सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०२/श्येनः प्रजापतिर्वा(अबोध्यग्निः)

विकिस्रोतः तः
श्येनः प्रजापतिर्वा, दीर्घायुष्यं वा।

अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासं ।
यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सस्रते नाकमच्छ ॥ ७३ ॥ ऋ. ५.१.१


( ७३ । १ ) ॥ श्येनः प्रजापतिर्वा, दीर्घायुष्यं वा । प्रजापतिस्त्रिष्टुबग्निः; उषा वा ॥

अबोधिया । ग्नाइस्समिधाजनाऽ२नाम् । प्रताइधेऽ३नूम् । इवायतीमुषासम् । यह्वाईऽ३वा । प्रवाऽ२यामुज्जिहानाः ॥ प्रभानाऽ२३वाः । सस्रतेनाकमच्छ । इडाऽ२३ भाऽ३३४ । ओऽ२३४५इ ।। डा।।

( दी० १४ | प० ११ | मा० ९ । १० ( तो । १२० )

[सम्पाद्यताम्]

टिप्पणी

औशनानि (ऊहगानम्)