तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः ३/प्रपाठकः ११
नाचिकेताग्निचयनम्
३.११.१
लोकोऽसि स्वर्गोऽसि । अनन्तोऽस्यपारोऽसि । अक्षितोऽस्यक्षय्योऽसि । तपसः प्रतिष्ठा । त्वयीदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्ता विश्वस्य जनयिता । तं त्वोपदधे कामदुघमक्षितम् । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद्ध्रुवा सीद १
तपोऽसि लोके श्रितम् । तेजसः प्रतिष्ठा । त्वयीदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्तृ विश्वस्य जनयितृ ।तत्त्वोपदधे कामदुघमक्षितम् । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद्ध्रुवा सीद २
तेजोऽसि तपसि श्रितम् । समुद्रस्य प्रतिष्ठा । त्वयीदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्तृ विश्वस्य जनयितृ ।तत्त्वोपदधे कामदुघमक्षितम् । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद्ध्रुवा सीद ३
समुद्रो ऽसि तेजसि श्रितः । अपां प्रतिष्ठा । त्वयीदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्ता विश्वस्य जनयिता । तं त्वोपदधे कामदुघमक्षितम् । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद्ध्रुवा सीद ४
आपः स्थ समुद्रे श्रिताः । पृथिव्याः प्रतिष्ठा युष्मासु । इदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्त्र्यो विश्वस्य जनयित्र्यः । ता व उपदधे कामदुघा अक्षिताः । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद्ध्रुवा सीद ५
पृथिव्यस्यप्सु श्रिता । अग्नेः प्रतिष्ठा । त्वयीदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्त्री विश्वस्य जनयित्री ।तां त्वोपदधे कामदुघामक्षिताम् । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद्ध्रुवा सीद ६
अग्निरसि पृथिव्याꣳ श्रितः । अन्तरिक्षस्य प्रतिष्ठा । त्वयीदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्ता विश्वस्य जनयिता । तं त्वोपदधे कामदुघमक्षितम् । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद्ध्रुवा सीद ७
अन्तरिक्षमस्यग्नौ श्रितम् । वायोः प्रतिष्ठा । त्वयीदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्तृ विश्वस्य जनयितृ ।तत्त्वोपदधे कामदुघमक्षितम् । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद्ध्रुवा सीद ८
वायुरस्यन्तरिक्षे श्रितः । दिवः प्रतिष्ठा । त्वयीदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्ता विश्वस्य जनयिता । तं त्वोपदधे कामदुघमक्षितम् । प्रजापतिस्त्वा सादयतु तया देवतयाङ्गिरस्वद्ध्रुवा सीद ९
द्यौरसि वायौ श्रिता । आदित्यस्य प्रतिष्ठा । त्वयीदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्त्री विश्वस्य जनयित्री ।तां त्वोपदधे कामदुघामक्षिताम् । प्रजापतिस्त्वा सादयतु तया देवतयाङ्गिरस्वद्ध्रुवा सीद १०
आदित्योऽसि दिवि श्रितः । चन्द्रमसः प्रतिष्ठा । त्वयीदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्ता विश्वस्य जनयिता । तं त्वोपदधे कामदुघमक्षितम् । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद्ध्रुवा सीद ११
चन्द्रमा अस्यादित्ये श्रितः । नक्षत्राणां प्रतिष्ठा । त्वयीदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्ता विश्वस्य जनयिता । तं त्वोपदधे कामदुघमक्षितम् । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद्ध्रुवा सीद १२
नक्षत्राणि स्थ चन्द्रमसि श्रितानि । संवत्सरस्य प्रतिष्ठा युष्मासु । इदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्तॄणि विश्वस्य जनयितॄणि । तानि व उपदधे कामदुघान्यक्षितानि । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद्ध्रुवा सीद १३
संवत्सरोऽसि नक्षत्रेषु श्रितः । ऋतूनां प्रतिष्ठा । त्वयीदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्ता विश्वस्य जनयिता । तं त्वोपदधे कामदुघमक्षितम् । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद्ध्रुवा सीद १४
ऋतवः स्थ संवत्सरे श्रिताः । मासानां प्रतिष्ठा युष्मासु । इदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्तारो विश्वस्य जनयितारः । तान्व उपदधे कामदुघानक्षितान् । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद्ध्रुवा सीद १५
मासाः स्थर्तुषु श्रिताः । अर्धमासानां प्रतिष्ठा युष्मासु । इदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्तारो विश्वस्य जनयितारः । तान्व उपदधे कामदुघानक्षितान् । प्रजापतिस्त्वा सादयतु । तया देवत-याङ्गिरस्वद्ध्रुवा सीद १६
अर्धमासाः स्थ मासु श्रिताः । अहोरात्रयोः प्रतिष्ठा युष्मासु । इदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्तारो विश्वस्य जनयितारः । तान्व उपदधे कामदुघानक्षितान् । प्रजापतिस्त्वा सदयतु । तया देवतयाङ्गिरस्वद्ध्रुवा सीद १७
अहोरात्रे स्थोऽर्धमासेषु श्रिते । भूतस्य प्रतिष्ठे भव्यस्य प्रतिष्ठे । युवयोरिदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्त्र्यौ विश्वस्य जनयित्र्यौ । ते वामुपदधे कामदुघे अक्षिते । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद्ध्रुवा सीद १८
पौर्णमास्यष्टकामावास्या । अन्नादाः स्थान्नदुघो युष्मासु । इदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्त्र्यो विश्वस्य जनयित्र्यः । ता व उपदधे कामदुघा अक्षिताः । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद्ध्रुवा सीद १९
राडसि बृहती श्रीरसीन्द्र पत्नी धर्मपत्नी ।विश्वं भूतमनु प्रभूता । त्वयीदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्त्री विश्वस्य जनयित्री ।तां त्वोपदधे कामदुघामक्षिताम् । प्रजापतिस्त्वा सादयतु । तया देवतया-ङ्गिरस्वद्ध्रुवा सीद २०
ओजोऽसि सहोऽसि । बलमसि भ्राजोऽसि । देवानां धामामृतम् । अमर्त्यस्तपोजाः । त्वयीदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्ता विश्वस्य जनयिता । तं त्वोपदधे कामदुघमक्षितम् । प्रजाप-तिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद्ध्रुवा सीद २१
३.११.२
त्वमग्ने रुद्रो असुरो महो दिवः । त्वꣳ शर्धो मारुतं पृक्ष ईशिषे । त्वं वातैररुणैर्यासि शङ्गयः । त्वं पूषा विधतः पासि नु त्मना । देवा देवेषु श्रयध्वम् । प्रथमा द्वितीयेषु श्रयध्वम् । द्वितीयास्तृतीयेषु श्रयध्वम् । तृतीयाश्चतुर्थेषु श्रयध्वम् । चतुर्थाः पञ्चमेषु श्रयध्वम् । पञ्चमाः षष्ठेषु श्रयध्वम् १
षष्ठाः सप्तमेषु श्रयध्वम् । सप्तमा अष्टमेषु श्रयध्वम् । अष्टमा नवमेषु श्रयध्वम् । नवमा दशमेषु श्रयध्वम् । दशमा एकादशेषु श्रयध्वम् । एकादशा द्वादशेषु श्रयध्वम् । द्वादशास्त्रयोदशेषु श्रयध्वम् । त्रयोदशाश्चतुर्दशेषु श्रयध्वम् । चतुर्दशाः पञ्चदशेषु श्रयध्वम् । पञ्चदशाः षोडशेषु श्रयध्वम् २
षोडशाः सप्तदशेषु श्रयध्वम् । सप्तदशा अष्टादशेषु श्रयध्वम् । अष्टादशा एकान्नविꣳशेषु श्रयध्वम् । एकान्नविꣳशा विꣳशेषु श्रयध्वम् । विꣳशा एकविꣳशेषु श्रयध्वम् । एकविꣳशा द्वाविꣳशेषु श्रयध्वम् । द्वाविꣳशास्त्रयोविꣳशेषु श्रयध्वम् । त्रयोविꣳशाश्चतुर्विꣳशेषु श्रयध्वम् । चतुर्विꣳशाः पञ्चविꣳशेषु श्रयध्वम् । पञ्चविꣳशाः षड्विꣳशेषु श्रयध्वम् ३
षड्विꣳशाः सप्तविꣳशेषु श्रयध्वम् । सप्तविꣳशा अष्टाविꣳशेषु श्रयध्वम् । अष्टाविꣳशा एकान्नत्रिꣳशेषु श्रयध्वम् । एकान्नत्रिꣳशास्त्रिꣳशेषु श्रयध्वम् । त्रिꣳशा एकत्रिꣳशेषु श्रयध्वम् । एकत्रिꣳशा द्वात्रिꣳशेषु श्रयध्वम् । द्वात्रिꣳशास्त्रयस्त्रिꣳशेषु श्रयध्वम् । देवास्त्रिरेकादशास्त्रिस्त्रयस्त्रिꣳशाः । उत्तरे भवत । उत्तरवर्त्मान उत्तरसत्वानः । यत्काम इदं जुहोमि । तन्मे समृध्यताम् । वयꣳ स्याम पतयो रयीणाम् । भूर्भुवः स्वः स्वाहा ४
३.११.३
अग्नाविष्णू सजोषसा । इमा वर्धन्तु वां गिरः । द्युम्नैर्वाजेभिरागतम् । राज्ञी विराज्ञी ।सम्राज्ञी स्वराज्ञी ।अर्चिः शोचिः । तपो हरो भाः । अग्निः सोमो बृहस्पतिः । विश्वे देवा भुवनस्य गोपाः । ते सर्वे संगत्य । इदं मे प्रावता वचः । वयꣳ स्याम पतयो रयीणाम् । भूर्भुवः स्वः स्वाहा १
३.११.४
अन्नपतेऽन्नस्य नो देहि । अनमीवस्य शुष्मिणः । प्र प्रदातारं तरिषः । ऊर्जं नो धेहि द्विपदे चतुष्पदे । अग्ने पृथिवीपते । सोम वीरुधां पते । त्वष्टः समिधां पते । विष्णवाशानां पते । मित्र सत्यानां पते । वरुण धर्मणाम्पते १
मरुतो गणानां पतयः । रुद्र पशूनां पते । इन्द्रौ जसां पते । बृहस्पते ब्रह्मणस्पते । आ रुचा रोचेऽहꣳ स्वयम् । रुचा रुरुचे रोचमानः । अतीत्यादः स्वराभरेह । तस्मिन्योनौ प्रजनौ प्रजायेय । वयꣳ स्याम पतयो रयीणाम् । भूर्भुवः स्वः स्वाहा २
३.११.५
सप्त ते अग्ने समिधः सप्त जिह्वाः । सप्तर्षयः सप्त धाम प्रियाणि । सप्त होत्रा अनुविद्वान् । सप्त योनीरापृणस्वा घृतेन । प्राची दिक् । अग्निर्देवता । अग्निꣳ स दिशां देवं देवतानामृच्छतु । यो मैतस्यै दिशोऽभिदासति । दक्षिणा दिक् । इन्द्रो देवता १
इन्द्रꣳ स दिशां देवं देवतानामृच्छतु । यो मा एतस्यै दिशोऽभिदासति । प्रतीची दिक् । सोमो देवता । सोमꣳ स दिशाꣳ देवं देवतानामृच्छतु । यो मैतस्यै देशोऽभिदासति । उदीची दिक् । मित्रावरुणौ देवता । मित्रावरुणौ स दिशां देवौ देवतानामृच्छतु । यो मैतस्यै दिशोऽभिदासति २
ऊर्ध्वा दिक् । बृहस्पतिर्देवता । बृहस्पतिꣳ स दिशां देवं देवतानामृच्छतु । यो मैतस्यै दिशोऽभिदासति । इयं दिक् । अदितिर्देवता । अदितिꣳ स दिशां देवीं देवतानामृच्छतु । यो मैतस्यै दिशोऽभिदासति । पुरुषो दिक् । पुरुषो मे कामान्त्समर्धयतु ३
अन्धो जागृविः पाण । असावेहि । बधिर आक्रन्दयितरपान । असावेहि । उषसमुषसमशीय । अहमसो ज्योतिरशीय । अहमसोऽपोऽशीय । वयꣳ स्याम पतयो रयीणाम् । भूर्भुवः स्वः स्वाहा ४
3.11.6
यत्तेऽचितं यदु चितं ते अग्ने । यत्त ऊनं यदु तेऽतिरिक्तम् । आदित्यास्तदङ्गिरसश्चिन्वन्तु । विश्वे ते देवाश्चितिमापूरयन्तु । चितश्चासि संचितश्चास्यग्ने । एतावाꣳश्चासि भूयाꣳश्चास्यग्ने । लोकं पृण च्छिद्रं पृण । अथो सीद शिवा त्वम् । इन्द्राग्नी त्वा बृहस्पतिः । अस्मिन्योनावसीषदन् १
तया देवतयाङ्गिरस्वद्ध्रुवा सीद । ता अस्य सूददोहसः । सोमꣳ श्रीणन्ति पृश्नयः । जन्मन्देवानां विशः । त्रिष्वारोचने दिवः । तया देवतयाङ्गिरस्वद्ध्रुवा सीद । अग्ने देवाꣳ इहावह । जज्ञानो वृक्तवर्हिषे । असि होता न ईड्यः । अगन्म महा मनसा यविष्ठम् २
यो दीदाय समिद्धः स्वे दुरोणे । चित्रभानू रोदसी अन्तरुर्वी ।स्वाहुतं विश्वतः प्रत्यञ्चम् । मेधाकारं विदथस्य प्रसाधनम् । अग्निꣳ होतारं परिभूतमं मतिम् । त्वामर्भस्य हविषः समानमित् । त्वां महो वृणते नरो नान्यं त्वत् । मनुष्वत्त्वा निधीमहि । मनुष्वत्समिधीमहि । अग्ने मनुष्वदङ्गिरः ३
देवान्देवायते यज । अग्निर्हि वाजिनं विशे । ददाति विश्वचर्षणिः । अग्नी राये स्वाभुवम् । स प्रीतो याति वार्यम् । इषꣳ स्तोतृभ्य आभर । पृष्टो दिवि पृष्टो अग्निः पृथिव्याम् । पृष्टो विश्वा ओषधीराविवेश । वैश्वानरः सहसा पृष्टो अग्निः । स नो दिवा स रिषः पातु नक्तम् ४
३.११.७
अयं वाव यः पवते । सोऽग्निर्नाचिकेतः । स यत्प्राङ्पवते । तदस्य शिरः । अथ यद्दक्षिणा । स दक्षिणः पक्षः । अथ यत्प्रत्यक् । तत्पुच्छम् । यदुदङ्।स उत्तरः पक्षः १
अथ यत्संवाति । तदस्य समञ्चनं च प्रसारणं च । अथो सम्पदेवास्य सा । सꣳ ह वा अस्मै स कामः पद्यते । यत्कामो यजते । योऽग्निं नाचिकेतं चिनुते । य उ चैनमेवं वेद । यो ह वा अग्नेर्नाचिकेतस्यायतनं प्रतिष्ठां वेद । आयतनवान्भवति । गच्छति प्रतिष्ठाम् २
हिरण्यं वा अग्नेर्नाचिकेतस्यायतनं प्रतिष्ठा । य एवं वेद । आयतनवान्भवति । गच्छति प्रतिष्ठाम् । यो ह वा अग्नेर्नाचिकेतस्य शरीरं वेद । सशरीर एव स्वर्गं लोकमेति । हिरण्यं वा अग्नेर्नाचिकेतस्य शरीरम् । य एवं वेद । सशरीर एव स्वर्गं लोकमेति । अथो यथा रुक्म उत्तप्तो भाय्यात् ३
एवमेव स तेजसा यशसा । अस्मिꣳश्च लोकेऽमुष्मिꣳश्च भाति । उरवो ह वै नामैते लोकाः । येऽवरेणादित्यम् । अथ हैते वरीयाꣳसो लोकाः । ये परेणादित्यम् । अन्तवन्तꣳ ह वा एष क्षय्यं लोकं जयति । योऽवरेणादित्यम् । अथ हैषोऽनन्तमपारमक्षय्यं लोकं जयति । यः परेणादित्यम् ४
अनन्तꣳ ह वा अपारमक्षय्यं लोकं जयति । योऽग्निं नाचिकेतं चिनुते । य उ चैनमेवं वेद । अथो यथा रथे तिष्ठन्पक्षसी पर्यावर्तमाने प्रत्यपेक्षते । एवमहोरात्रे प्रत्यपेक्षते । नास्याहोरात्रे लोकमाप्नुतः । योऽग्निं नाचिकेतं चिनुते । य उ चैनमेवं वेद ५
३.११.८
उशन्ह वै वाजश्रवसः सर्ववेदसं ददौ । तस्य ह नचिकेता नाम पुत्र आस । तꣳ ह कुमारꣳ सन्तम् । दक्षिणासु नीयमानासु श्रद्धाविवेश । स होवाच । ततः कस्मै मां दास्यसीति । द्वितीयं तृतीयम् । तꣳ ह परीत उवाच । मृत्यवे त्वा ददामीति । तꣳ ह स्मोत्थितं वागभिवदति १
गौतम कुमारमिति । स होवाच । परेहि मृत्योर्गृहान् । मृत्यवे वै त्वादामिति । तं वै प्रवसन्तं गन्तासीति होवाच । तस्य स्म तिस्रो रात्रीरनाश्वान्गृहे वसतात् । स यदि त्वा पृच्छेत् । कुमार कति रात्रीरवात्सीरिति । तिस्र इति प्रतिब्रूतात् । किं प्रथमाꣳ रात्रिमाश्ना इति २
प्रजां त इति । किं द्वितीयामिति । पशूꣳस्त इति । किं तृतीयामिति । साधुकृत्यां त इति । तं वै प्रवसन्तं जगाम । तस्य ह तिस्रो रात्रीरनाश्वान्गृह उवास । तमागत्य पप्रच्छ । कुमार कति रात्रीरवात्सीरिति । तिस्र इति प्रत्युवाच ३
किं प्रथमाꣳ रात्रिमाश्ना इति । प्रजां त इति । किं द्वितीयामिति । पशूꣳस्त इति । किं तृतीयामिति । साधुकृत्यां त इति । नमस्ते अस्तु भगव इति होवाच । वरं वृणीष्वेति । पितरमेव जीवन्नयानीति । द्वितीयं वृणीष्वेति ४
इष्टापूर्तयोर्मेऽक्षितिं ब्रूहीति होवाच । तस्मै हैतमग्निं नाचिकेतमुवाच । ततो वै तस्येष्टापूर्ते ना क्षीयेते । नास्येष्टापूर्ते क्षीयेते । योऽग्निं नाचिकेतं चिनुते । य उ चैनमेवं वेद । तृतीयं वृणीष्वेति । पुनर्मृत्योर्मेऽपजितिं ब्रूहीति होवाच । तस्मै हैतमग्निं नाचिकेतमुवाच । ततो वै सोऽप पुनर्मृत्युमजयत् ५
अप पुनर्मृत्युं जयति । योऽग्निं नाचिकेतं चिनुते । य उ चैनमेवं वेद । प्रजापतिर्वै प्रजाकामस्तपोऽतप्यत । स हिरण्यमुदास्यत् । तदग्नौ प्रास्यत् । तदस्मै नाच्छदयत् । तद्द्वितीयं प्रास्यत् । तदस्मै नैवाच्छदयत् । तत्तृतीयं प्रास्यत् ६
तदस्मै नैवाच्छदयत् । तदात्मन्नेव हृदय्येऽग्नौ वैश्वानरे प्रास्यत् । तदस्मा अच्छदयत् । तस्माद्धिरण्यं कनिष्ठं धनानाम् । भुञ्जत्प्रियतमम् । हृदयजꣳ हि । स वै तमेव नाविन्दत् । यस्मै तां दक्षिणामनेष्यत् । ताꣳ स्वायैव हस्ताय दक्षिणायानयत् । तां प्रत्यगृह्णात् ७
दक्षाय त्वा दक्षिणां प्रतिगृह्णामीति । सोऽदक्षत दक्षिणां प्रतिगृह्य । दक्षते ह वै दक्षिणां प्रतिगृह्य । य एवं वेद । एतद्ध स्म वै तद्विद्वाꣳ सो वाजश्रवसा गोतमाः । अप्यनूदेश्यां दक्षिणां प्रतिगृह्णन्ति । उभयेन वयं दक्षिष्यामह एव दक्षिणां प्रतिगृह्येति । तेऽदक्षन्त दक्षिणां प्रतिगृह्य । दक्षते ह वै दक्षिणां प्रतिगृह्य । य एवं वेद । प्र हान्यं व्लीनाति ८
३.११.९
तꣳ हैतमेके पशुबन्ध एवोत्तरवेद्यां चिन्वते । उत्तरवेदिसंमित एषोऽग्निरिति वदन्तः । तन्न तथा कुर्यत् । एतमग्निं कामेन व्यर्धयेत् । स एनं कामेन व्यृद्धः । कामेन व्यर्धयेत् । सौम्ये वावैनमध्वरे चिन्वीत । यत्र वा भूयिष्ठा आहुतयो हूयेरन् । एतमग्निं कामेन समर्धयति । स एनं कामेन समृद्धः १
कामेन समर्धयति । अथ हैनं पुरर्षयः । उत्तरवेद्यामेव सत्त्रियमचिन्वत । ततो वै तेऽविन्दन्त प्रजाम् । अभि स्वर्गं लोकमजयन् । विन्दत एव प्रजाम् । अभि स्वर्गं लोकं जयति । योऽग्निं नाचिकेतं चिनुते । य उ चैनमेवं वेद । अथ हैनं वायुरृद्धिकामः २
यथान्युप्तमेवोपदधे । ततो वै स एतामृद्धिमार्ध्नोत् । यामिदं वायुरृद्धः । एतामृद्धिमृध्नोति । यामिदं वायुरृद्धः । योऽग्निं नाचिकेतं चिनुते । य उ चैनमेवं वेद । अथ हैनं गोबलो वार्ष्णः पशुकामः । पाङ्क्तमेव चिक्ये । पञ्च पुरस्तात् ३
पञ्च दक्षिणतः । पञ्च पश्चात् । पञ्चोत्तरतः । एकां मध्ये । ततो वै स सहस्रं पशून्प्राप्नोत् । प्र सहस्रं पशूनाप्नोति । योऽग्निं नाचिकेतं चिनुते । य उ चैनमेवं वेद । अथ हैनं प्रजापतिर्ज्यैष्ठ्यकामो यशस्कामः प्रजननकामः । त्रिवृतमेव चिक्ये ४
सप्त पुरस्तात् । तिस्रो दक्षिणतः । सप्त पश्चात् । तिस्र उत्तरतः । एकां मध्ये । ततो वै स प्र यशो ज्यैष्ठ्यमाप्नोत् । एतां प्रजातिं प्राजायत । यामिदं प्रजाः प्रजायन्ते । त्रिवृद्वै ज्यैष्ठ्यम् । माता पिता पुत्रः ५
त्रिवृत्प्रजननम् । उपस्थो योनिर्मध्यमा । प्र यशो ज्यैष्ठ्यमाप्नोति । एतां प्रजातिं प्रजायते । यामिदं प्रजाः प्रजायन्ते । योऽग्निं नाचिकेतं चिनुते । य उ चैनमेवं वेद । अथ हैनमिन्द्रो ज्यैष्ठ्यकामः । ऊर्ध्वा एवोपदधे । ततो वै स ज्यैष्ठ्यमगच्छत् ६
ज्यैष्ठ्यं गच्छति । योऽग्निं नाचिकेतं चिनुते । य उ चैनमेवं वेद । अथ हैनमसावादित्यः स्वर्गकामः । प्राचीरेवोपदधे । ततो वै सोऽभि स्वर्गं लोकमजयत् । अभि स्वर्गं लोकं जयति । योऽग्निं नाचिकेतं चिनुते । य उ चैनमेवं वेद । स यदीच्छेत् ७
तेजस्वी यशस्वी ब्रह्मवर्चसी स्यामिति । प्राङा होतुर्धिष्ण्यादुत्सर्पेत् । येयं प्रागाद्यशस्वती ।सा मा प्रोर्णोतु । तेजसा यशसा ब्रह्मवर्चसेनेति । तेजस्व्येव यशस्वी ब्रह्मवर्चसी भवति । अथ यदीच्छेत् । भूयिष्ठं मे श्रद्दधीरन् । भूयिष्ठा दक्षिणा नयेयुरिति । दक्षिणासु नीयमानासु प्राच्येहि प्राच्येहीति प्राची जुषाणा वेत्वाज्यस्य स्वाहेति स्रुवेणोपहत्याहवनीये जुहुयात् ८
भूयिष्ठमेवास्मै श्रद्दधते । भूयिष्ठा दक्षिणा नयन्ति । पुरीषमुपधाय । चितिक्ळृप्तिभिरभिमृश्य । अग्निं प्रणीयोपसमाधाय । चतस्र एता आहुतीर्जुहोति । त्वमग्ने रुद्र इति । शतरुद्री यस्य रूपम् । अग्नाविष्णू इति वसोर्धारायाः । अन्नपत इत्यन्नहोमः । सप्त ते अग्ने समिधः सप्त जिह्वा इति विश्वप्रीः ९
३.११.१०
यां प्रथमामिष्टकामुपदधाति । इमं तया लोकमभिजयति । अथो या अस्मिꣳल्लोके देवताः । तासाꣳ सायुज्यꣳ सलोकतामाप्नोति । यां द्वितीयामुपदधाति । अन्तरिक्षलोकं तयाभिजयति । अथो या अन्तरिक्षलोके देवताः । तासाꣳ सायुज्यꣳ सलोकतामाप्नोति । यां तृतीयामुपदधाति । अमुं तया लोकमभिजयति १
अथो या अमुष्मिꣳल्लोके देवताः । तासाꣳ सायुज्यꣳ सलोकतामाप्नोति । अथो या अमूरितरा अष्टादश । य एवामी उरवश्च वरीयाꣳसश्च लोकाः । तानेव ताभिरभिजयति । कामचारो ह वा अस्योरुषु च वरीयःसु च लोकेषु भवति । योऽग्निं नाचिकेतं चिनुते । य उ चैनमेवं वेद । संवत्सरो वा अग्निर्नाचिकेतः । तस्य वसन्तः शिरः २
ग्रीष्मो दक्षिणः पक्षः । वर्षा उत्तरः । शरत्पुच्छम् । मासाः कर्मकाराः । अहोरात्रे शतरुद्रीयम् । पर्जन्यो वसोर्धारा । यथा वै पर्जन्यः सुवृष्टं वृष्ट्वा । प्रजाभ्यः सर्वान्कामान्त्संपूरयति । एवमेव स तस्य सर्वान्कामान्त्संपूरयति । योऽग्निं नाचिकेतं चिनुते ३
य उ चैनमेवं वेद । संवत्सरो वा अग्निर्नाचिकेतः । तस्य वसन्तः शिरः । ग्रीष्मो दक्षिणः पक्षः । वर्षाः पुच्छम् । शरदुत्तरः पक्षः । हेमन्तो मध्यम् । पूर्वपक्षाश्चितयः । अपरपक्षाः पुरीषम् । अहोरात्राणीष्टकाः । एष वाव सोऽग्निरग्निमयः पुनर्णवः । अग्निमयो ह वै पुनर्णवो भूत्वा । स्वर्गं लोकमेति । आदित्यस्य सायुज्यम् । योऽग्निं नाचिकेतं चिनुते । य उ चैनमेवं वेद ४