ऋग्वेदः सूक्तं ९.१६

विकिस्रोतः तः
← सूक्तं ९.१५ ऋग्वेदः - मण्डल ९
सूक्तं ९.१६
कश्यपोऽसितो देवलो वा।
सूक्तं ९.१७ →
दे. पवमानः सोमः। गायत्री।


प्र ते सोतार ओण्यो रसं मदाय घृष्वये ।
सर्गो न तक्त्येतशः ॥१॥
क्रत्वा दक्षस्य रथ्यमपो वसानमन्धसा ।
गोषामण्वेषु सश्चिम ॥२॥
अनप्तमप्सु दुष्टरं सोमं पवित्र आ सृज ।
पुनीहीन्द्राय पातवे ॥३॥
प्र पुनानस्य चेतसा सोमः पवित्रे अर्षति ।
क्रत्वा सधस्थमासदत् ॥४॥
प्र त्वा नमोभिरिन्दव इन्द्र सोमा असृक्षत ।
महे भराय कारिणः ॥५॥
पुनानो रूपे अव्यये विश्वा अर्षन्नभि श्रियः ।
शूरो न गोषु तिष्ठति ॥६॥
दिवो न सानु पिप्युषी धारा सुतस्य वेधसः ।
वृथा पवित्रे अर्षति ॥७॥
त्वं सोम विपश्चितं तना पुनान आयुषु ।
अव्यो वारं वि धावसि ॥८॥


सायणभाष्यम्

‘ प्र ते सोतारः' इत्यष्टर्चं षोडशं सूक्तम् । ऋष्याद्याः पूर्ववत् । ‘प्र ते ' इत्यनुक्रान्तम् । गतो विनियोगः ॥


प्र ते॑ सो॒तार॑ ओ॒ण्यो॒३॒॑ रसं॒ मदा॑य॒ घृष्व॑ये ।

सर्गो॒ न त॒क्त्येत॑शः ॥१

प्र । ते॒ । सो॒तारः॑ । ओ॒ण्योः॑ । रस॑म् । मदा॑य । घृष्व॑ये ।

सर्गः॑ । न । त॒क्ति॒ । एत॑शः ॥१

प्र । ते । सोतारः । ओण्योः । रसम् । मदाय । घृष्वये ।

सर्गः । न । तक्ति । एतशः ॥१

हे सोम “ते तव रसं “सोतारः सोमाभिषवकर्तारः “ओण्योः “रसम् । लुप्तोपममेतत् । द्यावापृथिव्यो रसमुदकमिव । अथवौण्योर्द्यावापृथिव्योर्मध्ये तयोः संबन्धिनं वा रसस् । “प्र स्रावयन्तीति शेषः । किमर्थम् । “घृष्वये शत्रुघर्षणशीलाय’ “मदाय इन्द्रस्य मदाय । अभिषवजनितः सोमः “सर्गः सृष्टः “एतशः “न अश्व इव “तक्ति गच्छति पात्रं प्रति ।।


क्रत्वा॒ दक्ष॑स्य र॒थ्य॑म॒पो वसा॑न॒मंध॑सा ।

गो॒षामण्वे॑षु सश्चिम ॥२

क्रत्वा॑ । दक्ष॑स्य । र॒थ्य॑म् । अ॒पः । वसा॑नम् । अन्ध॑सा ।

गो॒ऽसाम् । अण्वे॑षु । स॒श्चि॒म॒ ॥२

क्रत्वा । दक्षस्य । रथ्यम् । अपः । वसानम् । अन्धसा ।

गोऽसाम् । अण्वेषु । सश्चिम ॥२

वयमभिषोतारः “दक्षस्य बलस्य “रथ्यं नेतारम् “अपः उदकानि रसान् “वसानम् आच्छादयन्तम् “अन्धसा श्रयणान्नेन सहितं “गोषां गवां सोतारमेवमुक्तलक्षणं सोमं “क्रत्वा कर्मणा “अण्वेषु अङ्गुलीषु “सश्चिम संयोजयामः ॥


अन॑प्तम॒प्सु दु॒ष्टरं॒ सोमं॑ प॒वित्र॒ आ सृ॑ज ।

पु॒नी॒हींद्रा॑य॒ पात॑वे ॥३

अन॑प्तम् । अ॒प्ऽसु । दु॒स्तर॑म् । सोम॑म् । प॒वित्रे॑ । आ । सृ॒ज॒ ।

पु॒नी॒हि । इन्द्रा॑य । पात॑वे ॥३

अनप्तम् । अप्ऽसु । दुस्तरम् । सोमम् । पवित्रे । आ । सृज ।

पुनीहि । इन्द्राय । पातवे ॥३

"अनप्तं शत्रुभिरनाप्तम् “अप्सु आन्तरिक्ष्यासु । वर्तमानमिति शेषः। “दुष्टरम् अन्यैरनभिभाव्यम् । न हि सोमं कश्चिदप्यतितरति । ईदृशं “सोमं “पवित्रे दशापवित्रे “आ “सृज प्रक्षिप हे अध्वर्यो । तत्रोच्यते । “इन्द्राय इन्द्रस्य “पातवे पातुं “पुनीहि ।।


प्र पु॑ना॒नस्य॒ चेत॑सा॒ सोमः॑ प॒वित्रे॑ अर्षति ।

क्रत्वा॑ स॒धस्थ॒मास॑दत् ॥४

प्र । पु॒ना॒नस्य॑ । चेत॑सा । सोमः॑ । प॒वित्रे॑ । अ॒र्ष॒ति॒ ।

क्रत्वा॑ । स॒धऽस्थ॑म् । आ । अ॒स॒द॒त् ॥४

प्र । पुनानस्य । चेतसा । सोमः । पवित्रे । अर्षति ।

क्रत्वा । सधऽस्थम् । आ । असदत् ॥४

"चेतसा स्तुत्या “पुनानस्य पूयमानस्यांशीभूतः “सोमः “पवित्रे दशापवित्रे “अर्षति गच्छति । अथ पश्चात् "क्रत्वा कर्मणा प्रज्ञानेन वा “सधस्थं सहस्थानं द्रोणकलशे “आसदत् आसीदति ॥


प्र त्वा॒ नमो॑भि॒रिंद॑व॒ इंद्र॒ सोमा॑ असृक्षत ।

म॒हे भरा॑य का॒रिणः॑ ॥५

प्र । त्वा॒ । नमः॑ऽभिः । इन्द॑वः । इन्द्र॑ । सोमाः॑ । अ॒सृ॒क्ष॒त॒ ।

म॒हे । भरा॑य । का॒रिणः॑ ॥५

प्र । त्वा । नमःऽभिः । इन्दवः । इन्द्र । सोमाः । असृक्षत ।

महे । भराय । कारिणः ॥५

हे “इन्द्र “त्वा त्वां “नमोभिः नमस्कारोपलक्षितैः स्तोत्रैरथवान्नैः सह “इन्दवः “सोमाः “प्र “असृक्षत प्राप्नुवन्ति । किमर्थम् । “महे महते “भराय संग्रामाय । कीदृशाः । “कारिणः बलकरणशीलाः ॥


पु॒ना॒नो रू॒पे अ॒व्यये॒ विश्वा॒ अर्ष॑न्न॒भि श्रियः॑ ।

शूरो॒ न गोषु॑ तिष्ठति ॥६

पु॒ना॒नः । रू॒पे । अ॒व्यये॑ । विश्वाः॑ । अर्ष॑न् । अ॒भि । श्रियः॑ ।

शूरः॑ । न । गोषु॑ । ति॒ष्ठ॒ति॒ ॥६

पुनानः । रूपे । अव्यये । विश्वाः । अर्षन् । अभि । श्रियः ।

शूरः । न । गोषु । तिष्ठति ॥६

“अव्यये अविमये "रूपे रूप्यमाणे वस्त्रे “पुनानः पूयमानः “विश्वाः सर्वाः “श्रियः शोभाः “अभि “अर्षन् अभिगच्छन् “गोषु निमित्तासु “शूरो “न शूर इव स यथा संग्रामे तिष्ठति तद्वदसौ "तिष्ठति पात्रे ॥


दि॒वो न सानु॑ पि॒प्युषी॒ धारा॑ सु॒तस्य॑ वे॒धसः॑ ।

वृथा॑ प॒वित्रे॑ अर्षति ॥७

दि॒वः । न । सानु॑ । पि॒प्युषी॑ । धारा॑ । सु॒तस्य॑ । वे॒धसः॑ ।

वृथा॑ । प॒वित्रे॑ । अ॒र्ष॒ति॒ ॥७

दिवः । न । सानु । पिप्युषी । धारा । सुतस्य । वेधसः ।

वृथा । पवित्रे । अर्षति ॥७

"दिवो “न द्युलोकादन्तरिक्षादिव "सानु समुच्छ्रितमुदकं तद्यथाधो निपतति तद्वत् "वेधसः विधातुर्बलस्य कर्तुः “सुतस्य अभिषुतस्य सोमस्य “पिप्युषी आप्याययन्ती “धारा “वृथा अनायासेनैव “पवित्रे दशापवित्रे “अर्षति गच्छति ॥


त्वं सो॑म विप॒श्चितं॒ तना॑ पुना॒न आ॒युषु॑ ।

अव्यो॒ वारं॒ वि धा॑वसि ॥८

त्वम् । सो॒म॒ । वि॒पः॒ऽचित॑म् । तना॑ । पु॒ना॒नः । आ॒युषु॑ ।

अव्यः॑ । वार॑म् । वि । धा॒व॒सि॒ ॥८

त्वम् । सोम । विपःऽचितम् । तना । पुनानः । आयुषु ।

अव्यः । वारम् । वि । धावसि ॥८

हे "सोम “त्वं “विपश्चितं स्तोतारम् "आयुषु मनुष्येषु' मध्ये रक्षसि । अथवा। तृतीयार्थे द्वितीया । विपश्चिताध्वर्युणा । “तना वस्त्रेण "पुनानः पूयमानः। अथवा। विपश्चितमिन्द्रं प्रीणयितुं तना पुनानः सन् । “अव्यो “वारम् अवेर्वालं “वि “धावसि विविधं गच्छसि ॥ ॥ ६ ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.१६&oldid=208518" इत्यस्माद् प्रतिप्राप्तम्