सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः १०/निहवम्

विकिस्रोतः तः
निहवम्
निहवम्.

१८
परि त्यं हर्यतं हरिं बभ्रुं पुनन्ति वारेण ।
यो देवान्विश्वां इत्परि मदेन सह गच्छति ।। १३२९ ।। ऋ. ९.९८.७
द्विर्यं पञ्च स्वयशसं सखायो अद्रिसंहतं ।
प्रियमिन्द्रस्य काम्यं प्रस्नापयन्त ऊर्मयः ।। १३३० ।।
इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे ।
नरे च दक्षिणावते वीराय सदनासदे ।। १३३१ ।।

[सम्पाद्यताम्]

टिप्पणी

निहवो भवत्यन्नाद्यस्यावरुध्यै। हीति वा अन्नं प्रदीयत ईत्यग्निरन्नमत्ति। ऋषयो वा इन्द्रं प्रत्यक्षं नापश्यन् स वसिष्ठोऽकामयत कथमिन्द्रं प्रत्यक्षं पश्येयमिति स एतन्निहवमपश्यत् ततो वै स इन्द्रं प्रत्यक्षमपश्यत्, स एनमब्रवीद्ब्राह्मणं ते वक्ष्यामि यथा त्वत्पुरोहिता भरताः प्रजनिष्यन्तेऽथ मान्येभ्य ऋषिभ्यो मा प्रवोच इति तस्मा एतान् स्तोमभागानब्रवीत् ततो वै वसिष्ठपुरोहिता भरताः प्राजायन्त सेन्द्रं वा एतत् साम यदेतत् साम भवति सेन्द्रत्वाय - पञ्च.ब्रा. १५.५.२२

अथ निहवः। इन्द्रो वै तृतीयसवनाद् बीभत्समान उदक्रामत्। धीतम् इव ह्य् आसीत्। तम एतेन विश्वे देवास् साम्नान्वह्वयन्तायिही आयिही इति। ततो वा इन्द्रस् तृतीयसवनम् उपावर्तत। ततो ऽस्माद् अनपक्रम्य् अभवत्। तद् एतत् सेन्द्रं साम। सेन्द्रो हास्य सदेवो यज्ञो भवति। अभ्य् अस्येन्द्रो यज्ञम् आवर्तते। नास्येन्द्रो यज्ञाद् अपक्रामति य एवं वेद। तद् व् एवाचक्षते वसिष्ठस्य निहव इति। वसिष्ठो वै जीतो हतपुत्रो ऽकामयत प्रजां पशून् निह्वयेयेति। स एतत् सामापश्यत्। तेनास्तुत। तेनायिही आयिही इत्य् एव प्रजां पशून् न्यह्वयत। तद् व् एव निहवस्य निहवत्वम्। प्रजां पशून् निह्वयते य एवं वेद। तद् उ स्तोभानुतुन्नं भवति। अनुतुन्नाद वै प्रजाः पशवः प्रजायन्ते। पशवश् छन्दोमाः। तेन वै रूपसमृद्धम्। यद् उ वसिष्ठो ऽपश्यत् तस्माद् वासिष्ठस्य निहव इत्य् आख्यायते॥जैब्रा ३.२६८