ऋग्वेदः सूक्तं ९.९८

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ९.९८ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ९.९७ ऋग्वेदः - मण्डल ९
सूक्तं ९.९८
अम्बरीषो वार्षागिरः, ऋजिश्वा भारद्वाजश्च
सूक्तं ९.९९ →
दे. पवमानः सोमः। अनुष्टुप्, ११ बृहती


अभि नो वाजसातमं रयिमर्ष पुरुस्पृहम् ।
इन्दो सहस्रभर्णसं तुविद्युम्नं विभ्वासहम् ॥१॥
परि ष्य सुवानो अव्ययं रथे न वर्माव्यत ।
इन्दुरभि द्रुणा हितो हियानो धाराभिरक्षाः ॥२॥
परि ष्य सुवानो अक्षा इन्दुरव्ये मदच्युतः ।
धारा य ऊर्ध्वो अध्वरे भ्राजा नैति गव्ययुः ॥३॥
स हि त्वं देव शश्वते वसु मर्ताय दाशुषे ।
इन्दो सहस्रिणं रयिं शतात्मानं विवाससि ॥४॥
वयं ते अस्य वृत्रहन्वसो वस्वः पुरुस्पृहः ।
नि नेदिष्ठतमा इषः स्याम सुम्नस्याध्रिगो ॥५॥
द्विर्यं पञ्च स्वयशसं स्वसारो अद्रिसंहतम् ।
प्रियमिन्द्रस्य काम्यं प्रस्नापयन्त्यूर्मिणम् ॥६॥
परि त्यं हर्यतं हरिं बभ्रुं पुनन्ति वारेण ।
यो देवान्विश्वाँ इत्परि मदेन सह गच्छति ॥७॥
अस्य वो ह्यवसा पान्तो दक्षसाधनम् ।
यः सूरिषु श्रवो बृहद्दधे स्वर्ण हर्यतः ॥८॥
स वां यज्ञेषु मानवी इन्दुर्जनिष्ट रोदसी ।
देवो देवी गिरिष्ठा अस्रेधन्तं तुविष्वणि ॥९॥
इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे ।
नरे च दक्षिणावते देवाय सदनासदे ॥१०॥
ते प्रत्नासो व्युष्टिषु सोमाः पवित्रे अक्षरन् ।
अपप्रोथन्तः सनुतर्हुरश्चितः प्रातस्ताँ अप्रचेतसः ॥११॥
तं सखायः पुरोरुचं यूयं वयं च सूरयः ।
अश्याम वाजगन्ध्यं सनेम वाजपस्त्यम् ॥१२॥


सायणभाष्यम्

' अभि नः' इति द्वादशर्चं द्वितीयं सूक्तम् । वृषागिरो राज्ञः पुत्रोऽम्बरीषो भरद्वाजपुत्र ऋजिश्वोभौ सहितावस्यर्षी। इदमुत्तराणि च त्रीण्यानुष्टुभानि । अत्र त्वेकादशी बृहती। पवमानः सोमो देवता । तथा चानुक्रम्यते--' अभि नो द्वादशाम्बरीष ऋजिश्वा चानुष्टुभं ह बृहत्युपान्त्या ' इति । गतो विनियोगः ॥


अ॒भि नो॑ वाज॒सात॑मं र॒यिम॑र्ष पुरु॒स्पृहं॑ ।

इंदो॑ स॒हस्र॑भर्णसं तुविद्यु॒म्नं वि॑भ्वा॒सहं॑ ॥१

अ॒भि । नः॒ । वा॒ज॒ऽसात॑मम् । र॒यिम् । अ॒र्ष॒ । पु॒रु॒ऽस्पृह॑म् ।

इन्दो॒ इति॑ । स॒हस्र॑ऽभर्णसम् । तु॒वि॒ऽद्यु॒म्नम् । वि॒भ्व॒ऽसह॑म् ॥१

अभि । नः । वाजऽसातमम् । रयिम् । अर्ष । पुरुऽस्पृहम् ।

इन्दो इति । सहस्रऽभर्णसम् । तुविऽद्युम्नम् । विभ्वऽसहम् ॥१

हे "इन्दो दीप्त "वाजसातमम् अत्यन्तं बलप्रदमन्नप्रदं वा "रयिं धनं पुत्रं वा "नः अस्माकम् "अभि ‘“अर्ष अभिगमय । कीदृशम् । "पुरुस्पृहं बहुभिः स्पृहणीयं "सहस्रभर्णसं बहुविधभरणम् । अनेकपोषणयुक्तमित्यर्थः। “तुविद्युम्नम् । ‘द्युम्नं द्योततेर्यशो वान्नं वा ' (निरु. ५.५) इति यास्कः । बह्वन्नं बहुयशोयुक्तं वा "विभ्वसहम् । विभ्व इति महन्नाम । महतोऽभिभवितारम् ॥


परि॒ ष्य सु॑वा॒नो अ॒व्ययं॒ रथे॒ न वर्मा॑व्यत ।

इंदु॑र॒भि द्रुणा॑ हि॒तो हि॑या॒नो धारा॑भिरक्षाः ॥२

परि॑ । स्यः । सु॒वा॒नः । अ॒व्यय॑म् । रथे॑ । न । वर्म॑ । अ॒व्य॒त॒ ।

इन्दुः॑ । अ॒भि । द्रुणा॑ । हि॒तः । हि॒या॒नः । धारा॑भिः । अ॒क्षा॒रिति॑ ॥२

परि । स्यः । सुवानः । अव्ययम् । रथे । न । वर्म । अव्यत ।

इन्दुः । अभि । द्रुणा । हितः । हियानः । धाराभिः । अक्षारिति ॥२

“सुवानः सूयमानः "स्यः स सोमः "अव्ययम् अविमयं पवित्रं "परि पवते । तत्र दृष्टान्तः । “रथे “न यथा रथे स्थितः पुरुषः “वर्म कवचम् "अव्यत परिव्ययति । व्ययतेर्लुङि वर्णलोपछान्दसः । "अभि "हितः अभितः प्रेरितः यद्वा स्तोतृभिरभिष्टुतः सः “इन्दुः सोमः “द्रुणा द्रुममयेन द्रोणकलशेन “हियानः । ‘हि गतौ वृद्धौ च'। तेन पूर्यमाणः सन् “धाराभिः "अक्षाः क्षरति । क्षरतेर्लुङि रूपम् ॥


परि॒ ष्य सु॑वा॒नो अ॑क्षा॒ इंदु॒रव्ये॒ मद॑च्युतः ।

धारा॒ य ऊ॒र्ध्वो अ॑ध्व॒रे भ्रा॒जा नैति॑ गव्य॒युः ॥३

परि॑ । स्यः । सु॒वा॒नः । अ॒क्षा॒रिति॑ । इन्दुः॑ । अव्ये॑ । मद॑ऽच्युतः ।

धारा॑ । यः । ऊ॒र्ध्वः । अ॒ध्व॒रे । भ्रा॒जा । न । एति॑ । ग॒व्य॒ऽयुः ॥३

परि । स्यः । सुवानः । अक्षारिति । इन्दुः । अव्ये । मदऽच्युतः ।

धारा । यः । ऊर्ध्वः । अध्वरे । भ्राजा । न । एति । गव्यऽयुः ॥३

“सुवानः सूयमानः अस्यः "स्यः सः "इन्दुः सोमः "मदच्युतः मदार्थं देवैः प्रेरितः सन् "अव्ये अविभवे पवित्रे "परि “अक्षाः परितः क्षरति । "अध्वरे “ऊर्ध्वः समुच्छ्रितः सर्वेषां मुख्यः "यः सोमः “गव्ययुः गोकामः यद्वा क्षीरादिकं कामयमानः सन् “धारा धारया सह “एति गच्छति । “भ्राजा “न भ्राजमानया दीप्त्या यथान्तरिक्षे गच्छति तद्वत् ॥


स हि त्वं दे॑व॒ शश्व॑ते॒ वसु॒ मर्ता॑य दा॒शुषे॑ ।

इंदो॑ सह॒स्रिणं॑ र॒यिं श॒तात्मा॑नं विवाससि ॥४

सः । हि । त्वम् । दे॒व॒ । शश्व॑ते । वसु॑ । मर्ता॑य । दा॒शुषे॑ ।

इन्दो॒ इति॑ । स॒ह॒स्रिण॑म् । र॒यिम् । श॒तऽआ॑त्मानम् । वि॒वा॒स॒सि॒ ॥४

सः । हि । त्वम् । देव । शश्वते । वसु । मर्ताय । दाशुषे ।

इन्दो इति । सहस्रिणम् । रयिम् । शतऽआत्मानम् । विवाससि ॥४

हे “देव सोम "सः त्वं "शश्वते पुत्रादिमत्त्वेन बहवे “मर्त्याय मनुष्याय "दाशुषे हविर्दत्तवते यजमानाय “वसु धनं मह्यं च “विवाससि प्रेरयसि । एकवाक्यतापक्षे हि तिङन्तस्य हियोगादनिघातः स्यात् ॥


व॒यं ते॑ अ॒स्य वृ॑त्रह॒न्वसो॒ वस्वः॑ पुरु॒स्पृहः॑ ।

नि नेदि॑ष्ठतमा इ॒षः स्याम॑ सु॒म्नस्या॑ध्रिगो ॥५

व॒यम् । ते॒ । अ॒स्य । वृ॒त्र॒ऽह॒न् । वसो॒ इति॑ । वस्वः॑ । पु॒रु॒ऽस्पृहः॑ ।

नि । नेदि॑ष्ठऽतमाः । इ॒षः । स्याम॑ । सु॒म्नस्य॑ । अ॒ध्रि॒गो॒ इत्य॑ध्रिऽगो ॥५

वयम् । ते । अस्य । वृत्रऽहन् । वसो इति । वस्वः । पुरुऽस्पृहः ।

नि । नेदिष्ठऽतमाः । इषः । स्याम । सुम्नस्य । अध्रिगो इत्यध्रिऽगो ॥५

हे "वृत्रहन् शत्रूणां हन्तः सोम “अस्य एतादृशस्य “ते तव स्वभूताः “वयं स्मः । ततो हे “वसो वासयित: “पुरुस्पृहः बहुभिः स्पृहणीयस्य “वस्वः वसुनः धनस्य त्वया दीयमानस्य वयं "नि नितरां "नेदिष्ठतमाः अत्यन्तमन्तिकतमाः स्याम । तथा “इषः अन्नस्य किंच हे "अध्रिगो अधृतगमन सोम सुम्नस्य सुखस्य वयमन्तिकतमाः "स्याम भवेम ॥


द्विर्यं पंच॒ स्वय॑शसं॒ स्वसा॑रो॒ अद्रि॑संहतं ।

प्रि॒यमिंद्र॑स्य॒ काम्यं॑ प्रस्ना॒पयं॑त्यू॒र्मिणं॑ ॥६

द्विः । यम् । पञ्च॑ । स्वऽय॑शसम् । स्वसा॑रः । अद्रि॑ऽसंहतम् ।

प्रि॒यम् । इन्द्र॑स्य । काम्य॑म् । प्र॒ऽस्ना॒पय॑न्ति । ऊ॒र्मिण॑म् ॥६

द्विः । यम् । पञ्च । स्वऽयशसम् । स्वसारः । अद्रिऽसंहतम् ।

प्रियम् । इन्द्रस्य । काम्यम् । प्रऽस्नापयन्ति । ऊर्मिणम् ॥६

“द्विः "पञ्च दशसंख्याकाः "स्वसारः कर्मकरणार्थमितस्ततो गच्छन्त्योऽङ्गुलयः "स्वयशसं स्वभूतयशस्कम् "अद्रिसंहतं ग्रावभिरभिषुतम् “इन्द्रस्य "प्रियं "काम्यं सर्वैः काम्यमानम् "ऊर्मिण धाराभिस्तद्वन्तं "यं सोमं “प्रस्नापयन्ति वसतीवरीभिः प्रकर्षेण सेचयन्ति यजमानाः तं पुनन्तीत्युत्तरत्र संबन्धः ॥ ॥ २३ ॥


परि॒ त्यं ह॑र्य॒तं हरिं॑ ब॒भ्रुं पु॑नंति॒ वारे॑ण ।

यो दे॒वान्विश्वाँ॒ इत्परि॒ मदे॑न स॒ह गच्छ॑ति ॥७

परि॑ । त्यम् । ह॒र्य॒तम् । हरि॑म् । ब॒भ्रुम् । पु॒न॒न्ति॒ । वारे॑ण ।

यः । दे॒वान् । विश्वा॑न् । इत् । परि॑ । मदे॑न । स॒ह । गच्छ॑ति ॥७

परि । त्यम् । हर्यतम् । हरिम् । बभ्रुम् । पुनन्ति । वारेण ।

यः । देवान् । विश्वान् । इत् । परि । मदेन । सह । गच्छति ॥७

“हर्यतं सर्वैः स्पृहणीयं "हरिं हरितवर्णं "बभ्रुं बभ्रुवर्णं च “त्यं तं सोमं “वारेण वालेन पवित्रेण "परि "पुनन्ति परिशोधयन्ति । "यः सोमः विश्वान् सर्वानिन्द्रादीन् "देवान् "इत् देवानेव “मदेन मादकेन रसेन "सह "परि "गच्छति ॥


अ॒स्य वो॒ ह्यव॑सा॒ पांतो॑ दक्ष॒साध॑नं ।

यः सू॒रिषु॒ श्रवो॑ बृ॒हद्द॒धे स्व१॒॑र्ण ह॑र्य॒तः ॥८

अ॒स्य । वः॒ । हि । अव॑सा । पान्तः॑ । द॒क्ष॒ऽसाध॑नम् ।

यः । सू॒रिषु॑ । श्रवः॑ । बृ॒हत् । द॒धे । स्वः॑ । न । ह॒र्य॒तः ॥८

अस्य । वः । हि । अवसा । पान्तः । दक्षऽसाधनम् ।

यः । सूरिषु । श्रवः । बृहत् । दधे । स्वः । न । हर्यतः ॥८

"वः । छान्दसो वसादेशः । हिरवधारणे । वो यूयम् "अस्य सोमस्य “अवसा रक्षणेन "दक्षसाधनं बलस्य साधनं रसं “पान्तः पिबन्तो भवथ । "स्वर्ण आदित्य इव “हर्यतः सर्वैः काम्यमानः "यः अयं सोमः "सूरिषु स्तोत्राणि प्रेरयत्सु स्तोतृषु "बृहत् महत् प्रभूतं “श्रवः अन्नं "दधे विदधे । स्थापयतीति यावत् ॥


स वां॑ य॒ज्ञेषु॑ मानवी॒ इंदु॑र्जनिष्ट रोदसी ।

दे॒वो दे॑वी गिरि॒ष्ठा अस्रे॑धं॒तं तु॑वि॒ष्वणि॑ ॥९

सः । वा॒म् । य॒ज्ञेषु॑ । मा॒न॒वी॒ इति॑ । इन्दुः॑ । ज॒नि॒ष्ट॒ । रो॒द॒सी॒ इति॑ ।

दे॒वः । दे॒वी॒ इति॑ । गि॒रि॒ऽस्थाः । अस्रे॑धन् । तम् । तु॒वि॒ऽस्वनि॑ ॥९

सः । वाम् । यज्ञेषु । मानवी इति । इन्दुः । जनिष्ट । रोदसी इति ।

देवः । देवी इति । गिरिऽस्थाः । अस्रेधन् । तम् । तुविऽस्वनि ॥९

हे "मानवी मानव्यौ मनोः स्वभूते हे "देवी द्योतमाने हे "रोदसी द्यावापृथिव्यौ "वां युवयोः "यज्ञेषु "सः "इन्दुः सोमः "जनिष्ट अजनि अन्तरिक्षे “देवः स्वतेजसा सर्वं प्रकाशयन् पृथिव्यां “गिरिष्ठाः ग्रावसु तिष्ठन् । "तं जातं सोमं “तुविष्वणि बहुस्वने उपरे यज्ञे वा “अस्रेधन् ऋत्विजो ग्रावभिरघ्नन् । अभ्यषुण्वन्निति यावत् ॥


इंद्रा॑य सोम॒ पात॑वे वृत्र॒घ्ने परि॑ षिच्यसे ।

नरे॑ च॒ दक्षि॑णावते दे॒वाय॑ सदना॒सदे॑ ॥१०

इन्द्रा॑य । सो॒म॒ । पात॑वे । वृ॒त्र॒ऽघ्ने । परि॑ । सि॒च्य॒से॒ ।

नरे॑ । च॒ । दक्षि॑णाऽवते । दे॒वाय॑ । स॒द॒न॒ऽसदे॑ ॥१०

इन्द्राय । सोम । पातवे । वृत्रऽघ्ने । परि । सिच्यसे ।

नरे । च । दक्षिणाऽवते । देवाय । सदनऽसदे ॥१०

हे “सोम “वृत्रघ्ने वृत्रस्य हन्त्रे “इन्द्राय । षष्ठ्यर्थे चतुर्थी । इन्द्रस्य "पातवे पानार्थं "परि “षिच्यसे परितः पात्रेषु सिच्यसे । वसतीवरीभिर्वा । किंच "दक्षिणावते ऋत्विग्भ्यो दक्षिणादानेन तद्वते "देवाय देवार्थं हवींषि दातुं "सदनसदे यज्ञगृहे सीदते "नरे मनुष्याय यजमानाय तस्मै फलप्रदानार्थं परिषिच्यसे ॥


ते प्र॒त्नासो॒ व्यु॑ष्टिषु॒ सोमाः॑ प॒वित्रे॑ अक्षरन् ।

अ॒प॒प्रोथं॑तः सनु॒तर्हु॑र॒श्चितः॑ प्रा॒तस्ताँ अप्र॑चेतसः ॥११

ते । प्र॒त्नासः॑ । विऽउ॑ष्टिषु । सोमाः॑ । प॒वित्रे॑ । अ॒क्ष॒र॒न् ।

अ॒प॒ऽप्रोथ॑न्तः । स॒नु॒तः । हु॒रः॒ऽचितः॑ । प्रा॒तरिति॑ । तान् । अप्र॑ऽचेतसः ॥११

ते । प्रत्नासः । विऽउष्टिषु । सोमाः । पवित्रे । अक्षरन् ।

अपऽप्रोथन्तः । सनुतः । हुरःऽचितः । प्रातरिति । तान् । अप्रऽचेतसः ॥११

“व्युष्टिषु उषसां व्युच्छनेषु प्रकाशनेषु "प्रत्नासः प्रत्नाः “ते "सोमाः "पवित्रे “अक्षरन् क्षरन्ति । ये सोमाः "सनुतः अन्तर्हितान् "अप्रचेतसः प्रज्ञानरहितान् "हुरश्चितः । स्तेननामैतत् । कौटिल्येन चिन्वन्तीति । “तान् मायाविनः स्तेनान् “प्रातः प्रातःकाल एव "अपप्रोथन्तः । अपप्रोथनं चापप्रेरणम् । अपप्रेरयन्तः शब्देन निराकुर्वन्तो भवन्ति । ते क्षरन्तीति समन्वयः ॥


तं स॑खायः पुरो॒रुचं॑ यू॒यं व॒यं च॑ सू॒रयः॑ ।

अ॒श्याम॒ वाज॑गंध्यं स॒नेम॒ वाज॑पस्त्यं ॥१२

तम् । स॒खा॒यः॒ । पु॒रः॒ऽरुच॑म् । यू॒यम् । व॒यम् । च॒ । सू॒रयः॑ ।

अ॒श्याम॑ । वाज॑ऽगन्ध्यम् । स॒नेम॑ । वाज॑ऽपस्त्यम् ॥१२

तम् । सखायः । पुरःऽरुचम् । यूयम् । वयम् । च । सूरयः ।

अश्याम । वाजऽगन्ध्यम् । सनेम । वाजऽपस्त्यम् ॥१२

हे "सखायः स्तोतारः "सूरयः प्राज्ञाः "यूयं "वयं "च यजमानाः "पुरोरुचं पुरतो रोचमानं “वाजगन्ध्यं बलकरसाधुगन्धोपेतं सोमम् "अश्याम अश्नीयाम पिबेम । किंच "वाजपस्त्यम् अन्नयुक्तगृहसहितं यद्वा बलकरं सोमं “सनेम संभजेमहि । सोमेन बलान्नगृहादीनि भवन्तीत्यर्थः ॥ ॥२४॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.९८&oldid=208698" इत्यस्माद् पुनः प्राप्तिः