ऋग्वेदः सूक्तं ९.१११

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ९.११० ऋग्वेदः - मण्डल ९
सूक्तं ९.१११
अनानतः पारुच्छेपिः।
सूक्तं ९.११२ →
दे. पवमानः सोमः। अत्यष्टिः।


अया रुचा हरिण्या पुनानो विश्वा द्वेषांसि तरति स्वयुग्वभिः सूरो न स्वयुग्वभिः ।
धारा सुतस्य रोचते पुनानो अरुषो हरिः ।
विश्वा यद्रूपा परियात्यृक्वभिः सप्तास्येभिरृक्वभिः ॥१॥
त्वं त्यत्पणीनां विदो वसु सं मातृभिर्मर्जयसि स्व आ दम ऋतस्य धीतिभिर्दमे ।
परावतो न साम तद्यत्रा रणन्ति धीतयः ।
त्रिधातुभिररुषीभिर्वयो दधे रोचमानो वयो दधे ॥२॥
पूर्वामनु प्रदिशं याति चेकितत्सं रश्मिभिर्यतते दर्शतो रथो दैव्यो दर्शतो रथः ।
अग्मन्नुक्थानि पौंस्येन्द्रं जैत्राय हर्षयन् ।
वज्रश्च यद्भवथो अनपच्युता समत्स्वनपच्युता ॥३॥


सायणभाष्यम्

‘ अया रुचा' इति तृचमष्टमं सूक्तं परुच्छेपपुत्रस्यानानताख्यस्यार्षमत्यष्टिच्छन्दकं पवमानसोमदेवताकम् । तथा चानुक्रम्यते-‘अया रुचा तृचमनानतः पारुच्छेपिरात्यष्टम्' इति । गतो विनियोगः ।।


अ॒या रु॒चा हरि॑ण्या पुना॒नो विश्वा॒ द्वेषां॑सि तरति स्व॒युग्व॑भिः॒ सूरो॒ न स्व॒युग्व॑भिः ।

धारा॑ सु॒तस्य॑ रोचते पुना॒नो अ॑रु॒षो हरिः॑ ।

विश्वा॒ यद्रू॒पा प॑रि॒यात्यृक्व॑भिः स॒प्तास्ये॑भि॒र्ऋक्व॑भिः ॥१

अ॒या । रु॒चा । हरि॑ण्या । पु॒ना॒नः । विश्वा॑ । द्वेषां॑सि । त॒र॒ति॒ । स्व॒युग्व॑ऽभिः । सूरः॑ । न । स्व॒युग्व॑ऽभिः ।

धारा॑ । सु॒तस्य॑ । रो॒च॒ते॒ । पु॒ना॒नः । अ॒रु॒षः । हरिः॑ ।

विश्वा॑ । यत् । रू॒पा । प॒रि॒ऽयाति॑ । ऋक्व॑ऽभिः । स॒प्तऽआ॑स्येभिः । ऋक्व॑ऽभिः ॥१

अया । रुचा । हरिण्या । पुनानः । विश्वा । द्वेषांसि । तरति । स्वयुग्वऽभिः । सूरः । न । स्वयुग्वऽभिः ।

धारा । सुतस्य । रोचते । पुनानः । अरुषः । हरिः ।

विश्वा । यत् । रूपा । परिऽयाति । ऋक्वऽभिः । सप्तऽआस्येभिः । ऋक्वऽभिः ॥१

“पुनानः पूयमानः सोमः "हरिण्या हरितवर्णया "अया अनया “रुचा रोचमानया धारया “विश्वा सर्वाणि “द्वेषांसि द्वेष्टॄणि रक्षांसि “तरति विनाशयति । तत्र दृष्टान्तः । “सूरो “न यथा सूर्यः “स्वयुग्वभिः स्वयं युक्तै रश्मिभिस्तमांसि हिनस्ति तद्वत् । “स्वयुग्वभिः इति द्विरुक्तिरादरार्था। यद्वा । धारया युक्तः सोमः स्वीयैर्युक्तैस्तेजोभी रक्षांसि तरति । तस्य “सुतस्य अभिषुतस्य सोमस्य “धारा “रोचते दीप्यते । “पुनानः पूयमानः “हरिः हरितवर्णः सोमः “अरुषः अरोचमानो भवति । “यत् यः सोमः “सप्तास्येभिः रसहरणशीलास्यैः “ऋक्वभिः स्तुतिमद्भिः “ऋक्वभिः तेजोभिः “विश्वा विश्वानि व्याप्तानि "रूपा रूपाणि नक्षत्राणि “परियाति गच्छति व्याप्नोति ॥


त्वं त्यत्प॑णी॒नां वि॑दो॒ वसु॒ सं मा॒तृभि॑र्मर्जयसि॒ स्व आ दम॑ ऋ॒तस्य॑ धी॒तिभि॒र्दमे॑ ।

प॒रा॒वतो॒ न साम॒ तद्यत्रा॒ रणं॑ति धी॒तयः॑ ।

त्रि॒धातु॑भि॒ररु॑षीभि॒र्वयो॑ दधे॒ रोच॑मानो॒ वयो॑ दधे ॥२

त्वम् । त्यत् । प॒णी॒नाम् । वि॒दः॒ । वसु॑ । सम् । मा॒तृऽभिः॑ । म॒र्ज॒य॒सि॒ । स्वे । आ । दमे॑ । ऋ॒तस्य॑ । धी॒तिऽभिः॑ । दमे॑ ।

प॒रा॒ऽवतः॑ । न । साम॑ । तत् । यत्र॑ । रण॑न्ति । धी॒तयः॑ ।

त्रि॒धातु॑ऽभिः । अरु॑षीभिः । वयः॑ । द॒धे॒ । रोच॑मानः । वयः॑ । द॒धे॒ ॥२

त्वम् । त्यत् । पणीनाम् । विदः । वसु । सम् । मातृऽभिः । मर्जयसि । स्वे । आ । दमे । ऋतस्य । धीतिऽभिः । दमे ।

पराऽवतः । न । साम । तत् । यत्र । रणन्ति । धीतयः ।

त्रिधातुऽभिः । अरुषीभिः । वयः । दधे । रोचमानः । वयः । दधे ॥२

हे सोम “त्वं “त्यत् "पणीनां “वसु पणिभिरपहृतं गवात्मकं धनं “विदः अलभथाः। “आ अपि च “ऋतस्य यज्ञस्य “धीतिभिः धात्रीभिः "मातृभिः वसतीवरीभिः "स्वे आत्मीये “दमे गृहभूते “दमे यज्ञे “सं “मर्जयसि सम्यक् शुद्धो भवसि । “परावतो “न दूरस्थाद्देशाद्यथा “साम सामध्वनिः श्रूयते तथा तव “तत् सामध्वनिः सर्वैः श्रूयते । असौ सोमाभिषवाभिप्रायेणोक्तः । “यत्र यस्मिन् शब्दे “धीतयः कर्मणो धर्तारो यजमानाः “रणन्ति रमन्ते । “रोचमानः सोमः “त्रिधातुभिः त्रयाणां लोकानां धारयित्रीभिर्मातृभिर्वसतीवरीभिः “अरुषीभिः आरोचमानाभिर्दीप्तिभिः “वयः अन्नं “दधे स्तोतृभ्यः प्रयच्छति । पुनः “वयो “दधे इत्यादरार्थम् ॥


पूर्वा॒मनु॑ प्र॒दिशं॑ याति॒ चेकि॑त॒त्सं र॒श्मिभि॑र्यतते दर्श॒तो रथो॒ दैव्यो॑ दर्श॒तो रथः॑ ।

अग्म॑न्नु॒क्थानि॒ पौंस्येंद्रं॒ जैत्रा॑य हर्षयन् ।

वज्र॑श्च॒ यद्भव॑थो॒ अन॑पच्युता स॒मत्स्वन॑पच्युता ॥३

पूर्वा॑म् । अनु॑ । प्र॒ऽदिश॑म् । या॒ति॒ । चेकि॑तत् । सम् । र॒श्मिऽभिः॑ । य॒त॒ते॒ । द॒र्श॒तः । रथः॑ । दैव्यः॑ । द॒र्श॒तः । रथः॑ ।

अग्म॑न् । उ॒क्थानि॑ । पौंस्या॑ । इन्द्र॑म् । जैत्रा॑य । ह॒र्ष॒य॒न् ।

वज्रः॑ । च॒ । यत् । भव॑थः । अन॑पऽच्युता । स॒मत्ऽसु॑ । अन॑पऽच्युता ॥३

पूर्वाम् । अनु । प्रऽदिशम् । याति । चेकितत् । सम् । रश्मिऽभिः । यतते । दर्शतः । रथः । दैव्यः । दर्शतः । रथः ।

अग्मन् । उक्थानि । पौंस्या । इन्द्रम् । जैत्राय । हर्षयन् ।

वज्रः । च । यत् । भवथः । अनपऽच्युता । समत्ऽसु । अनपऽच्युता ॥३

“चेकितत् जानानः सोमः “पूर्वां प्राचीं “प्रदिशं प्रकृष्टां दिशम् “अनु “याति अनुगच्छति । किंच “दर्शतः सर्वैर्दर्शनीयः “दैव्यः देवेषु भवस्तव “रथः सूर्यरश्मिभिः “सं “यतते संगच्छते । पुनः “दर्शतो “रथः इत्यादरार्थम् । ततः “पौंस्या पुंस्त्वावगमानि “उक्थानि स्तोत्राणि “अग्मन् इन्द्रं गच्छन्ति । तथा “जैत्राय जयार्थं तानि स्तोत्राणि “इन्द्रं “हर्षयन् हर्षयन्ति । तथा तस्य “वज्रश्च तमिन्द्रं गच्छति । “यत् यदा “समत्सु संग्रामेषु “अनपच्युता अनपच्युतौ शत्रुभिरपराजितौ सोम त्वं चेन्द्रश्च युवां सह “भवथः तदा स्तोत्रागमनादीनि भवन्ति । पुनः "अनपच्युता इत्यादरार्थम् ॥ ॥ २४ ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.१११&oldid=181111" इत्यस्माद् पुनः प्राप्तिः