सामग्री पर जाएँ

ऋग्वेदः सूक्तं ३.१३

विकिस्रोतः तः
← सूक्तं ३.१२ ऋग्वेदः - मण्डल ३
सूक्तं ३.१३
ऋषभो वैश्वामित्रः
सूक्तं ३.१४ →
दे. अग्निः। अनुष्टुप्


प्र वो देवायाग्नये बर्हिष्ठमर्चास्मै ।
गमद्देवेभिरा स नो यजिष्ठो बर्हिरा सदत् ॥१॥
ऋतावा यस्य रोदसी दक्षं सचन्त ऊतयः ।
हविष्मन्तस्तमीळते तं सनिष्यन्तोऽवसे ॥२॥
स यन्ता विप्र एषां स यज्ञानामथा हि षः ।
अग्निं तं वो दुवस्यत दाता यो वनिता मघम् ॥३॥
स नः शर्माणि वीतयेऽग्निर्यच्छतु शंतमा ।
यतो नः प्रुष्णवद्वसु दिवि क्षितिभ्यो अप्स्वा ॥४॥
दीदिवांसमपूर्व्यं वस्वीभिरस्य धीतिभिः ।
ऋक्वाणो अग्निमिन्धते होतारं विश्पतिं विशाम् ॥५॥
उत नो ब्रह्मन्नविष उक्थेषु देवहूतमः ।
शं नः शोचा मरुद्वृधोऽग्ने सहस्रसातमः ॥६॥
नू नो रास्व सहस्रवत्तोकवत्पुष्टिमद्वसु ।
द्युमदग्ने सुवीर्यं वर्षिष्ठमनुपक्षितम् ॥७॥


सायणभाष्यम्

द्वितीयेऽनुवाके सप्तदश सूक्तानि । तत्र ' प्र वो देवाय ' इति सप्तर्चं प्रथमं सूक्तं वैश्वामित्र-ऋषभस्यार्षमग्निदेवताकमानुष्टुभम् । तथा चानुक्रातं - प्र वः सप्त ऋषभस्त्वानुष्टुभम् ' इति । विश्वामित्रपुत्र ऋषभ ऋषिः । मण्डलादिपरिभाषयाग्निर्देवता । अग्निष्टोमे इदं सूक्तमाज्यशस्त्रम् । ' पराङध्वर्यावावृत्ते ' इति खण्डे सूत्रितम्-' प्र वो देवायेत्याज्यमुपसंतनुयात् ' (आश्व. श्रौ. ५.९) इति । इदमेव सूक्तं प्रातरनुवाक आश्विनशस्त्रे च विनियुक्तम् । सूत्रं च-' प्र वो देवायाग्ने कदा त इति पञ्च ' ( आश्व. श्रौ. ४. १३) इति । अभ्युदयेष्टौ ' स यन्ता ' इत्यग्नेः प्रदातुः याज्या । सूत्रितं च-'स यन्ता विप्र एषां दीर्घस्ते अस्त्वंकुशः ' ( आश्व. श्रौ. ३.१३) इति । ।


प्र वो॑ दे॒वाया॒ग्नये॒ बर्हि॑ष्ठमर्चास्मै ।

गम॑द्दे॒वेभि॒रा स नो॒ यजि॑ष्ठो ब॒र्हिरा स॑दत् ॥१

प्र । वः॒ । दे॒वाय॑ । अ॒ग्नये॑ । बर्हि॑ष्ठम् । अ॒र्च॒ । अ॒स्मै॒ ।

गम॑त् । दे॒वेभिः॑ । आ । सः । नः॒ । यजि॑ष्ठः । ब॒र्हिः । आ । स॒द॒त् ॥१

प्र । वः । देवाय । अग्नये । बर्हिष्ठम् । अर्च । अस्मै ।

गमत् । देवेभिः । आ । सः । नः । यजिष्ठः । बर्हिः । आ । सदत् ॥१

यजमानो होत्रादीन्प्रति बूते । हे होत्रादयः “वः युष्मत्संबन्धिने देवाय द्योतमानाय “अस्मै अस्मिन्कर्मणि स्तुत्याय “अग्नये “बर्हिष्ठं वृद्धतमं प्रभूतमिदं स्तुतिरूपं स्तोत्रशस्त्रादि वोक्थ्यजातं ”प्र "अर्च उच्चारयत । एवं स्तुतः “सः अग्निः “देवेभिः यष्टव्यदेवैः सहितः सन् “नः अस्मान्प्रति “आ “गमत् आगच्छतु । आगत्य च “यजिष्ठः यष्टृतमः सोऽग्निः “बर्हिः अस्माभिर्वेद्यां स्तीर्णे बर्हिषि “आ “सदत् आसीदतु उपविशतु ॥ बर्हिष्ठम् । बर्हितृशब्दात् ‘तुश्छन्दसि' इत्यतिशायने इष्ठन् । अर्च। ‘अर्च पूजायाम्'। भौवादिकः । बहुवचनस्यैकवचनम् । निघातः । गमत् । 'गम्लृ गतौ ' । अस्य छन्दसि लुङ्लङ्लिटः' इति लोडर्थे लुङ । लृदित्वात् च्लेरङ्। ‘ नित्यं ङितः 'इतीकारलोपः। पादादित्वान्न निघातः । यजिष्ठः । यष्टृशब्दात् ‘तुश्छन्दसि' इतीष्ठन् । तुरिष्ठेमेयःसु' इति तृचो लोपः । नित्स्वरः । सदत् । पूर्ववल्लोडर्थे लुङ् । 'षद्लृ विशरणगत्यवसादनेषु' इत्यस्य लृदित्वादङ्। निघातः ॥


ऋ॒तावा॒ यस्य॒ रोद॑सी॒ दक्षं॒ सच॑न्त ऊ॒तयः॑ ।

ह॒विष्म॑न्त॒स्तमी॑ळते॒ तं स॑नि॒ष्यन्तोऽव॑से ॥२

ऋ॒तऽवा॑ । यस्य॑ । रोद॑सी॒ इति॑ । दक्ष॑म् । सच॑न्ते । ऊ॒तयः॑ ।

ह॒विष्म॑न्तः । तम् । ई॒ळ॒ते॒ । तम् । स॒नि॒ष्यन्तः॑ । अव॑से ॥२

ऋतऽवा । यस्य । रोदसी इति । दक्षम् । सचन्ते । ऊतयः ।

हविष्मन्तः । तम् । ईळते । तम् । सनिष्यन्तः । अवसे ॥२

“यस्य पूर्वमन्त्रे प्रतिपादितस्याग्नेः “रोदसी इमे द्यावापृथिव्यौ वशे भवतः । अग्नेः प्रकाशकत्वेन तदधीनप्रकाशके भवत इत्यर्थः । किंच “ऊतयः यजमानस्य फलप्रदानेन रक्षितारो देवाः “दक्षं यस्याग्नेर्बलं "सचन्ते सेवन्ते । ‘ सचन्ते सेवन्ते ' ( निरु. ७. २३) इति यास्कः । अग्नेर्यजमानदत्तहविष्प्रदत्वेन तदधीना इत्यर्थः । एवंभूतः सोऽग्निः “ऋतावा सत्यकर्मा । सत्यसंकल्प इत्यर्थः । किंच “हविष्मन्तः संभृतहविष्का यजमाना हविर्वहनार्थं “तम् एवाग्निम् “ईळते स्तुतिरूपाभिर्वाग्भिः पूजयन्ति । किंच “सनिष्यन्तः धनादिलाभमिच्छन्तः “तम् अवसे रक्षणाय तमेवाग्निमाश्रयन्ते ॥ ऋतावा । ऋतशब्दात् “ तदस्यास्ति' इति छन्दसीवनिपौ वक्तव्यौ' इति वनिप् । अन्येषामपि दृश्यते' इति दीर्घः । वनिपः पित्त्वादनुदात्तत्वे प्रातिपदिकस्वरः। सचन्ते। ‘षच समवाये । व्यत्ययेन आत्मनेपदम् । यद्वृत्तयोगादनिघातः। सनिष्यन्तः । सनिर्लाभः । तमिच्छन्तः । ‘ सुप आत्मनः क्यच् । ‘ सर्वप्रातिपदिकेभ्यो लालसायां सुग्वक्तव्यः' इति क्यचि परतः सुगागमः । क्यचः स्वरः ॥


स य॒न्ता विप्र॑ एषां॒ स य॒ज्ञाना॒मथा॒ हि षः ।

अ॒ग्निं तं वो॑ दुवस्यत॒ दाता॒ यो वनि॑ता म॒घम् ॥३

सः । य॒न्ता । विप्रः॑ । ए॒षा॒म् । सः । य॒ज्ञाना॑म् । अथ॑ । हि । सः ।

अ॒ग्निम् । तम् । वः॒ । दु॒व॒स्य॒त॒ । दाता॑ । यः । वनि॑ता । म॒घम् ॥३

सः । यन्ता । विप्रः । एषाम् । सः । यज्ञानाम् । अथ । हि । सः ।

अग्निम् । तम् । वः । दुवस्यत । दाता । यः । वनिता । मघम् ॥३

“विप्रः मेधावी कर्माभिज्ञः “सः अग्निः “एषां कालापराधेन हविर्निर्वापं कृतवतां यजमानानां यथोक्तकर्मप्रदर्शनेन तत्र प्रवर्तकः । “अथ किंच "यज्ञानां ज्योतिष्टोमादीनां “सः अग्निः नियन्ता फलप्रदानेन नियामकः । “हि प्रसिद्धौ । अत एव सर्वस्य नियन्ता खलु । किंच “सः अग्निः “दाता ज्योतिष्टोमादिकर्मफलदाता “मघं मंहनीयं धनम् । ‘ मघं रेक्णः ' (नि. २. १०. १ ) इति तन्नामसु पाठात् । तद्धनं “वनिता प्रयच्छंश्च भवति । "वः युष्मत्संबन्धिनं तं तादृशम् “अग्निं हे ऋत्विजः यूयं "दुवस्यत आहुतिप्रदानेन परिचरत । दुवस्यतिः परिचरणकर्मा ‘नमस्यति दुवस्यति' (नि. ३. ५. ५) इति तन्नामसु पाठात् ॥ यन्ता । ‘यम उपरमे ' इत्यस्य तृचि रूपम् । ‘ ऋदुशनस्' इत्यादिना अनङादेशः । चित्स्वरः । अथा हि। • निपातस्य ' इति दीर्घः । दुवस्यत । दुवः परिचरणम् । तदिच्छन्तः । सुपः क्यच् । तदन्तस्य धातोर्लोटि रूपम् । दाता । ' डुदाञ् दाने' । ताच्छीलिकस्तृन् । नित्त्वादाद्युदात्तः ॥


स न॒ः शर्मा॑णि वी॒तये॒ऽग्निर्य॑च्छतु॒ शंत॑मा ।

यतो॑ नः प्रु॒ष्णव॒द्वसु॑ दि॒वि क्षि॒तिभ्यो॑ अ॒प्स्वा ॥४

सः । नः॒ । शर्मा॑णि । वी॒तये॑ । अ॒ग्निः । य॒च्छ॒तु॒ । शम्ऽत॑मा ।

यतः॑ । नः॒ । प्रु॒ष्णव॑त् । वसु॑ । दि॒वि । क्षि॒तिऽभ्यः॑ । अ॒प्ऽसु । आ ॥४

सः । नः । शर्माणि । वीतये । अग्निः । यच्छतु । शम्ऽतमा ।

यतः । नः । प्रुष्णवत् । वसु । दिवि । क्षितिऽभ्यः । अप्ऽसु । आ ॥४

“सः “अग्निः हविष्प्रदातृभ्यः “नः अस्मभ्यं “शंतमा पशुपुत्रादिसमृद्धया अतिशयेन सुखकराणि । शर्मशब्दो गृहवाची ‘ छाया शर्म वर्म' (नि. ३.४.२१) इति तन्नामसु पाठात् । तथाविधानि गृहाणि “वीतये संभजनाय अग्निहोत्रादिकर्मप्राप्त्यर्थं “यच्छतु ददातु । “यतः यस्मादग्नेः सकाशात् “प्रुष्णवत् समृद्धिमत् दानभोगादिना व्यये सत्यपि अतिशयेन वर्धमानं “दिवि द्युलोके “क्षितिभ्यः भूलोकात् "अप्सु अन्तरिक्षे च समुत्पन्नं “वसु तत्तल्लोके असाधारण्येन वर्तमानं धनम् “आ समन्तात् उपनमति । यतोऽग्नेः प्रसादात् त्रिषु लोकेषु विद्यमानं धनमस्मानागच्छति सोऽग्निरिति पूर्वेणान्वयः॥ वीतये । वी गतिकान्त्यादिषु ।' मन्त्रे वृषेषपच° ' इत्यादिना क्तिन् । उदात्तत्वेन निपातनादुदात्तः । यच्छतु । ‘यम उपरमे'। इषुगमियमां छः' इति मकारस्य छः । प्रुष्णवत् । 'पुष स्नेहनसेचनपूरणेषु ' । अस्मादौणादिको नक्प्रत्ययः । तदस्यास्ति' इति मतुप् । तस्योदात्तताभावश्छान्दसः ॥


दी॒दि॒वांस॒मपू॑र्व्यं॒ वस्वी॑भिरस्य धी॒तिभिः॑ ।

ऋक्वा॑णो अ॒ग्निमि॑न्धते॒ होता॑रं वि॒श्पतिं॑ वि॒शाम् ॥५

दी॒दि॒ऽवांस॑म् । अपू॑र्व्यम् । वस्वी॑भिः । अ॒स्य॒ । धी॒तिऽभिः॑ ।

ऋक्वा॑णः । अ॒ग्निम् । इ॒न्ध॒ते॒ । होता॑रम् । वि॒श्पति॑म् । वि॒शाम् ॥५

दीदिऽवांसम् । अपूर्व्यम् । वस्वीभिः । अस्य । धीतिऽभिः ।

ऋक्वाणः । अग्निम् । इन्धते । होतारम् । विश्पतिम् । विशाम् ॥५

“ऋक्वाणः स्तुतिं कुर्वाणाः शस्त्रिणो होत्रादयः “दीदिवांसं दीप्यमानम् “अपूर्व्यं तेजस्वितया प्रतिक्षणमभिनवं “होतारं देवानामाह्वातारं “विशां “विश्पतिं प्रजानामतिशयेन पालयितारं तम् “अग्नि “वस्वीभिः प्रशस्ताभिः “अस्य “धीतिभिः अग्निविषयस्तुतिलक्षणाभिर्वाग्भिः । यद्वा वस्वीभिर्वसुमद्भिरस्य धीतिभिरेतदुद्देशेन क्रियमाणैः कर्मभिः । “इन्धते दीपयन्ति । स्तोत्रकरणहविष्प्रदानादिव्यापारेण समृद्धिं कुर्वन्ति ॥ दीदिवांसम् । दिवु क्रीडादावित्यस्य क्वसौ रूपम् । “तुजादीनाम्' इत्यभ्यासस्य दीर्घः । लोपो व्योर्वलि ' इति वलोपः। वस्वीभिः । वसुशब्दात् व्यत्ययेन ङीन् । नित्स्वरः। धीतिभिः । ‘ धेट् पाने'। ‘क्तिच्क्तौ च संज्ञायाम् ' इति क्तिच् । कित्त्वात् ' घुमास्था° ' इतीत्वम् । चित्स्वरः । ऋक्वाणः । ऋच्शब्दान्मतुबर्थे वनिप् । अयस्मयादित्वाद्भसंज्ञात्वात् कुत्वम् । पदसंज्ञाभावाज्जश्त्वाभावः । इन्धते । ‘ ञिइन्धी दीप्तौ । विश्पतिम् ।‘परादिश्छन्दसि बहुलम् ' इत्युत्तरपदाद्युदात्तत्वम्। विशाम् । ‘सावेकाचः०' इति विभक्तेरुदात्तत्वम् ॥


उ॒त नो॒ ब्रह्म॑न्नविष उ॒क्थेषु॑ देव॒हूत॑मः ।

शं नः॑ शोचा म॒रुद्वृ॒धोऽग्ने॑ सहस्र॒सात॑मः ॥६

उ॒त । नः॒ । ब्रह्म॑न् । अ॒वि॒षः॒ । उ॒क्थेषु॑ । दे॒व॒ऽहूत॑मः ।

शम् । नः॒ । शो॒च॒ । म॒रुत्ऽवृ॑धः । अग्ने॑ । स॒ह॒स्र॒ऽसात॑मः ॥६

उत । नः । ब्रह्मन् । अविषः । उक्थेषु । देवऽहूतमः ।

शम् । नः । शोच । मरुत्ऽवृधः । अग्ने । सहस्रऽसातमः ॥६

“उत अपि च हे “अग्ने “नः यज्ञकारिणोऽस्मान् “ब्रह्मन् ब्रह्मणि अस्माभिः क्रियमाणे स्तोत्रे “अविषः स्तोत्रविषयन्यूनातिरेकदोषो यथा न भवति तथा पालय । किंच “देवहूतमः देवानामाह्वातृतमस्त्वम् “उक्थेषु अस्माभिः क्रियमाणेष्वाज्यप्रउगादिशस्त्रेषु अविषः गोपाय । किंच “मरुद्वृधः मरुद्भिर्वर्धमानः “सहस्रसातमः सहस्रसंख्याकस्य धनस्यातिशयेन दाता त्वं “नः अस्माकं “शम् ऐहिकमामुष्मिकं च सुखं “शोच दीपय । वर्धयेत्यर्थः ॥ अविषः । अव रक्षणादिषु इत्यस्माल्लेटि ‘सिब्बहुलम्° ' इति सिप् । अस्य आर्धधातुकत्वादिट्। ‘ इतश्च लोपः' इति सिप इकारलोपः । ‘ लेटोऽडाटौ' इत्यडागमः । निघातः । उक्थेषु । ‘वच परिभाषणे ' । अस्मात् कर्मणि ‘पातॄतुदिवचिरिचि°' इत्यादिना थक् । कित्त्वात्संप्रसारणम् । प्रत्ययस्वरः । देवहूतमः । ह्वयतेः क्विप् । ‘बहुलं छन्दसि ' इति संप्रसारणपररूपत्वे । ‘ हलः' इति दीर्घः । कृदुत्तरपदप्रकृतिस्वरत्वम् । शोच । शुच दीप्तौ । अयमन्तर्भावितण्यर्थः । निघातः । मरुद्वृधः । ‘ वृधु वर्धने ' । इगुपधलक्षणः कः । मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम् । सहस्रसातमः । ‘ षणु दाने ' । अस्य ‘ जनसनखनक्रमगमो विट्' इति विट् ।' विङ्वनोरनुनासिकस्य ' इत्याकारः । कृदुत्तरपदप्रकृतिस्वरः ॥


नू नो॑ रास्व स॒हस्र॑वत्तो॒कव॑त्पुष्टि॒मद्वसु॑ ।

द्यु॒मद॑ग्ने सु॒वीर्यं॒ वर्षि॑ष्ठ॒मनु॑पक्षितम् ॥७

नु । नः॒ । रा॒स्व॒ । स॒हस्र॑ऽवत् । तो॒कऽव॑त् । पु॒ष्टि॒ऽमत् । वसु॑ ।

द्यु॒ऽमत् । अ॒ग्ने॒ । सु॒ऽवीर्य॑म् । वर्षि॑ष्ठम् । अनु॑पऽक्षितम् ॥७

नु । नः । रास्व । सहस्रऽवत् । तोकऽवत् । पुष्टिऽमत् । वसु ।

द्युऽमत् । अग्ने । सुऽवीर्यम् । वर्षिष्ठम् । अनुपऽक्षितम् ॥७

अस्मिन् सूक्ते स्तूयमान हे “अग्ने सहस्रवत् सहस्रसंख्योपेतं “तोकवत् पुत्रपौत्रादिसहितं “पुष्टिमत् पोषकृत् । अनेन शरीरस्य क्षीरादिद्वारा बलारोग्यप्रदं गवादिकम् उपलक्ष्यते । “द्युमत् दीप्तिमत् । अनेन रत्नकनकादिकं परिगृह्यते । “सुवीर्यं शोभनसामर्थ्योपेतं तत्तत्कार्येषु व्यवहारयोग्यं वर्षिष्ठम् अतिशयेन वृद्धं प्रभूतमत एव “अनुपक्षितं व्यये क्रियमाणेऽप्यनुपक्षीणम् । एवंभूतं “वसु रत्नकनकपश्वादिलक्षणं धनं "नः अस्मभ्यं “नु क्षिप्रमविलम्बेन “रास्व दत्स्व ॥ नू नः । ‘ ऋचि तुनुघमक्षु' ' इति दीर्घः । रास्व ।' रा दाने ' अस्य लोटि रूपम् । व्यत्ययेनात्मनेपदम् । अदादित्वाच्छपो लुक् । निघातः । सहस्रवत् । “ मादुपधायाः° ' इति मतुपो वत्वङ् । कर्दमादित्वान्मध्योदात्तः सहस्रशब्दः । पुष्टिमत् । ‘ पुष पुष्टौ ' । अस्मात् क्तिच् । प्रत्ययस्वरेणान्तोदात्तः । ‘ ह्रस्वनुड्भ्याम् ' इति मतुप उदात्तत्वम् । वर्षिष्ठम् । ‘ प्रियस्थिर' इत्यादिना वृद्धस्य' वर्षि इत्यादेशः । नित्स्वरः । अनुपक्षितम् । ‘ क्षि क्षये ' इत्यस्य दीर्घाभावान्निष्ठानत्वं न भवति । तत्पुरुषवादव्ययपूर्वपदप्रकृतिस्वरः ॥ ॥ १३ ॥

टिप्पणी

द्र. ऐ.ब्रा. २.४१


मण्डल ३

सूक्तं ३.१

सूक्तं ३.२

सूक्तं ३.३

सूक्तं ३.४

सूक्तं ३.५

सूक्तं ३.६

सूक्तं ३.७

सूक्तं ३.८

सूक्तं ३.९

सूक्तं ३.१०

सूक्तं ३.११

सूक्तं ३.१२

सूक्तं ३.१३

सूक्तं ३.१४

सूक्तं ३.१५

सूक्तं ३.१६

सूक्तं ३.१७

सूक्तं ३.१८

सूक्तं ३.१९

सूक्तं ३.२०

सूक्तं ३.२१

सूक्तं ३.२२

सूक्तं ३.२३

सूक्तं ३.२४

सूक्तं ३.२५

सूक्तं ३.२६

सूक्तं ३.२७

सूक्तं ३.२८

सूक्तं ३.२९

सूक्तं ३.३०

सूक्तं ३.३१

सूक्तं ३.३२

सूक्तं ३.३३

सूक्तं ३.३४

सूक्तं ३.३५

सूक्तं ३.३६

सूक्तं ३.३७

सूक्तं ३.३८

सूक्तं ३.३९

सूक्तं ३.४०

सूक्तं ३.४१

सूक्तं ३.४२

सूक्तं ३.४३

सूक्तं ३.४४

सूक्तं ३.४५

सूक्तं ३.४६

सूक्तं ३.४७

सूक्तं ३.४८

सूक्तं ३.४९

सूक्तं ३.५०

सूक्तं ३.५१

सूक्तं ३.५२

सूक्तं ३.५३

सूक्तं ३.५४

सूक्तं ३.५५

सूक्तं ३.५६

सूक्तं ३.५७

सूक्तं ३.५८

सूक्तं ३.५९

सूक्तं ३.६०

सूक्तं ३.६१

सूक्तं ३.६२

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.१३&oldid=362950" इत्यस्माद् प्रतिप्राप्तम्