सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः १०/गौरीवितम्

विकिस्रोतः तः
गौरीवितम्
गौरीवितम्.

१८
परि त्यं हर्यतं हरिं बभ्रुं पुनन्ति वारेण ।
यो देवान्विश्वां इत्परि मदेन सह गच्छति ।। १३२९ ।। ऋ. ९.९८.७
द्विर्यं पञ्च स्वयशसं सखायो अद्रिसंहतं ।
प्रियमिन्द्रस्य काम्यं प्रस्नापयन्त ऊर्मयः ।। १३३० ।।
इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे ।
नरे च दक्षिणावते वीराय सदनासदे ।। १३३१ ।।




१८. गौरीवितम् ।। गौरीवितिः । अनुष्टुप्। पवमानस्सोमः ।।

परि । त्यꣳहाऽ३ । र्यतꣳहराइम् ।। बभ्रुंपुनन्तिवारेणाऽ२३ । योदेवान्वाऽ३१२३इ । श्वाꣳआऽ५इत्पराइ ।। मादेनसाऽ३१२३ ।। हगोवा । छाऽ५तोऽ६”हाइ ।। श्रीः ।। द्विर्यम् । पञ्चाऽ३ । स्वयशसाम् ।। सखा-
योअद्रिसꣳहताऽ२३म् । प्रायमिन्द्राऽ३१२३ । स्यकाऽ५मियाम् ।। प्रास्नापयाऽ३१२३ ।। तओवा । माऽ५योऽ६”हाइ ।।श्रीः।। इन्द्रा । यसोऽ३ । मपातवाइ ।। वृत्रघ्नेपरिषिच्यसाऽ२३इ । नारेचदाऽ३१२३ । क्षिणाऽ५वताइ ।
वाइरायसाऽ३१२३ ।। दनोवा । साऽ५दौऽ६”हाइ ।।

दी. १४. उत्. न. मा. १९. लो. ।।१९८।।


[सम्पाद्यताम्]

टिप्पणी

परि त्यं हर्यतं हरिम् इति परिवतीर् भवन्त्य् अन्तस्य रूपम्। अन्तो ह्य् एतद् अहः। बभ्रुं पुनन्ति वारेण। यो देवान् विश्वं इत् परि इति विश्ववतीर् भवन्ति। वैश्वदेवं ह्य् एतद् अहः। मदेन सह गच्छतीति मद्वतीर् भवन्ति। अभिपूर्वम् एवैतत् तृतीयसवने रसं मदं दधति। द्विर् यं पञ्च स्वयशसं स्वसारो अद्रिसंहतम्। प्रियम् इन्द्रस्य काम्यं प्रस्नापयन्त ऊर्मयः॥ इत्य् आशिषम् एवैतेनाशास्ते। इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यस इति वर्त्रघ्न्यो भवन्त्य् अन्ततो विजित्यै। तासु गौरिवीतम् उक्तब्राह्मणम्। - जैब्रा ३.२६८