ऋग्वेदः सूक्तं ५.८२
← सूक्तं ५.८१ | ऋग्वेदः - मण्डल ५ सूक्तं ५.८२ श्यावाश्व आत्रेयः । |
सूक्तं ५.८३ → |
दे. सविता। गायत्री, १ अनुष्टुप् । |
तत्सवितुर्वृणीमहे वयं देवस्य भोजनम् ।
श्रेष्ठं सर्वधातमं तुरं भगस्य धीमहि ॥१॥
अस्य हि स्वयशस्तरं सवितुः कच्चन प्रियम् ।
न मिनन्ति स्वराज्यम् ॥२॥
स हि रत्नानि दाशुषे सुवाति सविता भगः ।
तं भागं चित्रमीमहे ॥३॥
अद्या नो देव सवितः प्रजावत्सावीः सौभगम् ।
परा दुष्वप्न्यं सुव ॥४॥
विश्वानि देव सवितर्दुरितानि परा सुव ।
यद्भद्रं तन्न आ सुव ॥५॥
अनागसो अदितये देवस्य सवितुः सवे ।
विश्वा वामानि धीमहि ॥६॥
आ विश्वदेवं सत्पतिं सूक्तैरद्या वृणीमहे ।
सत्यसवं सवितारम् ॥७॥
य इमे उभे अहनी पुर एत्यप्रयुच्छन् ।
स्वाधीर्देवः सविता ॥८॥
य इमा विश्वा जातान्याश्रावयति श्लोकेन ।
प्र च सुवाति सविता ॥९॥
सायणभाष्यम्
' तत्सवितुः' इति नवर्चं दशमं सूक्तं श्यावाश्वस्यार्षम् । अत्रेयमनुक्रमणिका- तत्सवितुर्नव गायत्रमाद्यानुष्टुप्' इति । प्रथमानुष्टुप् शिष्टा गायत्र्यः । ' सावित्रं तु ' इत्युक्तत्वात् सावित्रम् । अग्निष्टोमे वैश्वदेवशस्त्रस्याद्यस्तृचः प्रतिपत् ‘ अद्या नो देव ' इत्यनुचरः । सूत्रितं च-- ‘ तत्सवितुर्वृणीमहेऽद्या नो देव सवितरिति वैश्वदेवस्य प्रतिपदनुचरौ ' ( आश्व.श्रौ. ५.१८) इति ॥
तत्स॑वि॒तुर्वृ॑णीमहे व॒यं दे॒वस्य॒ भोज॑नम् ।
श्रेष्ठं॑ सर्व॒धात॑मं॒ तुरं॒ भग॑स्य धीमहि ॥१
तत् । स॒वि॒तुः । वृ॒णी॒म॒हे॒ । व॒यम् । दे॒वस्य॑ । भोज॑नम् ।
श्रेष्ठ॑म् । स॒र्व॒ऽधात॑मम् । तुर॑म् । भग॑स्य । धी॒म॒हि॒ ॥१
तत् । सवितुः । वृणीमहे । वयम् । देवस्य । भोजनम् ।
श्रेष्ठम् । सर्वऽधातमम् । तुरम् । भगस्य । धीमहि ॥१
“तत् प्राप्यत्वेन प्रसिद्ध “भोजनं भोग्यं धनं “वयं स्तोतारः “वृणीमहे प्रार्थयामः । कस्य धनम्। 'सवितुः प्रेरकस्य "देवस्य स्वभूतम् । लब्ध्वा च “श्रेष्ठं प्रशस्यं "सर्वधातमं सर्वधातृतमम् । सर्वभोगप्रदमित्यर्थः । “तुरं शत्रूणां हिंसकम् । धनेन शत्रून् हन्तुं शक्यत्वात् । तादृशं धनं "भगस्य भजनीयस्य सवितुरनुग्रहात् “धीमहि धारयाम । उपभोगं करवामेत्यर्थः । अथवा धनं वृणीमहे अर्थित्वाच्च लभेमहीति ॥
अस्य॒ हि स्वय॑शस्तरं सवि॒तुः कच्च॒न प्रि॒यम् ।
न मि॒नन्ति॑ स्व॒राज्य॑म् ॥२
अस्य॑ । हि । स्वय॑शःऽतरम् । स॒वि॒तुः । कत् । च॒न । प्रि॒यम् ।
न । मि॒नन्ति॑ । स्व॒ऽराज्य॑म् ॥२
अस्य । हि । स्वयशःऽतरम् । सवितुः । कत् । चन । प्रियम् ।
न । मिनन्ति । स्वऽराज्यम् ॥२
“अस्य "सवितुः "स्वयशस्तरं स्वयमसाधारणं यशो यस्यातिशयेन भवति तत्तादृशं “प्रियं सर्वेषां प्रियभूतं "स्वराज्यं स्वयमेव राजमानत्वमैश्वर्यं "कच्चन केचिदप्यसुरादयः “न “मिनन्ति न हिंसन्ति ॥
स हि रत्ना॑नि दा॒शुषे॑ सु॒वाति॑ सवि॒ता भग॑ः ।
तं भा॒गं चि॒त्रमी॑महे ॥३
सः । हि । रत्ना॑नि । दा॒शुषे॑ । सु॒वाति॑ । स॒वि॒ता । भगः॑ ।
तम् । भा॒गम् । चि॒त्रम् । ई॒म॒हे॒ ॥३
सः । हि । रत्नानि । दाशुषे । सुवाति । सविता । भगः ।
तम् । भागम् । चित्रम् । ईमहे ॥३
“स “हि स खलु “सविता "भगः भजनीयो देवः “दाशुषे हविर्दात्रे मह्यं "रत्नानि रमणीयानि धनानि “सुवाति प्रेरयति प्रयच्छति । "तं देवं “भागं भजनीयं "चित्रं चायनीयं धनम् "ईमहे याचामहे ॥
‘ अद्या नः' इति चतुर्थीपञ्चमीभ्याममनोज्ञस्वप्नदर्शने प्रत्यृचं जुहुयात् । ‘ अद्या नो देव सवितरिति द्वाभ्याम् ' ( आश्व. गृ. ३. ६, ६) इति हि सूत्रितम् ॥
अ॒द्या नो॑ देव सवितः प्र॒जाव॑त्सावी॒ः सौभ॑गम् ।
परा॑ दु॒ष्ष्वप्न्यं॑ सुव ॥४
अ॒द्य । नः॒ । दे॒व॒ । स॒वि॒त॒रिति॑ । प्र॒जाऽव॑त् । सा॒वीः॒ । सौभ॑गम् ।
परा॑ । दुः॒ऽस्वप्न्य॑म् । सु॒व॒ ॥४
अद्य । नः । देव । सवितरिति । प्रजाऽवत् । सावीः । सौभगम् ।
परा । दुःऽस्वप्न्यम् । सुव ॥४
हे "सवितः “देव "नः अस्मभ्यम् "अद्य अस्मिन् यागदिने “प्रजावत् पुत्राद्युपेतं "सौभगं धनं "सावीः प्रेरय । "दुःष्वप्न्यं दुःस्वप्नं दुःस्वप्नवद्दुःखकरं दारिद्र्यं "परा “सुव दूरे प्रेरय ॥
विश्वा॑नि देव सवितर्दुरि॒तानि॒ परा॑ सुव ।
यद्भ॒द्रं तन्न॒ आ सु॑व ॥५
विश्वा॑नि । दे॒व॒ । स॒वि॒तः॒ । दुः॒ऽइ॒तानि॑ । परा॑ । सु॒व॒ ।
यत् । भ॒द्रम् । तत् । नः॒ । आ । सु॒व॒ ॥५
विश्वानि । देव । सवितः । दुःऽइतानि । परा । सुव ।
यत् । भद्रम् । तत् । नः । आ । सुव ॥५
हे सवितः “देव त्वं विश्वानि दुरितानि परा सुव । यद्भदं प्रजापशुगृहादिकं तत् “नः अस्मभ्यम् “ “सुव अस्मदभिमुखं प्रेरय। ‘प्रजा वै भद्रं पशवो भद्रं गृहं भद्रम् ' इति हि श्रुतिः ॥ ॥ २५ ॥
अना॑गसो॒ अदि॑तये दे॒वस्य॑ सवि॒तुः स॒वे ।
विश्वा॑ वा॒मानि॑ धीमहि ॥६
अना॑गसः । अदि॑तये । दे॒वस्य॑ । स॒वि॒तुः । स॒वे ।
विश्वा॑ । वा॒मानि॑ । धी॒म॒हि॒ ॥६
अनागसः । अदितये । देवस्य । सवितुः । सवे ।
विश्वा । वामानि । धीमहि ॥६
वयमनुष्ठातारः "सवितुः प्रेरकस्य “देवस्य “सवे अनुज्ञायां सत्याम् "अदितये अखण्डनीयायै देव्यै भूम्यै "अनागसः स्याम अनपराधिनो भवेम । भूम्यां हि पापाः संभवन्ति । अपगतेष्वागःसु “विश्वा सर्वाणि "वामानि वननीयानि धनानि “धीमहि धारयाम ॥
चातुर्मास्येषु वैश्वदेवे पर्वणि सावित्रस्य द्वादशकपालस्य ‘ आ विश्वदेवम् ' इत्यनुवाक्या । सूत्रितं च - ‘ आ विश्वदेवं सत्पतिं वाममद्य सवितः ' ( आश्व. श्रौ. २.१६ ) इति । प्रायणीये एषैव सवितुरनुवाक्या । सूत्रितं च - ‘ आ विश्वदेवं सत्पतिं य इमा विश्वा जातानि' (आश्व. श्रौ. ४. ३ ) इति । देवसुवां हविःषु एषैव सवितुरनुवाक्या । सूत्रितं च - आ विश्वदेवं सत्पतिं न प्रमिये सवितुर्दैव्यस्य तत् ' ( आश्व. श्रौ. ४. ११) इति ॥
आ वि॒श्वदे॑वं॒ सत्प॑तिं सू॒क्तैर॒द्या वृ॑णीमहे ।
स॒त्यस॑वं सवि॒तार॑म् ॥७
आ । वि॒श्वऽदे॑वम् । सत्ऽप॑तिम् । सु॒ऽउ॒क्तैः । अ॒द्य । वृ॒णी॒म॒हे॒ ।
स॒त्यऽस॑वम् । स॒वि॒तार॑म् ॥७
आ । विश्वऽदेवम् । सत्ऽपतिम् । सुऽउक्तैः । अद्य । वृणीमहे ।
सत्यऽसवम् । सवितारम् ॥७
"विश्वदेवम् । विश्वे देवा यस्य वशे भवन्ति तं तादृशम् । स हि सर्वात्मा, इन्द्रं मित्रं वरुणमग्निमाहुः' (ऋ. सं. १. १६४. ४६ ) इत्यादिश्रुतेः इतरेषां तद्विभूतित्वात् । "सत्पतिं सतामनुष्ठातॄणां पालकं "सत्यसवं सत्यानुज्ञं "सवितारं देवम् "अद्य अस्मिन् यागदिने "सूक्तैः “आ "वृणीमहे संभजामहे ॥
य इ॒मे उ॒भे अह॑नी पु॒र एत्यप्र॑युच्छन् ।
स्वा॒धीर्दे॒वः स॑वि॒ता ॥८
यः । इ॒मे इति॑ । उ॒भे इति॑ । अह॑नी॒ इति॑ । पु॒रः । एति॑ । अप्र॑ऽयुच्छन् ।
सु॒ऽआ॒धीः । दे॒वः । स॒वि॒ता ॥८
यः । इमे इति । उभे इति । अहनी इति । पुरः । एति । अप्रऽयुच्छन् ।
सुऽआधीः । देवः । सविता ॥८
"यः "सविता "देवः "स्वाधीः शोभनाध्यानः सुकर्मा वा सन् "इमे “अहनी रात्र्यहनी तयोः “पुरः पुरस्तात् "अप्रयुच्छन् अप्रमाद्यन् "एति गच्छति तम् आ वृणीमहे इति संबन्धः ॥
प्रायणीये ‘य इमा विश्वा' इति सवितुर्याज्या । सूत्रितं च - ‘ य इमा विश्वा जातानि सुत्रामाणं पृथिवीं द्यामनेहसम्' (आश्व. श्रौ. ४. ३) इति ।
अश्वमेधेऽश्वमुत्सृज्यानुसवनं सावित्रीष्टिः कार्या । तस्यामेषा माध्यंदिने सवनेऽनुवाक्या । सूत्रितं च - ‘ य इमा विश्वा जातान्या देवो यातु सविता सुरत्नः ' ( आश्व. श्रौ. १०.६ ) इति ॥
य इ॒मा विश्वा॑ जा॒तान्या॑श्रा॒वय॑ति॒ श्लोके॑न ।
प्र च॑ सु॒वाति॑ सवि॒ता ॥९
यः । इ॒मा । विश्वा॑ । जा॒तानि॑ । आ॒ऽश्रा॒वय॑ति । श्लोके॑न ।
प्र । च॒ । सु॒वाति॑ । स॒वि॒ता ॥९
यः । इमा । विश्वा । जातानि । आऽश्रावयति । श्लोकेन ।
प्र । च । सुवाति । सविता ॥९
“यः देवः “इमा इमानि "विश्वा सर्वाणि “जातानि उत्पन्नान् प्राणिनः । जङ्मानित्यर्थः । तान् "श्लोकेन यशसा “आश्रावयति । सर्वेऽप्यस्य स्तुतिं शृण्वन्तीत्यर्थः । अथवा गर्जनशब्देन सर्वाणि इमान्युत्पन्नान्याश्रावयति वृष्ट्युन्मुखः सन् । किंच "सविता “प्र “सुवाति "च प्रेरयति तं वृणीमहे इति ॥ ॥ २६ ॥
मण्डल ५ | ||||
---|---|---|---|---|