्ता यज्ञेनैवेप्संस्ताः षष्ठेनाह्नाप्नुवंस्ते प्रातःसवने नभाकेन वलमनभयंस्तं यदनभयाँ अश्रथयन्नेवैनं तत्त उ तृतीयसवने वज्रेण वालखिल्याभिर्वाचः कूटेनैकपदया वलं विरुज्य गा उदाजंस्तथैवैतद्यजमानाः प्रातःसवने नभाकेन वलं नभयन्ति तं यन्नभयन्तीँ श्रथयन्त्येवैनं तत्तस्माद्धोत्रकाः प्रातःसवने नाभाकांस्तृचाञ्छंसन्ति यः ककुभो निधारय इति मैत्रावरुणः पूर्वीष्ट इन्द्रोपमातय इति ब्राह्मणाच्छंसी ता हि मध्यम्भराणामित्यच्छावाकस्त उ तृटीयसवने वज्रेण वालखिल्याभिर्वाचः कूटेनैकपदया वलं विरुज्य गा आप्नुवन्ति पच्छः प्रथमं षड्वालखिल्यानां सूक्तानि विहरत्यर्धर्चशो द्वितीय-मृक्शस्तृतीयं स पच्छो विहरन्प्रगाथे-प्रगाथ एवैकपदां दध्यात्स वाचः कूटस्ता एताः पञ्चैकपदाश्चतस्रो दशमादह्न एका महाव्रतादथाष्टाक्षराणि माहानामनानि पदानि तेषां यावद्भिः सम्पद्येत तावन्ति शन्सेन्नेतराण्याद्रि येताथार्धर्चशो विह-रंस्ताश्चैवैकपदाः शंसेत्तानि चैवाष्टाक्षराणि माहानामनानि पदान्यथ ऋक्शो विहरंस्ताश्चैवैकपदाः शंसेत्तानि चैवाष्टाक्षराणि माहानामनानि पदानि स यत्प्रथमं षड्वालखिल्यानां सूक्तानि विहरति प्राणं च तद्वाचं च विहरति यद्द्वितीयं चक्षुश्च तन्मनश्च विहरति यत्तृतीयं श्रोत्रं च तदात्मानं च विहरति तदुपाप्तो विहारे काम उपाप्तो वज्रे वालखिल्यासूपाप्तो वाचः कूट एकपदायामुपाप्तः प्राणक्लृप्त्यामविहृतानेव चतुर्थम्प्रगाथाञ्छंसति पशवो वै प्रगाथाः पशूनामवरुद्ध्यै नात्रैकपदां व्यवदध्याद्यदत्रैकपदां व्यवदध्याद्वाचः कूटेन यजमानात्पशून्निर्हण्याद्य एनं तत्र ब्रूयाद्वाचः कूटेन यजमानात्प-शून्निरवधीरपशुमेनमकरिति शश्वत्तथा स्यात्तस्मात्तत्रैकपदां न व्यवदध्या-द्व्येवोत्तमे सूक्ते पर्यस्यति स एव तयोर्विहारस्तदेतत्सौबलाय सर्पिर्वात्सिः शशंस स होवाच भूयिष्ठानहं यजमाने पशून्पर्यग्रहैषमकनिष्ठा उ मामा-गमिष्यन्तीति तस्मै ह यथा महद्भ्य ऋत्विग्भ्य एवं निनाय तदेतत्पशव्यं च स्वर्ग्यं च शस्त्रं तस्मादेतच्छंसति॥6.24॥ (29.8) (111)


1140
दूरोहणं रोहति तस्योक्तम्ब्राह्मणमैन्द्रे पशुकामस्य रोहेदैन्द्रा वै पशवस्तज्जागतं स्याज्जागता वै पशवस्तन्महासूक्तं स्याद्भूयिष्ठेष्वेव तत्पशुषु यजमानम्प्रति-ष्ठापयति बरौ रोहेत्तन्महासूक्तं च जागतं चैन्द्रावरुणे प्रतिष्ठाकामस्य रोहे-देतद्देवता वा एषा होत्रैतत्प्रतिष्ठा यदैन्द्रावरुणा तदेनत्स्वायामेव प्रतिष्ठाया-मन्ततः प्रतिष्ठापयति यदेवैन्द्रावरुणा३ ?िषा ह वा अत्र निविन्निविदा वै कामा आप्यन्ते स यद्यैन्द्रावरुणे रोहेत्सौपर्णे रोहेत्तदुपाप्त ऐन्द्रावरुणे काम उपाप्तः सौपर्णे॥6.25॥ (29.9) (112)


1145 तदाहुः संशंसेत्षष्ठेऽहान् न सम्शंसेदिति संशंसेदित्याहुः कथमन्येष्वहस्सु संशंसति कथमत्र न संशंसेदित्यथो खल्वाहुर्नैव संशंसेत्स्वर्गो वै लोकः षष्ठमहरसमायी वै स्वर्गो लोकः कश्चिद्वै स्वर्गे लोके समेतीति स यत्संशंसेत्समानं तत्कुर्यादथ यन्न संशंसतीँ तत्स्वर्गस्य लोकस्य रूपं तस्मान्न संशंसेद्यदेव न संशंसतीँ३ आत्मा वै स्तोत्रियः प्राणा वालखिल्याः स यत्संशंसेदेताभ्यां देवताभ्यां यजमानस्य प्राणान्वीयाद्य एनं तत्र ब्रूयादेताभ्यां देवताभ्यां यजमानस्य प्राणान्व्यागात्प्राण एनं हास्यातिति शश्वत्तथा स्यात्तस्मान्न संशंसेत्स यदीक्षेताशंसिषं वालखिल्या हन्त पुरस्ताद्दूरोहणस्य संशंसानीति नो एव तस्याऽऽशामियात्तं यदि दर्प एव विन्देदुपरिष्टाद्दूरोहणस्यापि बहूनि शतानि शंसेद्यस्यो तत्कामाय तथा कुर्यादत्रैव तदुपाप्तमैन्द्र्यो वालखिल्यास्तासां द्वादशाक्षराणि पदानि तत्र स काम उपाप्तो य ऐन्द्रे जागतेऽथेदमैन्द्रावरुणं सूक्तमैन्द्रावरुणी परिधानीया तस्मान्न संशंसेत्तदाहुर्यथा वाव स्तोत्रमेवं शस्त्रं विहृता वालखिल्याः शस्यन्ते विहृतां स्तोत्राम् अविहृतामिति विहृतमिति ब्रूयादष्टाक्षरेण द्वादशाक्षरमिति तदाहुर्यथा वाव शस्त्रमेवं याज्या तिस्रो देवताः शस्यन्तेऽग्निरिन्द्रो वरुण इत्यथैन्द्रावरुण्या यजति कथमग्निरनन्तरित इति यो वा अग्निः स वरुणस्तदप्येतदृषिणोक्तं त्वमग्ने वरुणो जायसे यदिति तद्यदेवैन्द्रावरुण्या यजति तेनाग्निरनन्तरितोऽनन्तरितः॥6.26॥ (29.10) (113)


देवशिल्पान्येतेषां वै शिल्पानामनुकृतीह शिल्पमधिगम्यते हस्ती कंसो वासो हिरण्यमश्वतरीरथः शिल्पम्। शिल्पं हास्मिन्नधिगम्यते य एवं वेद। यदेव शिल्पानीँ३ । आत्मसंस्कृतिर्वाव शिल्पानि च्छन्दोमयं वा एतैर्यजमान आत्मानं संस्कुरुते। नाभानेदिष्ठं शंसति। रेतो वै नाभानेदिष्ठो रेतस्तत्सिञ्चति। तमनिरुक्तं शंसत्यनिरुक्तं वै रेतो गुहायोन्यां सिच्यते। स रेतोमिश्रो भवति क्ष्मया रेतः संजग्मानो निषिञ्चदिति रेतःसमृद्ध्या एव। तं सनाराशंसं शंसति प्रजा वै नरो वाक्शंसः प्रजास्वेव तद्वाचं दधाति तस्मादिमाः प्रजा वदत्यो जायन्ते। तं हैके पुरस्ताच्छंसन्ति पुरस्तादायतना वागिति वदन्तः। उपरिष्टादेक उपरिष्टादायतना वागिति वदन्तः। मध्य एव शंसेन्मध्यायतना वा इयं वाक्। उपरिष्टान्नेदीयसीवोपरिष्टान्नेदीयसीव वा इयं वाक्। तं होता रेतोभूतं सिक्त्वा मैत्रावरुणाय संप्रयच्छत्येतस्य त्वं प्राणान्कल्पयेति॥6.27॥ (30.1) (114)


वालखिल्याः शंसति प्राणा वै वालखिल्याः प्राणानेवास्य तत्कल्पयति। ता विहृताः शंसति विहृता वा इमे प्राणाः प्राणेनापानोऽपानेन व्यानः। स पच्छः प्रथमे सूक्ते विहरत्यर्धर्चशो द्वितीये ऋक्शस्तृतीये। स यत्प्रथमे सूक्ते विहरति प्राणं च तद्वाचं च विहरति यद्द्वितीये चक्षुश्च तन्मनश्च विहरति यत्तृतीये श्रोत्रं च तदात्मानं च विहरति। ते हैके सह बृहत्यौ सह सतोबृहत्यौ विहरन्ति तदुपाप्तो विहारे कामो नेत्तु प्रगाथाः कल्पन्ते। अतिमर्शमेव विहरेत्तथा वै प्रगाथाः कल्पन्ते प्रगाथा वै वालखिल्यास्तस्मादतिमर्शमेव विहरेद्यदेवातिमर्शा३म्। आत्मा वै बृहती प्राणाः सतोबृहती स बृहतीमशंसीत्स आत्माऽथ सतोबृहतीं ते प्राणा अथ बृहतीमथ सतोबृहतीं तदात्मानं प्राणैः परिबृहन्नेति तस्मादतिमर्शमेव विहरेत्। यद्वेवातिमर्शा३म्। आत्मा वै बृहती पशवः सतोबृहती स बृहतीमशंसीत्स आत्माऽथ सतोबृहतीं ते पशवोऽथ बृहतीमथ सतोबृहतीं तदात्मानं पशुभिः परिबृह्न्नेति तस्मादतिमर्शमेव विहरेत्। तस्य मैत्रावरुणः प्राणान्कल्पयित्वा ब्राह्मणाच्छंसिने संप्रयच्छत्येतं त्वं प्रजनयेति॥6.28॥


सुकीर्तिं शंसति देवयोनिर्वै सुकीर्तिस्तद्यज्ञाद्देवयोन्यै यजमानं प्रजनयति। वृषाकपिं शंसत्यात्मा वै वृषाकपिरात्मानमेवास्य तत्कल्पयति। तं न्यूङ्खयत्यन्नं वै न्यूङ्खस्तदस्मै जातायान्नाद्यं प्रतिदधाति यथा कुमाराय स्तनम्। स पाङ्क्तो भवति पाङ्क्तोऽयं पुरुषः पञ्चधा विहितो लोमानि त्वङ्मांसमस्थि मज्जा स यावानेव पुरुषस्तावन्तं यजमानं संस्करोति। तं ब्राह्मणाच्छंसी जनयित्वाऽच्छावाकाय संप्रयच्छत्येतस्य त्वं प्रतिष्ठां कल्पयेति॥6.29॥ (30.3) (116)


1167 एवयामरुतं शंसति प्रतिष्ठा वा एवयामरुत्प्रतिष्ठामेवास्य तत्कल्पयति तं न्यूङ्खयत्यन्नं वै न्यूङ्खोऽन्नाद्यमेवास्मिंस्तद्दधाति स जागतो वातिजागतो वा सर्वं वा इदं जागतं वातिजागतं वा स उ मारुत आपो वै मरुत आपो-ऽन्नमभिपूर्वमेवास्मिंस्तदन्नाद्यं दधाति तान्येतानि सहचराणीत्याचक्षते नाभा-नेदिष्ठं वालखिल्या वृषाकपिमेवयामरुतं तानि सह वा शंसेत्सह वा न शंसेद्यदेनानि नाना शंसेद्यथा पुरुषं वा रेतो वा विछिन्द्यात्तादृक्तत्तस्मादेनानि सह वा शंसेत्सह वा न शंसेत्स ह बुलिल आश्वतर आश्विर्वैश्वजितो होता सन्नीक्षां चक्र एषां वा एषां शिल्पानां विश्वजिति सांवत्सरिके द्वे मध्यंदिनमभि प्रत्येतोर्हन्ताहमित्थमेवयामरुतं शंसयानीति तद्ध तथा शंसयां चकार तद्ध तथा शस्यामने गौश्ल आजगाम स होवाच होतः कथा ते शस्त्रं विचक्रम्प्लवत इति किह्य्ह्यभूदित्येवयामरुदयमुत्तरतः शस्यत इति स होवाचैन्द्रो वै मध्यंदिनः कथेन्द्र म्मध्यंदिनान्निनीषसीति नेन्द्र म्मध्यंदिना-न्निनीषामीति होवाच छन्दस्त्विदममध्यंदिनसाच्ययं जागतो वातिजागतो वा सर्वं वा इदं जागतं वातिजागतं वा स उ मारुतो मैव शंसिष्टेति स होवाचारमाछावकेत्यथ हास्मिन्ननुशासनमीषे स होवाचैन्द्र मेष विष्णुन्यङ्गं शंसत्वथ त्वमेतं होतरुपरिष्टाद्र ?ौद्र ?? धाय्यायै पुरस्तान्मारुतस्याप्यस्याथा इति। तद्ध तथा शंसयांचकार तदिदमप्येतर्हि तथैव शस्यते॥6.30॥ (30.4) (117)


1172 तदाहुर्यदस्मिन्विश्वजित्यतिरात्र एवं षष्ठेऽहनि कल्पते यज्ञः कल्पते यजमानस्य प्रजातिः कथमत्राशस्त एव नाभानेदिष्ठो भवत्यथ मैत्रावारुणो वालखिल्याः शंसति ते प्राणा -- रेतो वा अग्रेऽथ प्राणा -- एवम्ब्राह्मणाच्छन्स्यशस्त एव नाभानेदिष्ठो भवत्यथ वृषाकपिं शंसति स आत्मा -- रेतो वा अग्रेऽथात्मा -- कथमत्र यजमानस्य प्रजातिः कथम्प्राणा अविक्लृप्ता भवन्तीति यजमानं ह वा एतेन सर्वेण यज्ञक्रतुना संस्कुर्वन्ति स यथा गर्भो योन्यामन्तरेवं सम्भवञ्छेते न वै सकृदेवाग्रे सर्वः सम्भवत्येकैकं वा अङ्गं सम्भवतः सम्भवतीति सर्वाणि चेत्समानेऽहन्क्रियेरन्कल्पत एव यज्ञः कल्पते यजमानस्य प्रजातिरथैतं होतैवयामरुतं तृतीयसवने शंसति तद्यास्य प्रतिष्ठा तस्यामेवैनं तदन्ततः प्रतिष्ठापयति॥6.31॥ (30.5) (118)


1177 छन्दसां वै षष्ठेनाह्नाप्तानां रसोऽत्यनेदत्स प्रजापतिरबिभेत्पराङयं छन्दसां रसो लोकानत्येष्यतीति तम्परस्ताच्छन्दोभिः पर्यगृह्नान्नाराशंस्या गायत्र्या रैभ्या त्रिष्टुभः पारिक्षित्या जगत्याः कारव्ययानुष्टुभस्तत्पुनश्छन्दस्सु रसमदधात्सरसैर्हास्य छन्दोभिरिष्टम्भवति सरसैश्छन्दोभिर्यज्ञं तनुते य एवं वेद नाराशंसीः शंसति प्रजा वै नरो वाक्शंसः प्रजास्वेव तद्वाचं दधाति तस्मादिमाः प्रजा वदन्त्यो जायन्ते य एवं वेद यदेव नाराशंसीः शन्सन्तो वै देवाश्च ऋषयश्च स्वर्गं लोकमायंस्तथैवैतद्यजमानाः शंसन्त एव स्वर्गं लोकं यन्ति ताः प्रग्राहं शंसति यथा वृषाकपिं वार्षाकपं हि वृषाकपेस्तन्न्या यमेति तासु न न्यूङ्खयेन्नीवैव नर्देत्स हि तासां न्यूङ्खो रैभीः शंसति रेभन्तो वै देवाश्च ऋषयश्च स्वर्गं लोकमायंस्तथैवैतद्यजमाना रेभन्त एव स्वर्गं लोकं यन्ति ताः प्रग्राहं शंसति यथा वृषाकपिं वार्षाकपं हि वृषाकपेश्तन्न्यायमेति तासु न न्यूङ्खयेन्नीवैव नर्देत्स हि तासां न्यूङ्खः पारिक्षितीः शंसत्यग्निर्वै परिक्षिदग्निर्हीमाः प्रजाः परिक्षेत्यग्निं हीमाः प्रजाः परिक्षियन्त्यग्नेरेव सायुज्यं सरूपतां सलोकतामश्नुते य एवं वेद यदेव पारिक्षितीः संवत्सरो वै परिक्षित्संवत्सरो हीमाः प्रजाः परिक्षेति संवत्सरं हीमाः प्रजाः परिक्षियन्ति संवत्सरस्यैव सायुज्यं सरूपतां सलोकतामश्नुते य एवं वेद ताः प्रग्राहं शंसति यथा वृषाकपिं वार्षाकपं हि वृषाकपेस्तन्न्यायमेति तासु न न्यूङ्खयेन्नीवैव नर्देत्स हि तासां न्यूङ्खः कारव्याः शंसति देवा वै यत्किंच कल्याणं कर्माकुर्वं-स्तत्कारव्याभिराप्नुवंस्तथैवैतद्यजमाना यत्किंच कल्याणं कर्म कुर्वन्ति तत्का-रव्याभिराप्नुवन्ति ताः प्रग्राहं शंसति यथा वृषाकपिं वार्षाकपं हि वृषा-कपेस्तन्न्यायमेति तासु न न्यूङ्खयेन्नीवैव नर्देत्स हि तासां न्यूङ्खो दिशां क्लृप्तीः शंसति दिश एव तत्कल्पयति ताः पञ्च शंसति पञ्च वा इमा दिशश्चतस्रस्तिरश्च्य एकोर्ध्वा तासु न न्यूङ्खयेन्नेवैव च निनर्देन्नेदिमा दिशो न्युङ्खयानीति ता अर्धर्चशः शंसति प्रतिष्ठाया एव जनकल्पाः शंसति प्रजा वै जनकल्पा दिश एव तत्कल्पयित्वा तासु प्रजाः प्रतिष्ठापयति तासु न न्यूङ्खयेन्नेवैव च निनर्देन्नेदिमाः प्रजा न्यूङ्खयानीति ता अर्धर्चशः शंसति प्रतिष्ठाया एवेन्द्र गाथाः शंस-तीन्द्र गाथाभिर्वै देवा असुरानभिगायाथैनानत्यायंस्तथैवैतद्यजमाना इन्द्र गाथाभिरेवाप्रियम्भ्रातृव्यमभिगायाथैनमतियन्ति ता अर्धर्चशः शंसति प्रतिष्ठाया एव॥6.32॥


ऐतशप्रलापं शंसति। ऐतशो ह वै मुनिरग्नेरायुर्ददर्श यज्ञस्यायातयाममिति हैक आहुः सोऽब्रवीत्पुत्रान्पुत्रका अग्नेरायुरदर्शं तदभिलपिष्यामि यत्किं च वदामि तन्मे मा परिगातेति स प्रत्यपद्यतैता अश्वा आप्लवन्ते प्रतीपं प्रातिसत्वनमिति। तस्याभ्यग्निरैतशायन एत्याकालेऽभिहाय मुखमप्यगृह्णाददृपन्नः पितेति। तं होवाचापेह्यलसोऽभूर्यो मे वाचमवधीः शतायुं गामकरिष्यं सहस्रायुं पुरुषं पापिष्ठां ते प्रजां करोमि यो मेत्थमसक्था इति। तस्मादाहुरभ्यग्नय ऐतशायना और्वाणां पापिष्ठा इति। तं हैके भूयांसं शंसन्ति। स न निषेधेद्यावत्कामं शंसेत्येव ब्रूयादायुर्वा ऐतशप्रलापः। आयुरेव तद्यजमानस्य प्रतारयति य एवं वेद। यदेवैतशप्रलापा३ः । छन्दसां हैष रसो यदैतशप्रलापश्छन्दःस्वेव तद्रसं दधाति। सरसैर्हास्य च्छन्दोभिरिष्टं भवति सरसैश्छन्दोभिर्यज्ञं तनुते य एवं वेद। यद्वेवैतशप्रलापा३ः । अयातयामा वा अक्षितिरैतशप्रलापोऽयातयामा मे यज्ञेऽसदक्षितिर्मे यज्ञेऽसदिति। तं वा एतमैतशप्रलापं शंसति पदावग्राहं यथा निविदम्। तस्योत्तमेन पदेन प्रणौति यथा निविदः। प्रवह्लिकाः शंसति प्रवह्लिकाभिर्वै देवा असुरान्प्रवह्ल्याथैनानत्यायंस्तथैवैतद्यजमानाः प्रवह्लिकाभिरेवाप्रियं भ्रातृव्यं प्रवह्ल्याथैनमतियन्ति। ता अर्धर्चशः शंसति प्रतिष्ठाया एव। आजिज्ञासेन्याः शंसत्याजिज्ञासेन्याभिर्वै देवा असुरानाज्ञायाथैनानत्यायंस्तथैवैतद्यजमाना आजिज्ञासेन्याभिरेवाप्रियं भ्रातृव्यमाज्ञायाथैनमतियन्ति ता अर्धर्चशः शंसति प्रतिष्ठाया एव। प्रतिराधं शंसति प्रतिराधेन वै देवा असुरान्प्रतिराध्याथैनानत्यायंस्तथैवैतद्यजमानाः प्रतिराधेनैवाप्रियं भ्रातृव्यं प्रतिराध्याथैनमतियन्ति। अतिवादं शंसत्यत्यतिवादेन वै देवा असुरानत्युद्याथैनानत्यायंस्तथैवैतद्यजमाना अतिवादेनैवाप्रियं भ्रातृव्यमत्युद्याथैनमतियन्ति तमर्धर्चशः शंसति प्रतिष्ठाया एव॥6.33॥ (30.7) (120)


देवानीथं शंसति। आदित्याश्च ह वा अङ्गिरसश्च स्वर्गे लोकेऽस्पर्धन्त वयं पूर्व एष्यामो वयमिति ते हाङ्गिरसः पूर्वे श्वः सुत्यां स्वर्गस्य लोकस्य ददृशुस्तेऽग्निं प्रजिघ्युरङ्गिरसां वा एकोऽग्निः परेह्यादित्येभ्यः श्वःसुत्यां स्वर्गस्य लोकस्य प्रब्रूहीति ते हाऽऽदित्या अग्निमेव दृष्ट्वा सद्यःसुत्यां स्वर्गस्य लोकस्य ददृशुस्तानेत्याब्रवीच्छ्वःसुत्यां वः स्वर्गस्य लोकस्य प्रब्रूम इति ते होचुरथ वयं तुभ्यं सद्यःसुत्यां स्वर्गस्य लोकस्य प्रब्रूमस्त्वयैव वयं होत्रा स्वर्गं लोकमेष्याम इति स तथेत्युक्त्वा प्रत्युक्तः पुनराजगाम। ते होचुः प्रावोचा३ः इति प्रावोचमिति होवाचाथो मे प्रतिप्रावोचन्निति नो हि न प्रत्यज्ञास्था३ः, इति प्रति वा अज्ञासमिति होवाच। यशसा वा एषोऽभ्यै(ऽभ्ये)ति य आर्त्विज्येन तं यः प्रतिरुन्धेद्यशः स प्रतिरुन्धेत्तस्मान्न प्रत्यरौत्सीति। यदि त्वस्मादपोज्जिगांसेद्यज्ञेनास्मादपोदियात्। यदि त्वयाज्यः स्वयमपोदितं तस्मात्॥6.34॥ (30.8) (121)

1192
ते हादित्यानङ्गिरसोऽयाजयंस्तेभ्य याजयद्भ्य इमाम्पृथिवीम्पूर्णां दक्षिणानामद-दुस्तानियम्प्रतिगृहीतातपत्तां न्यवृञ्जन्सा सिंही भूत्वा विजृम्भन्ती जनान-चरत्तस्याः शोचत्या इमे प्रदराः प्रादीर्यन्त येऽस्या इमे प्रदराः समेव हैव ततः पुरा तस्मादाहुर्न निवृत्तदक्षिणाम्प्रतिगृह्णीयान्नेन्मा शुचा विद्धा शुचा विध्या-दिति यदि त्वेनाम्प्रतिगृह्णीयादप्रियायैनाम्भ्रातृव्याय दद्यात्परा हैव भवत्यथ योऽसौ तपतीँ एषोऽश्वः श्वेतो रूपं कृत्वाश्वाभिधान्यपिहितेनात्मना प्रतिचक्रम इमं वो नयाम इति स एष देवनीथोऽनूच्यत आदित्या ह जरितरङ्गिरोभ्यो दक्षिणामनयन्तां ह जरितर्न प्रत्यायन्निति न हि त इमाम्प्रत्यायंस्तामु ह जरितः प्रत्यायन्निति प्रति हि तेऽमुमायंस्तां ह जरितर्न प्रत्यगृभ्णन्निति न हि त इमाम्प्रत्यगृभ्णंस्तामु ह जरितं प्रत्यगृभ्णन्निति प्रति हि तेऽमुमगृभ्णन्नहा नेदसन्नविचेतनानीत्येष ह वा अह्नां विचेतयिता जज्ञा नेदसन्नपुरोगवास इति दक्षिणा वै यज्ञानाम्पुरोगवी यथा ह वा इदमनोऽपुरोगवं रिष्यत्येवं हैव यज्ञोऽदक्षिणो रिष्यति तस्मादाहुर्दातव्यैव यज्ञे दक्षिणा भवत्यप्यल्पिकाप्युत श्वेत आशुपत्वा उतो पद्याभिर्जविष्ठः उतेमाशु मानम्पिपर्ति आदित्या रुद्र ?ा वसवस्त्वेळते इदं राधः प्रति गृभ्णीथ्यङ्गि र इति प्रतिग्रहमेव तद्र ?ाधस ऐछन्निदं राधो बृहत्पृथु देवा ददत्वा वरम्तद्वो अस्तु सुचेतनम्युष्मे अस्तु दिवे-दिवे प्रत्येव गृभायतेति प्रत्येवैनं तदजग्रभैषं तं वा एतं देवनीथं शंसति पदावग्राहं यथानिविदं तस्योत्तमेन पदेन प्रणौति यथा निविदः॥6.35॥ (30.9) (122)


1197 भूतेछदः शंसति भूतेछद्भिर्वै देवा असुरानुपासचन्तोतेव युद्धेनोतेव मायया तेषां वै देवा असुराणाम्भूतेछद्भिरेव भूतं छादयित्वाथैनानत्यायंस्तथैवैतद्यजमाना भूतेछद्भिरेवाप्रियस्य भ्रातृव्यस्य भूतं छादयित्वाथैनमतियन्ति ता अर्धर्चशः शंसति प्रतिष्ठाया एवाहनस्याः शंसत्याहनस्याद्वै रेतः सिच्यते रेतसः प्रजाः प्रजायन्ते प्रजातिमेव तद्दधाति ता दश शंसति दशाक्षरा विराळ् अन्नं विराळ् अन्नाद्रे तः सिच्यते रेतसः प्रजाः प्रजायन्ते प्रजातिमेव तद्दधाति ता न्यूङ्खयत्यन्नं वै न्यूङ्खोऽन्नाद्रे तः सिच्यते रेतसः प्रजाः प्रजायन्ते प्रजातिमेव तद्दधाति दधिक्राव्णो अकारिषमिति दाधिक्रीं शंसति देवपवित्रं वै दधिक्रा इदं वा इदं व्याहनस्यां वाचमवादीत्तद्देवपवित्रेण वाचम्पुनीते सानुष्टुब्भवति वाग्वा अनुष्टुप्तत्स्वेन छन्दसा वाचम्पुनीते सुतासो मधुमत्तमा इति पावमानीः शंसति देवपवित्रं वै पावमान्य इदं वा इदं व्याहनस्यां वाचमवादीत्तद्देवपवित्रेणैव वाचम्पुनीते ता अनुष्टुभो भवन्ति वाग्वा अनुष्टुप्तत्स्वेनैव छन्दसा वाचम्पुनीतेऽव द्र प्सो अंशुमतीमतिष्ठदित्यैन्द्राबार्हस्पत्यं तृचं शंसति विशो अदेवीरभ्याच-रन्तीर्बृहस्पतिना युजेन्द्रः ससाह इत्यसुरविशं ह वै देवानभ्युदाचार्य आसीत्स इन्द्रो बृहस्पतिनैव युजासुर्यं वर्णमभिदासन्तमपाहंस्तथैवैतद्यजमाना इन्द्रा-बृहस्पतिभ्यामेव युजासुर्यं वर्णमभिदासन्तमपघ्नते तदाहुः संशंसेत्षष्ठेऽहान् न संशंसेदिति संशंसेदित्याहुः कथमन्येष्वहस्सु संशंसति कथमत्र न संशं-सेदित्यथो खल्वाहुर्नैव संशंसेत्स्वर्गो वै लोकः षष्ठमहरसमायी वै स्वर्गो लोकः कश्चिद्वै स्वर्गे लोके समेतीति स यत्संशंसेत्समानं तत्कुर्यादथ यन्न संशंसतीँ तत्स्वर्गस्य लोकस्य रूपं तस्मान्न संशंसेद्यदेव न संशंसतीँ एतानि वा अत्रोक्थानि नाभानेदिष्ठो वालखिल्या वृषाकपिरेवयामरुत्स यत्संशंसेदपैव स एतेषु कामं राध्नुयादैन्द्रो वृषाकपिः सर्वाणि छन्दांस्यैतशप्रलापस्तत्र स काम उपाप्तो य ऐन्द्रे जागतेऽथेदमैन्द्राबर्हस्पत्यं सूक्तमैन्द्राबार्हस्पत्या परिधानीया तस्मान्न संशंसेन्न संशंसेत्॥6.36॥ 30.10 (123)




== ==
६.२८

{{सायणभाष्यम्|
<poem>
होतुः शिल्पशस्त्रमुक्त्वा मैत्रावरुणस्य शिल्पशस्त्रं विधत्ते -

वालखिल्याः शंसति प्राणा वै वालखिल्याः प्राणानेवास्य तत्कल्पयति, इति ।

वालखिल्याख्यैमुनिभिर्दृष्टा अभि प्र वः सुराधसमित्यादिकेऽष्टके स्थिता ऋचो वालखिल्याभिधाः । ता एव वालखिल्याख्ये ग्रन्थे समाम्नाताः । ताः सर्वा मैत्रावरुणः शंसेत् । वालखिल्यानां शिल्पानां प्राणरूपत्वेन तच्छंसने सत्यस्य रेतोरूपस्य यजमानस्य प्राणानेव संपादयति ।।
इतरशस्त्रवदत्रापि यथाशंसनप्रसक्तौ विशेषं विधत्ते –

ता विहृताः शंसति विहृता वा इमे प्राणाः प्राणेनापानोऽपानेन व्यानः, इति ।

ता वालखिल्या ऋचो विहृताः परस्परव्यतिषक्ताः शंसेत् । प्राणाश्चेमे शरीरे विहृता वै परस्परव्यतिषक्ता एव वर्तन्ते । ऊर्ध्वगामिना प्राणवायुना निरोधादपानवायुर्व्यतिषक्तः । तेन वाऽपानवायुना तद्वायुद्वयमध्यवर्ती व्यानो व्यतिषक्तः । अथ यः प्राणापानयोः संधिः स व्यान इति श्रुत्यन्तरात् । व्यतिषङ्गप्रकारं विधत्ते --

स पच्छः प्रथमे सूक्ते विहरत्यर्धर्चशो द्वितीये ऋक्शस्तृतीये, इति ।

वालखिल्यानामष्टसु सूक्तेषु सप्तमाष्टमे सूक्ते परित्यज्य यान्यवशिष्टानि षट् सूक्तानि तेषु त्रीणि युग्मानि । तत्र प्रथमगते द्वे सूक्ते मैत्रावरुणः पच्छो विहरेत् । प्रथमसूक्तगतं पादं द्वितीयसूक्तगतेन पादेन योजयेत् । द्वितीययुग्मगते द्वे सूक्ते अर्धर्चशो विहरेत् । तस्मिन्युग्म एकसूक्तगतमर्धर्चं द्वितीयसूक्तगतेनार्धर्चेन योजयेत् । तृतीययुग्मगते द्वे सूक्ते ऋक्शो विहरेत् । तस्मिन्युग्म एकसूक्तगतामृचं द्वितीयसूक्तगतयर्चा योजयेत् । तदुक्तमाश्वलायनेन-“अथ वालखिल्या विहरेत्तदुक्तं षोळशिना सूक्तानां प्रथमद्वितीये पच्छस्तृतीयचतुर्थे अर्ध र्चश ऋक्शः पञ्चमषष्ठे' इति । यद्यपि पूर्वाध्याये पच्छः प्रथमं षड्वालखिल्यानां सूक्तानि विहरत्यर्धर्चशो द्वितीयमृक्शस्तृतीयमिति विहारोऽभिहितः तथाऽप्यत्रास्ति विशेषः । तत्र हि षण्णामपि सूक्तानां पादविहारोऽर्धर्चविहा ऋग्विहार इति त्रिरावृत्तिरभिहिता । अत्र तु प्रथमयुग्मे पादविहारो द्वितीययुग्मेऽर्धर्चविहारस्तृतीययुग्म ऋग्विहार इति । तत्रापि सकृदेव पादादिविहारः । न त्वावृत्तिः । तथा वाचस्य भावाभावाभ्यामप्यस्ति विशेषः । अत एवोभयत्र नामभेदोऽस्ति महावालभिद्विहार इति पूर्वस्य नामधेयं हौण्डिन विहार इत्येतस्य नामधेयम् । अत एव सूत्रकारो नामधेयद्वयं दर्शयति – इति नु हौण्डिनावथ महावालभित्' इति । हुण्डिनाख्येन महर्षिणा दृष्टौ द्वौ विहारौ महावालभिदाख्येन महर्षिणा दृष्ट एको विहारः । अत्रोक्तहौण्डिनविहारौ प्रशंसति –

स यत्प्रथमे सूक्ते विहरति प्राणं च तद्वाचं च विहरति यद्द्वितीये चक्षुश्च तन्मनश्च विहरति यतृतीये श्रोत्रं च तदात्मानं च विहरति, इति ।

पूर्ववद्व्याख्येयम् । योऽयमत्रोक्तो हौण्डिनविहारस्तस्यापि मतभेदेन द्वौ प्रकारौ ।।
तत्र प्रथमप्रकारमुपन्यस्य तत्र किंचिदपरितोषं दर्शयति—

ते हैके सह बृहत्यौ सह सतोबृहत्यौ विहरन्ति तदुपाप्तो विहारे कामो नेत्तु प्रगाथाः कल्पन्ते, इति ।

या षट्त्रिंशदक्षरा बृहती चत्वारिंशदक्षरा सतोबृहती वालखिल्यसूक्तेषु प्रथमा बृहती द्वितीया सतोबृहती तृतीया बृहती चतुर्थी सतोबृहतीत्येवं मणिप्रवालन्यायेनैकान्तरिताः पठिताः । तत्र प्रथमाद्ययुजो बृहत्यो द्वितीय(या) चतुयादियुजः सतोबृहत्यः । एवं सति प्रथमसूक्ते द्वितीयसूक्ते चाऽऽदिभूते द्वे बृहत्यौ सह विहरेत् । तदनन्तरभाविन्यौ द्वे सतोबृहत्यौ सह विहरेत् । इत्थं विहारं ते प्रसिद्धा याज्ञिकाः केचिदिच्छन्ति । तस्मिन्पक्षे विहारस्य विद्यमानत्वाद्विहारनिमित्तो यः कामः स उपाप्तो भवेदेव । किंतु प्रगाथा नेत्कल्पन्ते ते नैव संपद्यन्त इति परिभव(य)द्योतनार्थो नेच्छब्दः । छन्दोद्वयं मिलित्वैकः प्रगाथो भवति । स्वाध्यायपाठे प्रगाथानां विद्यमानत्वाद्विहारोऽपि प्रगाथान्त एवापेक्षितः । ते न केवलबृहतीभ्यां केवलसतोबृहतीभ्यां वा संपद्यन्ते । किंतु च्छन्दोद्वयेन संपद्यन्ते । प्रग्रथनेन द्वयोर्ऋचोर्वा बृद्दतीत्वसंपादनार्थं प्रगाथाश्रयणम् । तच्च च्छन्दोद्वये सुकरम् । तथाहि । प्रथमा बृहती यथापाठमेव पठितव्या । ततोऽष्टाक्षरचतुर्थपादं द्विरावर्त्य च सतोबृहत्याः प्रथमार्धगतेन द्वादशाक्षरपादेनाष्टाक्षरपादेन च द्वितीया बृहती संपद्यते । तमप्यष्टाक्षरपादं द्विरभ्यस्य सतोबृहत्या उत्तरार्धगतेन द्वादशाक्षरपादेनाष्टाक्षरपादेन च तृतीया बृहती संपद्यते । अतः प्रगाथेषु च्छन्दोद्वयमपेक्षितं केवलयोर्बृहत्योः सतोबृहत्योर्वा यथोक्तप्रग्रथनासंभवात् ।
इत्थं हौण्डिनविहारे प्रथमप्रकारं निराकृत्य द्वितीयप्रकारं विधत्ते --

अतिमर्शमेव विहरेत्तथा वै प्रगाथाः कल्पते प्रगाथा वै वालखिल्यास्तस्मादतिमर्शमेव विहरेद्यदेवातिमर्शा३म्, इति ।

अतिमर्शमतिमृश्यातिमृश्य प्रथमसूक्तस्य प्रथमायामृचि प्रथमपादमुक्त्वा तदनन्तरभावि सर्वमतिलङ्घ्य द्वितीयसूक्ते द्वितीयस्यामृचि द्वितीयपादेन योजयेत् । सोऽयमतिलङ्घ्य मृश्यमानत्वादतिमर्श इत्युच्यते । तत्र बृहतीपादसतोबृहतीपादयोर्मिश्रणरूपो विहारो भवति । एवकारेण पूर्वोक्तविहारो व्यावर्त्य॑ते । स तु केवलबृहत्योः केवलसतोबृहत्योः संपद्यते । न तु मिलितयोः । अतो न तत्र प्रगाथभावः । इह तु तथा सत्यतिमृश्य मेलने सति च्छन्दोद्वयसंबन्धात्प्रगाथाः संपद्यन्ते । या वालखिल्या ऋच आम्नातास्ताः प्रगाथरूपादय एव । तस्माद्विहारेऽपि प्रगाथरूपत्वं युक्तम् । तस्मादित्युपसंहारः । यदेवातिमृश्य विहरणं तत्पूज्यमिति प्लुतेरर्थः । अथ च्छन्दोद्वयं तदीयमतिमर्शनं [च] प्रशंसति --

आत्मा वै बृहती प्राणाः सतोबृहती स बृहतीमशंसीत्स आत्माऽथ सतोबृहतीं ते प्राणा अथ बृहतीमथ सतोबृहतीं तदात्मानं प्राणैः परिबृहन्नेति तस्मादतिमर्शमेव विहरेत्, इति ।

पूर्वोदाहृतं यदेवेति वाक्यमत्र योजनीयम् । अतिमृश्यातिमृश्य पूज्यं विहरणं यदस्ति तस्मिन्विहरणे सा बृहत्यात्मैव मध्यदेह एव । या तु सतोबृहती सा प्राणाः । तथा सति स मैत्रावरुणो यदादौ बृहतीमशंसीच्छंसनं कृतवान् । स बृहतीशंसनरूप आत्मा मध्यदेहः संपद्यते । अथानन्तरं सतोबृहतीमशंसीत् । ते सतोबृहतीरूपाः प्राणाः संपद्यन्ते । अथ पुनरपि बृहतीं तत ऊर्ध्वं सतोबृहतीं बहुकृत्वः शंसति । तत्तेन व्यतिषक्तशंसनेनाऽऽत्मानं मध्यदेहं प्राणैर्वायुविशेषैः परिबृहन्परितो वर्धयन्नेति गच्छति ।
पुनरप्यतिषङ्गमनूद्य प्रकारान्तरेण प्रशंसति

यद्वेवातिमर्शा३म् । आत्मा वै बृहती पशवः सतोबृहती स बृहतीमशंसीत्स आत्माऽथ सतीबृहतीं ते पशवोऽथ बृहतीमथ सतोबृहतीं तदात्मानं पशुभिः परिबृहन्नेति तस्मादतिमर्शमेव विहरेत् , इति ।

उ, अपि पुनरपि यदेवातिमृश्यातिमृश्य पूज्यं शंसनमस्ति तत्र बृहती यजमानः सतोबृहती पशुरूपा । अन्यत्सर्वं पूर्ववद्व्याख्येयम् । ।
इत्थं षण्णां सूक्तानां विहरणमुक्त्वा सप्तमाष्टमयोर्विपर्यासं विधत्ते

द्व्ये(द्वे ए)वोत्तमे सूक्ते पर्यस्यति । स एव तयोर्विहारः, इति ।

अष्टमं सूक्तमादौ पठित्वा पश्चात्सप्तमं सूक्तं पठेदित्येवमन्तिमं सूक्तं विपर्यस्येदेव । न तु पादार्धादिव्यतिषङ्गं कुर्यात् । स विपर्यास एव तयोर्विहार इत्युच्यते ।।
मैत्रावरुणस्य शस्त्रमुपसंहरन्ब्राह्मणाच्छंसिनः शस्त्रं प्रस्तौति --

तस्य मैत्रावरुणः प्राणान्कल्पयित्वा ब्राह्मणाच्छंसिने संप्रयच्छत्येतं त्वं प्रजनयेति ॥२८॥ इति ।

तस्य होतृशस्त्रेण निष्पन्नस्य रेतरूपस्य यजमानदेहस्य मैत्रावरुणः स्वकीयेन शस्त्रेण प्राणवायून्संपाद्य तं प्राणविशिष्टं यजमानदेहं ब्राह्मणाच्छंसिने संप्रयच्छति । हे ब्राह्मणाच्छसिन्नेतं यजमानदेहं त्वं प्रजनयोत्पादयेति तस्याभिप्रायः ।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्ये त्रिंशाध्याये द्वितीयः खण्डः ॥ २ ॥ (२८) [ ११५ ]


}}