ऐतरेय ब्राह्मणम्/पञ्चिका २ (द्वितीय पञ्चिका)
[१]यज्ञेन वै देवा ऊर्ध्वाः स्वर्गं लोकमायंस्तेऽबिभयुरिमं नो दृष्ट्वा मनुष्याश्च ऋषयश्चानुप्रज्ञास्यन्तीति तं वै यूपेनैवायोपयंस्तं यद्यूपेनैवायोपयंस्तद्यूपस्य यूपत्वं तमवाचीनाग्रं निमित्योर्ध्वा उदायंस्ततो वै मनुष्याश्च ऋषयश्च देवानां यज्ञवास्त्वभ्यायन्यज्ञस्य किंचिदेषिष्यामः प्रज्ञात्या इति ते वै यूपमेवाविन्दन्नवाचीनाग्रं निमितं ते विदुरनेन वै देवा यज्ञमयूयुपन्निति तमुत्खायोर्ध्वं न्यमिन्वंस्ततो वै ते प्र यज्ञमजानन्प्र स्वर्गं लोकम्। तद्यद्यूप ऊर्ध्वो निमीयते यज्ञस्य प्रज्ञात्यै स्वर्गस्य लोकस्यानुख्यात्यै। वज्रो वा एष यद्यूपः सोऽष्टाश्रि कर्तव्योऽष्टाश्रिर्वै वज्रस्तं तं प्रहरति द्विषते भ्रातृव्याय वधं योऽस्य स्तृत्यस्तस्मै स्तर्तवै। वज्रो वै यूपः स एष द्विषतो वध उद्यतस्तिष्ठति तस्माद्धाप्येतर्हि यो द्वेष्टि तस्याप्रियं भवत्यमुष्यायं यूपोऽमुष्यायं यूप इति दृष्ट्वा। खादिरं यूपं कुर्वीत स्वर्गकामः खादिरेण वै यूपेन देवाः स्वर्गं लोकमजयंस्तथैवैतद्यजमानः खादिरेण यूपेन स्वर्गं लोकं जयति। बैल्वं यूपं कुर्वीतान्नाद्यकामः पुष्टिकामः समां समां वै बिल्वो गृभीतस्तदन्नाद्यस्य रूपमामूलाच्छाखाभिरनुचितस्तत्पुष्टेः। पुष्यति प्रजां च पशूंश्च य एवं विद्वान्बैल्वं यूपं कुरुते। यदेव बैल्वां3 बिल्वं ज्योतिरिति वा आचक्षते। ज्योतिः स्वेषु भवति श्रेष्ठः स्वानां भवति य एवं वेद। पालाशं यूपं कुर्वीत तेजस्कामो ब्रह्मवर्चसकामस्तेजो वै ब्रह्मवर्चसं वनस्पतीनां पलाशः। तेजस्वी ब्रह्मवर्चसी भवति य एवं विद्वान्पालाशं यूपं कुरुते। यदेव पालाशां 3 सर्वेषां वा एष वनस्पतीनां योनिर्यत्पलाशस्तस्मात्पलाशस्यैव पलाशेनाऽऽचक्षतेऽमुष्य पलाशममुष्य पलाशमिति। सर्वेषां हास्य वनस्पतीनां काम उपाप्तो भवति य एवं वेद॥2.1॥ (6.1) (31)
[२]अञ्ज्मो यूपमनुब्रूहीत्याहाध्वर्युरञ्जन्ति त्वामध्वरे देवयन्त इति[३] अन्वाहाध्वरे ह्येनं देवयन्तोऽञ्जन्ति वनस्पते मधुना दैव्येनेत्येतद्वै मधु दैव्यं यदाज्यं यदूर्ध्वस्तिष्ठा द्रविणेह धत्ताद्यद्वा क्षयो मातुरस्या उपस्थ इति यदि च तिष्ठासि यदि च शयासै द्रविणमेवास्मासु धत्तादित्येव तदाहोच्छ्रयस्व वनस्पत इत्युच्छ्रीयमाणायाभिरूपा यद्यज्ञेऽभिरूपं तत्समृद्धं वर्ष्मन्पृथिव्या अधीत्येतद्वै वर्ष्म पृथिव्यै यत्र यूपमुन्मिन्वन्ति सुमिती मीयमानो वर्चो धा यज्ञवाहस इत्याशिषमाशास्ते समिद्धस्य श्रयमाणः पुरस्तादिति समिद्धस्य ह्येष एतत्पुरस्ताच्छ्रयते ब्रह्म वन्वानो अजरं सुवीरमित्याशिषमेवाशास्त आरे अस्मदमतिं बाधमान इत्यशनाया वै पाप्माऽमतिस्तामेव तदारान्नुदते यज्ञाच्च यजमानाच्चोच्छ्रयस्व महते सौभगायेत्याशिषमेवाशास्त ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सवितेति[४] यद्वै देवानां नेति तदेषामोमिति तिष्ठ देव इव सवितेत्येव तदाहोर्ध्वो वाजस्य सनितेति वाजसनिमेवैनं तद्धनसां सनोति यदञ्जिभिर्वाघद्भिर्विह्वयामह इति छन्दांसि वा अञ्जयो वाघतस्तैरेतद्देवान्यजमाना विह्वयन्ते मम यज्ञमागच्छत मम यज्ञमिति यदि ह वा अपि बहव इव यजन्तेऽथ हास्य देवा यज्ञमैव गच्छन्ति यत्रैवं विद्वानेतामन्वाहोर्ध्वो नः पाह्यंहसो नि केतुना विश्वं समत्रिणं दहेति रक्षांसि वै पाप्मात्रिणो रक्षांसि पाप्मानं दहेत्येव तदाह कृधी न ऊर्ध्वाञ्चरथाय जीवस इति यदाह कृधी न ऊर्ध्वाञ्चरणाय जीवस इत्येव तदाह यदि ह वा अपि नीत इव यजमानो भवति परि हैवैनं तत्संवत्सराय ददाति विदा देवेषु नो दुव इत्याशिषमेवाशास्ते जातो जायते सुदिनत्वे अह्नामिति जातो ह्येष एताज्जायते समर्य आ विदथे वर्धमान इति वर्धयन्त्येवैनं तत्पुनन्ति धीरा अपसो मनीषेति पुनन्त्येवैनं तत्देवया विप्र उदियर्ति वाचमिति देवेभ्य एवैनं तन्निवेदयति [५]युवा सुवासाः परिवीत आगादित्युत्तमया परिदधाति प्राणो वै युवा सुवासाः सोऽयं शरीरैः परिवृतः स उ श्रेयान्भवति जायमान इति श्रेयाञ्छ्रेयान्ह्येष एतद्भवति जायमानस्तं धीरासः कवय उन्नयन्ति स्वाध्यो मनसा देवयन्त इति ये वा अनूचानास्ते कवयस्त एवैनं तदुन्नयन्ति ता एताः सप्तान्वाह रूपसमृद्धा एतद्वै यज्ञस्य समृद्धं यद्रूपसमृद्धं यत्कर्म क्रियमाणमृगभिवदति तासां त्रिः प्रथमामन्वाह त्रिरुत्तमां ता एकादश संपद्यन्त एकादशाक्षरा वै त्रिष्टुप्त्रिष्टुबिन्द्रस्य वज्र इन्द्रायतनाभिरेवाभी राध्नोति य एवं वेद त्रिः प्रथमां त्रिरुत्तमामन्वाह यज्ञस्यैव तद्बर्सौ नह्यति स्थेम्ने बलायाविस्रंसाय॥2.2॥
[६]तिष्ठेद्यूपाः अनुप्रहरेतित्याहुस्तिष्ठेत्पशुकामस्य देवेभ्यो वै पशवोऽन्नाद्यायालम्भाय नातिष्ठन्त तेऽपक्रम्य प्रतिवावदतोऽतिष्ठन्नास्मानालप्स्यध्वे नास्मानिति ततो वै देवा एतं यूपं वज्रमपश्यंस्तमेभ्य उदश्रयंस्तस्माद्बिभ्यत उपावर्तन्त तमेवाद्याप्युपावृत्तास्ततो वै देवेभ्यः पशवोऽन्नाद्यायाऽऽलम्भायातिष्ठन्त तिष्ठन्तेऽस्मै पशवोऽन्नाद्यायाऽऽलम्भाय य एवं वेद यस्य चैवं विदुषो यूपस्तिष्ठत्यनुप्रहरेत्स्वर्गकामस्य तमु ह स्मैतं पूर्वेऽन्वेव प्रहरन्ति यजमानो वै यूपो यजमानः प्रस्तरोऽग्निर्वै देवयोनिः सोऽग्नेर्देवयोन्या आहुतिभ्यः सम्भूय हिरण्यशरीर ऊर्ध्वः स्वर्गं लोकमेष्यतीत्यथ ये तेभ्योऽवर आसंस्त एतं स्वरुमपश्यन्यूपशकलं तं तस्मिन्कालेऽनुप्रहरेत्तत्र स काम उपाप्तो योऽनुप्रहरणे तत्र स काम उपाप्तो यः स्थाने सर्वाभ्यो वा एष देवताभ्य आत्मानमालभते यो दीक्षतेऽग्निः सर्वा देवताः सोमः सर्वा देवताः स यदग्नीषोमीयं पशुमालभते सर्वाभ्य एव तद्देवताभ्यो यजमान आत्मानं निष्क्रीणीते तदाहुर्द्विरूपोऽग्नीषोमीयः कर्तव्यो द्विदेवत्यो हीति तत्तन्नादृत्यं पीव इव कर्तव्यः पीवोरूपा वै पशवः कृशित इव खलु वै यजमानो भवति तद्यत्पीवा पशुर्भवति यजमानमेव तत्स्वेन मेधेन समर्धयति तदाहुर्नाग्नीषोमीयस्य पशोरश्नीयात्पुरुषस्य वा एषोऽश्नाति योऽग्नीषोमीयस्य पशोरश्नाति यजमानो ह्येतेनात्मानं निष्क्रीणीत इति तत्तन्नादृत्यं वार्त्रघ्नं वा एतद्धविर्यदग्नीषोमीयोऽग्नीषोमाभ्यां वा इन्द्रो वृत्रमहंस्तावेनमब्रूतामावाभ्यां वै वृत्रमवधीर्वरं ते वृणावहै इति वृणाथामिति तावेतमेव वरमवृणातां श्वःसुत्यायां पशुं स एनयोरेषो च्युतो वरवृतो ह्येनयोस्तस्मात्तस्याशितव्यं चैव लीप्सितव्यं च॥2.3॥
[७]आप्रीभिराप्रीणति तेजो वै ब्रह्मवर्चसमाप्रियस्तेजसैवैनं तद् ब्रह्मवर्चसेन समर्धयति [८]समिधो यजति प्राणा वै समिधः प्राणा हीदं सर्वं समिन्धते यदिदं किंच प्राणानेव तत्प्रीणाति प्राणान्यजमाने दधाति तनूनपातं यजति प्राणो वै तनूनपात्स हि तन्वः पाति प्राणमेव तत्प्रीणाति प्राणं यजमाने दधाति नराशंसं यजति प्रजा वै नरो वाक्शंसः प्रजां चैव तद्वाचं च प्रीणाति प्रजां च वाचं च यजमाने दधातीळो यजत्यन्नं वा इळोऽन्नमेव तत्प्रीणात्यन्नं यजमाने दधाति बर्हिर्यजति पशवो वै बर्हिः पशूनेव तत्प्रीणाति पशून्यजमाने दधाति दुरो यजति वृष्टिर्वै दुरो वृष्टिमेव तत्प्रीणति वृष्टिमन्नाद्यं यजमाने दधात्युषासानक्ता यजत्यहोरात्रे वा उषासानक्ताहोरात्रे एव तत्प्रीणात्यहोरात्रयोर्यजमानं दधाति दैव्या होतारा यजति प्राणापानौ वै दैव्या होतारा प्राणापानावेव तत्प्रीणाति प्राणापानौ यजमाने दधाति तिस्रो देवीर्यजति प्राणो वा अपानो व्यानस्तिस्रो देव्यस्ता एव तत्प्रीणाति ता यजमाने दधाति त्वष्टारं यजति वाग्वै त्वष्टा वाग्घीदं सर्वं ताष्टीव वाचमेव तत्प्रीणाति वाचं यजमाने दधाति वनस्पतिं यजति प्राणो वै वनस्पतिः प्राणमेव तत्प्रीणाति प्राणं यजमाने दधाति स्वाहाकृतीर्यजति प्रतिष्ठा वै स्वाहाकृतयः प्रतिष्ठायामेव तद्यज्ञमन्ततः प्रतिष्ठापयति ताभिर्यथऋष्याप्रीणीयाद्यद्यथऋष्याप्रीणाति यजमानमेव तद्बन्धुताया नोत्सृजति॥2.4॥
[९]पर्यग्नये क्रियमाणायानुब्रूहीत्याहाध्वर्युः। [१०]अग्निर्होता नो अध्वर इति तृचमाग्नेयं गायत्रमन्वाह पर्यग्निक्रियमाणे स्वयैवैनं तद्देवतया स्वेन च्छन्दसा समर्धयति। वाजी सन्परिणीयत इति वाजिनमिव ह्येनं सन्तं परिणयन्ति। परि त्रिविष्ट्यध्वरं यात्यग्नी रथीरिवेत्येष हि रथीरिवाध्वरं परियाति। परि वाजपतिः कविरित्येष हि वाजानां पतिः। अत उपप्रेष्य होतर्हव्या देवेभ्य इत्याहाध्वर्युः। अजैदग्निरसनद्वाजमिति मैत्रावरुण उपप्रेषं प्रतिपद्यते। तदाहुर्यदध्वर्युर्होतारमुपप्रेष्यत्यथ कस्मान्मैत्रावरुण उपप्रैषं प्रतिपद्यत इति। मनो वै यज्ञस्य मैत्रावरुणो वाग्यज्ञस्य होता मनसा वा इषिता वाग्वदति यां ह्यन्यमना वाचं वदत्यसुर्या वै सा वागदेवजुष्टा तद्यन्मैत्रावरुण उपप्रैषं प्रतिपद्यते मनसैव तद्वाचमीरयति तन्मनसेरितया वाचा देवेभ्यो हव्यं संपादयति॥2.5॥ (6.5) (35)
[११]दैव्या शमितार आरभध्वमुत मनुष्या इत्याह। ये चैव देवानां शमितारो ये च मनुष्याणां तानेव तत्संशास्ति। उपनयत मेध्या दुर आशासाना मेधपतिभ्यां मेधमिति। पशुर्वै मेधो यजमानो मेधपतिर्यजमानमेव तत्स्वेन मेधेन समर्धयति। अथो खल्वाहुर्यस्यै वाव कस्यै च देवतायै पशुरालभ्यते सैव मेधपतिरिति। स यद्येकदेवत्यः पशुः स्यान्मेधपतय इति ब्रूयाद्यदि द्विदेवत्यो मेधपतिभ्यामिति यदि बहुदेवत्यो मेधपतिभ्य इत्येतदेव स्थितम्। प्रास्मा अग्निं भरतेति। पशुर्वै नीयमानः स मृत्युं प्रापश्यत्स देवान्नान्वकामयतैतुं तं देवा अब्रुवन्नेहि स्वर्गं वै त्वा लोकं गमयिष्याम इति स तथेत्यब्रवीत्तस्य वै मे युष्माकमेकः पुरस्तादैत्विति तथेति तस्याग्निः पुरस्तादैत्सोऽग्निमनु प्राच्यवत। तस्मादाहुराग्नेयो वाव सर्वः पशुरग्निं हि सोऽनु प्राच्यवतेति। तस्माद्वस्याग्निं पुरस्ताद्धरन्ति। स्तृणीत बर्हिरित्योषध्यात्मा वै पशुः पशुमेव तत्सर्वात्मानं करोति। अन्वेनं माता मन्यतामनु पिताऽनु भ्राता सगर्भ्योऽनु सखा सयूथ्य इति जनित्रैरेवैनं तत्समनुमतमालभन्ते। उदीचीनाँ अस्य पदो निधत्तात्सूर्यं चक्षुर्गमयताद्वातं प्राणमन्ववसृजतादन्तरिक्षमसुं दिशः श्रोत्रं पृथिवीं शरीरमित्येष्वेवैनं तल्लोकेष्वादधाति। एकधाऽस्य त्वचमाच्छ्यतात्पुरा नाभ्या अपि शसो वपामुत्खिदतादन्तरेवोष्माणं वारयध्वादिति पशुष्वेव तत्प्राणान्दधाति। श्येनमस्य वक्षः कृणुतात्प्रशसा बाहू शलादोषणी कश्यपेवांसाऽच्छिद्रे श्रोणी कवषोरूस्रेकपर्णाऽष्ठीवन्ता षड्विंशतिरस्य वङ्क्रयस्ता अनुष्ठ्योच्च्यावयताद्गात्रं गात्रमस्यानूनं कृणुतादित्यङ्गान्येवास्य तद्गात्राणि प्रीणाति। ऊवध्यगोहं पार्थिवं खनतादित्याहौषधं वा ऊवध्यमियं वा ओषधीनां प्रतिष्ठा तदेनत्स्वायामेव प्रतिष्ठायामन्ततः प्रतिष्ठापयति॥2.6॥ (6.5) (36)
[१२]अस्ना रक्षः संसृजतादित्याह तुषैर्वै फलीकरणैर्देवा हविर्यज्ञेभ्यो रक्षांसि निरभजन्नस्ना महायज्ञात्स यदस्ना रक्षः संसृजतादित्याह रक्षांस्येव तत्स्वेन भागधेयेन यज्ञान्निरवदयते। तदाहुर्न यज्ञे रक्षसां कीर्तयेत्कानि रक्षांस्यृतेरक्षा वै यज्ञ इति। तदु वा आहुः कीर्तयेदेव। यो वै भागिनं भागान्नुदते चयते वैनं स यदि वैनं न चयतेऽथ पुत्रमथ पौत्रं चयते त्वेवैनमिति। स यदि कीर्तयेदुपांशु कीर्तयेत्तिर इव वा एतद्वाचो यदुपांशु तिर इवैतद्यद्राक्षांसि। अथ यदुच्चैः कीर्तयेदीश्वरो हास्य वाचो रक्षोभाषो जनितोः। योऽयं राक्षसीं वाचं वदति सः। यां वै दृप्तो वदति यामुन्मत्तः सा वै राक्षसी वाक्। नाऽऽत्मना दृप्यति नास्य प्रजायां दृप्त आजायते य एवं वेद। वनिष्ठुमस्य मा राविष्टोरूकं मन्यमाना नेद्वस्तोके तनये रविता रवच्छमितार इति ये चैव देवानां शमितारो ये च मनुष्याणां तेभ्य एवैनं तत्परिददाति। अध्रिगो शमीध्वं सुशमि शमीध्वं शमीध्वमध्रिगा3 उ इति त्रिर्ब्रूयादपापेति चाध्रिगुर्वै देवानां शमिताऽपापो निग्रभीता शमितृभ्यश्चैवैनं तन्निग्रभीतृभ्यश्च संप्रयच्छति। शमितारो यदत्र सुकृतं कृणवथास्मासु तद्यद्दुष्कृतमन्यत्र तदित्याहाग्निर्वै देवानां होताऽऽसीत्स एनं वाचा व्यशाद्वाचा वा एनं होता विशास्ति तद्यदर्वाग्यत्परः कृन्तन्ति यदुल्बणं यद्विथुरं क्रियते शमितृभ्यश्चैवैनत्तन्निग्रभीतृभ्यश्च समनुदिशति स्वस्त्येव होतोन्मुच्यते सर्वायुः सर्वायुत्वाय। सर्वमायुरेति य एवं वेद॥2.7॥ (6.7) (37)
[१३]पुरुषं वै देवाः पशुमालभन्त तस्मादालब्धान्मेध उदक्रामत्सोऽश्वम्प्राविशत्तस्मादश्वो मेध्योऽभवदथैनमुत्क्रान्तमेधमत्यार्जन्त स किम्पुरुषोऽभवत्तेऽश्वमालभन्त सोऽश्वादालब्धादुदक्रामत्स गां प्राविशत्तस्माद्गौर्मेध्योऽभवदथैनमुत्क्रान्तमेधमत्यार्जन्त स गौरमृगोऽभवत्ते गामालभन्त स गोरालब्धादुदक्रामत्सोऽविं प्राविशत्तस्मादविर्मेध्योऽभवदथैनमुत्क्रान्तमेधमत्यार्जन्त स गवयोऽभवत्तेऽविमालभन्त सोऽवेरालब्धादुदक्रामत्सोऽजं प्राविशत्तस्मादजो मेध्योऽभवदथैनमुत्क्रान्तमेधमत्यार्जन्त स उष्ट्रोऽभवत्सोऽजे ज्योक्तमामिवारमत तस्मादेष एतेषां पशूनां प्रयुक्ततमो यदजस्तेऽजमालभैत सोऽजादालब्धादुदक्रामत् स इमां प्राविशत्तस्मादियम्मेध्याभवदथैनमुत्क्रान्तमेधमत्यार्जन्त स शरभोऽभवत्त एत उत्क्रान्तमेधा अमेध्याः पशवस्तस्मादेतेषां नाश्नीयात्तमस्यामन्वगच्छन्सोऽनुगतो व्रीहिरभवत्तद्यत्पशौ पुरोळाशमनुनिर्वपन्ति समेधेन नः पशुनेष्टमसत्केवलेन नः पशुनेष्टमसदिति समेधेन हास्य पशुनेष्टं भवति य एवं वेद॥2.8॥
[१४]स वा एष पशुरेवालभ्यते यत्पुरोळाशस्तस्य यानि किंशारूणि तानि रोमाणि ये तुषाः सा त्वग् ये फलीकरणास्तदसृग्यत्पिष्टं किक्नसास्तन्मांसं यत्किं चित्कंसारं तदस्थि सर्वेषां वा एष पशूनाम्मेधेन यजते यः पुरोळाशेन यजते तस्मादाहुः पुरोळाशसत्रं लोक्यमिति [१५]युवमेतानि दिवि रोचनान्यग्निश्च सोम सक्रतू अधत्तम्युवं सिन्धूँ रभिशस्तेरवद्यादग्नीषोमावमुञ्चतं गृभीतानिति वपायै यजति सर्वाभिर्वा एष देवताभिरालब्धो भवति यो दीक्षितो भवति तस्मादाहुर्न दीक्षितस्याश्नीयादिति स यदग्नीषोमावमुञ्चतं गृभीतानिति वपायै यजति सर्वाभ्य एव तद्देवताभ्यो यजमानम्प्रमुञ्चति तस्मादाहुरशितव्यं वपायां हुतायां यजमानो हि स तर्हि भवतीत्यान्यं दिवो मातरिश्वा जभारेति पुरोळाशस्य यजत्यमथ्नादन्यम्परि श्येनो अद्रे रितीत इव च ह्येष इत इव च मेधः समाहृतो भवति [१६]स्वदस्व हव्या समिषो दिदीहीति पुरोळशस्विष्टकृतो यजति हविरेवास्मा एतत्स्वदयतीषमूर्जमात्मन्धत्त इळामुपह्वयते पशवो वा इळा पशूनेव तदुपह्वयते पशून्यजमाने दधाति॥2.9॥
[१७]मनोतायै हविषोऽवदीयमानस्यानुब्रूहीत्याहाध्वर्युस्त्वं ह्यग्ने प्रथमो मनोतेति[१८] सूक्तमन्वाह तदाहुर्यदन्यदेवत्य उत पशुर्भवत्यथ कस्मादाग्नेयीरेव मनोतायै हविषोऽवदीयमानस्यान्वाहेति तिस्रो वै देवानां मनोतास्तासु हि तेषां मनांस्योतानि वाग्वै देवानां मनोता तस्यां हि तेषां मनांस्योतानि गौर्वै देवानां मनोता तस्यां हि तेषां मनांस्योतान्यग्निर्वै देवानां मनोता तस्मिन्हि तेषाम्मनांस्योतान्यग्निः सर्वा मनोता अग्नौ मनोताः संगच्छन्ते तस्मादाग्नेयीरेव मनोतायै हविषोऽवदीयमानस्यान्वाहाग्नीषोमा हविषः प्रस्थितस्येति[१९] हविषो यजति हविष इति रूपसमृद्ध प्रस्थितस्येति रूपसमृद्धा सर्वाभिर्हास्य समृद्धिभिः समृद्धं हव्यं देवानप्येति य एवं वेद वनस्पतिं यजति प्राणो वै वनस्पतिर्जीवं हास्य हव्यं देवानप्येति यत्रैवं विद्वान्वनस्पतिं यजति स्विष्टकृतं यजति प्रतिष्ठा वै स्विष्टकृत्प्रतिष्ठायामेव तद्यज्ञमन्ततः प्रतिष्ठापयतीळामुपह्वयते पशवो वा इळा पशूनेव तदुपह्वयते पशून्यजमाने दधाति दधाति॥2.10॥
[२०]देवा वै यज्ञमतन्वत तांस्तन्वानानसुरा अभ्यायन्यज्ञवेशसमेषां करिष्याम इति तानाप्रीते पशौ पुर इव पर्यग्नेर्यूपं प्रति पुरस्तादुपायंस्ते देवाः प्रतिबुध्याग्निमयीः पुरस्त्रिपुरं पर्यास्यन्त यज्ञस्य चात्मनश्च गुप्त्यै ता एषामिमा अग्निमय्यः पुरो दीप्यमाना भ्राजमाना अतिष्ठंस्ता असुरा अनपधृष्यैवापाद्रवंस्तेऽग्निनैव पुरस्तादसुररक्षांस्यपाघ्नताग्निना पश्चात्तथैवैतद्यजमाना यत्पर्यग्नि कुर्वन्त्यग्निमयीरेव तत्पुरस्त्रिपुरं पर्यस्यन्ते यज्ञस्य चात्मनश्च गुप्त्यै तस्मात्पर्यग्नि कुर्वन्ति तस्मात्पर्यग्नयेऽन्वाह तं वा एतं पशुमाप्रीतं सन्तं पर्यग्निकृतमुदञ्चं नयन्ति तस्योल्मुकं पुरस्ताद्धरन्ति यजमानो वा एष निदानेन यत्पशुरनेन ज्योतिषा यजमानः पुरोज्योतिः स्वर्गं लोकमेष्यतीति तेन ज्योतिषा यजमानः पुरोज्योतिः स्वर्गं लोकमेति तं यत्र निहनिष्यन्तो भवन्ति तदध्वर्युर्बर्हिरधस्तादुपास्यति यदेवैनमद आप्रीतं सन्तं पर्यग्निकृतं बहिर्वेदि नयन्ति बर्हिषदमेवैनं तत्कुर्वन्ति तस्योवध्यगोहं खनन्त्यौषधं वा ऊवध्यमियं वा ओषधीनाम्प्रतिष्ठा तदेनत्स्वायामेव प्रतिष्ठायामन्ततः प्रतिष्ठापयन्ति तदाहुर्यदेष हविरेव यत्पशुरथास्य बह्वपैति लोमानि त्वगसृक्कुष्ठिकाः शफा विषाणे स्कन्दति पिशितं केनास्य तदापूर्यत इति यदेवैतत्पशौ पुरोळाशमनुनिर्वपन्ति तेनैवास्य तदापूर्यते पशुभ्यो वै मेधा उदक्रामंस्तौ व्रीहिश्चैव यवश्च भूतावजायेतां तद्यत्पशौ पुरोळाशमनुनिर्वपन्ति समेधेन नः पशुनेष्टमसत्केवलेन नः पशुनेष्टमसदिति समेधेन हास्य पशुनेष्टं भवति केवलेन हास्य पशुनेष्टं भवति य एवं वेद॥2.11॥
[२१]तस्य वपामुत्खिद्याऽऽहरन्ति तामध्वर्युः स्रुवेणाभिघारयन्नाह स्तोकेभ्योऽनुब्रूहीति। तद्यत्स्तोका श्चोतन्ति सर्वदेवत्या वै स्तोका नेन्म इमेऽनभिप्रीता देवान्गच्छानिति। [२२]जुषस्व सप्रथस्तममित्यन्वाह। वचो देवप्सरस्तमम्। हव्या जुह्वान आसनीति। अग्नैरेवैनांस्तदास्ये जुहोति। [२३]इमं नो यज्ञममृतेषु धेहीति सूक्तमन्वाह। इमा हव्या जातवेदो जुषस्वेति हव्यजुष्टिमाशास्ते। स्तोकानामग्ने मेदसो घृतस्येति मेदसश्च हि घृतस्य च भवन्ति। होतः प्राशान प्रथमो निषद्येत्यग्निर्वै देवानां होताऽग्ने प्राशान प्रथमो निषद्येत्येव तदाह। घृतवन्तः पावक ते स्तोका श्चोतन्ति मेदस इति मेदसश्च ह्येव हि घृतस्य च भवन्ति। स्वधर्मं देववीतये श्रेष्ठं नो धेहि वार्यमित्याशिषमाशास्ते। तुभ्यं स्तोका घृतश्चुतोऽग्ने विप्राय सन्त्येति घृतश्चुतो हि भवन्ति। ऋषिः श्रेष्ठः समिध्यसे यज्ञस्य प्राविता भवेति यज्ञसमृद्धिमाशास्ते। तुभ्यं श्चोतन्त्यध्रिगो शचीव स्तोकासो अग्ने मेदसो घृतस्येति मेदसश्च ह्येव हि घृतस्य च भवन्ति। कविशस्तो बृहता भानुनाऽऽगा हव्या जुषस्व मेधिरेति हव्यजुष्टिमेवाऽऽशास्ते। ओजिष्ठं ते मध्यतो मेद उद्भृतं प्र ते वयं ददामहे। श्चोतन्ति ते वसो स्तोका अधित्वचि प्रति तान्देवशो विहीति। अभ्येवैनांस्तद्वषट्करोति यथा सोमस्याग्ने वीहीति। तद्यत्स्तोका श्चोतन्ति सर्वदेवत्या वै स्तोकास्तस्मादियं स्तोकशो वृष्टिर्विभक्तोपाचरति॥2.12॥
[२४]तदाहुः काः स्वाहाकृतीनां पुरोनुवाक्याः कः प्रैषः का याज्येति। या एवैता अन्वाहैताः पुरोनुवाक्या यः प्रैषः स प्रैषो या याज्या सा याज्या। तदाहुः का देवताः स्वाहाकृतय इति। विश्वे देवा इति ब्रूयात्। तस्मात्स्वाहाकृतं हविरदन्तु देवा इति यजन्तीति। देवा वै यज्ञेन श्रमेण तपसाऽऽहुतिभिः स्वर्गं लोकमजयंस्तेषां वपायामेव हुतायां स्वर्गो लोकः प्राख्यायत ते वपामेव हुत्वाऽनादृत्येतराणि कर्माण्यूर्ध्वाः स्वर्गं लोकमायंस्ततो वै मनुष्याश्च ऋषयश्च देवानां यज्ञवास्त्भ्यायन्यज्ञस्य किंचिदेषिष्यामः प्रज्ञात्या इति तेऽभितः परिचरन्त ऐत्पशुमेव निरान्त्रं शयानं ते विदुरियान्वा किल पशुर्यावती वपेति। स एतावानेव पशुर्यावती वपा। अथ यदेनं तृतीयसवने श्रपयित्वा जुह्वति भूयसीभिर्न आहुतिभिरिष्टमसत्केवलेन नः पशुनेष्टमसदिति। भूयसीभिर्हास्याऽऽहुतिभिरिष्टं भवति केवलेन हास्य पशुनेष्टं भवति य एवं वेद॥2.13॥
[२५]स वा एषाऽमृताहुतिरेव यद्वपाहुतिरमृताहुतिरग्न्याहुतिरमृताहुतिराज्याहुतिरमृताहुतिः सोमाहुतिरेता वा अशरीरा आहुतयो या वै काश्चाशरीरा आहुतयोऽमृतत्वमेव ताभिर्यजमानो जयति। सा वा एषा रेत एव यद्वपा प्रेव वै रेतो लीयते प्रेव वपा लीयते शुक्लं वै रेतः शुक्ला वपाऽशरीरं वै रेतोऽशरीरा वपा यद्वै लोहितं यन्मांसं तच्छरीरं तस्माद् ब्रूयाद्यावदलोहितं तावत्परिवासयेति। सा पञ्चावत्ता भवति यद्यपि चतुरवत्ती यजमानः स्यादथ पञ्चावत्तैव वपा। आज्यस्योपस्तृणाति हिरण्यशल्को वपा हिरण्यशल्क आज्यस्योपरिष्टादभिघारयति। तदाहुर्यद्धिरण्यं न विद्येत कथं स्यादिति द्विराज्यस्योपस्तीर्य वपामवदाय द्विरुपरिष्टादभिघारयति। अमृतं वा आज्यममृतं हिरण्यं तत्र स काम उपाप्तो य आज्ये तत्र स काम उपाप्तो यो हिरण्ये तत्पञ्च संपद्यन्ते। पाङ्क्तोऽयं पुरुषः पञ्चधा विहितो लोमानि त्वङ्मांसमस्थि मज्जा स यावानेव पुरुषस्तावन्तं यजमानं संस्कृत्याग्नौ देवयोन्यां जुहोत्यग्निर्वै देवयोनिः सोऽग्नेर्देवयोन्या आहुतिभ्यः संभूय हिरण्यशरीर ऊर्ध्वः स्वर्गं लोकमेति॥2.14॥ (7.4) (44)
[२६]देवेभ्यः प्रातर्यावभ्यो होतरनुब्रूहीत्याहाध्वर्युरेते वाव देवाः प्रातर्यावाणो यदग्निरुषा अश्विनौ त एते सप्तभिःसप्तभिश्छन्दोभिरागच्छन्त्यास्य देवाः प्रातर्यावाणो हवं गच्छन्ति य एवं वेद प्रजापतौ वै स्वयं होतरि प्रातरनुवाकमनुवक्ष्यत्युभये देवासुरा यज्ञमुपावसन्नस्मभ्यमनुवक्ष्यत्यस्मभ्यमिति स वै देवेभ्य एवान्वब्रवीत्ततो वै देवा अभवन्परासुरा भवत्यात्मना परास्य द्विषन्पाप्मा भ्रातृव्यो भवति य एवं वेद प्रातर्वै स तं देवे-भ्योऽन्वब्रवीद्यत्प्रातरन्वब्रवीत्तत्प्रातरनुवाकस्य प्रातरनुवाकत्वम्महति रात्र्या अनूच्यः सर्वस्यै वाचः सर्वस्य ब्रह्मणः परिगृहीत्यै यो वै भवति यः श्रेष्ठतामश्नुते तस्य वाचम्प्रोदितामनुप्रवदन्ति तस्मान्महति रात्र्या अनूच्यः पुरा वाचः प्रवदितोरनूच्यो यद्वाचि प्रोदितायामनुब्रूयादन्यस्यैवैनमुदितानुवादिनं कुर्यात्तस्मान्महति रात्र्या अनूच्यः पुरा शकुनिवादादनुब्रुयान्निर्ऋतेर्वा एतन्मुखं यद्वयांसि यच्छकुनयस्तद्यत्पुरा शकुनिवादादनुब्रूयान्मा यज्ञियां वाचम्प्रोदितामनुप्रवदिष्मेति तस्मान्महति रात्र्या अनूच्योऽथो खलु यदैवाध्वर्युरुपा-कुर्यादथानुब्रूयाद्यदा वा अध्वर्युरुपाकरोति वाचैवोपाकरोति वाचा होतान्वाह वाग्घि ब्रह्म तत्र स काम उपाप्तो यो वाचि च ब्रह्मणि च॥2.15॥
[२७]प्रजापतौ वै स्वयं होतरि प्रातरनुवाकमनुवक्ष्यति सर्वा देवता आशंसन्तमामभि प्रतिपत्स्यति मामभीति स प्रजापतिरैक्षत यद्येकां देवतामादिष्टामभि प्रतिपत्स्यामीतरा मे केन देवता उपाप्ता भविष्यन्तीति स एतामृचमपश्यत् [२८]आपो रेवतीरित्यापो वै सर्वा देवता रेवत्यः सर्वा देवताः स एतयर्चा प्रातरनुवाकं प्रत्यपद्यत ताः सर्वा देवताः प्रामोदन्त मामभि प्रत्यपादि मामभीति सर्वा हास्मिन्देवताः प्रातरनुवाकमनुब्रुवति प्रमोदन्ते सर्वाभिर्हास्य देवताभिः प्रातरनुवाकः प्रतिपन्नो भवति य एवं वेद ते देवा अबिभयुरादातारो वै न इमं प्रातर्यज्ञमसुरा यथौजीयांसो बलीयांस एवमिति तानब्रवीदीन्द्रो मा बिभीत त्रिषमृद्धमेभ्योऽहम्प्रातर्वज्रं प्रहर्तास्मीत्येतां वाव तदृचमब्रवीद्वज्रस्तेन यदपोनप्त्रीया वज्रस्तेन यत्त्रिष्टुब्वज्रस्तेन यद्वाक् तमेभ्यः प्राहरत्तेनैनानहंस्ततो वै देवा अभवन्परा असुरा भवत्यात्मना परास्य द्विषन्पाप्मा भ्रातृव्यो भवति य एवं वेद तदाहुः स वै होता स्याद्य एतस्यामृचि सर्वाणि छन्दांसि प्रजनयेदित्येषा वाव त्रिरनूक्ता सर्वाणि च्छन्दांसि भवत्येषा छन्दसां प्रजातिः॥2.16॥
[२९]शतमनूच्यमायुष्कामस्य शतायुर्वै पुरुषः शतवीर्यः शतेन्द्रि य आयुष्येवैनं तद्वीर्य इन्द्रिये दधाति त्रीणि च शतानि षष्टिश्चानूच्यानि यज्ञकामस्य त्रीणि च वै शतानि षष्टिश्च संवत्सरस्याहानि तावान्संवत्सरः संवत्सरः प्रजापतिः प्रजा-पतिर्यज्ञ उपैनं यज्ञो नमति यस्यैवं विद्वांस्त्रीणि च शतानि षष्टिं चान्वाह सप्त च शतानि विंशतिश्चानूच्यानि प्रजापशुकामस्य सप्त च वै शतानि विंशतिश्च संवत्सरस्याहोरात्रास्तावान्संवत्सरः संवत्सरः प्रजापतिर्यम्प्रजायमानं विश्वं रूपमिदं अनुप्रजायते प्रजापतिमेव तत्प्रजायमानम्प्रजया पशुभिरनुप्रजायते प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं वेदाष्टौ शतान्यनूच्यान्यब्राह्मणोक्तस्य यो वा दुरुक्तोक्तः शमलगृहीतो यजेताष्टाक्षरा वै गायत्री गायत्र्या वै देवाः पाप्मानं शमलमपाघ्नत गायत्र्यैवास्य तत्पाप्मानं शमलमपहन्त्यप पाप्मानं हते य एवं वेद सहस्रमनूच्यं स्वर्गकामस्य सहस्राश्वीने वा इतः स्वर्गो लोकः स्वर्गस्य लोकस्य समष्ट्यै सम्पत्त्यै संगत्या अपरिमितमनूच्यमपरिमितो वै प्रजापतिः प्रजापतेर्वा एतदुक्थं यत्प्रातरनुवाकस्तस्मिन्सर्वे कामा अवरुध्यन्ते स यदपरिमितमन्वाह सर्वेषां कामानामवरुद्ध्यै सर्वान्कामानवरुन्द्धे य एवं वेद तस्मादपरिमितमेवानूच्यं सप्ताग्नेयानि छन्दांस्यन्वाह सप्त वै देवलोकाः सर्वेषु देवलोकेषु राध्नोति य एवं वेद सप्तोषस्यानि छन्दांस्यन्वाह सप्त वै ग्राम्याः पशवोऽव ग्राम्यान्पशून्रुन्द्धे य एवं वेद सप्ताश्विनानि छन्दांस्यन्वाह सप्तधा वै वागवदत्तावद्वै वागवदत्सर्वस्यै वाचः सर्वस्य ब्रह्मणः परिगृहीत्यै तिस्रो देवता अन्वाह त्रयो वा इमे त्रिवृतो लोका एषामेव लोकानामभिजित्यै॥2.17॥
[३०]तदाहुः कथमनूच्यः प्रातरनुवाक इति यथाछन्दसमनूच्यः प्रातरनुवाकाः प्रजापतेर्वा एतान्यङ्गानि यच्छन्दांस्येष उ एव प्रजापतिर्यो यजते तद्यजमानाय हितम्पच्छोऽनूच्यः प्रातरनुवाकश्चतुष्पादा वै पशवः पशूनामवरुद्ध्या अर्धर्चश एवानूच्यो यथैवैनमेतदन्वाह प्रतिष्ठाया एव द्विप्रतिष्ठो वै पुरुषश्चतुष्पादाः पशावो यजमानमेव तद्द्विप्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयति तस्मादर्धर्चश एवानूच्यस्तदाहुर्यद्व्यूळ्हः प्रातरनुवाकः कथमव्यूळ्हो भवतीति यदेवास्य बृहती मध्यान्नैतीति ब्रूयात्तेनेत्याहुतिभागा वा अन्या देवता अन्याः स्तोमभागाश्छन्दोभागास्ता या अग्नावाहुतयो हूयन्ते ताभिराहुतिभागाः प्रीणात्यथ यत्स्तुवन्ति च शंसन्ति च तेन स्तोमभागाश्छन्दोभागा उभय्यो हास्यैता देवताः प्रीता अभीष्टा भवन्ति य एवं वेद त्रयस्त्रिंशद्वै देवाः सोमपास्त्रयस्त्रिंशदसोमपा अष्टौ वसव एकादश रुद्रा द्वादशादित्याः प्रजापतिश्च वषट्कारश्चैते देवा सोमपा एकादश प्रयाजा एकादशानुयाजा एकादशोपयाजा एतेऽसोमपाः पशुभाजनाः सोमेन सोमपान्प्रीणाति पशुनासोमपानुभय्यो हास्यैता देवताः प्रीताः अभीष्टा भवन्ति य एवं वेदाभूदुषा रुशत्पशुरित्युत्तमया परिदधाति तदाहुर्यत्त्रीन्क्रतूनन्वाहाग्नेयमुषस्यमाश्विनं कथमस्यैकयर्चा परिदधतः सर्वे त्रयः क्रतवः परिहिता भवन्तीत्यभूदुषा रुशत्पशुरित्युषसो रूपमाग्निरधाय्यृत्विय इत्यग्नेरयोजि वां वृषण्वसू रथो दस्रावमर्त्यो माध्वी मम श्रुतं हवमित्यश्विनोरेवमु हास्यैकयर्चा परिदधतः सर्वे त्रयः क्रतवः परिहिता भवन्ति भवन्ति ॥2.18॥
[३१]ऋषयो वै सरस्वत्यां सत्रमासत ते कवषमैलूषं सोमादनयन्दास्याः पुत्रः कितवोऽब्राह्मणः कथं नो मध्येऽदीक्षिष्टेति तं बहिर्धन्वोदवहन्न् अत्रैनं पिपासा हन्तु सरस्वत्या उदकं मा पादीति स बहिर्धन्वोदूळ्हः पिपासया वित्त एतदपोनप्त्रीयमपश्यत्प्र देवत्रा ब्रह्मणे गातुरेत्विति तेनापां प्रियं धामोपागच्छत्तमापोऽनूदायंस्तं सरस्वती समन्तं पर्यधावत्तस्माद्धाप्येतर्हि परिसारकमित्याचक्षते यदेनं सरस्वती समन्तं परिससार ते वा ऋषयोऽब्रुवन् विदुर्वा इमां देव उपेमं ह्वयामहा इति तथेति तमुपह्वयन्त तमुपहूयैतदपोनप्त्रीयमकुर्वत [३२]प्र देवत्रा ब्रह्मणे गातुरेत्विति तेनापाम्प्रियं धामोपागच्छन्नुप देवानामुपापाम्प्रियं धाम गच्छत्युप देवानां जयति परमं लोकं य एवम्वेद यश्चैवं विद्वानेतदपोनप्त्रीयं कुरुते तत्संततमनुब्रूयात्संततवर्षी ह प्रजाभ्यः पर्जन्यो भवति यत्रैवं विद्वानेतत्संततमन्वाह [३३]यदवग्राहमनुब्रूयाज्जीमूतवर्षी ह प्रजाभ्यः पर्जन्यः स्यात्तस्मात्तत्संततमेवानूच्यं तस्य त्रिः प्रथमां संततमन्वाह तेनैव तत्सर्वं संततमनूक्तं भवति॥2.19॥
[३४]ता एता नवानन्तरायमन्वाह हिनोता नो अध्वरं देवयज्येति दशमीमावर्वृततीरध नु द्विधारा इत्यवृत्तास्वेकधनासु प्रति यदापो अदृश्रमायतीरिति प्रतिदृश्यमानास्वा धेनवः पयसा तूर्ण्यर्था इत्युपायतीषु समन्या यन्त्युप य-न्त्यन्या इति समायतीष्वापो वा अस्पर्धन्त वयम्पूर्वं यज्ञं वक्ष्यामो वयमिति याश्चेमाः पूर्वेद्युर्वसतीवर्यो गृह्यन्ते याश्च प्रातरेकधनास्ता भृगुरपश्यदापो वै स्पर्धन्त इति ता एतयर्चा समज्ञपयत्समन्या यन्त्युपयन्त्यन्या इति ताः समजानत संजानाना हास्यापो यज्ञं वहन्ति य एवं वेदापो न देवीरुप यन्ति होत्रियमिति होतृचमसे समवनीयमानास्वन्वाह वसतीवरीष्वेकधनासु चावेरपोऽध्वर्या उ इति होताध्वर्युं पृच्छत्यापो वै यज्ञोऽविदो यज्नामित्येव तदाहोतेमनन्नमुरित्यध्वर्युः प्रत्याहोतेमाः पश्येत्येव तदाह तास्वध्वर्यो इन्द्राय सोमं सोता मधुमन्तं वृष्टिवनिं तीव्रान्तम्बहुरमध्यं वसुमते रुद्रवत आदित्यवत ऋभुमते विभुमते वाजवते बृहस्पतिवते विश्वदेव्यावते यस्येन्द्रः पीत्वा वृत्राणि जङ्घनत्प्र स जन्यानि तारिषोमिति प्रत्युत्तिष्ठति प्रत्युत्थेया वा आपः प्रति वै श्रेयांसमायन्तमुत्तिष्ठन्ति तस्मात्प्रत्युत्थेया अनुपर्यावृत्या अनु वै श्रेयांसम्पर्यावर्तन्ते तस्मादनुपर्यावृत्या अनुब्रुवतैवानुप्रपत्तव्यमीश्वरो ह यद्यप्यन्यो यजेताथ होतारं यशोऽर्तोस्तस्मादनुब्रुवतैवानुप्रपत्तव्यमम्बयो यन्त्यध्वभिरित्येतामनुब्रुवन्ननुप्रपद्येत जामयो अध्वरीयताम्पृञ्चतीर्मधुना पय इति योऽमधव्यो यशोऽर्तोर्बुभूषेदमूर्या उप सूर्ये याभिर्वा सूर्यः सहेति तेजस्कामो ब्रह्मवर्चसकामोऽपो देवीरुप ह्वये यत्र गावः पिबन्ति न इति पशुकामस्ता एताः सर्वा एवानुब्रुवन्ननुप्रपद्येतैतेषां कामानामवरुद्ध्या एतान्कामानवरुन्द्धे य एवं वेद एमा अग्मन्रेवतीर्जीवधन्या इति साद्यमानास्वन्वाह वसतीवरीष्वेकधनासु चाग्मन्नाप उशतीर्बर्हिरेदमिति सन्नासु स एतया परिदधाति॥2.20॥
[३५]शिरो वा एतद्यज्ञस्य यत्प्रातरनुवाकः प्राणापाना उपांश्वन्तर्यामौ वज्र एव वाङ्नाहुतयोरुपांश्वन्तर्यामयोर्होता वाचं विसृजेत। यदहुतयोरुपांश्वन्तर्यामयोर्होता वाचं विसृजेत वाचा वज्रेण यजमानस्य प्राणान्वीयाद्य एनं तत्र ब्रूयाद्वाचा वज्रेण यजमानस्य प्राणान्व्यगात्प्राण एनं हास्यतीति शश्वतत्तथा स्यात्तस्मान्नाहुतयोरुपांश्वन्तर्यामयोर्होता वाचं विसृजेत। प्राणं यच्छ स्वाहा त्वा सुहव सूर्यायेत्युपांशुमनुमन्त्रयेत तमभि प्राणेत्प्राण प्राणं मे यच्छेत्यपानं यच्छ स्वाहा त्वा सुहव सूर्यायेत्यन्तर्याममनुमन्त्रयेत तमभ्यपानेदपानापानं मे यच्छेति व्यानाय त्वेत्युपांशुसवनं ग्रावाणमभिमृश्य वाचं विसृजते। आत्मा वा उपांशुसवन आत्मन्येव तद्धोता प्राणान्प्रतिधाय वाचं विसृजते सर्वायुः सर्वायुत्वाय। सर्वमायुरेति य एवं वेद॥2.21॥ (8.3) (51)
[३६]तदाहुः सर्पे३त्, न सर्पे३त्, इति सर्पेदिति हैक आहुरुभयेषां वा एष देवमनुष्याणां भक्षो यद्बहिष्पवमानस्तस्मादेनमभिसंगच्छन्त इति वदन्तः। तत्तन्नाऽऽदृत्यम्। यत्सर्पेदृचमेव तत्साम्नोऽनुवर्त्मानं कुर्याद्य एनं तत्र ब्रूयादनुवर्त्मा न्वा अयं होता सामगस्याभूदुद्गातरि यशोऽधाद्च्योष्टाऽऽयतनाच्च्योष्यत आयतनादिति शश्वत्तथा स्यात्। तस्मात्तत्रैवाऽऽसीनोऽनुमन्त्रयेत। यो देवानामिह सोमपीथो यज्ञे बर्हिषि वेद्या३म्। तस्यापि भक्षयामसीति। एवमु हास्याऽऽत्मा सोमपीथादनन्तरितो भवति। अथो ब्रूयान्मुखमास मुखं भूयासमिति। मुखं वा एतद्यज्ञस्य यद्बहिष्पवमानः। मुखं स्वेषु भवति श्रेष्ठः स्वानां भवति य एवं वेद। आसुरी वै दीर्घजिह्वी देवानां प्रातःसवनमवालेट् तद्व्यमाद्यते देवाः प्राजिज्ञासन्त ते मित्रावरुणावब्रुवन्युवमिदं निष्कुरुतमिति तौ तथेत्यब्रूतां तौ वै वो वरं वृणावहा इति वृणाथामिति तावेतमेव वरमवृणातां प्रातःसवने पयस्यां सैनयोरेषाऽच्युता वरवृता ह्येनयोस्तद्यस्यै विमत्तमिव तदस्यै समृद्धं विमत्तमिव हि तौ तया निरकुरुताम्॥2.22॥ (7.4) (52)
[३७]देवानां वै सवनानि नाध्रियन्त त एतान्पुरोळाशानपश्यंस्ताननुसवनं निरवपन्सवनानां धृत्यै ततो वै तानि तेषामध्रियन्त तद्यदनुसवनं पुरोळाशा निरुप्यन्ते सवनानामेव धृत्यै तथा हि तानि तेषामध्रियन्त पुरो वा एतान्देवा अक्रत यत्पुरोळाशास्तत्पुरोळाशानां पुरोळाशत्वं तदाहुरनुसवनं पुरोळाशान्निर्वपेदष्टाकपालं प्रातःसवन एकादशकपालं माध्यंदिने सवने द्वादशकपालं तृतीयसवने तथा हि सवनानां रूपं तथा छन्दसामिति तत्तन्नादृत्यमैन्द्रा वा एते सर्वे निरुप्यन्ते यदनुसवनं पुरोळाशास्तस्मात्तानेकादशकपालानेव निर्वपेत्तदाहुर्यतो घृतेनानक्तं स्यात्ततः पुरोळाशस्य प्राश्नीयात्सोमपीथस्य गुप्त्यै घृतेन हि वज्रेणेन्द्रो वृत्रमहन्निति तत्तन्नादृत्यं हविर्वा एतद्यदुत्पूतं सोमपीथो वा एष यदुत्पूतं तस्मात्तस्य यत एव कुतश्च प्राश्नीयात्सर्वतो वा एताः स्वधा यजमानमुपक्षरन्ति यदेतानि हवींष्याज्यं धानाः करम्भः परिवापः पुरोळाशः पयस्येति। सर्वत एवैनं स्वधा उपक्षरन्ति य एवं वेद॥2.23॥
[३८]यो वै यज्ञं हविष्पङ्क्तिं वेद हविष्पङ्क्तिना यज्ञेन राध्नोति धानाः करम्भः परिवापः पुरोळाशः पयस्येत्येष वै यज्ञो हविष्पङ्क्तिर्हविष्पङ्क्तिना यज्ञेन राध्नोति य एवं वेद यो वै यज्ञमक्षरपङ्क्तिं वेदाक्षरपङ्क्तिना यज्ञेन राध्नोति सु मत्पद्वग्द इत्येष वै यज्ञोऽक्षरपङ्क्तिरक्षरपङ्क्तिना यज्ञेन राध्नोति य एवं वेद यो वै यज्ञं नराशंसपङ्क्तिं वेद नराशंसपङ्क्तिना यज्ञेन राध्नोति द्विनाराशंसम्प्रातःसवनं द्विनाराशंसा-म्माध्यंदिनं सवनं सकृन्नाराशंसं तृतीयसवनमेष वै यज्ञो नराशंसपङ्क्ति-र्नराशंसपङ्क्तिना यज्ञेन राध्नोति य एवं वेद यो वै यज्ञं सवनपङ्क्तिं वेद सवनपङ्क्तिना यज्ञेन राध्नोति पशुरुपवसथे त्रीणि सवनानि पशुरनूबन्ध्य इत्येष वै यज्ञः सवनपङ्क्तिः सवनपङ्क्तिना यज्ञेन राध्नोति य एवं वेद हरिवाँ इन्द्रो धाना अत्तु पूषण्वान्करम्भं सरस्वतीवान्भारतीवान्परिवाप इन्द्रस्यापूप इति हविष्पंक्त्या यजत्यृक्सामे वा इन्द्रस्य हरी पशवः पूषान्नं करम्भः सरस्वतीवान्भारतीवानिति वागेव सरस्वती प्राणो भरतः परिवाप इन्द्रस्यापूप इत्यन्नमेव परिवाप इन्द्रियमपूप एतासामेव तद्देवतानां यजमानं सायुज्यं सरूपतां सलोकतां गमयति गच्छति श्रेयसः सायुज्यं गच्छति श्रेष्ठतां य एवं वेद हविरग्ने वीहीत्यनुससवनम्पुरोळाशस्विष्टकृतो यजत्यवत्सारो वा एतेनाग्नेः प्रियं धामोपागच्छत्स परमं लोकमजयदुपाग्नेः प्रियं धाम गच्छति जयति परमं लोकं य एवं वेद यश्चैवं विद्वानेतया हविष्पङ्क्त्या यजते यजतीति च यजतीति च॥2.24॥
[३९]देवा वै सोमस्य राज्ञोऽग्रपेये न समपादयन्नहं प्रथमः पिबेयमहं प्रथमः पिबेयमित्येवाकामयन्त ते सम्पादयन्तोऽब्रुवन् हन्ताजिमायाम स यो न उज्जेष्यति स प्रथमः सोमस्य पास्यतीति तथेति त आजिमायुस्तेषामाजिं यतामभिसृष्टानां वायुर्मुखं प्रथमः प्रत्यपद्यताथेन्द्रोऽथ मित्रावरुणावथाश्विना उ सोऽवेदिन्द्रो वायुमुद्वै जयतीति तमनुपरापतत्सह नावथोज्जयावेति स नेत्यब्रवीदहमेवोज्जेष्यामीति तृतीयम्मेऽथोज्जयावेति नेति हैवाब्रवीदहमेवोज्जेष्यामीति तुरीयम्मेऽथोज्जयावेति तथेति तं तुरीयेऽत्यार्जत तत्तुरीयभागिन्द्रोऽभवत्त्रिभाग्वायुस्तौ सहैवेन्द्र वायू उदजयतां सह मित्रावरुणौ सहाश्विनौ त एषामेते यथोज्जितम्भक्षा इन्द्रवाय्वोः प्रथमोऽथ मित्रावरुणयोरथाश्विनोः स एष इन्द्र तुरीयो ग्रहो गृह्यते यदैन्द्रवायवस्तदेतदृषिः पश्यन्नभ्यनूवाच नियुत्वाँ इन्द्र सारथिरिति तस्माद्धाप्येतर्हि भरताः सत्वनां वित्तिं प्रयन्ति तुरीये हैव संग्रहीतारो वदन्तेऽमुनैवानूकाशेन यदद इन्द्रः सारथिरिव भूत्वोदजयत्॥2.25॥
[४०]ते वा एते प्राणा एव यद्द्विदेवत्या वाक्च प्राणश्चैन्द्रवायवश्चक्षुश्च मनश्च मैत्रावरुणः श्रोत्रं चात्मा चाश्विनास्तस्य हैतस्यैन्द्रवायवस्याप्येकेऽनुष्टुभौ पुरोनुवाक्ये कुर्वन्ति गायत्र्यौ याज्ये वाक्च वा एष प्राणाश्च ग्रहो यदैन्द्रवायवस्तदपि छन्दोभ्यां यथायथं क्लृप्स्येते इति तत्तन्नादृत्यं व्यृद्धं वा एतद्यज्ञे क्रियते यत्र पुरोनुवाक्या ज्यायसी याज्यायै यत्र वै याज्या ज्यायसि तत्समृद्धमथो यत्र सामे यस्यो तत्कामाय तथा कुर्यात्प्राणस्य च वाचश्चात्रैव तदुपाप्तं वायव्या पूर्वा पुरोनुवाक्यैन्द्रवायव्युत्तरैवं याज्ययोः सा या वायव्या तया प्राणं कल्पयति वायुर्हि प्राणोऽथ यैन्द्रवायवी तस्यै यदैन्द्रं पदं तेन वाचं कल्पयति वाग्घ्यैन्द्र्युपो तं काममाप्नोति यः प्राणे च वाचि च न यज्ञे विषमं करोति॥2.26॥
[४१]प्राणा वै द्विदेवत्या एकपात्रा गृह्यन्ते तस्मात्प्राणा एकनामानो द्विपात्रा हूयन्ते तस्मात्प्राणा द्वंद्वम्। येनैवाध्वर्युर्यजुषा प्रयच्छति तेन होता प्रतिगृह्णाति। एष वसुः पुरुवसुरिह वसुः पुरुवसुर्मयि वसुः पुरूवसुर्वाक्या वाचं मे पाहीत्यैन्द्रवायव भक्षयतीति। उपहूता वाक्सह प्राणेनोप मां वाक्सह प्राणेन ह्वयतामुपहूता ऋषयो दैव्यासस्तनूपावानस्तन्वस्तपोजा उप मामृषयो दैव्यासो ह्वयन्तां तनूपावानस्तन्वस्तपोजा इति। प्राणा वा ऋषयो देव्यासस्तनूपावानस्तन्वसत्पोजास्तानेव तदुपह्वयते। एष वसुर्विदद्वसुरिह वसुर्विदद्वसुर्मयि वसुर्विदद्वसुश्चक्षुष्पाश्चक्षुर्मे पाहीति मैत्रावरुणं भक्षयत्युपहूतं चक्षुः सह मनसोप मां चक्षुः सह मनसा ह्वयतामुपहूता ऋषयो दैव्यासस्तनूपावानस्तन्वस्तपोजा उप मामृषयो दैव्यासो ह्वयन्ता तनूपावानस्तन्वस्तपोजा इति प्राणा वा ऋषयो दैव्यासस्तनूपावानस्तन्वस्तपोजास्तानेव तदुपह्वयते। एष वसुः संयद्वसुरिह वसुः संयद्वसुर्मयि वसुः संयद्वसुः श्रोत्रपाः श्रोत्रं मे पाहीत्याश्विनं भक्षयत्युपहूतं श्रोत्रं सहाऽऽत्मना ह्वयतामुपहूता ऋषयो दैव्यासस्तनूपावानस्तन्वस्तपोजा उप मामृषयो दैव्यासो ह्वयन्तां तनूपावानस्तन्वस्तपोजा इति प्राणा वा ऋषयो दैव्यासस्तनूपावानस्तन्वस्तपोजास्तानेव तदुपह्वयते। पुरस्तात्प्रत्यञ्चमैन्द्रवायवं भक्षयति तस्मात्पुरस्तात्प्राणापानौ पुरस्तात्प्रत्यञ्चं मैत्रावरुणं भक्षयति तस्मात्पुरस्तातच्चक्षुषी सर्वतः परिहारमाश्विनं भक्षयति तस्मान्मनुष्याश्च पशवश्च सर्वतो वाचं वदन्तीं शृण्वन्ति॥2.27॥ (9.3) (57)
[४२]प्राणा वै द्विदेवत्या अनवानं द्विदेवत्यान्यजेत्प्राणानां संतत्यै प्राणानामव्यवच्छेदाय। प्राणा वै द्विदेवत्या न द्विदेवत्यानामनुवषट्कुर्यात्। यद्द्विदेवत्यानामनुवषट्कुर्यादसंस्थितान्प्राणान्संस्थापयेत्संस्था वा एषा यदनुवषट्कारो य एनं तत्र ब्रूयादसंस्थितान्प्राणान्समतिष्ठिपत्प्राण एनं हास्यतीति शश्वत्तथा स्यात्तस्मान्न द्विदेवत्यानामनुवषट्कुर्यात्। तदाहुर्द्विरागूर्य मैत्रावरुणो द्विः प्रेष्यति सकृदागू्र्य होता द्विर्वषट्करोति का होतुरागूरिति। प्राणा वै द्विदेवत्या आगूर्वज्रस्तद्यदत्र होताऽन्तरेणाऽऽगुरेताऽऽगुरा वज्रेण यजमानस्य प्राणान्वीयाद्य एनं तत्र ब्रूयादागुरा वज्रेण यजमानस्य प्राणान्व्यगात्प्राण एनं हास्यतीति शश्वत्तथा स्यात्तस्मात्तत्र होता ऽन्तरेण नाऽऽगुरेत। अथो मनो वै यज्ञस्य मैत्रावरुणो वाग्यज्ञस्य होता मनसा वा इषिता वाग्वदति यां ह्यन्यमना वाचं वदत्यसुर्या वै सा वागदेवजुष्टा तद्यदेवात्र मैत्रावरुणो द्विरागुरते सैव होतुरागूः॥2.28॥ (9.4) (58)
[४३]प्राणा वा ऋतुयाजास्तद्यदृतुयाजैश्चारन्ति प्राणानेव तद्यजमाने दधति षळ् ऋतुनेति यजन्ति प्राणमेव तद्यजमाने दधति चत्वार ऋतुभिरिति यजन्त्यपानमेव तद्यजमाने दधति द्विर्ऋतुनेत्युपरिष्टाद्व्यानमेव तद्यजमाने दधति स वा अयम्प्राणस्त्रेधा विहितः प्राणोऽपानो व्यान इति तद्यदृतुन ऋतुभिर्ऋतुनेति यजन्ति प्राणानां संतत्यै प्राणानामव्यवच्छेदाय प्राणा वा ऋतुयाजा नर्तुयाजानामनुवषट्कुर्यादसंस्थिता वा ऋतव एकैक एव यदृतुयाजानामनुवषट्कुर्यादसंस्थितानृतून्संस्थापयेत्संस्था वा एषा यदनुवषट्कारो य एनं तत्र ब्रूयादसंस्थितानृतून्समतिष्ठिपद्दुष्षमं भविष्यतीति शश्वत्तथा स्यात्तस्मान्नर्तुयाजानामनुवषट्कुर्यात्॥2.29॥
[४४]प्राणा वै द्विदेवत्याः पशव इळा द्विदेवत्यान्भक्षयित्वेळामुपह्वयते पशवो वा इळा पशूनेव तदुपह्वयते पशून्यजमाने दधाति तदाहुरवान्तरेळाम्पूर्वाम्प्रा-श्नीयाद्धोतृचमसम्भक्षयेदिति अवान्तरेळामेव पूर्वाम्प्राश्नीयादथ होतृचम-सम्भक्षयेद्यद्वाव द्विदेवत्यान्पूर्वान्भक्षयति तेनास्य सोमपीथः पूर्वो भक्षितो भवति तस्मादवन्तरेळमेव पूर्वाम्प्राश्नीयादथ होतृचमसम्भक्षयेत्तदुभयतो-ऽन्नाद्यम्परिगृह्णाति सोमपीथाभ्यामन्नाद्यस्य परिगृहीत्यै प्राणा वै द्विदेवत्या आत्मा होतृचमसो द्विदेवत्यानां संस्रवान्होतृचमसे समवनयत्यात्मन्येव तद्धोता प्राणान्समवनयते सर्वायुः सर्वायुत्वाय॥2.30॥
[४५]देवा वै यदेव यज्ञेऽकुर्वंस्तदसुरा अकुर्वंस्ते समावद्वीर्या एवासन्न व्यावर्तन्त ततो वै देवा एतं तूष्णींशंसमपश्यंस्तमेषामसुरा नान्ववायंस्तूष्णींसारो वा एष यत्तूष्णींशंसो देवा वै यंयमेव वज्रमसुरेभ्य उदयच्छंस्तंतमेषामसुराः प्रत्यबुध्यन्त ततो वै देवा एतं तूष्णींशंसं वज्रमपश्यंस्तमेभ्य उदयच्छंस्तमेषामसुरा न प्रत्यबुध्यन्त तमेभ्यः प्राहरंस्तेनैनानप्रतिबुद्धेनाघ्नंस्ततो वै देवा अभवन्परासुरा भवत्यात्मना परास्य द्विषन्पाप्मा भ्रातृव्यो भवति य एवं वेद ते वै देवा विजितिनो मन्यमाना यज्ञमतन्वत तमेषामसुरा अभ्यायन्यज्ञवेशसमेषां करिष्याम इति तान्समन्तमेवोदारान्परियत्तानुदपश्यंस्तेऽब्रुवन्संस्थापयामेमं यज्ञं यज्ञं नोऽसुरा मा वधिषुरिति तथेति तं तूष्णींशंसे संस्थापयन्भूरग्निर्ज्योतिर्ज्योतिरग्निरित्याज्यप्रउगे संस्थापयन्निन्द्रो ज्योतिर्भुवो ज्योतिरिन्द्र इति निष्केवल्यमरुत्वतीये संस्थापयन्सूर्यो ज्योतिर्ज्योतिः स्वः सूर्य इति वैश्वदेवाग्निमारुते संस्थापयंस्तमेवं तूष्णींशंसे संस्थापयंस्तमेवं तूष्णींशंसे संस्थाप्य तेनारिष्टेनोदृचमाश्नुवत स तदा वाव यज्ञः संतिष्ठते यदा होता तूष्णींशंसं शंसति स य एनं शस्ते तूष्णींशंस उप वा वदेदनु वा व्याहरेत्तम्ब्रूयादेष एवैतामार्तिमारिष्यति प्रातर्वाव वयमद्येमं शस्ते तूष्णींशंसे संस्थापयामस्तं यथा गृहानितं कर्मणानुसमियादेवमेवैनमिदमनुसमिम इति सो ह वाव तामार्तिमृच्छति य एवं विद्वान्संशस्ते तूष्णींशंस उप वा वदत्यनु वा व्याहरति तस्मादेवं विद्वान्संशस्ते तूष्णींशंसे नोपवदेन्नानुव्याहरेत्॥2.31॥
[४६]चक्षूंषि वा एतानि सवनानां यत्तूष्णींशंसो भूरग्निर्ज्योतिर्ज्योतिरग्निरिति प्रातःसवनस्य चक्षुषी इन्द्रो ज्योतिर्भुवो ज्योतिरिन्द्र इति माध्यंदिनस्य सवनस्य चक्षुषी सूर्यो ज्योतिर्ज्योतिः स्वः सूर्य इति तृतीयसवनस्य चक्षुषी चक्षुष्मद्भिः सवनै राध्नोति चक्षुष्मद्भिः सवनैः स्वर्गं लोकमेति य एवं वेद चक्षुर्वा एतद्यज्ञस्य यत्तूष्णींशंस एका सती व्याहृतिर्द्वेधोच्यते तस्मादेकं सच्चक्षुर्द्वेधा मूलं वा एतद्यज्ञस्य यत्तूष्णींशंसो यं कामयेतानायतनवान्स्यादिति नास्य यज्ञे तूष्णींशंसं शंसेदुन्मूलमेव तद्यज्ञम्पराभवन्तमनु पराभवति तदु वा आहुः शंसेदेवापि वै तदृत्विजेऽहितां यद्धोता तूष्णींशंसं न शंसत्यृत्विजि हि सर्वो यज्ञः प्रतिष्ठितो यज्ञे यजमानस्तस्माच्छंस्तव्यः शंस्तव्यः॥2.32॥
[४७]ब्रह्म वा आहावः क्षत्रं निविद्विट्सूक्तमाहिवयतेऽथ निविदं दधाति ब्रह्मण्येव तत्क्षत्रमनुनियुनक्ति निविदं शस्त्वा सूक्तं शंसति क्षत्रं वै निविद्विट्सूक्तं क्षत्र एव तद्विशमनुनियुनक्ति यं कामयेत क्षत्रेणैनं व्यर्धयानीति मध्य एतस्यै निविदः सूक्तं शंसेत्क्षत्रं वै निविद्विट्सूक्तं क्षत्रेणैवैनं तद्व्यर्धयति यं कामयेत विशैनं व्यर्धयानीति मध्य एतस्य सूक्तस्य निविदं शंसेत्क्षत्रं वै निविद्विट्सूक्तं विशैवैनं तद्व्यर्धयति यमु कामयेत सर्वमेवास्य यथापूर्वमृजु क्लृप्तं स्यादि-त्याह्वयेताथ निविदं दध्यादथ सूक्तं शंसेत्सो सर्वस्य क्ळ्प्तिः प्रजापतिर्वा इदमेक एवाग्र आस सोऽकामयत प्रजायेय भूयान्स्यामिति स तपोऽतप्यत स वाचमयछत्स संवत्सरस्य परस्ताद्व्याहरद्द्वादशकृत्वो द्वादशपदा वा एषा निविदेतां वाव तां निविदं व्याहरत्ताम्सर्वाणि भूतान्यन्वसृज्यन्त तदेतदृषिः पश्यन्नभ्यनूवाच स पूर्वया निविदा कव्यतायोरिमाः प्रजा अजनयन्मनूनामिति तद्यदेताम्पुरस्तात्सूक्तस्य निविदं दधाति प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं वेद॥2.33॥
[४८]अग्निर्देवेद्ध इति शंसत्यसौ वा अग्निर्देवेद्ध एतं हि देवा इन्धत एतमेव तदेतस्मिँल्लोक आयातयत्यग्निर्मन्विद्ध इति शंसत्ययं वा अग्निर्मन्विद्ध इमं हि मनुष्या इन्धतेऽग्निमेव तदस्मिँल्लोक आयातयत्यग्निः सुषमिदिति शंसति वायुर्वा अग्निः सुषमिद्वायुर्हि स्वयमात्मानं समिन्द्धे स्वयमिदं सर्वं यदिदं किंच वायुमेव तदन्तरिक्षलोक आयातयति होता देववृत इति शंसत्यसौ वै होता देववृत एष हि सर्वतो देवैर्वृत एतमेव तदेतस्मिँ ल्लोक आयातयति होता मनुवृत इति शंसत्ययं वा अग्निर्होता मनुवृतोऽयं हि सर्वतो मनुष्यैर्वृतोऽग्निमेव तदस्मिँल्लोक आयातयति प्रणीर्यज्ञानामिति शंसति वायुर्वै प्रणीर्यज्ञानां यदा हि प्राणित्यथ यज्ञोऽथाग्निहोत्रं वायुमेव तदन्तरिक्षलोक आयातयति रथीरध्वराणामिति शंसत्यसौ वै रथीरध्वराणामेष हि यथैतच्चरति रथीरिवैतमेव तदेतस्मिँल्लोक आयातयत्यतूर्तो होतेति शंसत्ययं वा अग्निरतूर्तो होतेमं ह न कश्चन तिर्यञ्चं तरत्यग्निमेव तदस्मिँल्लोक आयातयति तूर्णिर्हव्यवाळ् इति शंसति वायुर्वै तूर्णिर्हव्यवाड्वायुर्हीदं सर्वं सद्यस्तरति यदिदं किंच वायुर्देवेभ्यो हव्यं वहति वायुमेव तदन्तरिक्षलोक आयातयत्या देवो देवान्वक्षदिति शंसत्यसौ वै देवो देवानावहत्येतमेव तदेतस्मिँल्लोक आयातयति यक्षदग्निर्देवो देवानिति शंसत्ययं वा अग्निर्देवो देवान्यजत्यग्निमेव तदस्मिँल्लोक आयातयति सोऽध्वरा करति जातवेदा इति शंसति वायुर्वै जातवेदा वायुर्हीदं सर्वं करोति यदिदं किंच वायुमेव तदन्तरिक्षलोक आयातयति॥2.34॥
[४९]प्र वो देवायाग्नय इत्यनुष्टुभः। प्रथमे पदे विहरति तस्मात्स्त्र्यूरू विहरति। समस्यत्युत्तरेपदे तस्मात्पुमानूरू समस्यति तन्मिथुनं मिथुनमेव तदुक्थमुखे करोति प्रजात्यै। प्रजायते प्रजया पशुभिर्य एवं वेद। प्र वो देवायाग्नय इत्येवानुष्टुभः प्रथमे पदे विहरति वज्रमेव तत्परोवरीयांसं करोति समस्यत्येवोत्तरे पदे आरम्भणतो वै वज्रस्याणिमाऽथो दण्डस्याथो परशोर्वज्रमेव तत्प्रहरति द्विषते भ्रातृव्याय वधं योऽस्य स्तृत्यस्तस्मै स्तर्तवै॥2.35॥ (10.3) (65)
[५०]देवासुरा वा एषु लोकेषु समयतन्त ते वै देवाः सद एवायतनमकुर्वत तान्सदसोऽजयंस्त आग्नीध्रं सम्प्रापद्यन्त ते ततो न पराजयन्त तस्मादाग्नीध्र उपवसन्ति न सदस्याग्नीध्रे ह्यधारयन्त यदाग्नीध्रेऽधारयन्त तदाग्नीध्रस्याग्नीध्रत्वं तेषां वै देवानामसुराः सदस्यानग्नीन्निर्वापयांचक्रुस्ते देवा आग्नीध्रादेव सदस्यानग्नीन्विहरन्त तैरसुररक्षांस्यपाघ्नत तथैवैतद्यजमाना आग्नीध्रादेव सदस्यानग्नीन्विहरन्त्यसुररक्षांस्येव तदपघ्नते ते वै प्रातराज्यैरेवाजयन्त आयन्यदाज्यैरेवाजयन्त आयंस्तदाज्यानामाज्यत्वं तासां वै होत्राणामायतीनामाजयन्ती-नामच्छावाकीयाहीयत तस्यामिन्द्राग्नी अध्यास्तामिन्द्राग्नी वै देवानामोजिष्ठौ बलिष्ठौ सहिष्ठौ सत्तमौ पारयिष्णुतमौ तस्मादैन्द्राग्नमच्छावाकः प्रातःसवने शंसतीन्द्राग्नी हि तस्यामध्यास्तां तस्मादु पुरस्तादन्ये होत्रकाः सदः प्रसर्पन्ति पश्चाच्छावाकः पश्चेव हि हीनोऽनुसंजिगमिषति तस्माद्यो ब्राह्मणो बह्वृचो वीर्यवान्स्यात्सो ऽस्याच्छावाकीयां कुर्यात्तेनेव साऽहीना भवति॥2.36॥
[५१]देवरथो वा एष यद्यज्ञस्तस्यैतावन्तरौ रश्मी यदाज्यप्रउगे तद्यदाज्येन पवमानमनुशंसति प्रउगेणाज्यं देवरथस्यैव तदन्तरौ रश्मी विहरत्यलोभाय तामनुकृतिम्मनुष्यरथस्यैवान्तरौ रश्मी विहरन्त्यलोभाय नास्य देवरथो लुभ्यति न मनुष्यरथो य एवं वेद तदाहुर्यथा वाव स्तोत्रमेवं शस्त्रं पावमानीषु सामगाः स्तुवत आग्नेयं होताज्यं शंसति कथमस्य पावमान्योऽनुशस्ता भवन्तीति यो वा अग्निः स पवमानस्तदप्येतदृषिणोक्तम् [५२]अग्निर्ऋषिः पवमान इत्येवमु हास्याग्नेयीभिरेव प्रतिपद्यमानस्य पावमान्योऽनुशस्ता भवन्ति तादाहुर्यथा वाव स्तोत्रमेवं शस्त्रं गायत्रीषु सामगाः स्तुवत आनुष्टुभं होताज्यं शंसति कथमस्य गायत्र्योऽनुशस्ता भवन्तीति सम्पदेति ब्रूयात्सप्तैता अनुष्टुभस्तास्त्रिः प्रथमया त्रिरुत्तमयैकादश भवन्ति विराद्याज्या द्वादशी न वा एकेनाक्षरेण छन्दांसि वियन्ति न द्वाभ्यां ताः षोळश गायत्र्यो भवन्त्येवमु हास्यानुष्टुब्भिरेव प्रतिपद्यमानस्य गायत्र्योऽनुशस्ता भवन्त्यग्न इन्द्रश्च दाशुषो दुरोण इति[५३] आग्नेन्द्र्या यजति न वा एताविन्द्राग्नी सन्तौ व्यजयेतामाग्नेन्द्रौ वा एतौ सन्तौ व्यजयेतां तद्यदाग्नेन्द्र्या यजति विजित्या एव सा विराट्त्रयस्त्रिंशदक्षरा भवति त्रयस्त्रिंशद्वै देवा अष्टौ वसव एकादश रुद्रा द्वादशादित्याः प्रजापतिश्च वषट्कारश्च तत्प्रथम उक्थमुखे देवता अक्षरभाजः करोत्यक्षरम्-अक्षरमेव तद्देवता अनुप्रपिबन्ति देवपात्रेणैव तद्देवतास्तृप्यन्ति तदाहुर्यथा वाव शस्त्रमेवं याज्याग्नेयं होताज्यं शंसत्यथ कस्मादाग्नेन्द्र्या यजतीति या वा आग्नेन्द्र्यैन्द्राग्नी वै सा सेन्द्राग्नमेतदुक्थं ग्रहेण च तूष्णींशंसेन च [५४]इन्द्राग्नी आ गतं सुतं गीर्भिर्नभो वरेण्यमस्य पातं धियेषितेत्यैन्द्राग्नमध्वर्युर्ग्रहं गृह्णाति भूरग्निर्ज्योतिर्ज्योतिरग्निरिन्द्रो ज्योतिर्भुवो ज्योतिरिन्द्रः सूर्यो ज्योतिर्ज्योतिः स्वः सूर्य इति होता तूष्णीशंसं शंसति तद्यथेव शस्त्रमेवं याज्या॥2.37॥
[५५]होतृजपं जपति रेतस्तत्सिञ्चत्युपांशु जपत्युपांश्विव वै रेतसः सिक्तिः पुराऽऽहावाज्जपति यद्वै किंचोर्ध्वमाहावाच्छस्त्रस्यैव तत्पराञ्चं चतुष्पद्यासीनमभ्याह्वयते तस्मात्पराञ्चो भूत्वा चतुष्पादो रेतः सिञ्चन्ति सम्यङ्द्विपाद्भवति तस्मात्सम्यञ्चो भूत्वा द्विपादो रेतः सिञ्चन्ति पिता मातरिश्वेत्याह प्राणो वै पिता प्राणो मातरिश्वा प्राणो रेतो रेतस्तत्सिञ्चत्यछिद्रा पदा धा इति रेतो वा अछिद्रमतो ह्यछिद्रः सम्भवत्यछिद्रोक्था कवयः शंसन्निति ये वा अनूचानास्ते कवयस्त इदमच्छिद्रं रेतः प्रजनयन्नित्येव तदाह [५६]सोमो विश्वविन्नीथा निनेषद्बृहस्पतिरुक्थामदानि शंसिषदिति[५७] ब्रह्म वै बृहस्पतिः क्षत्रं सोमः स्तुतशस्त्राणि नीथानि[५८] चोक्थमदानि च दैवेन चैवैतद्ब्रह्मणा प्रसूतो दैवेन च क्षत्रेणोक्थानि शंसत्येतौ ह वा अस्य सर्वस्य प्रसवस्येशाते यदिदं किंच तद्यदेताभ्यामप्रसूतः करोत्यकृतं तदकृतमकरिति वै निन्दन्ति कृतमस्य कृतम्भवति नास्याकृतं कृतम्भवति य एवं वेद वागायुर्विश्वायुर्विश्वमायुरित्याह प्राणो वा आयुः प्राणो रेतो वाग्योनिर्योनिं तदुपसंधाय रेतः सिञ्चति क इदं शंसिष्यति स इदं शंसिष्यतीत्याह प्रजापतिर्वै कः प्रजापतिः प्रजनयिष्यतीत्येव तदाह॥2.38॥
[५९]आहूय तूष्णींशंसं शंसति रेतस्तत्सिक्तं विकरोति सिक्तिर्वा अग्रेऽथ विकृतिरुपांशु तूष्णींशंसं शंसत्युपांश्विव वै रेतसः सिक्तिस्तिर इव तूष्णींशंसं शंसति तिर इव वै रेतांसि विक्रियन्ते षट्पदं तूष्णींशंसं शंसति षड्विधो वै पुरुषः षळङ्ग आत्मानमेव तत्षड्विधं षळङ्गं विकरोति तूष्णींशंसं शस्त्वा पुरोरुचं शंसति रेतस्तद्विकृतं प्रजनयति विकृतिर्वा अग्रेऽथ जातिरुच्चैः पुरोरुचं शंसत्युच्चैरेवैनं तत्प्रजनयति द्वादशपदां पुरोरुचां शंसति द्वादश वै मासाः संवत्सरः संवत्सरः प्रजापतिः सोऽस्य सर्वस्य प्रजनयिता स योऽस्य सर्वस्य प्रजनयिता स एवैनं तत्प्रजया पशुभिः प्रजनयति प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं वेद जातवेदस्यां पुरोरुचं शंसति जातवेदोन्यङ्गां तदाहुर्यत्तृतीयसवनमेव जातवेदस आयतनमथ कस्मात्प्रातःसवने जातवेदस्यां पुरोरुचं शंसतीति प्राणो वै जातवेदाः स हि जातानां वेद यावतां वै स जातानां वेद ते भवन्ति येषामु न वेद किमु ते स्युर्यो वा आज्यं आत्मसंस्कृतिं वेद तत्सुविदितम्॥2.39॥
[६०]प्र वो देवायाग्नय इति[६१] शंसति प्राणो वै प्र प्राणं हीमानि सर्वाणि मृतान्यनु प्रयन्ति प्राणमेव तत्संभावयति प्राणं संस्कुरुते। [६२]दीदिवांसमपूर्व्यमिति शंसति मनो वै दीदाय मनसो हि न किंचन पूर्वमस्ति मन एव तत्संभावयति मनः संस्कुरुते। [६३]स नः शर्माणि वीतय इति शंसति वाग्वै शर्म तस्माद्वाचाऽनुवदन्तमाह शर्मवदास्मा आयांसीति वाचमेव तत्संभवयति वाचं संस्कुरुते। [६४]उत नो ब्रह्मन्नविष इति शंसति श्रोत्रं वै ब्रह्म श्रोत्रेण हि ब्रह्म शृणोति श्रोत्रे ब्रह्म प्रतिष्ठितं श्रोत्रमेव तत्संभावयति श्रोत्रं संस्कुरुते। [६५]स यन्ता विप्र एषामिति शंसत्यपानो वै यन्ताऽपानेन ह्ययं यतः प्राणो न पराङ्भवत्यपानमेव तत्संभावयत्यपानं संस्कुरुते। [६६]ऋतावा यस्य रोदसी इति शंसति चक्षुर्वा ऋतं तस्माद्यतरो विवदमानयोराहाहमनुष्ठ्या चक्षुषाऽदर्शमिति तस्य श्रद्दधति चक्षुरेव तत्संभावयति चक्षुः संस्कुरुते। [६७]नू नो रास्व सहस्रवत्तोकवत्पुष्टिमद्वस्वित्युत्तमया परिदधात्यात्मा वै समस्तः सहस्रवांस्तोकवान्पुष्टिमानात्मानमेव तत्समस्तं संभावयत्यात्मानं समस्तं संस्कुरुते। याज्यया यजति प्रत्तिर्वै याज्या पुण्यैव लक्ष्मीः पुण्यामेव तल्लक्ष्मीं संभावयति पुण्यां लक्ष्मीं संस्कुरुते। स एवं विद्वांश्छन्दोमयो देवतामयो ब्रह्ममयोऽमृतमयः संभूय देवता अप्येति य एवं वेद। यो वै तद्वेद यथा छन्दोमयो देवतामयो ब्रह्ममयोऽमृतमयः संभूय देवता अप्येति तत्सुविदितम्। इत्यध्यात्ममथाधिदैवतम्॥2.40॥ (10.8) (70)
[६८]षट्पदं तूष्णींशंसं शंसति षड्वा ऋतव ऋतूनेव तत्कल्पयत्यृतूनप्येति। द्वादशपदां पुरोरुचं शंसति द्वादश वै मासा मासानेव तत्कल्पयति मासानप्येति। [६९]प्र वो देवायाग्नय इति शंसत्यन्तरिक्षं वै प्रान्तरिक्षं हीमानि सर्वाणि भूतान्यनुप्रयन्त्यन्तरिक्षमेव तत्कल्पयत्यन्तरिक्षमप्येति। [७०]दीदिवांसमपूर्व्यमिति शंसत्यसौ वै दीदाय योऽसौ तपत्येतस्माद्धि न किंचन पूर्वमस्त्येतमेव तत्कल्पयत्येतमप्येति। [७१]स नः शर्माणि वीतय इति शंसत्यग्निर्वै शर्माण्यन्नाद्यानि यच्छत्यग्निमेव तत्कल्पयत्यग्निमप्येति। [७२]उत नो ब्रह्मन्नविष इति शंसति चन्द्रमा वै ब्रह्म चन्द्रमसमेव तत्कल्पयति चन्द्रमसमप्येति। [७३]स यन्ता विप्र एषामिति शंसति वायुर्वै यन्ता वायुना हीदं यतमन्तरिक्षं न समृच्छति वायुमेव तत्कल्पयति वायुमप्येति। [७४]ऋतावा यस्य रोदसी इति शंसति द्यावापृथिवी वै रोदसी द्यावापृथिवी एव तत्कल्पयति द्यावापृथिवी अप्येति। [७५]नू नो रास्व सहस्रवत्तोकवत्पुष्टिमद्वस्वित्युत्तमया परिदधाति संवत्सरो वै समस्तः सहस्रवांस्तोकवान्पुष्टिमान्संवत्सरमेव तत्समस्तं कल्पयति संवत्सरं समस्तमप्येति। याज्यया यजति वृष्टिर्वै याज्या विद्युदेव विद्युद्धीदं वृष्टिमन्नाद्यं संप्रयच्छति विद्युतमेव तत्कल्पयति विद्युतमप्येति। स एवं विद्वानेतन्मयो देवतामयो भवति भवति॥2.41॥ (10.9) (71)
- ↑ आख्यायिका-अग्नीषोमीयपशुविधानार्था
अग्नीषोमोयपशोः यूपविधानम्
यूपस्य निखननविधिः
आश्रयणे याज्ञिकप्रसिद्धिकथनम्
अष्टाश्रित्वविधिः
खादिरत्वविधिः स्वर्गकामस्य
बैल्वत्वविधिरन्नाद्यकामस्य पुष्टिकामस्य च
पालाशत्वविधिस्तेजस्कामस्य ब्रह्मवर्चसकामस्य च - ↑ अञ्जनप्रकारोपदेशः
प्रैषमन्त्रः, यूपाञ्जनानुवचनीयानामृचाम्
तत्र त्रैकल्प्यविधिः
यूपाञ्जनानुवचनीयानां सप्तानामृचां विधानारम्भः
आद्यन्तयोरावृत्त्यैकादशत्वापादनविधिः
मीमांसा- यूपस्य होत्राध्वर्यवमन्त्रयोः समुच्चयत्वनिर्णयाधिकरणम्
उच्छ्रयणादिकर्मणामेकत्वनिर्णयाधिकरणम्
यूपस्य उच्छ्रयणप्रकारोपदेशः - ↑ ऋ. ३.८.१
- ↑ ऋ. १.३६.१३
- ↑ ऋ. ३.८.४
- ↑ अनुप्रहरणे विचारः
अनुप्रहरणनिषेषः पशुकामस्य
अनुप्रहरणविधिः स्वर्गकामस्य
प्रस्तरस्य च यजमानत्वोपचारः
अनुप्रहरणस्य प्रतिनिथिकथनम्
स्वरुप्रहरणप्रकारोपदेशः
अग्नीषोमीयस्य पशोः आलम्भनविधि
स्वरूपनिर्णय ।
शेषभक्षणे विचारः
यजमानस्वरूपत्नेन भक्षणनिषेधः
अग्नीषोमीयस्य पशोः लिप्साभक्षणयोर्विधिः
एकादशप्रयाजानां विधिः
मीमांसा - यजमानः प्रस्तरः इत्यादेर्गौणत्वनिर्णयाधिकरणम्
स्वरुच्छेदनप्रयोजकत्वाभावनिर्णयाधिकरणम् - ↑ अग्नीषोमीयस्य पशोः प्रथमप्रयाजयाज्याविधिः
प्रयाजदेवतापरिगणनम्
द्वितीयप्रयाजयाज्याद्वयविधिः
तृतीयप्रयाजयाज्याविधिः
चतुर्थप्रयाजतः एकादशप्रयाजान्तयाज्याविधिः
प्रयाजानां यथर्षिव्यवस्था - ↑ १०.११०.१
- ↑ प्रैषमन्त्रः - पर्यग्निकरणानां तिसॄणाम् ऋचाम्
पर्यग्निकरणास्तिस्र ऋचो मैत्रावरुणस्य
प्रैषमन्त्रः - मैत्रावरुणं प्रत्यध्वर्योः
उपप्रैषमन्त्रः -होतारं प्रति मैत्रावरुणस्य
अन्यमनस्कस्य यज्ञीयवाक्-प्रयोग-निषेधः
अनन्यमनस्कस्यैव यज्ञीयहव्यादिसम्पादनविधिः - ↑ ऋ. ४.१५.१
- ↑ प्रैषमन्त्रः-- अध्रिगुं प्रति होतुः
शाखान्तरीयस्याध्रिगुप्रैषस्य पूर्वार्द्धस्य व्याख्यानारम्भः
शाखान्तरीयस्याध्रिगुप्रैषस्य अपरार्द्धस्य व्याख्यानांरम्भः
अध्रिगुप्रैषे श्रुतस्य मेधपतिशब्दस्य एक-द्वि बहु-देवताक-प्रयोगेषु
एक-द्वि- बहु-वचनान्ततया प्रयोज्यत्वविधिः
संज्ञप्यमानस्य पशोः पुरस्ताद् अग्निहरणम्
अधस्ताद् बहिःस्तरणम्.
मात्राद्यनुज्ञाया ग्रहणम्
पदामुदीचीनत्वकरणम्
प्राणादीनां प्रेरणम्
त्वक्छेदनप्रकारोपदेशः
वक्षःप्रभृत्यङ्गानां परिचयः
पुरीषगूहनस्थानखननम्
मीमांसा-द्विपश्वादिपशुविकृतौ मेधपतिशब्दस्य देवतानुसारेणोहाधिकरणम्
बहुदेवत्यपशावपि एकवचनान्तमेधपतिशब्दस्य विकल्पाधिकरणम्
एकादशिन्यामेकवचनान्तमेधपतिशब्दस्योहाधिकरणम्
द्विपशुयागे सूर्यं चक्षुर्गमयतादितिमन्त्राणामनूहाधिकरणम्
द्विपशुयागेऽध्रिगुप्रैषे एकधेत्यस्य शब्दस्याभ्यासाधिकरणम्
श्येनमस्यवक्षः-इत्यादौ श्येनादिशब्दानां कार्त्स्नवचनाधिकरणम्
'प्रशसा बाहू-इत्यत्र प्रशसाशब्दस्य प्रशंसापरत्वाधिकरणम्
षड्विंशतिरस्य वङ्क्रयः -इत्यादौ पदान्तरोहाधिकरणम् - ↑ अध्रिगुप्रैषमन्त्रस्य प्रथमभागतः द्वादशभागान्तस्य व्याख्यानम्
अध्रिगुप्रैषमन्त्रपाठानन्तरं जपविधिस्तन्मन्त्रश्च
मीमांसा - अग्नीषोमीयपशावुरुकशब्देन वपाभिधानाधिकरणम् - ↑ आख्यायिका-पशुपुरोडाशविधानार्था
पशुपुरोडाशस्य विधानम् -
पुरुषाश्वगोऽव्यजव्रीहीणां यज्ञीयपशुत्वम्, तत्रापि अजस्य प्राशस्त्यम्
किंपुरुषगौरगवयोष्ट्रशरभाणामयज्ञीयपशुत्वान्वाख्यानम्
मीमांसा-पशुपुरोडाशस्य देवतासंस्कारकताधिकरणम् -
अग्नीषोमीयप्रयाजादिभिः पुरोडाशस्योपकाराधिकरणम्
पशुपुरोडाशयागस्य प्रशंसा - ↑ वपायाज्ययोर्विधानम्
याज्याया विधानम्
स्विष्टकृद्याज्याया विधानम्
इडोपह्वानस्य विधानम् - ↑ १.९३.५
- ↑ ३.५४.२२
- ↑ प्रैषमन्त्रः-ह्रदयाद्यङ्गावदानसूक्तविधौ
हदयाद्यङ्गावदानस्य सूक्तविधानम्
याज्याविधिः
वनस्पतियागस्य विधिः
स्विष्टकृद्-यागस्य विधानम्
इळोपह्वानस्य विधिः
मीमांसा-मनोतायामूहाभावाधिकरणम् - ↑ ऋ. ६.१.१
- ↑ ऋ. १.९३.७
- ↑ आख्यायिका-पर्यग्निकरणस्तुत्यर्था
देवानां विग्रहवत्त्व-कर्माधिकारित्वयोर्विचारः
पर्यग्निकरणविधिः
शामित्रदेशे बर्हिःप्रक्षेपविधिः
पशोः पुरीषस्थापनार्थमवटखननविधिः
पशुपुरोडाशप्रशंसार्थौ प्रश्नोत्तरौ - ↑ प्रैषमन्त्रः--स्तोकानुवचनीयायाः
स्तोकानुवचनीयानां विथिः
स्तोकस्य प्रशंसा - ↑ १.७५.१
- ↑ ३.२१.१
- ↑ वपाप्रशंसायां प्रश्नद्वयम्
आख्यायिका-वपाहोमप्रशंसार्था
वपामात्रस्य पशुरूपत्वे प्रश्नः - ↑ आज्याद्याहुतिभिः सह वपाहुतेः प्रशंसा
अवदाने विशेषविधिः
आज्यस्य हिरण्यप्रतिनिधित्वोपपादनम्
अवदानगतपञ्चसङ्ख्यायाः प्रशंसा - ↑ प्रैषमन्त्रः - प्रातरनुवाकार्थः
प्रातरनुवाकीया ऋचः
प्रातरनुवाकशब्दस्य निर्वचनम्
प्रातरनुवाकस्य देवसम्बन्धविशदनम्
देवोत्कर्षहेतुत्वम्
कालविशेषविधिः
प्रातरनुवाकस्य कालविधौ पक्षान्तरविधिः
प्रैषमन्त्रः-अध्वर्योरुपाकरणार्थः - ↑ आख्यायिका-प्रथमाया ऋचो विधानार्था
तदृचोऽर्थवादेन विध्युन्नयनम्
आख्यायिका-तदृक्-प्रशंसार्था
तस्या ऋचस्त्रिरावृत्तिविधिः - ↑ १०.३०.१२
- ↑ प्रातरनुवाकीयानामृचां शतसंख्याविधानम् आयुष्कामस्य
सङ्ख्यान्तरविधि। अहीनरात्रादुत्तरक्रतुकामस्य
द्विगुणसङ्ख्याविधि; प्रजां पशूंश्च कामयमानस्य
अष्टशतसङ्ख्याविधिः दुर्ब्राह्मणत्वपरिहारकामस्य
प्रसङ्गतः स्वर्गलोकस्येतः सहस्राश्वीनदूरवर्त्तित्वकथनम्
प्रातरनुवाकीयानामृचाम् अपरिमिताध्ययनविधिः सर्वकामसिद्धिकामस्य
सहस्रसङ्ख्याविधिः स्वर्गकामस्य
प्रथमभागे छन्दोविधानम्
द्वितीयभागे छन्दोविधानम्
तृतीयभागे छन्दोविधानम्
भागत्रये देवतात्रयविधिः
ग्राम्याः पशवः सप्त-बौधायनोक्ताः
आपस्तम्बमतानुसारिणाम्
सामगानां क्रुष्टादयः सप्त स्वराः - ↑ प्रातरनुवाकस्य अनुवचनप्रकारनिर्णयाय प्रश्नोत्तरे
अपरप्रश्नोत्तरे
शंसनेन छन्दोभागानां प्रीत्यभिधानम्
परिधानीयाया निर्देशः
तत्र सोमपदेवतानां परिगणनम्
असोमपदेवतानां परिगणनम्
आहुतिभागाः, स्तोमभागाः, छन्दोभागाश्चेति त्रिविधा देवाः
प्रयाजदेवतानां सङ्ख्यानिर्देशः
अनुयाजदेवतानां सङ्ख्यानिर्देशः
उपयाजदेवतानां सङ्ख्यानिर्देशः - ↑ आख्यायिका-अपोनप्त्रीयानुवचनविधानार्था
अपोनप्त्रीयसूक्तस्य नैरन्तर्येणाध्ययनविधिः
प्रथमाया ऋच आवृतिसहितं सान्तत्यम् - ↑ १०.३०.१
- ↑ अवग्राहं तस्मिंस्तस्मिन्नर्धर्चे पादे वाऽवगृह्यावगृह्य पुनः पुनरवसानं कृत्वा यद्यनुब्रूयात् - सा.भा.
- ↑ अध्ययनप्रकारोपदेशः
आध्वर्यवसूत्रोक्तः प्रयोगक्रमः
आपस्तम्बाद्युक्तप्रैषादिप्रदर्शनम्
अपोनप्त्रीयसूक्तस्य ऋचामनुवचनकालनियमः
परिधानीयायाः विधानम्
आख्यायिका-वसतीवर्येकधनयोः
यदुर्मन्त्रः-होतुः प्रश्नार्थः
अध्वर्योः प्रत्युत्तरार्थः
निगदरूपो होतुः प्रत्युत्थानार्थः
अपामनुवर्त्तनविधानं होतुः
अपोनप्त्रीयानुवचने सादनप्रकारः
- ↑ प्रातरनुवाकस्य प्रशंसापूर्वकं विधानम्
उपांश्वन्तर्यामहोमादूर्ध्वं वाग्विसर्जनस्य विधिः तत्प्रकारश्च
उपांशुसवनाभिमर्शनोपपादनम् - ↑ बहिष्पवमानार्थं प्रसर्पणविधानम्
अनुमन्त्रणविधानम्
यजुर्मन्त्रः-बहिष्पवमानानुमन्त्रणार्थः
बहिष्पवमानानुमन्त्रणार्थोऽपरः
सवनीयपुरोडाशेषु मैत्राबरुणी पयस्या
आख्यायिका-मैत्रावरुणपयस्याप्रशंसार्था - ↑ सवनीयपुरोडाशविधानार्था
सवनीयपुरोडाशविधिः
पुरोडाशशब्दनिर्वचनम्
पुरोडाशस्वरूपनिर्धारणाय पूर्वोत्तरपक्षौ
पुरोडाशशेषभक्षणे पूर्वोत्तरपक्षौ - ↑ हविष्पङ्क्तिविधानम् (धा० क० प० पु० प०) २.२४
अक्षरपङ्क्तिविधानम् (सु० मत्० पत्० वक्० दे०)
नाराशंसपङ्क्तिविधानम् (प्रा० २, मा० २, तृ० १, चमसाः)
सवनपङ्क्तिविधानम् (प० प्रा० म० तृ० अ)
सवनीयपुरोडाशानां याज्यामन्त्राणां व्याख्यानम्
याज्यामन्त्राणां वेदनप्रशंसा
यजुर्मन्त्राः - सवनीयपुरोडाशया्ज्यार्थाः, तेषां व्याख्यानं च सवनीयपुरोडाशस्विष्टकृद्याज्यार्थः
स्विष्टकृतो याज्याया विधिः तन्मन्त्रवेदनपूर्वकानुष्ठानप्रशंसा च
- ↑ आख्यायिका -ऐन्द्रवायवादिद्विदेवत्यग्रहविधानार्था
देवानां विजयक्रमेण सोमपानक्रमविधानार्था
ऐन्द्रवायवग्रहविधानम्
ऐन्द्रवायवग्रहे मन्त्रसंवाद-लोकव्यवहारौ - ↑ द्विदेवत्यग्रहाणां प्राणरूपत्वेन प्रशंसा
ऐन्द्रवायवग्रहस्य याज्यानुवाक्ययोर्विधानम् - ↑ द्विदेवत्यग्रहाणां ग्रहणहोमयोः पात्रवैषम्यविधिः
होतुर्ग्रहशेषभक्षप्रतिग्रहमन्त्रविधिः
यजुर्मन्त्रः-अध्वर्योः ग्रहशेषभक्षप्रदानार्थः
होतुः ऐन्द्रवायवग्रहशेषभक्षणार्थः
होतुः मैत्रावरुणग्रहशेषभक्षणार्थः
होतुः आश्विनग्रहशेषभक्षणार्थः
द्विदेवत्यग्रहाणां भक्षणे विशेषविधिः - ↑ द्विदेवत्यग्रहेषु होतृप्रयोक्तव्यमन्त्राणामुच्छ्वासविधिः
अनुवषट्कारमन्त्रप्रयोगनिषेधः
यजुर्मन्त्रः-ग्रहेषु याज्यान्ते वषट्कृतहोमादुत्तरमनुवषट्कारार्थः
आगूकरणार्थः
वषट्कारार्थः
प्रैषमन्त्रौ-ऐन्द्रवायवग्रहे मैत्रावरुणस्य
मैत्रावरुणस्य यज्ञीयमनोरूपत्वान्वाख्यानम्
होतुः यज्ञीयवाग्रूपत्वान्वाख्यानम् - ↑ ऋतुयाजस्वरूपकथनम्
ऋतुग्रहयागानां विधानम्
ऋतुग्रहयागानां प्रथमादिषु षट्सु विशेषविधिः
सप्तमादिषु चतुर्षु विशेषविधिः
एकादशद्वादशयोः विशेषविधिः
अनुवषट्कारप्रयोगनिषेधः - ↑ इडोपह्वानग्रहशेषभक्षणयोः पौर्वापर्यविधिः
होतृहस्तसम्पादितावान्तरेळाप्राशन-होतृचमसभक्षणयोः पौर्वापर्य-
विचारः, तन्निर्णयश्च
द्विदेवत्यग्रहशेषस्य बिन्दोर्होतृचमसे प्रक्षेपविधिः - ↑ आख्यायिका-तूष्णींशंसविधानार्था
तूष्णींशंसस्यासुरविनाशहेतुत्वप्रदर्शनार्था
तूष्णींशंसस्वरूपप्रदर्शनार्था
तूष्णींशंसानुष्ठानविधानार्था
चक्षुःस्वरूपत्वोपपादनम् - ↑ तूष्णींशंसस्यानुष्ठानप्रकारः प्रशंसा च
यजुर्मन्त्रः-तूष्णींशंसात् प्राक् प्रयोज्यः
तूष्णींशंसस्य प्रथमभागः प्रातस्सवने
तूष्णींशंसस्य द्वितीयभागः माध्यन्दिनसवने
तूष्णींशंसस्य तृतीयसवने
तूष्णींशंसस्य होतुरनुकूलत्वेन प्रशंसनम्
यज्ञमूलत्वेन प्रशंसनम् - ↑ तूष्णींशंसस्य आहाव-निवित्-सूक्तानां विधानम्
आहावस्वरूपोपदेशः
निवित्स्वरूपोपदेशः
सूक्तस्वरूपोपदेशः
आहावनिवित्सूक्तानां ब्रह्मक्षत्रवैश्यस्वरूपत्वम्
निविदः क्षत्रियजातित्वम् सूक्तस्य वैश्यजातित्वम्
निविन्मध्ये सूक्तशंसने क्षत्रविरोधः
सूक्तमध्ये निविच्छंसने वैश्यविरोधः
आहावनिवित्सूक्तानां यथाक्रमेणानुष्ठेयता
आख्यायिका निवित् प्रशंसार्था
निवित् प्रशंसायां मन्त्रसंवादप्रदर्शनम्
सूक्तात् पूर्वं निविदनुष्ठानस्य प्रशंसा - ↑ यजुर्मन्त्रः-आहावनामकः निविन्नामको द्वादशपदात्मकः
द्वादशपदोपेताया निविदः प्रथमपद विधिः
द्वादशपदोपेताया निविदः द्वितीयपदविधितः-
द्वादशपदविधिः - ↑ निविदनन्तरप्रयोज्यसूक्तप्रयोगप्रकारः
- ↑ आख्यायिका-आग्नीध्रीयवासादिसिद्ध्यर्था
सदस्यवस्थितेषु धिष्णियेष्वाग्नीध्रादग्निविहरणविधिः
आज्यनामनिर्वचनादिकम्
आज्यशस्त्राज्यस्तोत्रयोस्तुल्यत्वबोधनम्
ऐन्द्राग्नशस्त्रविधानम् (अच्छावाकस्य)
अच्छावाकस्य सदः प्रवेशे विशेषविधिः
अच्छावाकीयशस्त्रस्य प्रशंसा - ↑ यज्ञस्य देवरथत्वेन वर्णनम्
आज्यशस्त्रस्य बहिष्पवमानस्तोत्रोत्तर प्रयोज्यत्वविधिः
प्रउगशस्त्रस्य आज्यस्तोत्रोत्तरप्रयोज्यत्वविधिः
आज्यप्रउगशस्त्रयोः रश्मिस्थानीयत्वम्
स्तोत्रशस्त्रयोः सर्वथा तुल्यताया विधानम्
देवताकृतातुल्यतादोषपरिहारः
च्छन्दःकृतातुल्यतादोषपरिहारः
ऐन्द्राग्नग्रहस्य याज्याया विधानम्
याज्यागताक्षरप्रशंसा
शस्त्रयाज्ययोः देवताकृतवैयधिकरण्योद्भावनम्, तत्परिहारश्च
आज्यशस्त्रस्य ग्रहद्वारकं तूष्णींशंसद्वारकञ्च ऐन्द्राग्नत्वम् - ↑ ९.६६.२०
- ↑ ३.२५.४
- ↑ ३.१२.१
- ↑ होतृजपस्य विधानम्
उपांशूच्चारणविधिः
आहावात् पूर्वानुष्ठेयत्वम्
होतुराहावकालेऽध्वर्योश्चतुष्पात्त्वविधिः
होतुराहावादूर्ध्वमध्वर्योश्चतुष्पात्त्वपरिहारः
यजुर्मन्त्रः-होतृजपार्थः
होतृजपमन्त्रं भागशः प्रपठ्य तथा भागश एव तद्व्याख्यानम् - ↑ आश्व.श्रौ.सू. ५.९.१, तु. तै.सं. ५.६.८.६
- ↑ पुराणेषु आख्यानमस्ति(पद्म २.३०.५६ ) यत् सुनीथा मृत्योः कन्या अस्ति। सा अङ्गराज्ञः पत्नी भूत्वा वेनं पुत्रं जनयति, यः दुष्टः, अहंकारग्रस्तः अस्ति। अस्य कारणं अयमस्ति यत् पूर्वकाले सुनीथा तपोरतं सुशंखं ताडयति, येन कारणेन सुशंखः सुनीथां शपति यत् त्वं दुष्टं पुत्रं जनिष्यसि।
- ↑ सुनीथा उपरि संदर्भाः
- ↑ तूष्णींशंसस्य आहावादुत्तरकालीनत्वविधानम्
शंसनकाले ईषदुच्चैर्ध्वनिविधानम्
षट्पदत्वस्य विधानम्
प्रयोगानन्तरं पुरोरुक् शंसनविधिः
पुरोरुचः उच्चैः शंसनविधिः
द्वादशपदत्वाख्यानम् पुरोरुक् निविदः
देवताद्वारा प्रशंसनम्
प्रातस्सवनिकत्वेऽपि जातवेदस्यात्वं कथमिति प्रश्नः
जातवेदःशब्देन प्राणदेवताया ग्रहणमित्युत्तरम्
आज्यशस्त्रस्य याज्याया विधानम् - ↑ सूक्तगतानां सप्तानामृचां प्रतीकग्रहणपूर्वकं विधानम्
आज्यशस्त्रस्य उक्तक्रमेणानुष्ठातृवेदित्रोराध्यात्मिकप्रशंसनम् - ↑ ३.१३.१
- ↑ ३.१३.५
- ↑ ३.१३.४
- ↑ ३.१३.६
- ↑ ३.१३.३
- ↑ ३.१३.२
- ↑ ३.१३.७
- ↑ नक्तगतानां सप्तानामृचां प्रतीकग्रहणपूर्वकमाधिदैविकप्रशंसनम्
याज्यायाः प्रशंसनम्, तद्वेदितुः प्रशंसनञ्च - ↑ ३.१३.१
- ↑ ३.१३.५
- ↑ ३.१३.४
- ↑ ३.१३.६
- ↑ ३.१३.३
- ↑ ३.१३.२
- ↑ ऋ. ३.१३.७