ऋग्वेदः सूक्तं ३.१२

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ३.१२ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ३.११ ऋग्वेदः - मण्डल ३
सूक्तं ३.१२
गाथिनो विश्वामित्रः
सूक्तं ३.१३ →
दे. इन्द्राग्नी। गायत्री

इन्द्राग्नी आ गतं सुतं गीर्भिर्नभो वरेण्यम् ।
अस्य पातं धियेषिता ॥१॥
इन्द्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः ।
अया पातमिमं सुतम् ॥२॥
इन्द्रमग्निं कविच्छदा यज्ञस्य जूत्या वृणे ।
ता सोमस्येह तृम्पताम् ॥३॥
तोशा वृत्रहणा हुवे सजित्वानापराजिता ।
इन्द्राग्नी वाजसातमा ॥४॥
प्र वामर्चन्त्युक्थिनो नीथाविदो जरितारः ।
इन्द्राग्नी इष आ वृणे ॥५॥
इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतम् ।
साकमेकेन कर्मणा ॥६॥
इन्द्राग्नी अपसस्पर्युप प्र यन्ति धीतयः ।
ऋतस्य पथ्या अनु ॥७॥
इन्द्राग्नी तविषाणि वां सधस्थानि प्रयांसि च ।
युवोरप्तूर्यं हितम् ॥८॥
इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः ।
तद्वां चेति प्र वीर्यम् ॥९॥


सायणभाष्यम्

‘इन्द्राग्नी' इति नवर्चं द्वादशं सूक्तं वैश्वामित्रमैन्द्राग्नम् । तथा चानुक्रम्यते - इन्द्राग्नी ऐन्द्राग्नम्' इति । ‘ गायत्रं तु ' इति तु शब्दादिदमपि सूक्तं गायत्रम् । इन्द्राग्नी देवता । आभिप्लविकेष्वहःसु प्रातःसवनेऽच्छावाकशस्त्रे अवापार्थमिदं सूक्तम्। 'अभिप्लवपृष्यािनहानि' इति खण्डे सृत्रितम् ‘ इन्द्राग्नी गतं ता हुवे ययोरिदम् ' ( आश्व, श्रौ. ७. ५) इति । अग्निष्टोमेऽच्छावाकशस्त्रे ‘ इन्द्राग्नी आ गतम्' इति स्तोत्रियस्तृचः । तस्यैवाच्छावाकस्याद्या शस्त्रयाज्या । ‘इन्द्राग्नी आ गतं सुतमिति याज्या ' ( आश्व. श्रौ. ५. १० ) इति सूत्रितत्वात् । चतुर्विंशेऽहनि प्रातःसवनेऽच्छावाकशस्त्रे 'इन्द्राग्नी आ गतं सुतम् ' इति षळहस्तोत्रियः । ‘ इन्द्राग्नी आ गतं सुतमिन्द्रे अग्ना नमो बृहत् ' (आश्व. श्रौ. ७. २) इति सूत्रितम्। अग्निष्टोमाच्छावाकशस्त्रे ‘तोशा वृत्रहणा हुवे' इत्याद्यास्तिस्रः । सूत्रितं च--- तोशा वृत्रहणा हुव इति तिस्रः ' ( आश्व. श्रौ. ५. १०) इति । अग्निष्टोमेऽच्छावाकशस्त्रे ‘इन्द्राग्नी अपसस्परि' इत्यनुरूपः । सूत्रितं च- ‘ इन्द्राग्नी आ गतं सुतमिन्द्राग्नी अपसस्परि' ( आश्व. श्रौ. ५. १० ) इति ॥


इन्द्रा॑ग्नी॒ आ ग॑तं सु॒तं गी॒र्भिर्नभो॒ वरे॑ण्यम् ।

अ॒स्य पा॑तं धि॒येषि॒ता ॥१

इन्द्रा॑ग्नी॒ इति॑ । आ । ग॒त॒म् । सु॒तम् । गीः॒ऽभिः । नभः॑ । वरे॑ण्यम् ।

अ॒स्य । पा॒त॒म् । धि॒या । इ॒षि॒ता ॥१

इन्द्राग्नी इति । आ । गतम् । सुतम् । गीःऽभिः । नभः । वरेण्यम् ।

अस्य । पातम् । धिया । इषिता ॥१

इन्द्रश्चाग्निश्च “इन्द्राग्नी हे देवौ "सुतम् अभिषवादिसंस्कारैः संस्कृतमत एव "वरेण्यं वरणीयं संभजनीयम् इमं सोमं प्रति "गीर्भिः अस्मदीयाभिः स्तुतिरूपाभिर्वाग्भिराहूतौ सन्तौ "नभः नभसः स्वर्गस्थानात् “आ “गतम् आगच्छतम् । आगत्य च "धिया अस्माभिः क्रियमाणे कर्मणि “इषिता प्रेरितौ युवाम् "अस्य "पातम् इमं सोमं पिबतम् । यद्वा धिया अस्मदीयया बुद्ध्या इषितौ प्राप्तौ अस्मद्भक्त्या प्रेरितौ युवामिमं सोमं पिबतम् ॥ इन्द्राग्नी । इन्द्रश्चाग्निश्च ‘ द्वन्द्वे घि' ( पा. सू. २.२.३२ ) इत्यग्निशब्दस्य पूर्वनिपाते प्राप्ते अजाद्यदन्तम् ( पा, सू. २. २. ३३ ) इतीन्द्रशब्दस्य पूर्वनिपातः । पादादित्वान्निघातप्रतिषेधः । षाष्ठिकस्वरः । गतम् । 'गम्लृ सृप्लृ गतौ'। ‘ बहुलं छन्दसि ' इति शपो लुकि सति ‘ अनुदात्तोपदेश' इत्यादिना मकारलोपः । निघातः । वरेण्यम् । वृङ संभक्तौ । ‘ वृङ एण्यः । वृषादित्वाद्युदात्तः । पातम् ।' पा पाने । ‘ सर्वेविधयश्छन्दसि विकल्प्यन्ते' इति न पिबादेशः । इषिता । इष गतौ ' इत्यस्माद्धातोर्निष्ठायां ‘तीषसह ' इतीडागमः। ‘ आगमा अनुदात्ताः' इतीटोऽनुदात्तत्वात् क्तस्वरः शिष्यते ॥


इन्द्रा॑ग्नी जरि॒तुः सचा॑ य॒ज्ञो जि॑गाति॒ चेत॑नः ।

अ॒या पा॑तमि॒मं सु॒तम् ॥२

इन्द्रा॑ग्नी॒ इति॑ । ज॒रि॒तुः । सचा॑ । य॒ज्ञः । जि॒गा॒ति॒ । चेत॑नः ।

अ॒या । पा॒त॒म् । इ॒मम् । सु॒तम् ॥२

इन्द्राग्नी इति । जरितुः । सचा । यज्ञः । जिगाति । चेतनः ।

अया । पातम् । इमम् । सुतम् ॥२

हे "इन्द्राग्नी “जरितुः स्तोतुः "सचा स्वर्गादिलक्षणफलप्राप्तौ सहायभूतः "यज्ञः ज्योतिष्टोमादियज्ञसाधनभूतः "चेतनः इन्द्रियाणां चेतयिताप्यायनकारी सन् असौ सोमः "जिगाति युवाम् अभिगच्छति । "अया अस्मदीयस्तुतिलक्षणयानया वाचाहूतौ सन्तौ "सुतम् अभिषवादिसंस्कारोपेतम् “इमं सोमं "पातं पिबतम् ॥ जिगाति । • गा स्तुतौ ' इत्ययं धातुरत्र गमने वर्तते । छन्दसि जुहोत्यादिः । ‘ बहुलं छन्दसि ' इत्यभ्यासस्येत्वम् । निघातः । चेतनः । ‘चिती संज्ञाने' । कर्तरि बहुलवचनाल्ल्युट्। ‘ लिति' इत्याद्युदात्तत्वम् । अया। इदंशब्दस्य तृतीयायाः ‘ सुपां सुलुक्° ' इति याजादेशः । अनादेशप्राप्तौ हलि लोपः । पातम् ।' पा पाने '। निघातः ॥


इन्द्र॑म॒ग्निं क॑वि॒च्छदा॑ य॒ज्ञस्य॑ जू॒त्या वृ॑णे ।

ता सोम॑स्ये॒ह तृ॑म्पताम् ॥३

इन्द्र॑म् । अ॒ग्निम् । क॒वि॒ऽछदा॑ । य॒ज्ञस्य॑ । जू॒त्या । वृ॒णे॒ ।

ता । सोम॑स्य । इ॒ह । तृ॒म्प॒ता॒म् ॥३

इन्द्रम् । अग्निम् । कविऽछदा । यज्ञस्य । जूत्या । वृणे ।

ता । सोमस्य । इह । तृम्पताम् ॥३

"यज्ञस्य यज्ञसाधनभूतस्य सोमस्य “जूत्या । जूतिः प्रेरणम् सोमस्तावत् यजमानं प्रेरयति । साधनमुपलभ्य तत्साध्यक्रतौ यजमानः प्रवर्तत इति हि तस्य प्रेरकत्वम् । तया प्रेरणरूपया जूत्या प्रेरितोऽहं “कविच्छदा कवीनां स्तोतॄणामुचितफलप्रदानेनोपच्छन्दकौ° “इन्द्रमग्निं च युवां “वृणे सोमपानार्थमिह कर्मण्यागच्छतमिति संभजे। “ता आगतौ च ताविन्द्राग्नी "इह कर्मणि "सोमस्य सोमपानेन “तृम्पतां तृप्यताम् ॥ इन्द्रम् । इदि परमैश्वर्ये 'इत्यस्माद्धातोः ‘ऋजेन्द्राग्र° ' इति रन्प्रत्ययान्तत्वेन निपातनादाद्युदात्तत्वम् । कविच्छदा ।' छदि अपवारणे'। अस्मात् क्विप् । ‘सुपां सुलुक् ' इति सुपो डादेशः । कृदुत्तरपदप्रकृतिस्वरत्वम् । जूत्या । ‘ जू' इति सौत्रो धातुः । अस्मात् ‘ °उदात्तः ' इत्यनुवृत्तौ ‘ ऊतियूतिजूति' इत्यादिना निपातनादन्तोदात्तत्वम् । “ उदात्तयणो हल्पूर्वात्' इति विभक्तेरुदात्तत्वम् । वृणे ।' वृङ् संभक्तौ । श्नाप्रत्ययः । ‘ टित आत्मनेपदानाम्° ' इति ‘टेरेत्वम्।। निघातः । ता । ‘ सुपां सुलुक् ' इति डादेशः । सोमस्य । षुञ् अभिषवे'। अस्मात् “ अर्तिस्तुसुहुसृधृक्षि° ' इत्यादिना मन्प्रत्ययः । नित्स्वरः । तृम्पताम् । तृप प्रीणने '। लोटि मुचादित्वान्नुमागमः । निघातः ॥


तो॒शा वृ॑त्र॒हणा॑ हुवे स॒जित्वा॒नाप॑राजिता ।

इ॒न्द्रा॒ग्नी वा॑ज॒सात॑मा ॥४

तो॒शा । वृ॒त्र॒ऽहना॑ । हु॒वे॒ । स॒ऽजित्वा॑ना । अप॑राऽजिता ।

इ॒न्द्रा॒ग्नी इति॑ । वा॒ज॒ऽसात॑मा ॥४

तोशा । वृत्रऽहना । हुवे । सऽजित्वाना । अपराऽजिता ।

इन्द्राग्नी इति । वाजऽसातमा ॥४

“तोशा शत्रूणां बाधकौ वृत्रहणा वृत्रस्य पापस्य हन्तारौ “सजित्वाना समानजेतारौ “अपराजिता अपराजितौ केनाप्यतिरस्कृतौ “वाजसातमा अन्नस्यातिशयेन दातारौ “इन्द्राग्नी युवां “हुवे इह कर्मणि सोमपानार्थमहमाह्वयामि ॥ वृत्रहणा । ‘ हन हिंसागत्योः । ‘ ब्रह्मभ्रूणवृत्रेषु क्विप्' इति क्विप् ।' एकाजुत्तरपदे णः ' ( पा. सू. ८. ४. १२ ) इति णत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । हुवे । ह्वयतेः ‘ बहुलं छन्दसि ' इति लुकि सति ‘ह्वः संप्रसारणम्' इत्यनुवृत्तौ ‘ बहुलं छन्दसि ' इति संप्रसारणम् । उवङादेशः । व्यत्ययेनात्मनेपदम् । निघातः । सजित्वाना । ‘ जि जये '। ‘ शीङ्क्रुशिरुहिजिक्षिसृधृभ्यः० ' ( उ. सू. ४. ५५३ ) इति क्वनिप् । कित्त्वाद्गुणाभावः । पित्त्वात्तुगागमः । ‘ समानस्य छन्दस्यमूर्ध ' इति समानस्य सभावः । कृदुत्तरपदप्रकृतिस्वरत्वम् । अपराजिता । नञ्समासे ‘ तत्पुरुष तुल्यार्थ° ' इति पूर्वपदप्रकृतिस्वरत्वम् । इन्द्राग्नी । ' देवताद्वन्द्वे च' इत्युभयपदप्रकृतिस्वरत्वे प्राप्ते ‘ नोत्तरपदेऽनुदात्तादौ ' इति प्रतिषेधात्समासस्वरः । वाजसातमा । ' षणु दाने '। अस्मात् ‘जनसनखनक्रमगमः' इति विट् । ‘ विड्वनोरनुनासिकस्यात् ' इत्याकारः । ‘ अतिशायने तमप्' इति तमप् । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥


प्र वा॑मर्चन्त्यु॒क्थिनो॑ नीथा॒विदो॑ जरि॒तार॑ः ।

इन्द्रा॑ग्नी॒ इष॒ आ वृ॑णे ॥५

प्र । वा॒म् । अ॒र्च॒न्ति॒ । उ॒क्थिनः॑ । नी॒थ॒ऽविदः॑ । ज॒रि॒तारः॑ ।

इन्द्रा॑ग्नी॒ इति॑ । इषः॑ । आ । वृ॒णे॒ ॥५

प्र । वाम् । अर्चन्ति । उक्थिनः । नीथऽविदः । जरितारः ।

इन्द्राग्नी इति । इषः । आ । वृणे ॥५

हे “इन्द्राग्नी “उक्थिनः । उक्थं शस्त्रम् । तद्वन्तः शस्त्रिणो होत्रादयः “वां युवां “प्र “अर्चन्ति इह कर्मणि स्तुतिरूपाभिर्वाग्भिः पूजयन्ति । तथा “नीथाविदः स्तोत्राभिज्ञाः सामगानकुशलाः “जरितारः स्तोतार उद्गात्रादयोऽभिलषितफलावाप्तये युवामर्चंन्ति । अहमपि “इषः अन्नस्य लाभार्थमिन्द्राग्नी युवाम् "आ "वृणे सर्वतः संभजे । पूजयामीत्यर्थः । वाम् । युष्मच्छब्दस्य द्वितीयायां पदात्परत्वात् ' युष्मदस्मदोः षष्ठीचतुर्थीद्वितीया ' इत्यादिना वामित्यादेशोऽनुदात्तश्च । अर्चन्ति । ‘ अर्च पूजायाम् । निघातः । उक्थिनः । ‘ वच परिभाषणे '। ‘पातॄतुदिवचिरिचि° ' इति कर्मणि थक्।' वचिस्वपि ' इत्यादिना संप्रसारणम् । उक्थं शस्त्रम् । उक्थं येषां ते । ‘ अत इनिठनौ 'इतीनिः । ‘ यस्य ' इति लोपः । प्रत्ययस्वरः । नीथाविदः । ‘ णीञ् प्रापणे । ‘ हनिकुषिनीरमि° ' इत्यादिना क्थन् । कित्त्वाद्गुणाभावः । ‘ विद ज्ञाने '। ' क्विप् च ' इति क्विप् । कुदुत्तरपदप्रकृतिस्वरत्वम् । इन्द्राग्नी । आमन्त्रितत्वादाद्युदात्तत्वम्" । वृणे । ‘ वृङ् संभक्तौ ' । निघातः ॥ ॥ ११ ॥


इन्द्रा॑ग्नी नव॒तिं पुरो॑ दा॒सप॑त्नीरधूनुतम् ।

सा॒कमेके॑न॒ कर्म॑णा ॥६

इन्द्रा॑ग्नी॒ इति॑ । न॒व॒तिम् । पुरः॑ । दा॒सऽप॑त्नीः । अ॒धू॒नु॒त॒म् ।

सा॒कम् । एके॑न । कर्म॑णा ॥६

इन्द्राग्नी इति । नवतिम् । पुरः । दासऽपत्नीः । अधूनुतम् ।

साकम् । एकेन । कर्मणा ॥६

हे “इन्द्राग्नी “दासपत्नीः । दासयन्ति उपक्षपयन्ति इति दासा उपक्षपयितारः शत्रवः। ते पतयः पालका यासां ता दासपत्नीः । “नवतिं नवतिसंख्याकाः “पुरः एवंविधाः शत्रूणां पुरीः “एकेन 'कर्मणा एकेनैवोद्योगेन युवां “साकं सह युगपत् “अधूनुतम् अकम्पयतम् । ताविन्द्राग्नी आह्वयामीति शेषः ॥ नवतिम् । नवानां दशतां नवभावः तिश्च प्रत्ययः । प्रत्ययस्वरेणान्तोदात्तः । दासपत्नीः । ‘ दसु उपक्षये '। दासयतीति दासः । पचाद्यजन्तः । चित्त्वादन्तोदात्तः । ते पतयो यासां नित्यं सपत्न्यादिषु दासाच्च ( पा. सू. ४. १. ३५. ग. ) इत्युक्तत्वात् ‘ विभाषा सपूर्वस्य ' इति ङीप् । इकारस्य नकारः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अधूनुतम् । ‘ धूञ् कम्पने '। लङि स्वादिभ्यः श्नुः । निघातः । एकेन । ‘ इण् गतौ ' । ‘ इण्भीकापाशल्यतिमर्चिभ्यः कन्' इति कन् । नित्त्वादाद्युदात्तः ॥


इन्द्रा॑ग्नी॒ अप॑स॒स्पर्युप॒ प्र य॑न्ति धी॒तय॑ः ।

ऋ॒तस्य॑ प॒थ्या॒३॒॑ अनु॑ ॥७

इन्द्रा॑ग्नी॒ इति॑ । अप॑सः । परि॑ । उप॑ । प्र । य॒न्ति॒ । धी॒तयः॑ ।

ऋ॒तस्य॑ । प॒थ्याः॑ । अनु॑ ॥७

इन्द्राग्नी इति । अपसः । परि । उप । प्र । यन्ति । धीतयः ।

ऋतस्य । पथ्याः । अनु ॥७

हे “इन्द्राग्नी “धीतयः सोमस्य धातारः पातारो होत्रादयः “ऋतस्य कर्मफलस्य “पथ्याः पथो मार्गान् “अनु लक्षीकृत्य “अपसः अस्माभिः क्रियमाणस्य कर्मणः “परि सर्वतः “उप “प्र “यन्ति समीपे प्रकर्षेण वर्तन्ते । अतः सोमपानार्थं युवामागच्छतमिति भावः । यद्वा । धीतयः स्तुतयः ऋतस्य यज्ञस्य मार्गान् लक्षीकृत्य कर्मणः परितः प्रवर्तन्ते । अतः स्तोतव्यतया युवामागतमिति ॥ यन्ति । ‘ इण् गतौ ' । यणादेशः । निघातः । धीतयः । ‘ धेट् पाने' इत्यस्मात् कर्तरि ‘क्तिच्क्तौ च संज्ञायाम् ' इति क्तिच् । ‘घुमास्था ' इतीत्वम् । चित्त्वादन्तोदात्तः ॥


इन्द्रा॑ग्नी तवि॒षाणि॑ वां स॒धस्था॑नि॒ प्रयां॑सि च ।

यु॒वोर॒प्तूर्यं॑ हि॒तम् ॥८

इन्द्रा॑ग्नी॒ इति॑ । त॒वि॒षाणि॑ । वा॒म् । स॒धऽस्था॑नि । प्रयां॑सि । च॒ ।

यु॒वोः । अ॒प्ऽतूर्य॑म् । हि॒तम् ॥८

इन्द्राग्नी इति । तविषाणि । वाम् । सधऽस्थानि । प्रयांसि । च ।

युवोः । अप्ऽतूर्यम् । हितम् ॥८

हे “इन्द्राग्नी “वां युवयोः “तविषाणि बलानि “प्रयांसि अन्नानि “च “सधस्थानि परस्परमवियुज्य वर्तन्ते । तथा “अप्तूर्यं वृष्टिद्वारा प्रेरकत्वं “युवोः युवयोरेव “हितं निहितं वर्तते । तस्मात्सोमपानप्रभृतिषु सर्वकर्मसु इन्द्राग्न्योः सहैव वर्तमानत्वमिति भावः ॥ वाम् । षष्ठीद्विवचने वामित्यादेशः । सधस्थानि । ष्ठा गतिनिवृत्तौ । आतोऽनुपसर्गे कः । ‘ सध मादस्थयोश्छन्दसि ' इति सहस्य सधादेशः ॥


इन्द्रा॑ग्नी रोच॒ना दि॒वः परि॒ वाजे॑षु भूषथः ।

तद्वां॑ चेति॒ प्र वी॒र्य॑म् ॥९

इन्द्रा॑ग्नी॒ इति॑ । रो॒च॒ना । दि॒वः । परि॑ । वाजे॑षु । भू॒ष॒थः॒ ।

तत् । वा॒म् । चे॒ति॒ । प्र । वी॒र्य॑म् ॥९

इन्द्राग्नी इति । रोचना । दिवः । परि । वाजेषु । भूषथः ।

तत् । वाम् । चेति । प्र । वीर्यम् ॥९

हे “इन्द्राग्नी “दिवः “रोचना स्वर्गस्य रोचकौ प्रकाशकौ युवां “वाजेषु संग्रामेषु “परि “भूषथः परितः सर्वतोऽलंकृतौ भवथः । शत्रून्पराजित्य सर्वतो विजयमानौ वर्तेथे । “वां युवयोः “वीर्यं सामर्थ्यमेव “तत् तादृशं संग्रामविजयं “प्र “चेति प्रकर्षेण ज्ञापयति । यद्वा युवां वाजेषु संग्रामेषु परिभूषथः शत्रून्परिभवथः । शेषं पूर्ववत् ॥ रोचना । ' रुच दीप्तौ' इत्यस्य ‘अनुदात्तेतश्च हलादेः' इति युच् । चित्त्वादन्तोदात्तः । भूषथः । ‘ भूष भूषणे' । निघातः । चेति । ‘ चिती संज्ञाने' । अयमन्तर्भावितण्यर्थः । 'बहुलं छन्दसि' इति शपो लुक् । तकारलोपः छान्दसः ॥ ॥ १२ ॥ ॥ १ ॥

मण्डल ३

सूक्तं ३.१

सूक्तं ३.२

सूक्तं ३.३

सूक्तं ३.४

सूक्तं ३.५

सूक्तं ३.६

सूक्तं ३.७

सूक्तं ३.८

सूक्तं ३.९

सूक्तं ३.१०

सूक्तं ३.११

सूक्तं ३.१२

सूक्तं ३.१३

सूक्तं ३.१४

सूक्तं ३.१५

सूक्तं ३.१६

सूक्तं ३.१७

सूक्तं ३.१८

सूक्तं ३.१९

सूक्तं ३.२०

सूक्तं ३.२१

सूक्तं ३.२२

सूक्तं ३.२३

सूक्तं ३.२४

सूक्तं ३.२५

सूक्तं ३.२६

सूक्तं ३.२७

सूक्तं ३.२८

सूक्तं ३.२९

सूक्तं ३.३०

सूक्तं ३.३१

सूक्तं ३.३२

सूक्तं ३.३३

सूक्तं ३.३४

सूक्तं ३.३५

सूक्तं ३.३६

सूक्तं ३.३७

सूक्तं ३.३८

सूक्तं ३.३९

सूक्तं ३.४०

सूक्तं ३.४१

सूक्तं ३.४२

सूक्तं ३.४३

सूक्तं ३.४४

सूक्तं ३.४५

सूक्तं ३.४६

सूक्तं ३.४७

सूक्तं ३.४८

सूक्तं ३.४९

सूक्तं ३.५०

सूक्तं ३.५१

सूक्तं ३.५२

सूक्तं ३.५३

सूक्तं ३.५४

सूक्तं ३.५५

सूक्तं ३.५६

सूक्तं ३.५७

सूक्तं ३.५८

सूक्तं ३.५९

सूक्तं ३.६०

सूक्तं ३.६१

सूक्तं ३.६२

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.१२&oldid=197076" इत्यस्माद् पुनः प्राप्तिः