ऋग्वेदः सूक्तं ९.६

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ९.५ ऋग्वेदः - मण्डल ९
सूक्तं ९.६
कश्यपोऽसितो देवलो वा।
सूक्तं ९.७ →
दे. पवमानः सोमः। गायत्री।


मन्द्रया सोम धारया वृषा पवस्व देवयुः ।
अव्यो वारेष्वस्मयुः ॥१॥
अभि त्यं मद्यं मदमिन्दविन्द्र इति क्षर ।
अभि वाजिनो अर्वतः ॥२॥
अभि त्यं पूर्व्यं मदं सुवानो अर्ष पवित्र आ ।
अभि वाजमुत श्रवः ॥३॥
अनु द्रप्सास इन्दव आपो न प्रवतासरन् ।
पुनाना इन्द्रमाशत ॥४॥
यमत्यमिव वाजिनं मृजन्ति योषणो दश ।
वने क्रीळन्तमत्यविम् ॥५॥
तं गोभिर्वृषणं रसं मदाय देववीतये ।
सुतं भराय सं सृज ॥६॥
देवो देवाय धारयेन्द्राय पवते सुतः ।
पयो यदस्य पीपयत् ॥७॥
आत्मा यज्ञस्य रंह्या सुष्वाणः पवते सुतः ।
प्रत्नं नि पाति काव्यम् ॥८॥
एवा पुनान इन्द्रयुर्मदं मदिष्ठ वीतये ।
गुहा चिद्दधिषे गिरः ॥९॥


सायणभाष्यम्

‘मन्द्रया' इति नवर्चं षष्ठं सूक्तं काश्यपस्यासितस्य देवलस्य वार्षं गायत्रं पवमानसोमदेवताकम् ॥


मं॒द्रया॑ सोम॒ धार॑या॒ वृषा॑ पवस्व देव॒युः ।

अव्यो॒ वारे॑ष्वस्म॒युः ॥१

म॒न्द्रया॑ । सो॒म॒ । धार॑या । वृषा॑ । प॒व॒स्व॒ । दे॒व॒ऽयुः ।

अव्यः॑ । वारे॑षु । अ॒स्म॒ऽयुः ॥१

मन्द्रया । सोम । धारया । वृषा । पवस्व । देवऽयुः ।

अव्यः । वारेषु । अस्मऽयुः ॥१

हे “सोम “वृषा कामानां वर्षिता “देवयुः देवकामः “अस्मयुः अस्मत्कामश्च “अव्यः अवेः “वारेषु वालेषु दशापवित्रे “मन्द्रया मदकरया “धारया पवस्व क्षर ॥


अ॒भि त्यं मद्यं॒ मद॒मिंद॒विंद्र॒ इति॑ क्षर ।

अ॒भि वा॒जिनो॒ अर्व॑तः ॥२

अ॒भि । त्यम् । मद्य॑म् । मद॑म् । इन्दो॒ इति॑ । इन्द्रः॑ । इति॑ । क्ष॒र॒ ।

अ॒भि । वा॒जिनः॑ । अर्व॑तः ॥२

अभि । त्यम् । मद्यम् । मदम् । इन्दो इति । इन्द्रः । इति । क्षर ।

अभि । वाजिनः । अर्वतः ॥२

हे "इन्दो सोम त्वम् “इन्द्रः ईश्वरः “इति कृत्वा “त्यं तं “मद्यं मदकरं “मदं रसम् “अभि “क्षर वर्ष । “वाजिनः बलवतः “अर्वतः अश्वांश्च अस्मदर्थम् अभि क्षरेत्यर्थः । ।


अ॒भि त्यं पू॒र्व्यं मदं॑ सुवा॒नो अ॑र्ष प॒वित्र॒ आ ।

अ॒भि वाज॑मु॒त श्रवः॑ ॥३

अ॒भि । त्यम् । पू॒र्व्यम् । मद॑म् । सु॒वा॒नः । अ॒र्ष॒ । प॒वित्रे॑ । आ ।

अ॒भि । वाज॑म् । उ॒त । श्रवः॑ ॥३

अभि । त्यम् । पूर्व्यम् । मदम् । सुवानः । अर्ष । पवित्रे । आ ।

अभि । वाजम् । उत । श्रवः ॥३

हे सोम “सुवानः अभिषूयमाणस्त्वं “पूर्व्यं प्रत्नं “त्यं तं प्रसिद्ध “मदं मदकरं रसं "पवित्रे “आ समन्तात् "अभि “अर्ष अभिगमय । “वाजं बलमस्मान् “अभि अर्ष । “उत अपि च “श्रवः अन्नमभ्यर्ष ।।


अनु॑ द्र॒प्सास॒ इंद॑व॒ आपो॒ न प्र॒वता॑सरन् ।

पु॒ना॒ना इंद्र॑माशत ॥४

अनु॑ । द्र॒प्सासः॑ । इन्द॑वः । आपः॑ । न । प्र॒ऽवता॑ । अ॒स॒र॒न् ।

पु॒ना॒नाः । इन्द्र॑म् । आ॒श॒त॒ ॥४

अनु । द्रप्सासः । इन्दवः । आपः । न । प्रऽवता । असरन् ।

पुनानाः । इन्द्रम् । आशत ॥४

“द्रप्सासः द्रुतगतयः “पुनानाः क्षरन्तः “इन्दवः सोमाः “प्रवता प्रवणेन मार्गेण “आपो “न आप इव "इन्द्रम् “अनु “असरन् अनुगच्छन्ति । “आशत व्याप्नुवन्ति च ।।


यमत्य॑मिव वा॒जिनं॑ मृ॒जंति॒ योष॑णो॒ दश॑ ।

वने॒ क्रीळं॑त॒मत्य॑विं ॥५

यम् । अत्य॑म्ऽइव । वा॒जिन॑म् । मृ॒जन्ति॑ । योष॑णः । दश॑ ।

वने॑ । क्रीळ॑न्तम् । अति॑ऽअविम् ॥५

यम् । अत्यम्ऽइव । वाजिनम् । मृजन्ति । योषणः । दश ।

वने । क्रीळन्तम् । अतिऽअविम् ॥५

“अत्यविं दशापवित्रमतिक्रम्य “वने अरण्ये “क्रीळन्तं वर्तमानं “यं सोमं “दश दशसंख्याकाः “योषणः स्त्रियः। अङ्गुलय इत्यर्थः। तथा च निगमान्तरं - ‘तमीमण्वीः समर्य आ गृभ्णन्ति योषणो दश' (ऋ. सं. ९.१.७ ) इति । “वाजिनं बलिनम् “अत्यमिव अश्वमिव “मृजन्ति परिचरन्ति । उत्तरया सहान्वयः ॥ ॥ २६ ॥


तं गोभि॒र्वृष॑णं॒ रसं॒ मदा॑य दे॒ववी॑तये ।

सु॒तं भरा॑य॒ सं सृ॑ज ॥६

तम् । गोभिः॑ । वृष॑णम् । रस॑म् । मदा॑य । दे॒वऽवी॑तये ।

सु॒तम् । भरा॑य । सम् । सृ॒ज॒ ॥६

तम् । गोभिः । वृषणम् । रसम् । मदाय । देवऽवीतये ।

सुतम् । भराय । सम् । सृज ॥६

“वृषणं कामानां वर्षितारं “देववीतये देवानां पानाय "मदाय “सुतम् अभिषुतं “तं “रसं “भराय संग्रामाय “गोभिः पयोभिः “सं “सृज संयोजय ।।


दे॒वो दे॒वाय॒ धार॒येंद्रा॑य पवते सु॒तः ।

पयो॒ यद॑स्य पी॒पय॑त् ॥७

दे॒वः । दे॒वाय॑ । धार॑या । इन्द्रा॑य । प॒व॒ते॒ । सु॒तः ।

पयः॑ । यत् । अ॒स्य॒ । पी॒पय॑त् ॥७

देवः । देवाय । धारया । इन्द्राय । पवते । सुतः ।

पयः । यत् । अस्य । पीपयत् ॥७

“देवाय द्योतमानाय “इन्द्राय "सुतः अभिषुतः “देवः द्योतमानः सोमः “धारया “पवते क्षरति । “यत् यस्मात् “अस्य सोमस्य “पयः “पीपयत् इन्द्रमाप्यायितवत् । तस्माद्धारया पवत इत्यर्थः ।।


आ॒त्मा य॒ज्ञस्य॒ रंह्या॑ सुष्वा॒णः प॑वते सु॒तः ।

प्र॒त्नं नि पा॑ति॒ काव्यं॑ ॥८

आ॒त्मा । य॒ज्ञस्य॑ । रंह्या॑ । सु॒स्वा॒नः । प॒व॒ते॒ । सु॒तः ।

प्र॒त्नम् । नि । पा॒ति॒ । काव्य॑म् ॥८

आत्मा । यज्ञस्य । रंह्या । सुस्वानः । पवते । सुतः ।

प्रत्नम् । नि । पाति । काव्यम् ॥८

"यज्ञस्य “आत्मा आत्मभूतः “सुतः अभिषुतः सोमः “सुष्वाणः यजमानेभ्यः कामान् प्रेरयन “रंह्या वेगेन “पवते क्षरति । “प्रत्नं पुरातनं “काव्यम् आत्मनः कवित्वं च “नि “पाति अभिरक्षति ॥


ए॒वा पु॑ना॒न इं॑द्र॒युर्मदं॑ मदिष्ठ वी॒तये॑ ।

गुहा॑ चिद्दधिषे॒ गिरः॑ ॥९

ए॒व । पु॒ना॒नः । इ॒न्द्र॒ऽयुः । मद॑म् । म॒दि॒ष्ठ॒ । वी॒तये॑ ।

गुहा॑ । चि॒त् । द॒धि॒षे॒ । गिरः॑ ॥९

एव । पुनानः । इन्द्रऽयुः । मदम् । मदिष्ठ । वीतये ।

गुहा । चित् । दधिषे । गिरः ॥९

हे “मदिष्ठ अतिशयेन मदकर सोम “इन्द्रयुः इन्द्रकामस्त्वं “वीतये इन्द्रस्य पानाय “एव एवं “मदं “पुनानः क्षरन् “गुहा गुहायाम् । यज्ञशालायामित्यर्थः । “गिरः “चित् शब्दानपि “दधिषे । अभिषववेलायामुपरवेषु धारयसि । करोषीत्यर्थः ॥ ॥ २७ ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.६&oldid=208508" इत्यस्माद् पुनः प्राप्तिः