ऋग्वेदः सूक्तं ५.७३

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ५.७३ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ५.७२ ऋग्वेदः - मण्डल ५
सूक्तं ५.७३
पौर आत्रेयः
सूक्तं ५.७४ →
दे. अश्विनौ। अनुष्टुप्।

यदद्य स्थः परावति यदर्वावत्यश्विना ।
यद्वा पुरू पुरुभुजा यदन्तरिक्ष आ गतम् ॥१॥
इह त्या पुरुभूतमा पुरू दंसांसि बिभ्रता ।
वरस्या याम्यध्रिगू हुवे तुविष्टमा भुजे ॥२॥
ईर्मान्यद्वपुषे वपुश्चक्रं रथस्य येमथुः ।
पर्यन्या नाहुषा युगा मह्ना रजांसि दीयथः ॥३॥
तदू षु वामेना कृतं विश्वा यद्वामनु ष्टवे ।
नाना जातावरेपसा समस्मे बन्धुमेयथुः ॥४॥
आ यद्वां सूर्या रथं तिष्ठद्रघुष्यदं सदा ।
परि वामरुषा वयो घृणा वरन्त आतपः ॥५॥
युवोरत्रिश्चिकेतति नरा सुम्नेन चेतसा ।
घर्मं यद्वामरेपसं नासत्यास्ना भुरण्यति ॥६॥
उग्रो वां ककुहो ययिः शृण्वे यामेषु संतनिः ।
यद्वां दंसोभिरश्विनात्रिर्नराववर्तति ॥७॥
मध्व ऊ षु मधूयुवा रुद्रा सिषक्ति पिप्युषी ।
यत्समुद्राति पर्षथः पक्वाः पृक्षो भरन्त वाम् ॥८॥
सत्यमिद्वा उ अश्विना युवामाहुर्मयोभुवा ।
ता यामन्यामहूतमा यामन्ना मृळयत्तमा ॥९॥
इमा ब्रह्माणि वर्धनाश्विभ्यां सन्तु शंतमा ।
या तक्षाम रथाँ इवावोचाम बृहन्नमः ॥१०॥

सायणभाष्यम्

षष्ठेऽनुवाके पञ्चदश सूक्तानि । तत्र ‘ यदद्य स्थः' इति दशर्चं प्रथमं सूक्तमात्रेयस्य पौरनाम्नः आर्षमानुष्टुभमाश्विनम् । अनुक्रान्तं च -- यदद्य दश पौर आश्विनं तदानुष्टुभं तु ' इति । तत् ' इत्युक्तत्वादिदमादीनि षट् सूक्तान्याश्विनानि ।' आनुष्टुभं तु ' इति तुशब्दादिदमुत्तरं च द्वे अनुष्टुभे । प्रातरनुवाक आश्विने क्रतावानुष्टुभे छन्दस्याश्विनशस्त्रे चेदमादिके द्वे सूक्ते । यदद्य स्थ इति सूक्ते' ( आश्व. श्रौ. ४. १५) इति सूत्रितम् ॥


यद॒द्य स्थः प॑रा॒वति॒ यद॑र्वा॒वत्य॑श्विना ।

यद्वा॑ पु॒रू पु॑रुभुजा॒ यदं॒तरि॑क्ष॒ आ ग॑तं ॥१

यत् । अ॒द्य । स्थः । प॒रा॒ऽवति॑ । यत् । अ॒र्वा॒ऽवति॑ । अ॒श्वि॒ना॒ ।

यत् । वा॒ । पु॒रु । पु॒रु॒ऽभु॒जा॒ । यत् । अ॒न्तरि॑क्षे । आ । ग॒त॒म् ॥१

यत् । अद्य । स्थः । पराऽवति । यत् । अर्वाऽवति । अश्विना ।

यत् । वा । पुरु । पुरुऽभुजा । यत् । अन्तरिक्षे । आ । गतम् ॥१

हे “पुरुभुजा बहुषु यज्ञेषु भोक्तारौ अधिकं रक्षितारौ वा हे “अश्विना “यत् यदि “अद्य अस्मिन् काले “परावति अत्यन्तं दूरदेशे द्युलोके “स्थः भवथः । “यत् वा “अर्वावति अरणवति गन्तुं शक्ये प्रदेशे अन्तिके स्थः । “यत् यदि “वा अथवा “पुरु बहुप्रदेशेषु स्थः । “यत् यदि “अन्तरिक्षे स्थः तस्मात्सर्वस्मात् अद्य “आ “गतम् आगच्छतम् ॥


इ॒ह त्या पु॑रु॒भूत॑मा पु॒रू दंसां॑सि॒ बिभ्र॑ता ।

व॒र॒स्या या॒म्यध्रि॑गू हु॒वे तु॒विष्ट॑मा भु॒जे ॥२

इ॒ह । त्या । पु॒रु॒ऽभूत॑मा । पु॒रु । दंसां॑सि । बिभ्र॑ता ।

व॒र॒स्या । या॒मि॒ । अध्रि॑गू॒ इत्यध्रि॑ऽगू । हु॒वे । तु॒विःऽत॑मा । भु॒जे ॥२

इह । त्या । पुरुऽभूतमा । पुरु । दंसांसि । बिभ्रता ।

वरस्या । यामि । अध्रिगू इत्यध्रिऽगू । हुवे । तुविःऽतमा । भुजे ॥२

“इह अस्मिन् यज्ञे “त्या तौ “पुरुभूतमा पुरूणां बहूनां यजमानानां भावयितृतमौ “पुरु पुरूणि “दंसांसि कर्माणि “बिभ्रता धारयन्तौ "वरस्या वरणीयौ “अध्रिगू अन्यैः अधृतगमनकर्माणौ “यामि उपागच्छामि । “तुविष्टमा प्रभूततमौ “भुजे भोगाय पालनाय वा “हुवे आह्वयामि ॥


ई॒र्मान्यद्वपु॑षे॒ वपु॑श्च॒क्रं रथ॑स्य येमथुः ।

पर्य॒न्या नाहु॑षा यु॒गा म॒ह्ना रजां॑सि दीयथः ॥३

ई॒र्मा । अ॒न्यत् । वपु॑षे । वपुः॑ । च॒क्रम् । रथ॑स्य । ये॒म॒थुः॒ ।

परि॑ । अ॒न्या । नाहु॑षा । यु॒गा । म॒ह्ना । रजां॑सि । दी॒य॒थः॒ ॥३

ईर्मा । अन्यत् । वपुषे । वपुः । चक्रम् । रथस्य । येमथुः ।

परि । अन्या । नाहुषा । युगा । मह्ना । रजांसि । दीयथः ॥३

हे अश्विनौ युवां “रथस्य युष्मदीयस्य “अन्यत् "चक्रम् “ईर्मा ॥ अर्तेः ईर्मा इति रूपम् । गन्तर्यादित्ये "वपुषे तस्य शोभायै “वपुः वपुष्मत् तेजोवत् चक्रं “येमथुः नियमितवन्तौ स्थः । “अन्या अन्येन चक्रेण “मह्ना महत्त्वेन स्वसामर्थ्येन “नाहुषा "युगा । नहुषा मनुष्याः । तेषां युगा युगोपलक्षितान् कालान् प्रातरादिसवनान् अहोरात्रादिकालान् वा “रजांसि लोकांश्च “परि “दीयथः परिगच्छथः । ‘न्य१घ्न्यस्य मूर्धनि चक्रं रथस्य येमथुः ' ( ऋ. सं १. ३०. १९ ) इत्युक्तम् ॥


तदू॒ षु वा॑मे॒ना कृ॒तं विश्वा॒ यद्वा॒मनु॒ ष्टवे॑ ।

नाना॑ जा॒ताव॑रे॒पसा॒ सम॒स्मे बंधु॒मेय॑थुः ॥४

तत् । ऊं॒ इति॑ । सु । वा॒म् । ए॒ना । कृ॒तम् । विश्वा॑ । यत् । वा॒म् । अनु॑ । स्तवे॑ ।

नाना॑ । जा॒तौ । अ॒रे॒पसा॑ । सम् । अ॒स्मे इति॑ । बन्धु॑म् । आ । ई॒य॒थुः॒ ॥४

तत् । ऊं इति । सु । वाम् । एना । कृतम् । विश्वा । यत् । वाम् । अनु । स्तवे ।

नाना । जातौ । अरेपसा । सम् । अस्मे इति । बन्धुम् । आ । ईयथुः ॥४

हे “विश्वा व्याप्तौ “यत् येन स्तोत्रेण “वां युवाम् “अनु “ष्टवे अनुस्तुवे “तदु । उ इति पूरणः । "एना अनेन पौरेण "सु सुष्ठु “वां युवाभ्यां “कृतं संपादितं भवतु । “नाना पृथगेव “जातौ समृद्धौ "अरेपसा अपापौ "अस्मे अस्मभ्यं “बन्धुम् अन्नं धनं वा “सम् “आ “ईयथुः सम्यक् गमयथः । सम्यक् प्रयच्छतमित्यर्थः ॥


आ यद्वां॑ सू॒र्या रथं॒ तिष्ठ॑द्रघु॒ष्यदं॒ सदा॑ ।

परि॑ वामरु॒षा वयो॑ घृ॒णा व॑रंत आ॒तपः॑ ॥५

आ । यत् । वा॒म् । सू॒र्या । रथ॑म् । तिष्ठ॑त् । र॒घु॒ऽस्यद॑म् । सदा॑ ।

परि॑ । वा॒म् । अ॒रु॒षाः । वयः॑ । घृ॒णा । व॒र॒न्ते॒ । आ॒ऽतपः॑ ॥५

आ । यत् । वाम् । सूर्या । रथम् । तिष्ठत् । रघुऽस्यदम् । सदा ।

परि । वाम् । अरुषाः । वयः । घृणा । वरन्ते । आऽतपः ॥५

हे अश्विनौ “वां युवयोः “सदा सर्वदा “रघुष्यदं शीघ्रगं “रथं “सूर्या युवयोः पत्नी “यत् यदा “आ “तिष्ठत् अस्थितवती तदा “वां “परि “वरन्ते परितो वृण्वन्ति । के। “अरुषाः आरोचमानाः “घृणा दीप्ताः “आतपः आतापनाः शत्रूणां “वयः अश्वाः । अथवा आतपः इति विशेष्यम् । वयो गन्तार उक्तलक्षणा आतपः सर्वतस्तापयित्र्यो दीप्तयः परि वरन्ते ॥ ॥ ११ ॥


यु॒वोरत्रि॑श्चिकेतति॒ नरा॑ सु॒म्नेन॒ चेत॑सा ।

घ॒र्मं यद्वा॑मरे॒पसं॒ नास॑त्या॒स्ना भु॑र॒ण्यति॑ ॥६

यु॒वोः । अत्रिः॑ । चि॒के॒त॒ति॒ । नरा॑ । सु॒म्नेन॑ । चेत॑सा ।

घ॒र्मम् । यत् । वा॒म् । अ॒रे॒पस॑म् । नास॑त्या । आ॒स्ना । भु॒र॒ण्यति॑ ॥६

युवोः । अत्रिः । चिकेतति । नरा । सुम्नेन । चेतसा ।

घर्मम् । यत् । वाम् । अरेपसम् । नासत्या । आस्ना । भुरण्यति ॥६

हे “नरा नेतारावश्विनौ “युवोः युवयोः । युवामित्यर्थः । “अत्रिः अस्मत्पिता ऋषिः “सुम्नेन सुखेन अग्निदाहोपशमरूपेण हेतुना “चेतसा आदरयुक्तेन मनसा “चिकेतति जानाति । स्तुतवानित्यर्थः । सति दुःखे सुखमपेक्षते । दुःखस्य कः प्रसङ्ग इत्यत आह । “यत् यस्मात् हे नासत्यौ “वां युवयोः “आस्ना आस्येन तन्निष्पनेन स्तोत्रेण "घर्मं दीप्तं दहन्तमग्निमसुरैः स्वदाहाय प्रक्षिप्तम् "अरेपसम् अपापं सुखकरं "भुरण्यति प्राप्तवान् ॥ भुरण्यतिर्गतिकर्मा ॥ अत्रेरनेः सकाशात् रक्षणं ' हिमेनाग्निं घ्रंसम् ' ( ऋ. सं १. ११६. ८ ), ' युवमृबीसमुत तप्तमत्रये ' ( ऋ. सं. १०. ३९. ९ ) इत्यादिभिः स्पष्टं प्रदर्शितम् ।।


उ॒ग्रो वां॑ ककु॒हो य॒यिः शृ॒ण्वे यामे॑षु संत॒निः ।

यद्वां॒ दंसो॑भिरश्वि॒नात्रि॑र्नराव॒वर्त॑ति ॥७

उ॒ग्रः । वा॒म् । क॒कु॒हः । य॒यिः । शृ॒ण्वे । यामे॑षु । स॒म्ऽत॒निः ।

यत् । वा॒म् । दंसः॑ऽभिः । अ॒श्वि॒ना॒ । अत्रिः॑ । न॒रा॒ । आ॒ऽव॒वर्त॑ति ॥७

उग्रः । वाम् । ककुहः । ययिः । शृण्वे । यामेषु । सम्ऽतनिः ।

यत् । वाम् । दंसःऽभिः । अश्विना । अत्रिः । नरा । आऽववर्तति ॥७

“उग्रः उद्गूर्णबलः “वां युवयोः “ककुहः उच्छ्रितो महान् “ययिः गन्ता “संतनिः सततं गच्छन् रथः “यामेषु गमनेषु यज्ञेषु वा “शृण्वे श्रूयते । हे “अश्विना हे नरा “यत् यस्मात् “वां युवां “दंसोभिः कर्मभिः "अत्रिः अस्मत्पिता “आववर्तति आवर्तयति ॥


मध्व॑ ऊ॒ षु म॑धूयुवा॒ रुद्रा॒ सिष॑क्ति पि॒प्युषी॑ ।

यत्स॑मु॒द्राति॒ पर्ष॑थः प॒क्वाः पृक्षो॑ भरंत वां ॥८

मध्वः॑ । ऊं॒ इति॑ । सु । म॒धु॒ऽयु॒वा॒ । रुद्रा॑ । सिस॑क्ति । पि॒प्युषी॑ ।

यत् । स॒मु॒द्रा । अति॑ । पर्ष॑थः । प॒क्वाः । पृक्षः॑ । भ॒र॒न्त॒ । वा॒म् ॥८

मध्वः । ऊं इति । सु । मधुऽयुवा । रुद्रा । सिसक्ति । पिप्युषी ।

यत् । समुद्रा । अति । पर्षथः । पक्वाः । पृक्षः । भरन्त । वाम् ॥८

हे “मधूयुवा मधुरस्य सोमादेर्मिश्रयितारौ हे "रुद्रा। रुत् स्तुतिः । तया द्रवणीयौ रुद्रपुत्रौ वा वां “मध्वः मधुररसेन “सु पिप्युषी सुष्ठु प्याययन्ती स्तुतिरस्मत्कृता “सिषक्ति सेवते । “यत् यदा “समुद्रा समुद्द्रवणसाधनानि अन्तरिक्षाणि "अति “पर्षथः अतिपारयथः । यज्ञं प्राप्नुथः इत्यर्थः । “पक्वाः “पृक्षः अन्नानि हविर्लक्षणानि “वां “भरन्त भ्रियन्ते यजमानैः ॥


स॒त्यमिद्वा उ॑ अश्विना यु॒वामा॑हुर्मयो॒भुवा॑ ।

ता याम॑न्याम॒हूत॑मा॒ याम॒न्ना मृ॑ळ॒यत्त॑मा ॥९

स॒त्यम् । इत् । वै । ऊं॒ इति॑ । अ॒श्वि॒ना॒ । यु॒वाम् । आ॒हुः॒ । म॒यः॒ऽभुवा॑ ।

ता । याम॑न् । या॒म॒ऽहूत॑मा । याम॑न् । आ । मृ॒ळ॒यत्ऽत॑मा ॥९

सत्यम् । इत् । वै । ऊं इति । अश्विना । युवाम् । आहुः । मयःऽभुवा ।

ता । यामन् । यामऽहूतमा । यामन् । आ । मृळयत्ऽतमा ॥९

हे “अश्विना “युवां “सत्यमित् सत्यमेव । “वै इति पादपूरणः । “मयोभुवा सुखस्य भावयितारौ “आहुः पुराविदः । “ता तौ सुखकरत्वेन प्रसिद्धौ युवां “यामन् यज्ञे “यामहूतमा गमनार्थं भृशमाह्वातव्यौ भवतमिति शेषः । “यामन् अस्मद्यज्ञे अस्मदर्थागमने वा "मृळयत्तमा चातिशयेन सुखयितारौ भवतम् । आकारश्चार्थे ॥


इ॒मा ब्रह्मा॑णि॒ वर्ध॑ना॒श्विभ्यां॑ संतु॒ शंत॑मा ।

या तक्षा॑म॒ रथाँ॑ इ॒वावो॑चाम बृ॒हन्नमः॑ ॥१०

इ॒मा । ब्रह्मा॑णि । वर्ध॑ना । अ॒श्विऽभ्या॑म् । स॒न्तु॒ । शम्ऽत॑मा ।

या । तक्षा॑म । रथा॑न्ऽइव । अवो॑चाम । बृ॒हत् । नमः॑ ॥१०

इमा । ब्रह्माणि । वर्धना । अश्विऽभ्याम् । सन्तु । शम्ऽतमा ।

या । तक्षाम । रथान्ऽइव । अवोचाम । बृहत् । नमः ॥१०

अथ स्तुतिं निगमयति । “इमा इमानि इदानीं कृतानि “ब्रह्माणि परिवृढानि स्तोत्राणि “अश्विभ्यां "वर्धना वर्धनानि समर्धकानि “शंतमा सुखतमानि “सन्तु । "या यानि “तक्षाम संपादयाम “रथानिव शिल्पी तद्वत्तक्षाम तानि सन्तु । वयं “बृहत् प्रभूतं प्रभूतफलप्रदं “नमः नमस्कारोक्तिम् “अवोचाम ॥ ॥ १२ ॥

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.७३&oldid=209184" इत्यस्माद् प्रतिप्राप्तम्