ऋग्वेदः सूक्तं १.७५
← सूक्तं १.७४ | ऋग्वेदः - मण्डल १ सूक्तं १.७५ गोतमो राहूगणः |
सूक्तं १.७६ → |
दे. अग्निः। गायत्री |
जुषस्व सप्रथस्तमं वचो देवप्सरस्तमम् ।
हव्या जुह्वान आसनि ॥१॥
अथा ते अङ्गिरस्तमाग्ने वेधस्तम प्रियम् ।
वोचेम ब्रह्म सानसि ॥२॥
कस्ते जामिर्जनानामग्ने को दाश्वध्वरः ।
को ह कस्मिन्नसि श्रितः ॥३॥
त्वं जामिर्जनानामग्ने मित्रो असि प्रियः ।
सखा सखिभ्य ईड्यः ॥४॥
यजा नो मित्रावरुणा यजा देवाँ ऋतं बृहत् ।
अग्ने यक्षि स्वं दमम् ॥५॥
सायणभाष्यम्
जुषस्व ' इति पञ्चर्चं द्वितीयं सूक्तम् । अनुक्रान्तं च- जुषस्व पञ्च' इति । ऋष्याद्याः पूर्ववत् । प्रातरनुवाकाश्विनशस्त्रयोः पूर्वसूक्तेन सहोक्तः सूक्तविनियोगः । पशौ स्तोकानुवचने आद्या विनियुक्ता । सूत्रितं च--’ प्रेषितः स्तोकेभ्योऽन्वाह जुषस्व सप्रथस्तमम्' (आश्व. श्रौ. ३. ४) इति ॥
जु॒षस्व॑ स॒प्रथ॑स्तमं॒ वचो॑ दे॒वप्स॑रस्तमम् ।
ह॒व्या जुह्वा॑न आ॒सनि॑ ॥१
जु॒षस्व॑ । स॒प्रथः॑ऽतमम् । वचः॑ । दे॒वप्स॑रःऽतमम् ।
ह॒व्या । जुह्वा॑नः । आ॒सनि॑ ॥१
जुषस्व । सप्रथःऽतमम् । वचः । देवप्सरःऽतमम् ।
हव्या । जुह्वानः । आसनि ॥१
हे अग्ने “सप्रथस्तमम् अतिशयेन विस्तीर्णं “वचः स्तोत्रलक्षणमस्मदीयं वचनं “जुषस्व सेवस्व । कीदृशम् । “देवप्सरस्तमं देवानां प्रीणयितृतमम् । किं कुर्वन् । “आसनि तवास्ये “हव्या हव्यानि स्तोकलक्षणानि हवींषि “जुह्वानः प्रक्षिपन् । इमानि स्तोकलक्षणानि हवींषि वृथा मा भूवन् तत्सर्वं त्वदीयेन मुखेन स्वीकुर्वित्यर्थः ॥ देवप्सरस्तमम् ।' स्पृ प्रीतिबलयोः । देवान् स्पृणोति प्रणयतीति देवप्सराः ।' गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च ' इति असुन् पूर्वपदप्रकृतिस्वरत्वं च । सकारपकारयोः स्थानविपर्ययः। अतिशयेन देवप्सरा देवप्सरस्तमः । जुह्वानः । जुहोतेर्व्यत्ययेन शानच् । ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । आसनि । ' पद्दन्' इत्यादिना आस्यशब्दस्य आसन्नादेशः ।
अथा॑ ते अङ्गिरस्त॒माग्ने॑ वेधस्तम प्रि॒यम् ।
वो॒चेम॒ ब्रह्म॑ सान॒सि ॥२
अथ॑ । ते॒ । अ॒ङ्गि॒रः॒ऽत॒म॒ । अ॒ग्ने॒ । वे॒धः॒ऽत॒म॒ । प्रि॒यम् ।
वो॒चेम॑ । ब्रह्म॑ । सा॒न॒सि ॥२
अथ । ते । अङ्गिरःऽतम । अग्ने । वेधःऽतम । प्रियम् ।
वोचेम । ब्रह्म । सानसि ॥२
हे “अङ्गिरस्तम अतिशयेनाङ्गनादिगुणयुक्त । यद्वा । अङ्गिरसां वरिष्ठ । "वेधस्तम । वेधा इति मेधाविनाम । अतिशयेन मेधाविन् “अग्ने । “अथ अनन्तरं “ते तुभ्यं "सानसि संभजनीयं “प्रियं प्रीतिकरं “ब्रह्म स्तोत्रं “वोचेम वक्तारो भूयास्म ॥ वोचेम । लिङयाशिष्यड्'। ' वच उम्' इति उमागमः । सानसि । ‘वन षण संभक्तौ' । ‘सानसिधर्णसि' इत्यादौ असिच्प्रत्ययान्तो निपात्यते ।
कस्ते॑ जा॒मिर्जना॑ना॒मग्ने॒ को दा॒श्व॑ध्वरः ।
को ह॒ कस्मि॑न्नसि श्रि॒तः ॥३
कः । ते॒ । जा॒मिः । जना॑नाम् । अग्ने॑ । कः । दा॒शुऽअ॑ध्वरः ।
कः । ह॒ । कस्मि॑न् । अ॒सि॒ । श्रि॒तः ॥३
कः । ते । जामिः । जनानाम् । अग्ने । कः । दाशुऽअध्वरः ।
कः । ह । कस्मिन् । असि । श्रितः ॥३
हे “अग्ने “जनानां मनुष्याणां मध्ये “ते तव “कः “जामिः को बन्धुः । त्वं सर्वैर्गुणैरधिकोऽसि । तवानुरूपो बन्धुर्नास्तीति भावः । “को “दाश्वध्वरः । दाशुर्दत्तोऽध्वरो यज्ञो येन स तथोक्तः । त्वां यष्टुमपि समर्थः कोऽपि नास्तीत्यर्थः । “को “ह त्वं कथंभूतस्त्वम् । ईदृग्रूपः इति सर्वैर्न ज्ञायसे इत्यर्थः । “कस्मिन् स्थाने "श्रितः आश्रितः “असि वर्तसे । तत्स्थानमपि न केनचित् ज्ञायते । अतस्त्वमस्माभिः मांसदृष्टिभिः कथमुपलब्धव्यः इत्यग्निः प्रशस्यते । दाश्वध्वरः । दाशृ दाने '। ‘ उणादयो बहुलम् (पा. सू. ३. ३.१ ) इति बहुलवचनात् कर्मणि उण्प्रत्ययः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । यणादेशे ‘ उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य ' इति स्वरितत्वम् ।।
त्वं जा॒मिर्जना॑ना॒मग्ने॑ मि॒त्रो अ॑सि प्रि॒यः ।
सखा॒ सखि॑भ्य॒ ईड्यः॑ ॥४
त्वम् । जा॒मिः । जना॑नाम् । अग्ने॑ । मि॒त्रः । अ॒सि॒ । प्रि॒यः ।
सखा॑ । सखि॑ऽभ्यः । ईड्यः॑ ॥४
त्वम् । जामिः । जनानाम् । अग्ने । मित्रः । असि । प्रियः ।
सखा । सखिऽभ्यः । ईड्यः ॥४
हे “अग्ने “त्वम् उक्तप्रकारेण अचिन्त्यरूपोऽप्यनुग्रहीतृतया सर्वेषां “जनानां “जामिः बन्धुः “असि। तथा “प्रियः प्रीणयिता त्वं यजमानानां “मित्रः प्रमीतेस्त्रायकोऽसि । “ईड्यः स्तुतिभिः स्तुत्यस्त्वं “सखिभ्यः समानख्यानेभ्य ऋत्विग्भ्यः “सखा सखिवदत्यन्तं प्रियः असि ॥ जामिः । 'जमु अदने'। जमन्ति सहैकस्मिन्पात्रे अदन्तीति जामयो बन्धवः । ‘ जनिघसिभ्यामिण् ' ( उ. सू. ४-५६९ ) इति विधीयमानः इण् बहुलवचनादस्मादपि द्रष्टव्यः । ईड्यः । ‘ ईड स्तुतौ '। ‘ ईडवन्दवृशंसदुहां ण्यतः 'इत्याद्युदात्तत्वम् ।
यजा॑ नो मि॒त्रावरु॑णा॒ यजा॑ दे॒वाँ ऋ॒तं बृ॒हत् ।
अग्ने॒ यक्षि॒ स्वं दम॑म् ॥५
यज॑ । नः॒ । मि॒त्रावरु॑णा । यज॑ । दे॒वान् । ऋ॒तम् । बृ॒हत् ।
अग्ने॑ । यक्षि॑ । स्वम् । दम॑म् ॥५
यज । नः । मित्रावरुणा । यज । देवान् । ऋतम् । बृहत् ।
अग्ने । यक्षि । स्वम् । दमम् ॥५
हे “अग्ने “नः अस्मदर्थं "मित्रावरुणा एतत्संज्ञौ देवौ “यज हविषा पूजय । तथा “देवान् इन्द्रादीन् “यज पूजय। “ऋतं सत्यं यथार्थफलं यज्ञं च यजेत्येव । तदर्थं "बृहत् प्रौढं “त्वं स्वकीयं “दमं यज्ञगृहं “यक्षि यज संगच्छस्व । त्वय्यन्तर्विद्यमाने सति हि यज्ञगृहं पूज्यते ।। यज । द्व्यचोऽतस्तिङः' इति संहितायां दीर्घत्वम् । देवान् । दीर्घादटि समानपादे' इति संहितायां नकारस्य रुत्वम् । ‘ आतोऽटि नित्यम्' इति अनुनासिकः आकारः । यत्वलोपौ । यक्षि । यजेः ‘ बहुलं छन्दसि ' इति शपो लुक् ॥ ॥ २३ ॥
टिप्पणी
MS. 3. 10. 1: 130.6; 4.13.5: 204.7; KS. 16.21;
तस्य वपामुत्खिद्याऽऽहरन्ति तामध्वर्युः स्रुवेणाभिघारयन्नाह स्तोकेभ्योऽनुब्रूहीति। तद्यत्स्तोका श्चोतन्ति सर्वदेवत्या वै स्तोका नेन्म इमेऽनभिप्रीता देवान्गच्छानिति। [२२]जुषस्व सप्रथस्तममित्यन्वाह। वचो देवप्सरस्तमम्। हव्या जुह्वान आसनीति। अग्नैरेवैनांस्तदास्ये जुहोति। - AB.2.12.3;
मैत्रावरुणकर्माणि - जुषस्व सप्रथस्तमम् इति जुष्टवतीम् अभिरूपाम् अन्वाह । जुष्टवतीम् अभिरूपाम् देवेषु वाचम् उद्यासम् इति । - KB. 28.2;
पाशुकहोत्रम् - जुषस्व सप्रथस्तमम् । वचो देवप्सरस्तमम् । हव्या जुह्वान आसनि । - TB. 3.6.7.1;
AÇ.3.4.1;
ज्योतिष्टोमे अग्नीषोमीयपशुयागप्रकरणम् - स्तोकेभ्य इत्युक्तो जुषस्व सप्रथस्तममिमं नो यज्ञमिति च सूक्तमन्वाह - CC.5.18.1; ज्योतिष्टोमे प्रातरनुवाकप्रकरणम् - 6.4.1; 10.12.15;
एकाहप्रकरणम् - जुषस्व सप्रथस्तममिति सुरूपकृत्नोः - 14.56. 12;
15.1.25;
MC.5.2.8.26.
मण्डल १ | ||||||
---|---|---|---|---|---|---|
|